तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे। सौभद्रश् च महाबाहुः समरे च जितश्रमः। पराक्रमी महातेजाः पितुस् तुल्यपराक्रमः। आर्जुनिः समरे सैन्यं तावकं संममर्द ह। मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीम् इव।
tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase. saubhadraś ca mahābāhuḥ samare ca jitaśramaḥ. parākramī mahātejāḥ pitus tulyaparākramaḥ. ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha. madāndho vanyanāgendraḥ sapadmāṃ padminīm iva.