अभ्यषिञ्चत् ततो धौम्यो व्यासश् च सुमहातपाः। नारदं वै पुरस्कृत्य देवलं चासितं मुनिम्। याज्ञवल्क्यं मुनिश्रेष्ठं ब्रह्मजं विजितेन्द्रियम्। ब्राह्मणा ज्ञानसंपन्नास् तेजसा भास्करोपमाः।
abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ. nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim. yājñavalkyaṃ muniśreṣṭhaṃ brahmajaṃ vijitendriyam. brāhmaṇā jñānasaṃpannās tejasā bhāskaropamāḥ.