न निवर्तयितुं चापि शक्येयं महती चमूः। अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी। वयं च शस्त्रिभिर् भिन्ना नृपैर् इन्द्रसमैर् युधि। भीतो व्यूहस्य सर्वत्र न स्थातुं कश् चिद् इच्छति। शरव्राताः प्रदृश्यन्त पन्नगाभाः समन्ततः। दिशश् च विदिशश् चैव व्याप्ता ह्य् आर्जुनसायकैः।
na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ. anyonyaprekṣayā paśya dravatīyaṃ varūthinī. vayaṃ ca śastribhir bhinnā nṛpair indrasamair yudhi. bhīto vyūhasya sarvatra na sthātuṃ kaś cid icchati. śaravrātāḥ pradṛśyanta pannagābhāḥ samantataḥ. diśaś ca vidiśaś caiva vyāptā hy ārjunasāyakaiḥ.