नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ। के चिद् आर्तस्वरं चक्रुर् नागा मर्मणि ताडिताः। दुराधर्षस् तु शत्रूणां मनांसि समकम्पयत्। हयांश् च सहयारोहान् पातयाम् आस सायकैः। स रथेन महेष्वासो विचरन् बहुधा बली। मण्डलानि च वीथीश् च गोमूत्राणि च भारत। अन्यांश् च सुबहून् मार्गान् रथेन रथकोविदः। विस्मापयञ् शत्रुसंघान् व्यचरज् जाह्नवीसुतः।
nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha. ke cid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ. durādharṣas tu śatrūṇāṃ manāṃsi samakampayat. hayāṃś ca sahayārohān pātayām āsa sāyakaiḥ. sa rathena maheṣvāso vicaran bahudhā balī. maṇḍalāni ca vīthīś ca gomūtrāṇi ca bhārata. anyāṃś ca subahūn mārgān rathena rathakovidaḥ. vismāpayañ śatrusaṃghān vyacaraj jāhnavīsutaḥ.