इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः। तथ्यम् इत्य् अवगम्यैनं प्राञ्जलिः प्रत्यपूजयत्। पराजितो ऽस्मि भद्रं ते नाहं योद्धुम् इहोत्सहे। यच् च कृत्यं मया ते ऽद्य तद् ब्रूहि कृतम् एव तु।
iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ. tathyam ity avagamyainaṃ prāñjaliḥ pratyapūjayat. parājito 'smi bhadraṃ te nāhaṃ yoddhum ihotsahe. yac ca kṛtyaṃ mayā te 'dya tad brūhi kṛtam eva tu.