कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति। भ्रातॄंश् च पुत्रांश् च हतान् निशम्य; पाञ्चालराजं पितरं च वृद्धम्। ध्रुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः।
kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ; śokārṇave sādya vinaṅkṣyatīti. bhrātṝṃś ca putrāṃś ca hatān niśamya; pāñcālarājaṃ pitaraṃ ca vṛddham. dhruvaṃ visaṃjñā patitā pṛthivyāṃ; sā śeṣyate śokakṛśāṅgayaṣṭiḥ.