वैशंपायन उवाच। अथ संगम्य सर्वे तु कौरवाणां महारथाः। अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत। एतस्मिन्न् अन्तरे क्रुद्धो भीष्मो द्रोणम् अथाब्रवीत्। दृष्ट्वा कृपं फल्गुनेन पीडितं च जितं रणे। एकैकम् अस्मान् संग्रामे पराजयति फल्गुनः। अहं द्रोणश् च कर्णश् च द्रौणिर् गौतम एव च। अन्ये च बहवः शूरा वयं जेष्याम वासविम्।
vaiśaṃpāyana uvāca. atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ. arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata. etasminn antare kruddho bhīṣmo droṇam athābravīt. dṛṣṭvā kṛpaṃ phalgunena pīḍitaṃ ca jitaṃ raṇe. ekaikam asmān saṃgrāme parājayati phalgunaḥ. ahaṃ droṇaś ca karṇaś ca drauṇir gautama eva ca. anye ca bahavaḥ śūrā vayaṃ jeṣyāma vāsavim.