यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम। भगवद्भक्तियुक्तस्य तत्प्रसादात्मबोधतः। सुखं बन्धविमुक्तिः स्याद् इति गीतार्थसंग्रहः। षट् शतानि सविंशानि श्लोकानां प्राह केशवः। अर्जुनः सप्तपञ्चाशत् सप्तषष्टिस् तु संजयः। धृतराष्ट्रः श्लोकम् एकं गीताया मानम् उच्यते। वैशंपायन उवाच। गीता सुगीता कर्तव्या किम् अन्यैः शास्त्रविस्तरैः। या चेयं पद्मनाभस्य मुखपद्माद् विनिःसृता। सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः। सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः। गङ्गा गीता च गायत्री गोविन्देति हृदि स्थिते। चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते। भारतामृतसर्वस्वगीताया मथितस्य च। सारम् उद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम्। अर्जुन उवाच। यद् एतन् निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।। कैवल्यं केवलं शान्तं शुद्धम् अत्यन्तनिर्मलम् ॥ (१)। अप्रतर्क्यम् अविज्ञेयं विनाशोत्पत्तिवर्जितम् ।। श्रीभगवान् उवाच। ज्ञानयोगविनिर्मुक्तं तज् ज्ञानं ब्रूहि केशव ॥ (२)। सर्वतोज्योतिर् आकाशं सर्वभूतगुणान्वितम् ।। सर्वतःपरमात्मानम् अक्षयं परमं पदम् ॥ (३)। अनादिनिधनं देवं महाज्योतिर् अतिध्रुवम् ।। अत्यन्तपरमं स्थानं शब्दादिगुणवर्जितम् ॥ (४)। यत् तत् परतरं ज्योतिर् ध्रुवात् परतरं स्थितम् ।। आचतुर्युगम् अद्यापि कथितं न हि कस्य चित् ॥ (५)। आत्मदेहे मया सृष्टा प्रकृतिः क्षेत्रम् एव च ।। सकलं तु भवेत् क्षेत्रं निष्कलं परमं पदम् ॥ (६)। अर्जुन त्वत्प्रसादेन शृण्वन्तु मुनिसत्तमाः ।। अद्य मुक्ता महाबाहो त्वत्प्रसादाद् धनंजय ॥ (७)। प्रमाणं वेदतत्त्वानां सांख्यादीन्य् अभियोगिनाम् ।। तेषां न विद्यते निष्ठा सर्वैः पाषण्डिभिः सह ॥ (८)। कथितं च मया ज्ञानं देवानाम् अपि दुर्लभम् ।। विश्वरूपमयं दिव्यं भैरवग्रन्थिबिन्दुना ॥ (९)। सुषुम्णा दक्षिणे मार्गे दर्शिता विश्वरूपिणा ।। अप्रकाशम् इदं प्रश्नं यन् मया कथितं तव ॥ (१०)। नाग्निर् वायुर् न चाकाशं न क्षितिर् नापि वा जलम् ।। न मनोबुद्ध्यहंकारं गूढार्थं कथितं तव ॥ (११)। अनित्यो नित्यतां याति यदा भावं न पश्यति ।। शून्यं निरञ्जनाकारं निर्वाणं ध्रुवम् अव्ययम् ॥ (१२)। पुरुषं निर्गुणं साक्षात् सर्वतश् चैव तिष्ठति ।। सर्वं तत् स्यात् परं ब्रह्म बुद्धिश् चास्य न बुध्यति ॥ (१३)। प्रतिभावप्रयत्नेन हरिं त्रैलोक्यबान्धवम् ।। दशमं चाङ्गुलं व्याप्य चाशाबाह्यं व्यवस्थितम् ॥ (१४)। जीवो यत्र प्रलीयेत सा कला षोडशी स्मृता ।। तया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ (१५)। तच् चिन्त्यं तेन वै ज्ञानं तद् अत्राद्या उपासते ।। ब्रह्मणैव हि विख्यातं वेदान्तेषु प्रकाशितम् ॥ (१६)। वेदेषु वेदम् इत्य् आहुर् वेदधाम परं मतम् ।। तत् परं विदितं यस्य स विप्रो वेदपारगः ॥ (१७)। आहुतिः सा परा ज्ञेया सा च संध्या प्रतिष्ठिता ।। गायत्री सा परा ज्ञेया अजपा नाम विश्रुता ॥ (१८)। तपस्य् अथ तथा वेदे मुनिभिः समुपास्यते ।। तां कलां यो ऽभिजानाति स कलाज्ञो ऽभिधीयते ॥ (१९)। यां ज्ञात्वा मुच्यते जन्तुर् गर्भजन्मजरादिभिः ।। परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ (२०)। इडा भगवती गङ्गा पिङ्गला यमुना नदी ।। तयोर् मध्ये तृतीया तु तत् प्रयागम् अनुस्मरेत् ॥ (२१)। इडा वै वैष्णवी नाडी ब्रह्मनाडी तु पिङ्गला ।। सुषुम्णा चैश्वरी नाडी त्रिधा प्राणवहा स्मृता ।। ब्रह्मा विष्णुर् महादेवो रेचकः पूरकुम्भकः ॥ (२२)। सक्रान्तिविषुवच् चैव यो ऽभिजानाति विग्रहम् ।। नित्ययुक्तः स योगीशो ब्रह्मविद्यां प्रपद्यते ॥ (२३)। इडा वै गार्हपत्यस् तु पिङ्गलाहवनीयकः ।। सुषुम्णा दक्षिणाग्निस् तु ह्य् एतद् अग्नित्रयं स्मृतम् ॥ (२४)। तस्य मध्ये स्थितं ज्योतिः सोममण्डलम् एव च ।। सोममण्डलमध्यस्थं तन्मध्ये सूर्यमण्डलम् ॥ (२५)। सूर्यमण्डलमध्यस्थो ज्वलत् तेजो हुताशनः ।। हुताशनस्य मध्ये तु निर्धूमाङ्गारवर्चसम् ॥ (२६)। तत्रास्थितो महात्मासौ योगिभिस् तु प्रगीयते ।। सुगीतं चैव कर्तव्यं मन एकाग्रचेतसा ॥ (२७)। शिवो बिन्दुः शिवो देवो घर्घरामृतवर्चसा ।। निखिलं पूरयेद् देहं विषदाहज्वरापहम् ॥ (२८)। सर्पवत्कुटिलाकारसुषुम्णावेष्टितां तनुम् ।। मकारवेष्टितां कृत्वा मातृवत् परियोजयेत् ॥ (२९)। त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रिरक्षरम् ।। अर्धमात्रं च यो वेत्ति स भवेद् वेदपारगः ॥ (३०)। सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।। अर्जुन उवाच। निर्मलं विमलाकारं शुद्धस्फटिकसंनिभम् ॥ (३१)। जीवो जीवति जीवेन नास्ति जीवम् अजीवितम् ।। श्रीभगवान् उवाच। निर्गतः सह सङ्गेन स जीवः केन जीवति ॥ (३२)। मुखनासिकयोर् मध्ये प्राणः संचरते सदा ।। आकाशं पिबते नित्यं स जीवस् तेन जीवति ॥ (३३)। काकीमुखं ककारान्तं मकारं चेतनानुगम् ।। अकारस्य तु लुप्तस्य को ऽर्थः संप्रतिपद्यते ॥ (३४)। तावत् पश्येत् खगाकारं खकारं तु विचिन्तयेत् ।। खमध्ये कुरु चात्मानम् आत्ममध्यं च खं कुरु ॥ (३५)। खमध्ये च प्रवेष्टव्यं खं च ब्रह्म सनातनम् ।। आत्मानं खमयं कृत्वा न किं चिद् अपि चिन्तयेत् ॥ (३६)। ऊर्ध्वशून्यम् अधःशून्यं मध्येशून्यं निरामयम् ।। त्रिशून्यं यो ऽभिजानाति स भवेत् कुलनन्दनः ॥ (३७)। तस्य भावस्य भावात्मा भावना नैव युज्यते ।। अनावृत्तस्य शब्दस्य तस्य शब्दस्य यो गतिः ॥ (३८)। तत् पदं विदितं येन स योगी छिन्नसंशयः ।। पुण्यपापहराश् चैव ये चान्ये पञ्चदैवताः ॥ (३९)। जीविनः सह गच्छन्ति यावत् तत्त्वं न विन्दति ।। पापं दहति ज्ञानाग्निः पुण्येन सोमसूर्ययोः ॥ (४०)। पुण्यपापविनिर्मुक्तिर् एष योगो ऽभिधीयते ।। धृतिरोधि मनोधीति संतोषं समिधामृतम् ॥ (४१)। इन्द्रियाणि पशुं कृत्वा यो यजेत स दीक्षितः ।। परं ब्रह्माधिगच्छन्ति शब्दब्रह्मविचिन्तनात् ॥ (४२)। सकले दृष्टपारो ऽपि भावं युञ्जति युञ्जति ।। निष्कले दर्शनं नास्ति स्वभावो भावं युञ्जति ॥ (४३)। तालुमूले च लम्पायां त्रिकूटं त्रिपथान्तरम् ।। एकं तत्त्वं विजानीयाद् विघ्नस्यायतनं महत् ॥ (४४)। । । । । । । । । । । । । छिन्नमूलस्य वृक्षस्य यथा जन्म न विद्यते ।। ज्ञानदग्धशरीरस्य पुनर् देहो न विद्यते ॥ (४५)। गीताः सुगीताः कर्तव्याः किम् अन्यैः शास्त्रसंग्रहैः ।। याः पुरा पद्मनाभस्य मुखपद्माद् विनिःसृताः ॥ (४६)। गीतागाङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ।। सर्वशास्त्रमयी गीता सर्वधर्ममयो हरिः ॥ (४७)। सर्वतीर्थमयी गङ्गा सर्वपापक्षयंकरी ।। सर्वभोगमयश् चायं सर्वमोक्षमयो ह्य् अयम् ॥ (४८)। गीता गङ्गा च गायत्री गोविन्दो हृदि संस्थिताः ।। चतुर्गकारस्मरणात् पुनर्जन्म न विद्यते ॥ (४९)। गीतासारं पठेद् यस् तु ह्य् अच्युतस्य च संनिधौ ।। तस्माद् गुणसहस्रेण विष्णोर् निर्वचनं यथा ॥ (५०)। । । एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।। पठतां शृण्वतां चैव विष्णोर् माहात्म्यम् उत्तमम् ॥ (५१)। अर्जुन उवाच। यद् एतन् निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।। कैवल्यं केवलं शान्तं शुद्धम् अत्यन्तनिर्मलम् ॥ (१)। अप्रतर्क्यम् अविज्ञेयं विनाशोत्पत्तिवर्जितम् ।। श्रीभगवान् उवाच। ज्ञानयोगविनिर्मुक्तं तज् ज्ञानं ब्रूहि केशव ॥ (२)। सर्वतोज्योतिर् आकाशं सर्वभूतगुणान्वितम् ।। सर्वतःपरमात्मानम् अक्षयं परमं पदम् ॥ (३)। अनादिनिधनं देवं महाज्योतिर् अतिध्रुवम् ।। अत्यन्तपरमं स्थानं शब्दादिगुणवर्जितम् ॥ (४)। यत् तत् परतरं ज्योतिर् ध्रुवात् परतरं स्थितम् ।। आचतुर्युगम् अद्यापि कथितं न हि कस्य चित् ॥ (५)। आत्मदेहे मया सृष्टा प्रकृतिः क्षेत्रम् एव च ।। सकलं तु भवेत् क्षेत्रं निष्कलं परमं पदम् ॥ (६)। अर्जुन त्वत्प्रसादेन शृण्वन्तु मुनिसत्तमाः ।। अद्य मुक्ता महाबाहो त्वत्प्रसादाद् धनंजय ॥ (७)। प्रमाणं वेदतत्त्वानां सांख्यादीन्य् अभियोगिनाम् ।। तेषां न विद्यते निष्ठा सर्वैः पाषण्डिभिः सह ॥ (८)। कथितं च मया ज्ञानं देवानाम् अपि दुर्लभम् ।। विश्वरूपमयं दिव्यं भैरवग्रन्थिबिन्दुना ॥ (९)। अप्रकाशम् इदं प्रश्नं यन् मया कथितं तव ।। वाङ्मयं सर्वशास्त्राणाम् अतिसूक्ष्मं चराचरम् ॥ (१०)। नाग्निर् वायुर् न चाकाशं न क्षितिर् नापि वा जलम् ।। न मनोबुद्ध्यहंकारं गूढार्थं कथितं तव ॥ (११)। अनित्यो नित्यतां याति यदा भावं न पश्यति ।। शून्यं निरञ्जनाकारं निर्वाणं ध्रुवम् अव्ययम् ॥ (१२)। पुरुषं निर्गुणं साक्षात् सर्वतश् चैव तिष्ठति ।। सर्वं तत् स्यात् परं ब्रह्म बुद्धिश् चास्य न बुध्यति ॥ (१३)। प्रतिभावप्रयत्नेन हरिं त्रैलोक्यबान्धवम् ।। दशमं चाङ्गुलं व्याप्य चाशाबाह्यं व्यवस्थितम् ॥ (१४)। जीवो यत्र प्रलीयेत सा कला षोडशी स्मृता ।। तया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ (१५)। तच् चिन्त्यं तेन वै ज्ञानं तद् अत्राद्या उपासते ।। ब्रह्मणैव हि विख्यातं वेदान्तेषु प्रकाशितम् ॥ (१६)। वेदेषु वेदम् इत्य् आहुर् वेदधाम परं मतम् ।। तत् परं विदितं यस्य स विप्रो वेदपारगः ॥ (१७)। आहुतिः सा परा ज्ञेया सा च संध्या प्रतिष्ठिता ।। गायत्री सा परा ज्ञेया अजपा नाम विश्रुता ॥ (१८)। तपस्य् अथ तथा वेदे मुनिभिः समुपास्यते ।। तां कलां यो ऽभिजानाति स कलाज्ञो ऽभिधीयते ॥ (१९)। यां ज्ञात्वा मुच्यते जन्तुर् गर्भजन्मजरादिभिः ।। परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ (२०)। इडा भगवती गङ्गा पिङ्गला यमुना नदी ।। तयोर् मध्ये तृतीया तु तत् प्रयागम् अनुस्मरेत् ॥ (२१)। इडा वै वैष्णवी नाडी ब्रह्मनाडी तु पिङ्गला ।। सुषुम्णा चैश्वरी नाडी त्रिधा प्राणवहा स्मृता ।। ब्रह्मा विष्णुर् महादेवो रेचकः पूरकुम्भकः ॥ (२२)। सक्रान्तिविषुवच् चैव यो ऽभिजानाति विग्रहम् ।। नित्ययुक्तः स योगीशो ब्रह्मविद्यां प्रपद्यते ॥ (२३)। इडा वै गार्हपत्यस् तु पिङ्गलाहवनीयकः ।। सुषुम्णा दक्षिणाग्निस् तु ह्य् एतद् अग्नित्रयं स्मृतम् ॥ (२४)। तस्य मध्ये स्थितं ज्योतिः सोममण्डलम् एव च ।। सोममण्डलमध्यस्थं तन्मध्ये सूर्यमण्डलम् ॥ (२५)। सूर्यमण्डलमध्यस्थो ज्वलत् तेजो हुताशनः ।। हुताशनस्य मध्ये तु निर्धूमाङ्गारवर्चसम् ॥ (२६)। तत्रास्थितो महात्मासौ योगिभिस् तु प्रगीयते ।। सुगीतं चैव कर्तव्यं मन एकाग्रचेतसा ॥ (२७)। शिवो बिन्दुः शिवो देवो घर्घरामृतवर्चसा ।। निखिलं पूरयेद् देहं विषदाहज्वरापहम् ॥ (२८)। सर्पवत्कुटिलाकारसुषुम्णावेष्टितां तनुम् ।। मकारवेष्टितां कृत्वा मातृवत् परियोजयेत् ॥ (२९)। त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रिरक्षरम् ।। अर्धमात्रं च यो वेत्ति स भवेद् वेदपारगः ॥ (३०)। सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।। अर्जुन उवाच। निर्मलं विमलाकारं शुद्धस्फटिकसंनिभम् ॥ (३१)। स्थावरं जंगमं चैव यत् किं चित् सचराचरम् ।। श्रीभगवान् उवाच। जीवो जीवति जीवेन स जीवः केन जीवति ॥ (३२)। मुखनासिकयोर् मध्ये प्राणः संचरते सदा ।। आकाशं पिबते नित्यं स जीवस् तेन जीवति ॥ (३३)। काकीमुखं ककारान्तं मकारं चेतनानुगम् ।। अकारस्य तु लुप्तस्य को ऽर्थः संप्रतिपद्यते ॥ (३४)। तावत् पश्येत् खगाकारं खकारं तु विचिन्तयेत् ।। खमध्ये कुरु चात्मानम् आत्ममध्यं च खं कुरु ॥ (३५)। खमध्ये च प्रवेष्टव्यं खं च ब्रह्म सनातनम् ।। आत्मानं खमयं कृत्वा न किं चिद् अपि चिन्तयेत् ॥ (३६)। ऊर्ध्वशून्यम् अधःशून्यं मध्येशून्यं निरामयम् ।। त्रिशून्यं यो ऽभिजानाति स भवेत् कुलनन्दनः ॥ (३७)। अमात्रशब्दरहितं स्वरव्यञ्जनवर्जितम् ।। बिन्दुनादकलातीतं यस् तं वेद स वेदवित् ॥ (३८)। संप्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते ।। लब्धशान्तपदे भावे न योगो न च धारणा ॥ (३९)। वेदादौ यः सुरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ (४०)। ना नावार्थी भवेत् तावद् यावत् पारं न गच्छति ।। उत्तीर्णे तु परे पारे किं नावा वै प्रयोजनम् ॥ (४१)। दूरस्थो नापि दूरस्थः पिण्डस्थः पिण्डवर्जितः ।। अर्जुन उवाच। अमलो निर्मलः सूक्ष्मः सर्वव्यापी निरञ्जनः ॥ (४२)। अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ।। श्रीभगवान् उवाच। बिन्दुर् भिद्यति नादेन स नादः केन भिद्यते ॥ (४३)। ॐकारध्वनिनादेन वायुः संहरणान्तिकम् ।। निरालम्भस् तु निर्देहो यत्र नादो लयं गतः ॥ (४४)। अर्जुन उवाच। बाह्येन व्यापितं व्योम व्योम चाननुनासिकम् ।। श्रीभगवान् उवाच। अधश् चोर्ध्वं कथं चैव कण्ठे चैव निरञ्जनः ॥ (४५)। अनूष्मम् अव्यञ्जकम् अस्वरं यत्। तत् तालुकण्ठेष्व् अनुनासिकं च ।। अरेफजातं शुभम् ऊष्मवर्जितं। न दुष्कराणां कुरुते कदा चित् ॥ (४६)। आकाशम् अप्य् अनाकाशं पुरुषत्वे प्रतिष्ठितम् ।। शब्दं गुणम् इवाकाशं निःशब्दं ब्रह्म चोच्यते ॥ (४७)। सर्वगं सर्वबोधादि वासनाजालवर्जितम् ।। इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः ॥ (४८)। देहे नष्टे कुतो बुद्धिर् ज्ञानं विज्ञानम् एव च ।। ज्ञानं विज्ञानयुक्तं च रक्षणीयं प्रयत्नतः । (४९)। छिन्नमूलस्य वृक्षस्य यथा जन्म न विद्यते ।। ज्ञानदग्धशरीरस्य पुनर् देहो न विद्यते ॥ (५०)। गीताः सुगीताः कर्तव्याः किम् अन्यैः शास्त्रसंग्रहैः ।। याः पुरा पद्मनाभस्य मुखपद्मविनिःसृताः ॥ (५१)। गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ।। सर्वशास्त्रमयी गीता सर्वधर्ममयो हरिः ॥ (५२)। सर्वतीर्थमयी गङ्गा सर्वपापक्षयंकरी ।। सर्वभोगमयश् चायं सर्वमोक्षमयो ह्य् अयम् ॥ (५३)। गकारपूर्वाश् चत्वारो रक्षन्ति महतो भयात् ।। गीता गङ्गा च गायत्री गोविन्दो हृदि संस्थिताः ॥ (५४)। स्नातो वा यदि वास्नातः शुचिर् वा यदि वाशुचिः ।। यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरे शुचिः ॥ (५५)। स गच्छेत् तत्क्षणात् प्रायो ब्रह्ममूर्ते नमो ऽस्तु ते ।। गीतासारं पठेद् यस् तु विष्णुलोके महीयते ॥ (५६)। एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।। पठतां शृण्वतां चैव विष्णोर् माहात्म्यम् उत्तमम् ॥ (५७)।
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ. tatra śrīr vijayo bhūtir dhruvā nītir matir mama. bhagavadbhaktiyuktasya tatprasādātmabodhataḥ. sukhaṃ bandhavimuktiḥ syād iti gītārthasaṃgrahaḥ. ṣaṭ śatāni saviṃśāni ślokānāṃ prāha keśavaḥ. arjunaḥ saptapañcāśat saptaṣaṣṭis tu saṃjayaḥ. dhṛtarāṣṭraḥ ślokam ekaṃ gītāyā mānam ucyate. vaiśaṃpāyana uvāca. gītā sugītā kartavyā kim anyaiḥ śāstravistaraiḥ. yā ceyaṃ padmanābhasya mukhapadmād viniḥsṛtā. sarvaśāstramayī gītā sarvadevamayo hariḥ. sarvatīrthamayī gaṅgā sarvavedamayo manuḥ. gaṅgā gītā ca gāyatrī govindeti hṛdi sthite. caturgakārasaṃyukte punarjanma na vidyate. bhāratāmṛtasarvasvagītāyā mathitasya ca. sāram uddhṛtya kṛṣṇena arjunasya mukhe hutam. arjuna uvāca. yad etan niṣkalaṃ brahma vyomātītaṃ nirañjanam |. kaivalyaṃ kevalaṃ śāntaṃ śuddham atyantanirmalam || (1). apratarkyam avijñeyaṃ vināśotpattivarjitam |. śrībhagavān uvāca. jñānayogavinirmuktaṃ taj jñānaṃ brūhi keśava || (2). sarvatojyotir ākāśaṃ sarvabhūtaguṇānvitam |. sarvataḥparamātmānam akṣayaṃ paramaṃ padam || (3). anādinidhanaṃ devaṃ mahājyotir atidhruvam |. atyantaparamaṃ sthānaṃ śabdādiguṇavarjitam || (4). yat tat parataraṃ jyotir dhruvāt parataraṃ sthitam |. ācaturyugam adyāpi kathitaṃ na hi kasya cit || (5). ātmadehe mayā sṛṣṭā prakṛtiḥ kṣetram eva ca |. sakalaṃ tu bhavet kṣetraṃ niṣkalaṃ paramaṃ padam || (6). arjuna tvatprasādena śṛṇvantu munisattamāḥ |. adya muktā mahābāho tvatprasādād dhanaṃjaya || (7). pramāṇaṃ vedatattvānāṃ sāṃkhyādīny abhiyoginām |. teṣāṃ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8). kathitaṃ ca mayā jñānaṃ devānām api durlabham |. viśvarūpamayaṃ divyaṃ bhairavagranthibindunā || (9). suṣumṇā dakṣiṇe mārge darśitā viśvarūpiṇā |. aprakāśam idaṃ praśnaṃ yan mayā kathitaṃ tava || (10). nāgnir vāyur na cākāśaṃ na kṣitir nāpi vā jalam |. na manobuddhyahaṃkāraṃ gūḍhārthaṃ kathitaṃ tava || (11). anityo nityatāṃ yāti yadā bhāvaṃ na paśyati |. śūnyaṃ nirañjanākāraṃ nirvāṇaṃ dhruvam avyayam || (12). puruṣaṃ nirguṇaṃ sākṣāt sarvataś caiva tiṣṭhati |. sarvaṃ tat syāt paraṃ brahma buddhiś cāsya na budhyati || (13). pratibhāvaprayatnena hariṃ trailokyabāndhavam |. daśamaṃ cāṅgulaṃ vyāpya cāśābāhyaṃ vyavasthitam || (14). jīvo yatra pralīyeta sā kalā ṣoḍaśī smṛtā |. tayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram || (15). tac cintyaṃ tena vai jñānaṃ tad atrādyā upāsate |. brahmaṇaiva hi vikhyātaṃ vedānteṣu prakāśitam || (16). vedeṣu vedam ity āhur vedadhāma paraṃ matam |. tat paraṃ viditaṃ yasya sa vipro vedapāragaḥ || (17). āhutiḥ sā parā jñeyā sā ca saṃdhyā pratiṣṭhitā |. gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18). tapasy atha tathā vede munibhiḥ samupāsyate |. tāṃ kalāṃ yo 'bhijānāti sa kalājño 'bhidhīyate || (19). yāṃ jñātvā mucyate jantur garbhajanmajarādibhiḥ |. parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20). iḍā bhagavatī gaṅgā piṅgalā yamunā nadī |. tayor madhye tṛtīyā tu tat prayāgam anusmaret || (21). iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā |. suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smṛtā |. brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22). sakrāntiviṣuvac caiva yo 'bhijānāti vigraham |. nityayuktaḥ sa yogīśo brahmavidyāṃ prapadyate || (23). iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ |. suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṃ smṛtam || (24). tasya madhye sthitaṃ jyotiḥ somamaṇḍalam eva ca |. somamaṇḍalamadhyasthaṃ tanmadhye sūryamaṇḍalam || (25). sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ |. hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26). tatrāsthito mahātmāsau yogibhis tu pragīyate |. sugītaṃ caiva kartavyaṃ mana ekāgracetasā || (27). śivo binduḥ śivo devo ghargharāmṛtavarcasā |. nikhilaṃ pūrayed dehaṃ viṣadāhajvarāpaham || (28). sarpavatkuṭilākārasuṣumṇāveṣṭitāṃ tanum |. makāraveṣṭitāṃ kṛtvā mātṛvat pariyojayet || (29). tristhānaṃ ca trimātraṃ ca tribrahma ca trirakṣaram |. ardhamātraṃ ca yo vetti sa bhaved vedapāragaḥ || (30). sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |. arjuna uvāca. nirmalaṃ vimalākāraṃ śuddhasphaṭikasaṃnibham || (31). jīvo jīvati jīvena nāsti jīvam ajīvitam |. śrībhagavān uvāca. nirgataḥ saha saṅgena sa jīvaḥ kena jīvati || (32). mukhanāsikayor madhye prāṇaḥ saṃcarate sadā |. ākāśaṃ pibate nityaṃ sa jīvas tena jīvati || (33). kākīmukhaṃ kakārāntaṃ makāraṃ cetanānugam |. akārasya tu luptasya ko 'rthaḥ saṃpratipadyate || (34). tāvat paśyet khagākāraṃ khakāraṃ tu vicintayet |. khamadhye kuru cātmānam ātmamadhyaṃ ca khaṃ kuru || (35). khamadhye ca praveṣṭavyaṃ khaṃ ca brahma sanātanam |. ātmānaṃ khamayaṃ kṛtvā na kiṃ cid api cintayet || (36). ūrdhvaśūnyam adhaḥśūnyaṃ madhyeśūnyaṃ nirāmayam |. triśūnyaṃ yo 'bhijānāti sa bhavet kulanandanaḥ || (37). tasya bhāvasya bhāvātmā bhāvanā naiva yujyate |. anāvṛttasya śabdasya tasya śabdasya yo gatiḥ || (38). tat padaṃ viditaṃ yena sa yogī chinnasaṃśayaḥ |. puṇyapāpaharāś caiva ye cānye pañcadaivatāḥ || (39). jīvinaḥ saha gacchanti yāvat tattvaṃ na vindati |. pāpaṃ dahati jñānāgniḥ puṇyena somasūryayoḥ || (40). puṇyapāpavinirmuktir eṣa yogo 'bhidhīyate |. dhṛtirodhi manodhīti saṃtoṣaṃ samidhāmṛtam || (41). indriyāṇi paśuṃ kṛtvā yo yajeta sa dīkṣitaḥ |. paraṃ brahmādhigacchanti śabdabrahmavicintanāt || (42). sakale dṛṣṭapāro 'pi bhāvaṃ yuñjati yuñjati |. niṣkale darśanaṃ nāsti svabhāvo bhāvaṃ yuñjati || (43). tālumūle ca lampāyāṃ trikūṭaṃ tripathāntaram |. ekaṃ tattvaṃ vijānīyād vighnasyāyatanaṃ mahat || (44). . . . . . . . . . . . . chinnamūlasya vṛkṣasya yathā janma na vidyate |. jñānadagdhaśarīrasya punar deho na vidyate || (45). gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṃgrahaiḥ |. yāḥ purā padmanābhasya mukhapadmād viniḥsṛtāḥ || (46). gītāgāṅgodakaṃ pītvā punarjanma na vidyate |. sarvaśāstramayī gītā sarvadharmamayo hariḥ || (47). sarvatīrthamayī gaṅgā sarvapāpakṣayaṃkarī |. sarvabhogamayaś cāyaṃ sarvamokṣamayo hy ayam || (48). gītā gaṅgā ca gāyatrī govindo hṛdi saṃsthitāḥ |. caturgakārasmaraṇāt punarjanma na vidyate || (49). gītāsāraṃ paṭhed yas tu hy acyutasya ca saṃnidhau |. tasmād guṇasahasreṇa viṣṇor nirvacanaṃ yathā || (50). . . etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam |. paṭhatāṃ śṛṇvatāṃ caiva viṣṇor māhātmyam uttamam || (51). arjuna uvāca. yad etan niṣkalaṃ brahma vyomātītaṃ nirañjanam |. kaivalyaṃ kevalaṃ śāntaṃ śuddham atyantanirmalam || (1). apratarkyam avijñeyaṃ vināśotpattivarjitam |. śrībhagavān uvāca. jñānayogavinirmuktaṃ taj jñānaṃ brūhi keśava || (2). sarvatojyotir ākāśaṃ sarvabhūtaguṇānvitam |. sarvataḥparamātmānam akṣayaṃ paramaṃ padam || (3). anādinidhanaṃ devaṃ mahājyotir atidhruvam |. atyantaparamaṃ sthānaṃ śabdādiguṇavarjitam || (4). yat tat parataraṃ jyotir dhruvāt parataraṃ sthitam |. ācaturyugam adyāpi kathitaṃ na hi kasya cit || (5). ātmadehe mayā sṛṣṭā prakṛtiḥ kṣetram eva ca |. sakalaṃ tu bhavet kṣetraṃ niṣkalaṃ paramaṃ padam || (6). arjuna tvatprasādena śṛṇvantu munisattamāḥ |. adya muktā mahābāho tvatprasādād dhanaṃjaya || (7). pramāṇaṃ vedatattvānāṃ sāṃkhyādīny abhiyoginām |. teṣāṃ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8). kathitaṃ ca mayā jñānaṃ devānām api durlabham |. viśvarūpamayaṃ divyaṃ bhairavagranthibindunā || (9). aprakāśam idaṃ praśnaṃ yan mayā kathitaṃ tava |. vāṅmayaṃ sarvaśāstrāṇām atisūkṣmaṃ carācaram || (10). nāgnir vāyur na cākāśaṃ na kṣitir nāpi vā jalam |. na manobuddhyahaṃkāraṃ gūḍhārthaṃ kathitaṃ tava || (11). anityo nityatāṃ yāti yadā bhāvaṃ na paśyati |. śūnyaṃ nirañjanākāraṃ nirvāṇaṃ dhruvam avyayam || (12). puruṣaṃ nirguṇaṃ sākṣāt sarvataś caiva tiṣṭhati |. sarvaṃ tat syāt paraṃ brahma buddhiś cāsya na budhyati || (13). pratibhāvaprayatnena hariṃ trailokyabāndhavam |. daśamaṃ cāṅgulaṃ vyāpya cāśābāhyaṃ vyavasthitam || (14). jīvo yatra pralīyeta sā kalā ṣoḍaśī smṛtā |. tayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram || (15). tac cintyaṃ tena vai jñānaṃ tad atrādyā upāsate |. brahmaṇaiva hi vikhyātaṃ vedānteṣu prakāśitam || (16). vedeṣu vedam ity āhur vedadhāma paraṃ matam |. tat paraṃ viditaṃ yasya sa vipro vedapāragaḥ || (17). āhutiḥ sā parā jñeyā sā ca saṃdhyā pratiṣṭhitā |. gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18). tapasy atha tathā vede munibhiḥ samupāsyate |. tāṃ kalāṃ yo 'bhijānāti sa kalājño 'bhidhīyate || (19). yāṃ jñātvā mucyate jantur garbhajanmajarādibhiḥ |. parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20). iḍā bhagavatī gaṅgā piṅgalā yamunā nadī |. tayor madhye tṛtīyā tu tat prayāgam anusmaret || (21). iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā |. suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smṛtā |. brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22). sakrāntiviṣuvac caiva yo 'bhijānāti vigraham |. nityayuktaḥ sa yogīśo brahmavidyāṃ prapadyate || (23). iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ |. suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṃ smṛtam || (24). tasya madhye sthitaṃ jyotiḥ somamaṇḍalam eva ca |. somamaṇḍalamadhyasthaṃ tanmadhye sūryamaṇḍalam || (25). sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ |. hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26). tatrāsthito mahātmāsau yogibhis tu pragīyate |. sugītaṃ caiva kartavyaṃ mana ekāgracetasā || (27). śivo binduḥ śivo devo ghargharāmṛtavarcasā |. nikhilaṃ pūrayed dehaṃ viṣadāhajvarāpaham || (28). sarpavatkuṭilākārasuṣumṇāveṣṭitāṃ tanum |. makāraveṣṭitāṃ kṛtvā mātṛvat pariyojayet || (29). tristhānaṃ ca trimātraṃ ca tribrahma ca trirakṣaram |. ardhamātraṃ ca yo vetti sa bhaved vedapāragaḥ || (30). sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |. arjuna uvāca. nirmalaṃ vimalākāraṃ śuddhasphaṭikasaṃnibham || (31). sthāvaraṃ jaṃgamaṃ caiva yat kiṃ cit sacarācaram |. śrībhagavān uvāca. jīvo jīvati jīvena sa jīvaḥ kena jīvati || (32). mukhanāsikayor madhye prāṇaḥ saṃcarate sadā |. ākāśaṃ pibate nityaṃ sa jīvas tena jīvati || (33). kākīmukhaṃ kakārāntaṃ makāraṃ cetanānugam |. akārasya tu luptasya ko 'rthaḥ saṃpratipadyate || (34). tāvat paśyet khagākāraṃ khakāraṃ tu vicintayet |. khamadhye kuru cātmānam ātmamadhyaṃ ca khaṃ kuru || (35). khamadhye ca praveṣṭavyaṃ khaṃ ca brahma sanātanam |. ātmānaṃ khamayaṃ kṛtvā na kiṃ cid api cintayet || (36). ūrdhvaśūnyam adhaḥśūnyaṃ madhyeśūnyaṃ nirāmayam |. triśūnyaṃ yo 'bhijānāti sa bhavet kulanandanaḥ || (37). amātraśabdarahitaṃ svaravyañjanavarjitam |. bindunādakalātītaṃ yas taṃ veda sa vedavit || (38). saṃprāpte jñānavijñāne jñeye ca hṛdi saṃsthite |. labdhaśāntapade bhāve na yogo na ca dhāraṇā || (39). vedādau yaḥ suraḥ prokto vedānte ca pratiṣṭhitaḥ |. tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ || (40). nā nāvārthī bhavet tāvad yāvat pāraṃ na gacchati |. uttīrṇe tu pare pāre kiṃ nāvā vai prayojanam || (41). dūrastho nāpi dūrasthaḥ piṇḍasthaḥ piṇḍavarjitaḥ |. arjuna uvāca. amalo nirmalaḥ sūkṣmaḥ sarvavyāpī nirañjanaḥ || (42). akṣarāṇi samātrāṇi sarve bindusamāśritāḥ |. śrībhagavān uvāca. bindur bhidyati nādena sa nādaḥ kena bhidyate || (43). oṃkāradhvaninādena vāyuḥ saṃharaṇāntikam |. nirālambhas tu nirdeho yatra nādo layaṃ gataḥ || (44). arjuna uvāca. bāhyena vyāpitaṃ vyoma vyoma cānanunāsikam |. śrībhagavān uvāca. adhaś cordhvaṃ kathaṃ caiva kaṇṭhe caiva nirañjanaḥ || (45). anūṣmam avyañjakam asvaraṃ yat. tat tālukaṇṭheṣv anunāsikaṃ ca |. arephajātaṃ śubham ūṣmavarjitaṃ. na duṣkarāṇāṃ kurute kadā cit || (46). ākāśam apy anākāśaṃ puruṣatve pratiṣṭhitam |. śabdaṃ guṇam ivākāśaṃ niḥśabdaṃ brahma cocyate || (47). sarvagaṃ sarvabodhādi vāsanājālavarjitam |. indriyāṇāṃ nirodhena dehe paśyanti mānavāḥ || (48). dehe naṣṭe kuto buddhir jñānaṃ vijñānam eva ca |. jñānaṃ vijñānayuktaṃ ca rakṣaṇīyaṃ prayatnataḥ | (49). chinnamūlasya vṛkṣasya yathā janma na vidyate |. jñānadagdhaśarīrasya punar deho na vidyate || (50). gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṃgrahaiḥ |. yāḥ purā padmanābhasya mukhapadmaviniḥsṛtāḥ || (51). gītāgaṅgodakaṃ pītvā punarjanma na vidyate |. sarvaśāstramayī gītā sarvadharmamayo hariḥ || (52). sarvatīrthamayī gaṅgā sarvapāpakṣayaṃkarī |. sarvabhogamayaś cāyaṃ sarvamokṣamayo hy ayam || (53). gakārapūrvāś catvāro rakṣanti mahato bhayāt |. gītā gaṅgā ca gāyatrī govindo hṛdi saṃsthitāḥ || (54). snāto vā yadi vāsnātaḥ śucir vā yadi vāśuciḥ |. yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantare śuciḥ || (55). sa gacchet tatkṣaṇāt prāyo brahmamūrte namo 'stu te |. gītāsāraṃ paṭhed yas tu viṣṇuloke mahīyate || (56). etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam |. paṭhatāṃ śṛṇvatāṃ caiva viṣṇor māhātmyam uttamam || (57).