के चिद् आक्षिप्य करिणः साश्वान् अपि रथान् करैः। विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः। प्रतिमानेषु गात्रेषु पार्श्वेष्व् अभि च वारणान्। मुक्तास् तु रथिभिर् बाणा रुक्मपुङ्खाः सुतेजनाः। ते निपेतुर् अकुण्ठाग्रा नागेषु च हयेषु च।
ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ. vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ. pratimāneṣu gātreṣu pārśveṣv abhi ca vāraṇān. muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ. te nipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca.