स मे वरम् अदात् प्रीतः कृतम् इत्य् अहम् अब्रुवम्। स प्रीतो वरदो मे ऽभूत् कृतकृत्यो महामुनिः। अवश्यं ते ग्रहीतव्यम् इति मां सो ऽब्रवीद् वचः। तम् अहं भयसंविग्ना याचे सानुनयं द्विजम्।
sa me varam adāt prītaḥ kṛtam ity aham abruvam. sa prīto varado me 'bhūt kṛtakṛtyo mahāmuniḥ. avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ. tam ahaṃ bhayasaṃvignā yāce sānunayaṃ dvijam.