प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्। पुष्पितैर् द्रुमखण्डैश् च मत्तकोकिलषट्पदैः। मयूरैश् चातकैश् चापि नित्योत्सवविभूषितम्। व्याघ्रैर् वराहैर् महिषैर् गवयैर् हरिणैस् तथा। श्वापदैर् व्यालरूपैश् च रुरुभिश् च निषेवितम्। फुल्लैः सहस्रपत्रैश् च शतपत्रैस् तथोत्पलैः। प्रफुल्लैः कमलैश् चैव तथा नीलोत्पलैर् अपि। महापुण्यं पवित्रं च सुरासुरनिषेवितम्। तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः।
prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam. puṣpitair drumakhaṇḍaiś ca mattakokilaṣaṭpadaiḥ. mayūraiś cātakaiś cāpi nityotsavavibhūṣitam. vyāghrair varāhair mahiṣair gavayair hariṇais tathā. śvāpadair vyālarūpaiś ca rurubhiś ca niṣevitam. phullaiḥ sahasrapatraiś ca śatapatrais tathotpalaiḥ. praphullaiḥ kamalaiś caiva tathā nīlotpalair api. mahāpuṇyaṃ pavitraṃ ca surāsuraniṣevitam. tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ.