नानापुष्पफलोपेतं नानापक्षिनिषेवितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्। गन्धर्वैर् अप्सरोभिश् च क्रीडद्भिर् उपशोभितम्। मत्तैः किंपुरुषैश् चैव पानभूमिगतैस् तथा। तत् प्रियाभिः समन्ताच् च व्यावृत्य परिवीक्षितः। जगाम नरशार्दूलो देवं द्रष्टुं पिनाकिनम्।
nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam. nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam. gandharvair apsarobhiś ca krīḍadbhir upaśobhitam. mattaiḥ kiṃpuruṣaiś caiva pānabhūmigatais tathā. tat priyābhiḥ samantāc ca vyāvṛtya parivīkṣitaḥ. jagāma naraśārdūlo devaṃ draṣṭuṃ pinākinam.