एतच् छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान् प्रत्यगृह्णात्। विद्वान् वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय।
etac chrutvā kauravendro mahātmā; sahaiva patnyā prītimān pratyagṛhṇāt. vidvān vākyaṃ nāradasya praśasya; cakre pūjāṃ cātulāṃ nāradāya.