ततः पार्थं समासाद्य पतंग इव पावकम्। पञ्चत्वम् अगमत् सौतिर् द्वितीये ऽहनि दारुणे। द्वितीये ऽहनि स तदा फल्गुनेन निपातितः। प्रताप्य पाण्डवान् सर्वान् पाञ्चालान् अस्त्रतेजसा। सपुत्रः समरे कर्णः संशान्तः पार्थतेजसा।
tataḥ pārthaṃ samāsādya pataṃga iva pāvakam. pañcatvam agamat sautir dvitīye 'hani dāruṇe. dvitīye 'hani sa tadā phalgunena nipātitaḥ. pratāpya pāṇḍavān sarvān pāñcālān astratejasā. saputraḥ samare karṇaḥ saṃśāntaḥ pārthatejasā.