अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस् तैर् यथावत्। प्रत्याजगामाश्रमम् एव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन। ततो ऽष्टावक्रं मातुर् अथान्तिके पिता। नदीं समंगां शीघ्रम् इमां विशस्व। प्रोवाच चैनां स तथा विवेश। समैर् अङ्गैश् चापि बभूव सद्यः। नदी समंगा च बभूव पुण्या। यस्यां स्नातो मुच्यते किल्बिषाद् धि। त्वम् अप्य् एनां स्नानपानावगाहैः। सभ्रातृकः सहभार्यो विशस्व।
aṣṭāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat. pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena. tato 'ṣṭāvakraṃ mātur athāntike pitā. nadīṃ samaṃgāṃ śīghram imāṃ viśasva. provāca caināṃ sa tathā viveśa. samair aṅgaiś cāpi babhūva sadyaḥ. nadī samaṃgā ca babhūva puṇyā. yasyāṃ snāto mucyate kilbiṣād dhi. tvam apy enāṃ snānapānāvagāhaiḥ. sabhrātṛkaḥ sahabhāryo viśasva.