राक्षसाश् च पिशाचाश् च तथान्ये पिशिताशनाः। समन्ततो व्यदृश्यन्त शतशो ऽथ सहस्रशः। मत्ता रुधिरगन्धेन पिशितेन च ते नृपाः। आस्वाद्यास्वाद्य नृत्यन्ते नादं मुञ्चन्ति भीषणम्। कबन्धानि च नृत्यन्ति धनुर् हस्तानि संयुगे। प्रासम् आलम्ब्य निशितं निस्त्रिंशं निर्मलं महत्।
rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ. samantato vyadṛśyanta śataśo 'tha sahasraśaḥ. mattā rudhiragandhena piśitena ca te nṛpāḥ. āsvādyāsvādya nṛtyante nādaṃ muñcanti bhīṣaṇam. kabandhāni ca nṛtyanti dhanur hastāni saṃyuge. prāsam ālambya niśitaṃ nistriṃśaṃ nirmalaṃ mahat.