हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्। नानापक्षिगणाकीर्णां सूपतीर्थाम् अकर्दमाम्। अतीव रम्यां सुजलां जातां पर्वतसानुषु। पवित्रभूतां लोकस्य शुभाम् अद्भुतदर्शनाम्।
haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām. nānāpakṣigaṇākīrṇāṃ sūpatīrthām akardamām. atīva ramyāṃ sujalāṃ jātāṃ parvatasānuṣu. pavitrabhūtāṃ lokasya śubhām adbhutadarśanām.