दत्त्वैकैको दशशतान् कुञ्जरान् कवचावृतान्। क्षमावतः कुलीनांश् च द्वारेण प्राविशंस् ततः। सुरसाश् चन्दनरसा हेमकुम्भसमास्थिताः। वैदेहकाश् च पुण्ड्राश् च गोलेयास् ताम्रलिप्तकाः। मरुकाः काशिका दर्दा भौमेया नटनर्तकाः। कर्णाटाः कांस्यकुट्टाश् च पद्मजालाः सुतीवराः। दाक्षिणात्याः पुलिन्दाश् च शम्बराः कङ्कणाः खषाः। बर्बरा यवनाश् चैव गुर्जराभीरकास् तथा। पल्लवाः शककारूशास् तुम्बराः काशिकास् तथा।
dattvaikaiko daśaśatān kuñjarān kavacāvṛtān. kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ. surasāś candanarasā hemakumbhasamāsthitāḥ. vaidehakāś ca puṇḍrāś ca goleyās tāmraliptakāḥ. marukāḥ kāśikā dardā bhaumeyā naṭanartakāḥ. karṇāṭāḥ kāṃsyakuṭṭāś ca padmajālāḥ sutīvarāḥ. dākṣiṇātyāḥ pulindāś ca śambarāḥ kaṅkaṇāḥ khaṣāḥ. barbarā yavanāś caiva gurjarābhīrakās tathā. pallavāḥ śakakārūśās tumbarāḥ kāśikās tathā.