तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः। प्रासादाभोगसंरुद्धो अन्वरौत्सीत् स रोदसी। अन्योन्यं वीक्ष्य वीक्ष्यैवं स्मृत्वा मातुर् उपप्लवम्। सेहिरे न महीपाला निपेतुः पृथिवीतले। पुनर् उत्थाय चालिङ्ग्य रुदन्तो विषमस्वनाः। निपेतुः पाण्डवाः शोकाद् धर्मराजस्य पादयोः।
teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ. prāsādābhogasaṃruddho anvarautsīt sa rodasī. anyonyaṃ vīkṣya vīkṣyaivaṃ smṛtvā mātur upaplavam. sehire na mahīpālā nipetuḥ pṛthivītale. punar utthāya cāliṅgya rudanto viṣamasvanāḥ. nipetuḥ pāṇḍavāḥ śokād dharmarājasya pādayoḥ.