एता जात्यस् तु वृक्षाणां तेषां रोपे गुणास् त्व् इमे। पनसाम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः। नागिका मरिचा वल्ल्यो मालतीत्यादिका लताः। वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः। सस्यानि रोपणाद् एषां तृप्तिर् भवति शाश्वती। कीर्तिश् च मानुषे लोके प्रेत्य चैव फलं शुभम्।
etā jātyas tu vṛkṣāṇāṃ teṣāṃ rope guṇās tv ime. panasāmrādayo vṛkṣā gulmā mandārapūrvakāḥ. nāgikā maricā vallyo mālatītyādikā latāḥ. veṇukramukatvaksārāḥ sasyāni tṛṇajātayaḥ. sasyāni ropaṇād eṣāṃ tṛptir bhavati śāśvatī. kīrtiś ca mānuṣe loke pretya caiva phalaṃ śubham.