ब्राह्मण उवाच। एकः शास्ता न द्वितीयो ऽस्ति शास्ता; यथा नियुक्तो ऽस्मि तथा चरामि। यो हृच्छयस् तम् अहम् अनुब्रवीमि। हृद्य् एष तिष्ठन् पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणाद् इवोदकम्।
brāhmaṇa uvāca. ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi. yo hṛcchayas tam aham anubravīmi. hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam.