श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम्। तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत। बुभुक्षितानाम् अर्थाय कॢप्तम् अन्नं समन्ततः। देशे देशे तु देयानि दानानि विविधानि च। अर्चायै चार्थिनां राजन् क्लृप्तानि बहुशस् तथा।
śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām. tāni yānāni deśeṣu pratīkṣyante sma bhārata. bubhukṣitānām arthāya kḷptam annaṃ samantataḥ. deśe deśe tu deyāni dānāni vividhāni ca. arcāyai cārthināṃ rājan klṛptāni bahuśas tathā.