निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः। शैलशृङ्गनिपातैश् च मुष्टिभिर् वान्तलोचनाः। चेलुः पेतुश् च नेदुश् च तत्र राक्षसपुंगवाः।
nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ. śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ. celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ.