तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः। चिक्रीड धनुषा राजंल् लक्ष्यं कृत्वा महारथान्। क्षत्रियाणां शिरांस्य् उग्रैः कृन्तञ् शस्त्रैर् महारथः। शून्यान् कृत्वा रथोपस्थान् व्यचरत् फल्गुनस् तदा।
teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ. cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān. kṣatriyāṇāṃ śirāṃsy ugraiḥ kṛntañ śastrair mahārathaḥ. śūnyān kṛtvā rathopasthān vyacarat phalgunas tadā.