नहुषो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः। तवैव पूर्वः पूर्वेषाम् आयोर् वंशकरः सुतः। तपोभिः क्रतुभिश् चैव विद्ययाभिजनेन च। त्रैलोक्यैश्वर्यम् अतुलं प्राप्तं मे विक्रमेण च। अथ सर्वनृपोन्माथी मदो मां समुपाविशत्। सहस्रं मुनिमुख्यानाम् उवाह शिबिकां मम। ततो विभ्रंशितश् चाहम् अगस्त्येन महात्मना। इमाम् अवस्थां संप्राप्तः पश्य दैवम् इदं मम। न दैवं प्रज्ञया तात न बलोत्साहशक्तिभिः। न सहायबलैश् चापि कश् चिद् अप्य् अतिवर्तते। अथ प्रज्ञा च शौर्यं च संपदः कारणं भवेत्। प्रज्ञावतां च शूराणां न कदा चिद् असंपदः। यथा प्राज्ञाश् च शूराश् च दृश्यन्ते दुःखजीविनः। भीरुमूर्खाश् च सुखिनस् तस्माद् दैवं हि कारणम्।
nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ. tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ. tapobhiḥ kratubhiś caiva vidyayābhijanena ca. trailokyaiśvaryam atulaṃ prāptaṃ me vikrameṇa ca. atha sarvanṛponmāthī mado māṃ samupāviśat. sahasraṃ munimukhyānām uvāha śibikāṃ mama. tato vibhraṃśitaś cāham agastyena mahātmanā. imām avasthāṃ saṃprāptaḥ paśya daivam idaṃ mama. na daivaṃ prajñayā tāta na balotsāhaśaktibhiḥ. na sahāyabalaiś cāpi kaś cid apy ativartate. atha prajñā ca śauryaṃ ca saṃpadaḥ kāraṇaṃ bhavet. prajñāvatāṃ ca śūrāṇāṃ na kadā cid asaṃpadaḥ. yathā prājñāś ca śūrāś ca dṛśyante duḥkhajīvinaḥ. bhīrumūrkhāś ca sukhinas tasmād daivaṃ hi kāraṇam.