यस्माद् उद्विजते लोकः कथं तस्य भवो भवेत्। अन्तरं ह्य् अस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्। तस्मान् नात्युत्सृजेत् तेजो न च नित्यं मृदुर् भवेत्। काले काले तु संप्राप्ते मृदुस् तीक्ष्णो ऽपि वा भवेत्।
yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet. antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam. tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet. kāle kāle tu saṃprāpte mṛdus tīkṣṇo 'pi vā bhavet.