प्राच्यांश् च दाक्षिणात्यांश् च पार्वतीयांस् तथा नृपान्। सो ऽभ्युपेक्षितवान् एतम् अनयं मधुसूदनः। त्वं हि तं नारदश् चैव मुनयश् च सनातनम्। गोविन्दं परमं देवम् अभिजानीध्वम् अच्युतम्। प्रत्यपश्यच् च स विभुर् ज्ञातिक्षयम् अधोक्षजः। उपप्रेक्षितवान् नित्यं स्वयं स मम पुत्रकः। गान्धार्या वचनं यत् तद् ऋषीणां च परंतप। तन् नूनम् अन्यथा कर्तुं नैच्छत् स जगतः प्रभुः। प्रत्यक्षं भवतश् चापि तव पौत्रः परंतप। अश्वत्थाम्ना हतश् चापि जीवितस् तस्य तेजसा। इमांस् तु नैच्छत् स्वाञ् ज्ञातीन् रक्षितुं स सखा तव।
prācyāṃś ca dākṣiṇātyāṃś ca pārvatīyāṃs tathā nṛpān. so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ. tvaṃ hi taṃ nāradaś caiva munayaś ca sanātanam. govindaṃ paramaṃ devam abhijānīdhvam acyutam. pratyapaśyac ca sa vibhur jñātikṣayam adhokṣajaḥ. upaprekṣitavān nityaṃ svayaṃ sa mama putrakaḥ. gāndhāryā vacanaṃ yat tad ṛṣīṇāṃ ca paraṃtapa. tan nūnam anyathā kartuṃ naicchat sa jagataḥ prabhuḥ. pratyakṣaṃ bhavataś cāpi tava pautraḥ paraṃtapa. aśvatthāmnā hataś cāpi jīvitas tasya tejasā. imāṃs tu naicchat svāñ jñātīn rakṣituṃ sa sakhā tava.