वासुदेव उवाच। तमो रजश् च सत्त्वं च विद्धि भावान् मदाश्रयान्। स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः। कदा चित् तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः। रजस्य् अपि तथा ब्रह्मा गुणाद् अन्यगुणानुगौ। प्रणवात्मा च शब्दादींस् त्रिगुणात्मा चराचरम्। तथा रुद्रान् वसूंश् चापि विद्धि मत्प्रभवान् द्विज।
vāsudeva uvāca. tamo rajaś ca sattvaṃ ca viddhi bhāvān madāśrayān. sthitisṛṣṭilayādhyakṣo viṣṇubrahmeśasaṃjñitaḥ. kadā cit tamasā rudro viṣṇuḥ sattvaguṇe sthitaḥ. rajasy api tathā brahmā guṇād anyaguṇānugau. praṇavātmā ca śabdādīṃs triguṇātmā carācaram. tathā rudrān vasūṃś cāpi viddhi matprabhavān dvija.