एतत् ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्। छत्रोपानहदानस्य फलं भरतसत्तम। युधिष्ठिरः। शूद्राणाम् इह शुश्रूषा नित्यम् एवानुवर्णिता। कैः कारणैः कतिविधा शुश्रूषा समुदाहृता। के च शुश्रूषया लोका विहिता भरतर्षभ। शूद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम्। भीष्मः। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। शूद्राणाम् अनुकम्पार्थं यद् उक्तं ब्रह्मवादिना। वृद्धः पराशरः प्राह धर्मं शुभ्रम् अनामयम्। अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम्। धर्मोपदेशम् अखिलं यथावद् अनुपूर्वशः। शिष्यान् अध्यापयाम् आस शास्त्रम् अर्थवद् अर्थवित्। क्षान्तेन्द्रियेण मानेन शुचिनाचापलेन वै। अदुर्बलेन धीरेण नोत्तरोत्तरवादिना। अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना। चारित्रतत्परेणैव सर्वभूतहितात्मना। अरयः षड् विजेतव्या नित्यं स्वं देहम् आश्रिताः। कामक्रोधौ च लोभश् च मानमोहौ मदस् तथा। विधिना धृतिम् आस्थाय शुश्रूषुर् अनहंकृतः। वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम्। कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्। आस्थाय नियमं धीमाञ् शान्तो दान्तो जितेन्द्रियः। रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः। वर्णत्रयान् मधु यथा भ्रमरो धर्मम् आचरेत्। यदि शूद्रस् तपः कुर्याद् वेददृष्टेन कर्मणा। इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः। अधर्म्यम् अयशस्यं च तपः शूद्रे प्रतिष्ठितम्। अमार्गेण तपस् तप्त्वा म्लेच्छेषु फलम् अश्नुते। अन्यथा वर्तमानो हि न शूद्रो धर्मम् अर्हति। अमार्गेण प्रयातानां प्रत्यक्षाद् उपलभ्यते। चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः। तथा ते हि शकाश् चीनाः काम्भोजाः पारदास् तथा। शबराः पप्लवाश् चैव तुषारयवनास् तथा। दार्वाश् च दरदाश् चैव उज्जिहानास् तथेतराः। वेणाश् च कङ्कणाश् चैव सिंहला मद्रकास् तथा। किष्किन्धकाः पुलिन्दाश् च कह्वाश् चान्ध्राः सनीरगाः। गन्धिका द्रमिडाश् चैव बर्बराश् चूचुकास् तथा। किराताः पार्वतेयाश् च कोलाश् चोलाः सखाषकाः। आरुकाश् चैव दोहाश् च याश् चान्या म्लेच्छजातयः। विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः। अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः। अमार्गोपार्जितस्यैतत् तपसो विदितं फलम्। न नश्यति कृतं कर्म शुभं वा यदि वाशुभम्। अत्राप्य् एते वसु प्राप्य विकर्मतपसार्जितम्। पाषण्डान् अर्चयिष्यन्ति धर्मकामा वृथाश्रमाः। एवं चतुर्णां वर्णानाम् आश्रमाणां च पार्थिव। विपरीतं वर्तमाना म्लेच्छा जायन्त्य् अबुद्धयः। अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम्। वणिक् कृषिश् च वैश्यानां शूद्राणां परिचारिका। व्युच्छेदात् तस्य धर्मस्य निरयायोपपद्यते। ततो म्लेच्छा भवन्त्य् एते निर्घृणा धर्मवर्जिताः। पुनश् च निरयस् तेषां तिर्यग्योनिश् च शाश्वती। ये तु सत्पथम् आस्थाय वर्णाश्रमकृतं पुरा। सर्वान् विमार्गान् उत्सृज्य स्वधर्मपथम् आश्रिताः। सर्वभूतदयावन्तो दैवतद्विजपूजकाः। शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः। तेषां विधिं प्रवक्ष्यामि यथावद् अनुपूर्वशः। उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा। शिष्टोपनयनं चैव मन्त्राणि विविधानि च। तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात्। प्रवक्ष्यामि यथातत्त्वं यथावद् अनुपूर्वशः। शौचकृत्यस्य शौचार्थान् सर्वान् एव विशेषतः। महाशौचप्रभृतयो दृष्टास् तत्त्वार्थदर्शिभिः। तत्रापि शूद्रो भिक्षूणाम् इदं शेषं च कल्पयेत्। भिक्षुभिः सुकृतप्रज्ञैः केवलं धर्मम् आश्रितैः। सम्यग्दर्शनसंपन्नैर् गताध्वनि हितार्थिभिः। अवकाशम् इमं मेध्यं निर्मितं कामवीरुधम्। निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः। सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम्। परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः। उदङ्मुखो दिवा कुर्याद् रात्रौ चेद् दक्षिणामुखः। अन्तर्हितायां भूमौ तु अन्तर्हितशिरास् तथा। असमाप्ते तथा शौचे न वाचं किं चिद् ईरयेत्। कृतकृत्यस् तथाचम्य गच्छन् नोदीरयेद् वचः। शौचार्थम् उपविष्टस् तु मृद्भाजनपुरस्कृतः। स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्याम् अथान्तरे। शौचं कुर्याच् छनैर् वीरो बुद्धिपूर्वम् असंकरम्। पाणिना शुद्धम् उदकं संगृह्य विधिपूर्वकम्। विप्रुषश् च यथा न स्युर् यथा चोरू न संस्पृशेत्। अपाने मृत्तिकास् तिस्रः प्रदेयास् त्व् अनुपूर्वशः। हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत्। अपाने नव देयाः स्युर् इति वृद्धानुशासनम्। मृत्तिका दीयमाना हि शोधयेद् देशम् अञ्जसा। तस्मात् पाणितले देया मृत्तिकास् तु पुनः पुनः। बुद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत् स्फिजौ। यथा घातो हि न भवेद् क्लेदजः परिधानके। तथा गुदं प्रमार्जेत शौचार्थं तु पुनः पुनः। प्रतिपादं ततस् त्यक्त्वा शौचम् उत्थाय कारयेत्। सव्ये द्वादश देयाः स्युस् तिस्रस् तिस्रः पुनः पुनः। देयाः कूर्परके हस्ते पृष्ठबन्धे पुनः पुनः। तथैवादर्शके दद्याच् चतस्रस् तूभयोर् अपि। उभयोर् हस्तयोर् एकं सप्त सप्त प्रदापयेत्। ततो ऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस् तयोः। हस्तयोर् एवम् एतद् धि महाशौचं विधीयते। ततो ऽन्यथा न कुर्वीत विधिर् एष सनातनः। उपस्थे मूत्रशौचस्य अत ऊर्ध्वं विधीयते। अतो ऽन्यथा तु यः कुर्यात् प्रायश्चित्तीयते तु सः। मलोपहतचेलस्य द्विगुणं तु विधीयते। सहपादम् अथोरुभ्यां हस्तशौचम् असंशयम्। अवधीरयमाणस्य संदेह उपजायते। यथा यथा विशुध्येत तत् तथा तद् उपक्रमे। सकर्दमं तु वर्षासु गृहम् आविश्य संकटम्। हस्तयोर् मृत्तिकास् तिस्रः पादयोः षट् प्रदापयेत्। कामं दत्त्वा गुदे दद्यात् तिस्रः पद्भ्यां तथैव च। हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस् तथा। मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः। नैष्ठिके स्थानशौचे तु महाशौचं विधीयते। क्षारौषराभ्यां वस्त्रस्य कुर्याच् छौचं मृदा सह। लेपगन्धापनयनम् अमेध्यस्य विधीयते। स्नानशाट्यां मृदस् तिस्रो हस्ताभ्यां चानुपूर्वशः। शौचं प्रयत्नतः कृत्वा कम्पयानः समुद्धरेत्। देयाश् चतस्रस् तिस्रो वा द्विर् वाप्य् एका तथापदि। कालम् आसाद्य देशं च शौचस्य गुरुलाघवम्। विधिनानेन शौचं तु नित्यं कुर्याद् अतन्द्रितः। अविप्रेक्षन्न् असंभ्रान्तः पादौ प्रक्षाल्य तत्परः। अप्रक्षालितपादस् तु पाणिम् आ मणिबन्धनात्। अधस्ताद् उपरिष्टाच् च ततः पाणिम् उपस्पृशेत्। मनोगतास् तु निःशब्दा निःशब्दं त्रिर् अपः पिबेत्। द्विर् मुखं परिमृज्याच् च खानि चोपस्पृशेद् बुधः। ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेद् अपः। द्वितीयं तु यजुर्वेदं तृतीयं साम एव च। मृज्यते प्रथमं तेन अथर्वा प्रीतिम् आप्नुयात्। द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः। यच् चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत्। प्रीणाति वायुं घ्राणं च दिशश् चाप्य् अथ श्रोत्रयोः। ब्रह्माणं तेन प्रीणाति यन् मूर्धनि समापयेत्। समुत्क्षिपति चापोर्ध्वम् आकाशं तेन प्रीणयेत्। प्रीणाति विष्णुं पद्भ्यां तु सलिलं वै समादधत्। प्राङ्मुखोदङ्मुखो वापि अन्तर्जानुर् उपस्पृशेत्। सर्वत्र विधिर् इत्य् एष भोजनादिषु नित्यशः। अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनर् आचमेत्। विधिर् एष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम्। शूद्रस्यैष विधिर् दृष्टो गृहान् निष्क्रमतः सतः। नित्यं त्व् अलुप्तशौचेन वर्तितव्यं कृतात्मना। यशस्कामेन भिक्षुभ्यः शूद्रेणात्महितार्थिना। पराशरः। क्षत्रा आरम्भयज्ञास् तु वीर्ययज्ञा विशः स्मृताः। शूद्राः परिचरायज्ञा जपयज्ञास् तु ब्राह्मणाः। शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः। अनिष्टनिग्रहाः क्षत्रा विप्राः स्वाध्यायजीविनः। तपसा शोभते विप्रो राजन्यः पालनादिभिः। आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते। यतात्मना तु शूद्रेण शुश्रूषा नित्यम् एव च। कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु। अशक्तेन त्रिवर्गस्य सेव्या ह्य् आश्रमवासिनः। यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम्। विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे। आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम्। प्रधानम् इति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये। यच् चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः। तथा स्थेयम् अशक्तेन स धर्म इति निश्चितः। अतो ऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः। तस्माद् भिक्षुषु शूद्रेण कार्यम् आत्महितं सदा। इह यत् कुरुते श्रेयस् तत् प्रेत्य समुपाश्नुते। तच् चानसूयता कार्यं कर्तव्यं यद् धि मन्यते। असूयता कृतस्येह फलं दुःखाद् अवाप्यते। प्रियवादी जितक्रोधो वीततन्द्रिर् अमत्सरः। क्षमावाञ् शीलसंपन्नः सत्यधर्मपरायणः। आपद्भावेन कुर्याद् धि शुश्रूषां भिक्षुकाश्रमे। अयं मे परमो धर्मस् त्व् अनेनेमं सुदुष्करम्। संसारसागरं घोरं तरिष्यामि न संशयः। विभयो देहम् उत्सृज्य यास्यामि परमां गतिम्। नातः परं ममाप्य् अन्य एष धर्मः सनातनः। एवं संचिन्त्य मनसा शूद्रो बुद्धिसमाधिना। कुर्याद् अविमना नित्यं शुश्रूषाधर्मम् उत्तमम्। शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा। शमान्वितेन दान्तेन कार्याकार्यविदा सदा। सर्वकार्येषु कृत्यानि कृतान्य् एव तु दर्शयेत्। यथा प्रियो भवेद् भिक्षुस् तथा कार्यं प्रसाधयेत्। यद् अकल्पं भवेद् भिक्षोर् न तत् कार्यं समाचरेत्। यदाश्रमस्याविरुद्धं धर्ममात्राभिसंहितम्। तत् कार्यम् अविचारेण नित्यम् एव शुभार्थिना। मनसा कर्मणा वाचा नित्यम् एव प्रसादयेत्। स्थातव्यं तिष्ठमानेषु गच्छमानान् अनुव्रजेत्। आसीनेष्व् आसितव्यं च नित्यम् एवानुवर्तता। धर्मलब्धेन स्नेहेन पादौ संपीडयेत् सदा। उद्वर्तनादींश् च तथा कुर्याद् अप्रतिचोदितः। नैशकार्याणि कृत्वा तु नित्यं चैवानुचोदितः। यथाविधिर् उपस्पृश्य संन्यस्य जलभाजनम्। भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम्। ब्रह्मपूर्वान् गुरूंस् तत्र प्रणम्य नियतेन्द्रियः। तथाचार्यपुरोगाणाम् अनुकुर्यान् नमस्क्रियाम्। स्वधर्मचारिणां चापि सुखं पृष्ट्वाभिवाद्य च। यो भवेत् पूर्वसंसिद्धस् तुल्यधर्मा भवेत् सदा। तस्मै प्रणामः कर्तव्यो नेतरेषु कदा चन। अनुक्त्वा तेषु चोत्थाय नित्यम् एव यतव्रतः। संमार्जनम् अथो कृत्वा कृत्वा चाप्य् उपलेपनम्। ततः पुष्पबलिं दद्यात् पुष्पाण्य् आदाय धर्मतः। निष्क्रम्यावसथात् तूर्णम् अन्यत् कर्म समाचरेत्। यथोपघातो न भवेत् स्वाध्याये ऽऽश्रमिणां तथा। उपघातं तु कुर्वाण एनसा संप्रयुज्यते। तथात्मा प्रणिधातव्यो यथा ते प्रीतिम् आप्नुयुः। परिचारको ऽहं वर्णानां त्रयाणां धर्मतः स्मृतः। किम् उताश्रमवृद्धानां यथालब्धोपजीविनाम्। भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम्। विशेषेण मया कार्या शुश्रूषा नियतात्मना। तेषां प्रसादात् तपसा प्राप्स्यामीष्टां शुभां गतिम्। एवम् एतद् विनिश्चित्य यदि सेवेत भिक्षुकान्। विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम्। पराशरः। न तथा संप्रदानेन नोपवासादिभिस् तथा। इष्टां गतिम् अवाप्नोति यथा शुश्रूषकर्मणा। यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः। तादृग् भवति तद् धौतम् उदकस्य स्वभावतः। शूद्रो ऽप्य् एतेन मार्गेण यादृशं सेवते जनम्। तादृग् भवति संसर्गाद् अचिरेण न संशयः। तस्मात् प्रयत्नतः सेव्या भिक्षवो नियतात्मना। उदकग्रहणाद्येन स्नपनोद्वर्तनैस् तथा। अध्वना कर्शितानां च व्याधितानां तथैव च। शुश्रूषां नियतं कुर्यात् तेषाम् आपदि यत्नतः। दर्भाजिनान्य् अवेक्षेत भैक्षभाजनम् एव च। यथाकामं च कार्याणि सर्वाण्य् एवोपसाधयेत्। प्रायश्चित्तं यथा न स्यात् तथा सर्वं समाचरेत्। व्याधितानां तु प्रयतश् चैलप्रक्षालनादिभिः। प्रतिकर्मक्रिया कार्या भेषजानयनैस् तथा। पिंषणालेपनं चूर्णं कषायम् अथ साधनम्। नान्यस्य प्रतिचारेषु सुखार्थम् उपपादयेत्। भिक्षाटनो ऽभिगच्छेत भिषजश् च विपश्चितः। ततो विनिष्क्रयार्थानि द्रव्याणि समुपार्जयेत्। यश् च प्रीतमना दद्याद् आदद्याद् भेषजं नरः। अश्रद्धया हि दत्तानि तान्य् अभोज्यानि भिक्षुभिः। श्रद्धया यद् उपादत्तं श्रद्धया चोपपादितम्। तस्योपभोगाद् धर्मः स्याद् व्याधिभिश् च निवर्त्यते। आ देहपतनाद् एवं शुश्रूषार्थम् अतन्द्रितैः। न त्व् एव धर्मम् उत्सृज्य कुर्यात् तेषां प्रतिक्रियाम्। स्वभावतो हि द्वंद्वानि विप्रयान्त्य् उपयान्ति च। स्वभावतः सर्वभावा भवन्ति न भवन्ति च। सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः। विद्याद् एवं हि यो धीमांस् तत्त्ववित् तत्त्वदर्शनः। पराशरः। न स लिप्येत पापेन पद्मपत्रम् इवाम्भसा। एवं प्रयतितव्यं हि शुश्रूषार्थम् अतन्द्रितैः। सर्वाभिर् उपसेवाभिस् तुष्यन्ति यतयो यथा। नापराध्येत भिक्षोस् तु न चैनम् अवधीरयेत्। उत्तरं च न संदद्यात् क्रुद्धं चैव प्रसादयेत्। श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत्। तूष्णींभावेन वै तत्र न क्रुद्धम् अभिसंवदेत्। नाददीत परस्वानि न गृह्णीयाद् अयाचितम्। लब्धालब्धेन जीवेत तथैव परितोषयेत्। कोपिनं तु न याचेत ज्ञानविद्वेषकारितः। स्थावरेषु दयां कुर्याज् जंगमेषु च प्राणिषु। यथात्मनि तथान्येषु समां दृष्टिं निपातयेत्। सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। संपश्यमानो विचरन् ब्रह्मभूयाय कल्पते। हिंसां वा यदि वाहिंसां न कुर्याद् आत्मकारणात्। यत्रेतरो भवेन् नित्यं दोषं तत्र न कारयेत्। एवं स मुच्यते दोषात् परान् आश्रित्य वर्तयन्। आत्माश्रयेण दोषेण लिप्यते ह्य् अल्पबुद्धिमान्। जरायुजाण्डजाश् चैव उद्भिज्जाः स्वेदजाश् च ये। अवध्याः सर्व एवैते बुधैः समनुवर्णिताः। निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते। हिंसा यथान्या विहिता तथा दोषं प्रयोजयेत्। यथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम्। न हि लोभः प्रभवति हिंसा वापि तदात्मिका। शास्त्रदर्शनम् एतद् धि विहितं विश्वयोनिना। यद्य् एतद् एवं मन्येत शूद्रो ह्य् अपि च बुद्धिमान्। कृतं कृतवतां गच्छेत् किं पुनर् यो निषेवते। न शूद्रः पतते कश् चिन् न च संस्कारम् अर्हति। नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम्। अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम्। यदापवादस् तु भवेत् स्त्रीकृतः परिचारके। अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम्। तेन तस्य भवेच् छान्तिस् ततो भूयो ऽप्य् उपाव्रजेत्। सवर्णाया भवेद् एतद् धीनायास् त्व् अर्धम् अर्हति। वर्षत्रयं तु वैश्यायाः क्षत्रियायास् तु षट् समाः। ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः। कटाग्निना वा दग्धव्यस् तस्मिन्न् एव क्षणे भवेत्। शिश्नावपातनाद् वापि विशुद्धिं समवाप्नुयात्। अनस्थिबन्धम् एकं तु यदि प्राणैर् वियोजयेत्। उपोष्यैकाहम् आदद्यात् प्राणायामांस् तु द्वादश। त्रिः स्नानम् उदके कृत्वा तस्मात् पापात् प्रमुच्यते। अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते। अनेन विधिना वापि स्थावरेषु न संशयः। कायेन पद्भ्यां हस्ताभ्याम् अपराधात् तु मुच्यते। अदुष्टं क्षपयेद् यस् तु सर्ववर्णेषु वाचयेत्। तस्याप्य् अष्टगुणं विद्यात् प्रायश्चित्तं तद् एव तु। चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते। कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम्। तस्माद् एतानि सर्वाणि विदित्वा न समाचरेत्। सर्वभूतहितार्थं हि कुशलानि समाचरेत्। एवं समाहितमनाः सेवते यदि सत्तमान्। तद्गतिस् तत्समाचारस् तन्मनास् तत्परायणः। नाभिनन्देत मरणं नाभिनन्देत जीवितम्। कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा। एवं प्रवर्तमानस् तु विनीतः प्रयतात्मवान्। पराशरः। निर्णयं पुण्यपापाभ्याम् अचिरेणोपगच्छति। शुश्रूषानिरतो नित्यम् अरिष्टान्य् उपलक्षयेत्। त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम्। षाण्मासिकं मासिकं वा सप्तरात्रिकम् एव वा। सर्वांस् तदर्थान् वा विद्यात् तेषां चिह्नानि लक्षयेत्। पुरुषं हिरण्मयं यस् तु तिष्ठन्तं दक्षिणामुखम्। लक्षयेद् उत्तरेणैव मृत्युस् त्रैवार्षिको भवेत्। शुद्धमण्डलम् आदित्यम् अरश्मिं संप्रपश्यतः। संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत्। ज्योत्स्नायाम् आत्मनश् छायां सच्छिद्रां यः प्रपश्यति। मृत्युं संवत्सरेणैव जानीयात् स विचक्षणः। विशिरस्कां यदा छायां पश्येत् पुरुष आत्मनः। जानीयाद् आत्मनो मृत्युं षण्मासेनेह बुद्धिमान्। कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि। जानीयाद् आत्मनो मृत्युं मासेनैव विचक्षणः। शवगन्धम् उपाघ्राति अन्यद् वा सुरभिं नरः। देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक्। कर्णनासापनयनं दन्तदृष्टिविरागता। लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत्। एवम् एषाम् अरिष्टानां पश्येद् अन्यतमं यदि। न तं कालं परीक्षेत यथारिष्टं प्रकल्पितम्। अभ्याशेन तु कालस्य गच्छेत पुलिनं शुचि। तत्र प्राणान् प्रमुञ्चेत तम् ईशानम् अनुस्मरन्। ततो ऽन्यं देहम् आसाद्य गान्धर्वं स्थानम् आप्नुयात्। तत्रस्थो वसते विंशत्पद्मानि स महाद्युतिः। गन्धर्वैश् चित्रसेनाद्यैः सहितः सत्कृतस् तथा। नीलवैडूर्यवर्णेन विमानेनावभासयन्। नभःस्थलम् अदीनात्मा सार्धम् अप्सरसां गणैः। छन्दकामानुसारी च तत्र तत्र महीयते। मोदते ऽमरतुल्यात्मा सदामरगणैः सह। पतितश् च क्षये काले क्षणेन विमलद्युतिः। वैश्यस्य बहुवित्तस्य कुले ऽग्र्ये बहुगोधने। अवाप्य तत्र वै जन्म स पूतो देवकर्मणा। छन्दसा जागतेनैव प्राप्तोपनयनं ततः। क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु। अधीयमानो वेदार्थान् गुरुशुश्रूषणे रतः। ब्रह्मचारी जितक्रोधस् तपस्वी जायते ततः। अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम्। कृतदारः समुपैति गृहस्थव्रतम् उत्तमम्। ददाति यजते चैव यज्ञैर् विपुलदक्षिणैः। अग्निहोत्रम् उपासन् वै जुह्वच् चैव यथाविधि। धर्मं संचिनुते नित्यं मृदुगामी जितेन्द्रियः। स कालपरिणामात् तु मृत्युना संप्रयुज्यते। संस्कृतश् चाग्निहोत्रेण कृतपात्रोपधानवान्। संस्कृतो देहम् उत्सृज्य मरुद्भिर् उपपद्यते। मरुद्भिः सहितश् चापि तुल्यतेजा महाद्युतिः। बालार्कसमवर्णेन विमानेन विराजता। सुखं चरति तत्रस्थो गन्धर्वाप्सरसां गणैः। विरजोम्बरसंवीतस् तप्तकाञ्चनभूषणः। छन्दकामानुसारी च द्विगुणं कालम् आवसेत्। संनिवर्तेत कालेन स्थानात् तस्मात् परिच्युतः। अवितृप्तविहारार्थो दिव्यभोगान् विहाय तु। स जायते नृपकुले गजाश्वरथसंकुले। पार्थिवीं श्रियम् आपन्नः श्रीमान् धर्मपतिर् यथा। जन्मप्रभृति संस्कारं चौलोपनयनानि च। प्राप्य राजकुले तत्र यथावद् विधिपूर्वकम्। छन्दसा त्रैष्टुभेनेह द्विजत्वम् उपनीयते। अधीत्य वेदम् अखिलं धनुर्वेदं च मुख्यशः। समावृत्तस् ततः पित्रा यौवराज्ये ऽभिषिच्यते। कृतदारक्रियः श्रीमान् राज्यं संप्राप्य धर्मतः। प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः। यज्ञैर् बहुभिर् ईजानः सम्यग् आप्तार्थदक्षिणैः। प्रशासति महीं श्रीमान् राज्यम् इन्द्रसमद्युतिः। स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान्। कालस्य वशम् आपन्नः प्राणांस् त्यजति संयुगे। देवराजस्य भवनम् इन्द्रलोकम् अवाप्नुते। संपूज्यमानस् त्रिदशैर् विचचार यथासुखम्। राजर्षिभिः पुण्यकृद्भिर् यथा देवपतिस् तथा। तैः स्तूयते बन्दिभिस् तु नानावाद्यैः प्रबोध्यते। दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः। वराप्सरोभिः संपूर्णं देवगन्धर्वसेवितम्। यानम् आरुह्य विचरेद् यथा शक्रः शचीपतिः। स तत्र वसते षष्टिं पद्मानीह मुदान्वितः। सर्वांल् लोकान् अनुचरन् महर्द्धिर् अवभासयन्। अथ पुण्यक्षयात् तस्मात् स्थाप्यते भुवि भारत। पराशरः। जायते च द्विजकुले वेदवेदाङ्गपारगे। ततः श्रुतिसमापन्नः संस्कृतश् च यथाविधि। चौलोपनयनं तस्य यथावत् क्रियते द्विजैः। ततो ऽष्टमे स वर्षे तु व्रतोपनयनादिभिः। क्रियाभिर् विधिदृष्टाभिर् ब्रह्मत्वम् उपनीयते। गायत्रेण च्छन्दसा तु संस्कृतश् चरितव्रतः। अधीयमानो मेधावी शुद्धात्मा नियतव्रतः। अचिरेणैव कालेन साङ्गान् वेदान् अवाप्नुते। समावृत्तः स धर्मात्मा समावृत्तक्रियस् तथा। याजनाध्यापनरतः कुशले कर्मणि स्थितः। अग्निहोत्रपरो नित्यं देवतातिथिपूजकः। यजते विविधैर् यज्ञैर् जपयज्ञैस् तथैव च। न्यायागतधनान्वेषी न्यायवृत्तस् तपोधनः। सर्वभूतहितश् चैव सर्वशास्त्रविशारदः। स्वदारपरितुष्टात्मा ऋतुगामी जितेन्द्रियः। परापवादविरतः सत्यव्रतपरः सदा। स कालपरिणामात् तु संयुक्तः कालधर्मणा। संस्कृतश् चाग्निहोत्रेण यथावद् विधिपूर्वकम्। सोमलोकम् अवाप्नोति देहन्यासान् न संशयः। तत्र सोमप्रभैर् देवैर् अग्निष्व् आत्तैश् च भास्वरैः। तथा बर्हिषदैश् चैव देवैर् आङ्गिरसैर् अपि। विश्वेभिश् चैव देवैश् च तथा ब्रह्मर्षिभिः पुनः। देवर्षिभिश् चाप्रतिमैस् तथैवाप्सरसां गणैः। साध्यैः सिद्धैश् च सततं सत्कृतस् तत्र मोदते। जातरूपमयं दिव्यम् अर्कतुल्यं मनोजवम्। देवगन्धर्वसंकीर्णं विमानम् अधिरोहति। सौम्यरूपा मनःकान्तास् तप्तकाञ्चनभूषणाः। सोमकन्या विमानस्थं रमयन्ति मुदान्विताः। स तत्र रमते प्रीतः सह देवैः सहर्षिभिः। लोकान् सर्वान् अनुचरन् दीप्ततेजा मनोजवः। सभां कामजवीं चापि नित्यम् एवाभिगच्छति। सर्वलोकेश्वरम् ऋषिं नमस्कृत्य पितामहम्। परमेष्ठिर् अनन्तश्रीर् लोकानां प्रभवाप्ययः। यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। स तत्र वर्तते श्रीमान् द्विशतं द्विजसत्तमः। अथ कालक्षयात् तस्मात् स्थानाद् आवर्तते पुनः। जातिधर्मांस् तथा सर्वान् सर्गाद् आवर्तनानि च। अशाश्वतम् इदं सर्वम् इति चिन्त्योपलभ्य च। शाश्वतं दिव्यम् अचलम् अदीनम् अपुनर्भवम्। आस्थास्यत्य् अभयं नित्यं यत्रावृत्तिर् न विद्यते। यत्र गत्वा न म्रियते जन्म चापि न विद्यते। गर्भक्लेशा मया प्राप्ता जायता च पुनः पुनः। कायक्लेशाश् च विविधा द्वंद्वानि विविधानि च। शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च। तत्रतत्रोपभुक्तानि न क्व चिच् छाश्वती स्थितिः। एवं स निश्चयं कृत्वा निर्मुच्य ग्रहबन्धनात्। छित्त्वा भार्यामयं पाशं तथैवापत्यसंभवम्। यतिधर्मम् उपाश्रित्य गुरुशुश्रूषणे रतः। अचिरेणैव कालेन श्रेयः समधिगच्छति। योगशास्त्रं च सांख्यं च विदित्वा सो ऽर्थतत्त्वतः। अनुज्ञातश् च गुरुणा यथाशास्त्रम् अवस्थितः। पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः। शून्यागारनिकेतश् च वनवृक्षगुहाशयः। अरण्यानुचरो नित्यं देवारण्यनिकेतनः। एकरात्रं द्विरात्रं वा न क्व चित् सज्जते द्विजः। शीर्णपर्णपुटे चापि व्यह्ने चरति भिक्षुकः। न भोगार्थम् अनुप्रेत्य यात्रामात्रं समश्नुते। धर्मलब्धं समश्नाति न कामात् किं चिद् अश्नुते। युगमात्रदृग् अध्वानं क्रोशाद् ऊर्ध्वं न गच्छति। समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः। सर्वभूताभयकरस् तथैवाभयदक्षिणः। निर्द्वंद्वो निर्नमस्कारो निरानन्दपरिग्रहः। निर्ममो निरहंकारः सर्वभूतनिराश्रयः। परिसंख्यानतत्त्वज्ञस् तदा सत्यरतः सदा। ऊर्ध्वं नाधो न तिर्यक् च न किं चिद् अभिकामयेत्। एवं हि रममाणस् तु यतिधर्मं यथाविधि। कालस्य परिमाणात् तु यथा पक्वफलं तथा। स विसृज्य स्वकं देहं प्रविशेद् ब्रह्म शाश्वतम्। निरामयम् अनाद्यन्तं गुणसौम्यम् अचेतनम्। निरक्षरम् अबीजं च निरिन्द्रियम् अजं तथा। अजय्यम् अक्षयं यत् तद् अभेद्यं सूक्ष्मम् एव च। निर्गुणं च प्रकृतिमन् निर्विकारं च सर्वशः। भूतभव्यभविष्यस्य कालस्य परमेश्वरम्। पराशरः। अव्यक्तं पुरुषं क्षेत्रम् आनन्त्याय प्रपद्यते। एवं स भिक्षुर् निर्वाणं प्राप्नुयाद् दग्धकिल्बिषः। इहस्थो देहम् उत्सृज्य नीडं शकुनिवद् यथा। सत्पथालम्बनाद् एव शूद्रः प्राप्नोति सद्गतिम्। ब्रह्मणः स्थानम् अचलं स्थानात् स्थानम् अवाप्नुयात्। यथा खनन् खनित्रेण जाङ्गले वारि विन्दति। अनिर्वेदात् ततः स्थानम् ईप्सितं प्रतिपद्यते। सैषा गतिर् अनाद्यन्ता सर्वैर् अप्य् उपधारिता। तस्माच् छूद्रैर् अनिर्वेदाच् छ्रद्दधानैस् तु नित्यदा। वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः। यत् करोति तद् अश्नाति शुभं वा यदि वाशुभम्। नाकृतं भुज्यते कर्म न कृतं नश्यते फलम्। तथा शुभसमाचारः शुभम् एवाप्नुते फलम्। तथाशुभसमाचारो ह्य् अशुभं समवाप्नुते। तथा शुभसमाचारो ह्य् अशुभानि विवर्जयेत्। शुभान्य् एव समादद्याद् य इच्छेद् भूतिम् आत्मनः। भूतिश् च नान्यतः शक्या शूद्राणाम् इति निश्चयः। ऋते यतीनां शुश्रूषाम् इति सन्तो व्यवस्थिताः। तस्माद् आगमसंपन्नो भवेत् सुनियतेन्द्रियः। शक्यते ह्य् आगमाद् एव गतिं प्राप्तुम् अनामयाम्। परा चैषां गतिर् दृष्टा याम् अन्वेषन्ति साधवः। यत्रामृतत्वं लभते त्यक्त्वा दुःखम् अनन्तकम्। इमं हि धर्मम् आस्थाय ये ऽपि स्युः पापयोनयः। स्त्रियो वैश्याश् च शूद्राश् च प्राप्नुयुः परमां गतिम्। किं पुनर् ब्राह्मणो विद्वान् क्षत्रियो वा बहुश्रुतः। न चाप्य् अक्षीणपापस्य ज्ञानं भवति देहिनः। ज्ञानोपलब्धिर् भवति कृतकृत्यो यदा भवेत्। उपलभ्य तु विज्ञानं ज्ञानं वाप्य् अनसूयकः। तथैव वर्तेद् गुरुषु भूयांसं वा समाहितः। अथावमन्येत गुरुं तथा तेषु प्रवर्तते। व्यर्थम् अस्य श्रुतं भवति ज्ञानम् अज्ञानतां व्रजेत्। गतिं चाप्य् अशुभां गच्छेन् निरयाय न संशयः। प्रक्षीयते तस्य पुण्यं ज्ञानम् अस्य विरुध्यते। अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः। उत्सेकान् मोहम् आपद्य तत्त्वज्ञानम् अवाप्तवान्। एवम् एव हि नोत्सेकः कर्तव्यो ज्ञानसंभवः। फलं ज्ञानस्य हि शमः प्रशमाय यतेत् सदा। उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा। शुश्रूषा प्रतिपत्तव्या नित्यम् एवानसूयता। धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा। इन्द्रियार्थांश् च मनसा मनो बुद्धौ समादधेत्। धृत्यासीत ततो गत्वा शुद्धदेशं सुसंवृतम्। लब्ध्वासनं यथादृष्टं विधिपूर्वं समाचरेत्। ज्ञानयुक्तस् तथा देवं हृदिस्थम् उपलक्षयेत्। आदीप्यमानं वपुषा विधूमम् अनलं यथा। रश्मिमन्तम् इवादित्यं वैद्युताग्निम् इवाम्बरे। संस्थितं हृदये पश्येद् ईशं शाश्वतम् अव्ययम्। न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः। युक्तस् तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि। अथ त्व् एवं न शक्नोति कर्तुं हृदयधारणम्। यथासांख्यम् उपासीत यथावद् योगम् आस्थितः। पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाण्य् अपि। पञ्चभूतविशेषाश् च मनश् चैव तु षोडश। तन्मात्राण्य् अपि पञ्चैव मनो ऽहंकार एव च। अष्टमं चाप्य् अथाव्यक्तम् एताः प्रकृतिसंज्ञिताः। एताः प्रकृतयश् चाष्टौ विकाराश् चापि षोडश। एवम् एतद् इहस्थेन विज्ञेयं तत्त्वबुद्धिना। एवं वर्षं समुत्तीर्य तीर्णो भवति नान्यथा। परिसंख्यानम् एवैतन् मन्तव्यं ज्ञानबुद्धिना। अहन्य् अहनि शान्तात्मा पावनाय हिताय च। एवम् एव प्रसंख्याय तत्त्वबुद्धिर् विमुच्यते। निष्कलं केवलं भवति शुद्धतत्त्वार्थतत्त्ववित्। भिक्षुकाश्रमम् आस्थाय शुश्रूषानिरतो बुधः। शूद्रो निर्मुच्यते सत्त्वसंसर्गाद् एव नान्यथा। सत्संनिकर्षे परिवर्तितव्यं। विद्याधिकाश् चापि निषेवितव्याः। सवर्णतां गच्छति संनिकर्षान्। नीलः खगो मेरुम् इवाश्रयन् वै। भीष्मः। इत्य् एवम् आख्याय महामुनिस् तदा। चतुर्थवर्णेषु विधानम् अर्थवित्। शुश्रूषया वृत्तगतिं समाधिना। समाधियुक्तः प्रययौ स्वम् आश्रमम्। युधिष्ठिरः। केषां देवा महाभागाः संनमन्ते महात्मनाम्। भीष्मः। लोके ऽस्मिंस् तान् ऋषीन् सर्वाञ् श्रोतुम् इच्छामि सत्तम। इतिहासम् इमं विप्राः कीर्तयन्ति पुराविदः। अस्मिन्न् अर्थे महाप्राज्ञास् तं निबोध युधिष्ठिर। वृत्रं हत्वाप्य् उपावृत्तं त्रिदशानां पुरस्कृतम्। महेन्द्रम् अनुसंप्राप्तं स्तूयमानं महर्षिभिः। श्रिया परमया युक्तं रथस्थं हरिवाहनम्। मातलिः प्राञ्जलिर् भूत्वा देवम् इन्द्रम् उवाच ह। नमस्कृतानां सर्वेषां भगवंस् त्वं पुरस्कृतः। भीष्मः। येषां लोके नमस्कुर्यात् तान् ब्रवीतु भवान् मम। तस्य तद् वचनं श्रुत्वा देवराजः शचीपतिः। यन्तारं परिपृच्छन्तं तम् इन्द्रः प्रत्युवाच सः। धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः। नाधर्मे वर्तते नित्यं तान् नमस्यामि मातले। ये रूपगुणसंपन्नाः प्रमदाहृदयंगमाः। निवृत्ताः कामभोगेषु तान् नमस्यामि मातले। स्वेषु भोगेषु संतुष्टाः सुवाचो वचनक्षमाः। अमानकामाश् चार्घ्यार्हास् तान् नमस्यामि मातले। धनं विद्यास् तथैश्वर्यं येषां न चलयेन् मतिम्। चलितां ये निगृह्णन्ति तान् नित्यं पूजयाम्य् अहम्। इष्टैर् दारैर् उपेतानां शुचीनाम् अग्निहोत्रिणाम्। चतुष्पादकुटुम्बानां मातले प्रणमाम्य् अहम्। महतस् तपसा प्राप्तौ धनस्य विपुलस्य च। त्यागस् तस्य न वै कार्यो यो ऽऽत्मानं नावबुध्यते। येषाम् अर्थस् तथा कामो धर्ममूलविवर्धितः। धर्मार्थौ यस्य नियतौ तान् नमस्यामि मातले। धर्ममूलार्थकामानां ब्राह्मणानां गवाम् अपि। पतिव्रतानां नारीणां प्रणामं प्रकरोम्य् अहम्। ये भुक्त्वा मानुषान् भोगान् पूर्वे वयसि मातले। तपसा स्वर्गम् आयान्ति शश्वत् तान् पूजयाम्य् अहम्। असंभोगान् न चासक्तान् धर्मनित्याञ् जितेन्द्रियान्। संन्यस्तान् अचलप्रख्यान् मनसा पूजयामि तान्। ज्ञानप्रसन्नविद्यानां निरूढं धर्मम् इच्छताम्। परैः कीर्तितशौचानां मातले तान् नमाम्य् अहम्। मया भारतशार्दूल किं भूयः श्रोतुम् इच्छसि।
etat te bharataśreṣṭha mayā kārtsnyena kīrtitam. chatropānahadānasya phalaṃ bharatasattama. yudhiṣṭhiraḥ. śūdrāṇām iha śuśrūṣā nityam evānuvarṇitā. kaiḥ kāraṇaiḥ katividhā śuśrūṣā samudāhṛtā. ke ca śuśrūṣayā lokā vihitā bharatarṣabha. śūdrāṇāṃ bharataśreṣṭha brūhi me dharmalakṣaṇam. bhīṣmaḥ. atrāpy udāharantīmam itihāsaṃ purātanam. śūdrāṇām anukampārthaṃ yad uktaṃ brahmavādinā. vṛddhaḥ parāśaraḥ prāha dharmaṃ śubhram anāmayam. anugrahārthaṃ varṇānāṃ śaucācārasamanvitam. dharmopadeśam akhilaṃ yathāvad anupūrvaśaḥ. śiṣyān adhyāpayām āsa śāstram arthavad arthavit. kṣāntendriyeṇa mānena śucinācāpalena vai. adurbalena dhīreṇa nottarottaravādinā. alubdhenānṛśaṃsena ṛjunā brahmavādinā. cāritratatpareṇaiva sarvabhūtahitātmanā. arayaḥ ṣaḍ vijetavyā nityaṃ svaṃ deham āśritāḥ. kāmakrodhau ca lobhaś ca mānamohau madas tathā. vidhinā dhṛtim āsthāya śuśrūṣur anahaṃkṛtaḥ. varṇatrayasyānumato yathāśakti yathābalam. karmaṇā manasā vācā cakṣuṣā ca caturvidham. āsthāya niyamaṃ dhīmāñ śānto dānto jitendriyaḥ. rakṣoyakṣajanadveṣī śeṣānnakṛtabhojanaḥ. varṇatrayān madhu yathā bhramaro dharmam ācaret. yadi śūdras tapaḥ kuryād vedadṛṣṭena karmaṇā. iha cāsya parikleśaḥ pretya cāsyāśubhā gatiḥ. adharmyam ayaśasyaṃ ca tapaḥ śūdre pratiṣṭhitam. amārgeṇa tapas taptvā mleccheṣu phalam aśnute. anyathā vartamāno hi na śūdro dharmam arhati. amārgeṇa prayātānāṃ pratyakṣād upalabhyate. cāturvarṇyavyapetānāṃ jātimūrtiparigrahaḥ. tathā te hi śakāś cīnāḥ kāmbhojāḥ pāradās tathā. śabarāḥ paplavāś caiva tuṣārayavanās tathā. dārvāś ca daradāś caiva ujjihānās tathetarāḥ. veṇāś ca kaṅkaṇāś caiva siṃhalā madrakās tathā. kiṣkindhakāḥ pulindāś ca kahvāś cāndhrāḥ sanīragāḥ. gandhikā dramiḍāś caiva barbarāś cūcukās tathā. kirātāḥ pārvateyāś ca kolāś colāḥ sakhāṣakāḥ. ārukāś caiva dohāś ca yāś cānyā mlecchajātayaḥ. vikṛtā vikṛtācārā dṛśyante krūrabuddhayaḥ. amārgeṇāśritā dharmaṃ tato jātyantaraṃ gatāḥ. amārgopārjitasyaitat tapaso viditaṃ phalam. na naśyati kṛtaṃ karma śubhaṃ vā yadi vāśubham. atrāpy ete vasu prāpya vikarmatapasārjitam. pāṣaṇḍān arcayiṣyanti dharmakāmā vṛthāśramāḥ. evaṃ caturṇāṃ varṇānām āśramāṇāṃ ca pārthiva. viparītaṃ vartamānā mlecchā jāyanty abuddhayaḥ. adhyāyadhanino viprāḥ kṣatriyāṇāṃ balaṃ dhanam. vaṇik kṛṣiś ca vaiśyānāṃ śūdrāṇāṃ paricārikā. vyucchedāt tasya dharmasya nirayāyopapadyate. tato mlecchā bhavanty ete nirghṛṇā dharmavarjitāḥ. punaś ca nirayas teṣāṃ tiryagyoniś ca śāśvatī. ye tu satpatham āsthāya varṇāśramakṛtaṃ purā. sarvān vimārgān utsṛjya svadharmapatham āśritāḥ. sarvabhūtadayāvanto daivatadvijapūjakāḥ. śāstradṛṣṭena vidhinā śraddhayā jitamanyavaḥ. teṣāṃ vidhiṃ pravakṣyāmi yathāvad anupūrvaśaḥ. upādānavidhiṃ kṛtsnaṃ śuśrūṣādhigamaṃ tathā. śiṣṭopanayanaṃ caiva mantrāṇi vividhāni ca. tathā śiṣyaparīkṣāṃ ca śāstraprāmāṇyadarśanāt. pravakṣyāmi yathātattvaṃ yathāvad anupūrvaśaḥ. śaucakṛtyasya śaucārthān sarvān eva viśeṣataḥ. mahāśaucaprabhṛtayo dṛṣṭās tattvārthadarśibhiḥ. tatrāpi śūdro bhikṣūṇām idaṃ śeṣaṃ ca kalpayet. bhikṣubhiḥ sukṛtaprajñaiḥ kevalaṃ dharmam āśritaiḥ. samyagdarśanasaṃpannair gatādhvani hitārthibhiḥ. avakāśam imaṃ medhyaṃ nirmitaṃ kāmavīrudham. nirjanaṃ saṃvṛtaṃ buddhvā niyatātmā jitendriyaḥ. sajalaṃ bhājanaṃ sthāpya mṛttikāṃ ca parīkṣitām. parīkṣya bhūmiṃ mūtrārthī tata āsīta vāgyataḥ. udaṅmukho divā kuryād rātrau ced dakṣiṇāmukhaḥ. antarhitāyāṃ bhūmau tu antarhitaśirās tathā. asamāpte tathā śauce na vācaṃ kiṃ cid īrayet. kṛtakṛtyas tathācamya gacchan nodīrayed vacaḥ. śaucārtham upaviṣṭas tu mṛdbhājanapuraskṛtaḥ. sthāpyaṃ kamaṇḍaluṃ gṛhya pārśvorubhyām athāntare. śaucaṃ kuryāc chanair vīro buddhipūrvam asaṃkaram. pāṇinā śuddham udakaṃ saṃgṛhya vidhipūrvakam. vipruṣaś ca yathā na syur yathā corū na saṃspṛśet. apāne mṛttikās tisraḥ pradeyās tv anupūrvaśaḥ. hastābhyāṃ ca tathā vipro hastaṃ hastena saṃspṛśet. apāne nava deyāḥ syur iti vṛddhānuśāsanam. mṛttikā dīyamānā hi śodhayed deśam añjasā. tasmāt pāṇitale deyā mṛttikās tu punaḥ punaḥ. buddhipūrvaṃ prayatnena yathā naiva spṛśet sphijau. yathā ghāto hi na bhaved kledajaḥ paridhānake. tathā gudaṃ pramārjeta śaucārthaṃ tu punaḥ punaḥ. pratipādaṃ tatas tyaktvā śaucam utthāya kārayet. savye dvādaśa deyāḥ syus tisras tisraḥ punaḥ punaḥ. deyāḥ kūrparake haste pṛṣṭhabandhe punaḥ punaḥ. tathaivādarśake dadyāc catasras tūbhayor api. ubhayor hastayor ekaṃ sapta sapta pradāpayet. tato 'nyāṃ mṛttikāṃ gṛhya kāryaṃ śaucaṃ punas tayoḥ. hastayor evam etad dhi mahāśaucaṃ vidhīyate. tato 'nyathā na kurvīta vidhir eṣa sanātanaḥ. upasthe mūtraśaucasya ata ūrdhvaṃ vidhīyate. ato 'nyathā tu yaḥ kuryāt prāyaścittīyate tu saḥ. malopahatacelasya dviguṇaṃ tu vidhīyate. sahapādam athorubhyāṃ hastaśaucam asaṃśayam. avadhīrayamāṇasya saṃdeha upajāyate. yathā yathā viśudhyeta tat tathā tad upakrame. sakardamaṃ tu varṣāsu gṛham āviśya saṃkaṭam. hastayor mṛttikās tisraḥ pādayoḥ ṣaṭ pradāpayet. kāmaṃ dattvā gude dadyāt tisraḥ padbhyāṃ tathaiva ca. hastaśaucaṃ prakartavyaṃ mūtraśaucavidhes tathā. mūtraśauce tathā hastau pādābhyāṃ cānupūrvaśaḥ. naiṣṭhike sthānaśauce tu mahāśaucaṃ vidhīyate. kṣārauṣarābhyāṃ vastrasya kuryāc chaucaṃ mṛdā saha. lepagandhāpanayanam amedhyasya vidhīyate. snānaśāṭyāṃ mṛdas tisro hastābhyāṃ cānupūrvaśaḥ. śaucaṃ prayatnataḥ kṛtvā kampayānaḥ samuddharet. deyāś catasras tisro vā dvir vāpy ekā tathāpadi. kālam āsādya deśaṃ ca śaucasya gurulāghavam. vidhinānena śaucaṃ tu nityaṃ kuryād atandritaḥ. aviprekṣann asaṃbhrāntaḥ pādau prakṣālya tatparaḥ. aprakṣālitapādas tu pāṇim ā maṇibandhanāt. adhastād upariṣṭāc ca tataḥ pāṇim upaspṛśet. manogatās tu niḥśabdā niḥśabdaṃ trir apaḥ pibet. dvir mukhaṃ parimṛjyāc ca khāni copaspṛśed budhaḥ. ṛgvedaṃ tena prīṇāti prathamaṃ yaḥ pibed apaḥ. dvitīyaṃ tu yajurvedaṃ tṛtīyaṃ sāma eva ca. mṛjyate prathamaṃ tena atharvā prītim āpnuyāt. dvitīyenetihāsaṃ ca purāṇasmṛtidevatāḥ. yac cakṣuṣi samādhatte tenādityaṃ tu prīṇayet. prīṇāti vāyuṃ ghrāṇaṃ ca diśaś cāpy atha śrotrayoḥ. brahmāṇaṃ tena prīṇāti yan mūrdhani samāpayet. samutkṣipati cāpordhvam ākāśaṃ tena prīṇayet. prīṇāti viṣṇuṃ padbhyāṃ tu salilaṃ vai samādadhat. prāṅmukhodaṅmukho vāpi antarjānur upaspṛśet. sarvatra vidhir ity eṣa bhojanādiṣu nityaśaḥ. anneṣu dantalagneṣu ucchiṣṭaḥ punar ācamet. vidhir eṣa samuddiṣṭaḥ śauce cābhyukṣaṇaṃ smṛtam. śūdrasyaiṣa vidhir dṛṣṭo gṛhān niṣkramataḥ sataḥ. nityaṃ tv aluptaśaucena vartitavyaṃ kṛtātmanā. yaśaskāmena bhikṣubhyaḥ śūdreṇātmahitārthinā. parāśaraḥ. kṣatrā ārambhayajñās tu vīryayajñā viśaḥ smṛtāḥ. śūdrāḥ paricarāyajñā japayajñās tu brāhmaṇāḥ. śuśrūṣājīvinaḥ śūdrā vaiśyā vipaṇijīvinaḥ. aniṣṭanigrahāḥ kṣatrā viprāḥ svādhyāyajīvinaḥ. tapasā śobhate vipro rājanyaḥ pālanādibhiḥ. ātithyena tathā vaiśyaḥ śūdro dāsyena śobhate. yatātmanā tu śūdreṇa śuśrūṣā nityam eva ca. kartavyā triṣu varṇeṣu prāyeṇāśramavāsiṣu. aśaktena trivargasya sevyā hy āśramavāsinaḥ. yathāśakyaṃ yathāprajñaṃ yathādharmaṃ yathāśrutam. viśeṣeṇaiva kartavyā śuśrūṣā bhikṣukāśrame. āśramāṇāṃ tu sarveṣāṃ caturṇāṃ bhikṣukāśramam. pradhānam iti varṇyante śiṣṭāḥ śāstraviniścaye. yac copadiśyate śiṣṭaiḥ śrutismṛtividhānataḥ. tathā stheyam aśaktena sa dharma iti niścitaḥ. ato 'nyathā tu kurvāṇaḥ śreyo nāpnoti mānavaḥ. tasmād bhikṣuṣu śūdreṇa kāryam ātmahitaṃ sadā. iha yat kurute śreyas tat pretya samupāśnute. tac cānasūyatā kāryaṃ kartavyaṃ yad dhi manyate. asūyatā kṛtasyeha phalaṃ duḥkhād avāpyate. priyavādī jitakrodho vītatandrir amatsaraḥ. kṣamāvāñ śīlasaṃpannaḥ satyadharmaparāyaṇaḥ. āpadbhāvena kuryād dhi śuśrūṣāṃ bhikṣukāśrame. ayaṃ me paramo dharmas tv anenemaṃ suduṣkaram. saṃsārasāgaraṃ ghoraṃ tariṣyāmi na saṃśayaḥ. vibhayo deham utsṛjya yāsyāmi paramāṃ gatim. nātaḥ paraṃ mamāpy anya eṣa dharmaḥ sanātanaḥ. evaṃ saṃcintya manasā śūdro buddhisamādhinā. kuryād avimanā nityaṃ śuśrūṣādharmam uttamam. śuśrūṣāniyameneha bhāvyaṃ śiṣṭāśinā sadā. śamānvitena dāntena kāryākāryavidā sadā. sarvakāryeṣu kṛtyāni kṛtāny eva tu darśayet. yathā priyo bhaved bhikṣus tathā kāryaṃ prasādhayet. yad akalpaṃ bhaved bhikṣor na tat kāryaṃ samācaret. yadāśramasyāviruddhaṃ dharmamātrābhisaṃhitam. tat kāryam avicāreṇa nityam eva śubhārthinā. manasā karmaṇā vācā nityam eva prasādayet. sthātavyaṃ tiṣṭhamāneṣu gacchamānān anuvrajet. āsīneṣv āsitavyaṃ ca nityam evānuvartatā. dharmalabdhena snehena pādau saṃpīḍayet sadā. udvartanādīṃś ca tathā kuryād apraticoditaḥ. naiśakāryāṇi kṛtvā tu nityaṃ caivānucoditaḥ. yathāvidhir upaspṛśya saṃnyasya jalabhājanam. bhikṣūṇāṃ nilayaṃ gatvā praṇamya vidhipūrvakam. brahmapūrvān gurūṃs tatra praṇamya niyatendriyaḥ. tathācāryapurogāṇām anukuryān namaskriyām. svadharmacāriṇāṃ cāpi sukhaṃ pṛṣṭvābhivādya ca. yo bhavet pūrvasaṃsiddhas tulyadharmā bhavet sadā. tasmai praṇāmaḥ kartavyo netareṣu kadā cana. anuktvā teṣu cotthāya nityam eva yatavrataḥ. saṃmārjanam atho kṛtvā kṛtvā cāpy upalepanam. tataḥ puṣpabaliṃ dadyāt puṣpāṇy ādāya dharmataḥ. niṣkramyāvasathāt tūrṇam anyat karma samācaret. yathopaghāto na bhavet svādhyāye ''śramiṇāṃ tathā. upaghātaṃ tu kurvāṇa enasā saṃprayujyate. tathātmā praṇidhātavyo yathā te prītim āpnuyuḥ. paricārako 'haṃ varṇānāṃ trayāṇāṃ dharmataḥ smṛtaḥ. kim utāśramavṛddhānāṃ yathālabdhopajīvinām. bhikṣūṇāṃ gatarāgāṇāṃ kevalaṃ jñānadarśinām. viśeṣeṇa mayā kāryā śuśrūṣā niyatātmanā. teṣāṃ prasādāt tapasā prāpsyāmīṣṭāṃ śubhāṃ gatim. evam etad viniścitya yadi seveta bhikṣukān. vidhinā svopadiṣṭena prāpnoti paramāṃ gatim. parāśaraḥ. na tathā saṃpradānena nopavāsādibhis tathā. iṣṭāṃ gatim avāpnoti yathā śuśrūṣakarmaṇā. yādṛśena tu toyena śuddhiṃ prakurute naraḥ. tādṛg bhavati tad dhautam udakasya svabhāvataḥ. śūdro 'py etena mārgeṇa yādṛśaṃ sevate janam. tādṛg bhavati saṃsargād acireṇa na saṃśayaḥ. tasmāt prayatnataḥ sevyā bhikṣavo niyatātmanā. udakagrahaṇādyena snapanodvartanais tathā. adhvanā karśitānāṃ ca vyādhitānāṃ tathaiva ca. śuśrūṣāṃ niyataṃ kuryāt teṣām āpadi yatnataḥ. darbhājināny avekṣeta bhaikṣabhājanam eva ca. yathākāmaṃ ca kāryāṇi sarvāṇy evopasādhayet. prāyaścittaṃ yathā na syāt tathā sarvaṃ samācaret. vyādhitānāṃ tu prayataś cailaprakṣālanādibhiḥ. pratikarmakriyā kāryā bheṣajānayanais tathā. piṃṣaṇālepanaṃ cūrṇaṃ kaṣāyam atha sādhanam. nānyasya praticāreṣu sukhārtham upapādayet. bhikṣāṭano 'bhigaccheta bhiṣajaś ca vipaścitaḥ. tato viniṣkrayārthāni dravyāṇi samupārjayet. yaś ca prītamanā dadyād ādadyād bheṣajaṃ naraḥ. aśraddhayā hi dattāni tāny abhojyāni bhikṣubhiḥ. śraddhayā yad upādattaṃ śraddhayā copapāditam. tasyopabhogād dharmaḥ syād vyādhibhiś ca nivartyate. ā dehapatanād evaṃ śuśrūṣārtham atandritaiḥ. na tv eva dharmam utsṛjya kuryāt teṣāṃ pratikriyām. svabhāvato hi dvaṃdvāni viprayānty upayānti ca. svabhāvataḥ sarvabhāvā bhavanti na bhavanti ca. sāgarasyormisadṛśā vijñātavyā guṇātmakāḥ. vidyād evaṃ hi yo dhīmāṃs tattvavit tattvadarśanaḥ. parāśaraḥ. na sa lipyeta pāpena padmapatram ivāmbhasā. evaṃ prayatitavyaṃ hi śuśrūṣārtham atandritaiḥ. sarvābhir upasevābhis tuṣyanti yatayo yathā. nāparādhyeta bhikṣos tu na cainam avadhīrayet. uttaraṃ ca na saṃdadyāt kruddhaṃ caiva prasādayet. śreya evābhidhātavyaṃ kartavyaṃ ca prahṛṣṭavat. tūṣṇīṃbhāvena vai tatra na kruddham abhisaṃvadet. nādadīta parasvāni na gṛhṇīyād ayācitam. labdhālabdhena jīveta tathaiva paritoṣayet. kopinaṃ tu na yāceta jñānavidveṣakāritaḥ. sthāvareṣu dayāṃ kuryāj jaṃgameṣu ca prāṇiṣu. yathātmani tathānyeṣu samāṃ dṛṣṭiṃ nipātayet. sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani. saṃpaśyamāno vicaran brahmabhūyāya kalpate. hiṃsāṃ vā yadi vāhiṃsāṃ na kuryād ātmakāraṇāt. yatretaro bhaven nityaṃ doṣaṃ tatra na kārayet. evaṃ sa mucyate doṣāt parān āśritya vartayan. ātmāśrayeṇa doṣeṇa lipyate hy alpabuddhimān. jarāyujāṇḍajāś caiva udbhijjāḥ svedajāś ca ye. avadhyāḥ sarva evaite budhaiḥ samanuvarṇitāḥ. niścayārthaṃ vibuddhānāṃ prāyaścittaṃ vidhīyate. hiṃsā yathānyā vihitā tathā doṣaṃ prayojayet. yathopadiṣṭaṃ guruṇā śiṣyasya carato vidhim. na hi lobhaḥ prabhavati hiṃsā vāpi tadātmikā. śāstradarśanam etad dhi vihitaṃ viśvayoninā. yady etad evaṃ manyeta śūdro hy api ca buddhimān. kṛtaṃ kṛtavatāṃ gacchet kiṃ punar yo niṣevate. na śūdraḥ patate kaś cin na ca saṃskāram arhati. nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam. anugrahārthaṃ manunā sarvavarṇeṣu varṇitam. yadāpavādas tu bhavet strīkṛtaḥ paricārake. abhrāvakāśaśayanaṃ tasya saṃvatsaraṃ smṛtam. tena tasya bhavec chāntis tato bhūyo 'py upāvrajet. savarṇāyā bhaved etad dhīnāyās tv ardham arhati. varṣatrayaṃ tu vaiśyāyāḥ kṣatriyāyās tu ṣaṭ samāḥ. brāhmaṇyā tu sametasya samā dvādaśa kīrtitāḥ. kaṭāgninā vā dagdhavyas tasminn eva kṣaṇe bhavet. śiśnāvapātanād vāpi viśuddhiṃ samavāpnuyāt. anasthibandham ekaṃ tu yadi prāṇair viyojayet. upoṣyaikāham ādadyāt prāṇāyāmāṃs tu dvādaśa. triḥ snānam udake kṛtvā tasmāt pāpāt pramucyate. asthibandheṣu dviguṇaṃ prāyaścittaṃ vidhīyate. anena vidhinā vāpi sthāvareṣu na saṃśayaḥ. kāyena padbhyāṃ hastābhyām aparādhāt tu mucyate. aduṣṭaṃ kṣapayed yas tu sarvavarṇeṣu vācayet. tasyāpy aṣṭaguṇaṃ vidyāt prāyaścittaṃ tad eva tu. caturguṇaṃ karmakṛte dviguṇaṃ vākpradūṣite. kṛtvā tu mānasaṃ pāpaṃ tathaivaikaguṇaṃ smṛtam. tasmād etāni sarvāṇi viditvā na samācaret. sarvabhūtahitārthaṃ hi kuśalāni samācaret. evaṃ samāhitamanāḥ sevate yadi sattamān. tadgatis tatsamācāras tanmanās tatparāyaṇaḥ. nābhinandeta maraṇaṃ nābhinandeta jīvitam. kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā. evaṃ pravartamānas tu vinītaḥ prayatātmavān. parāśaraḥ. nirṇayaṃ puṇyapāpābhyām acireṇopagacchati. śuśrūṣānirato nityam ariṣṭāny upalakṣayet. traivārṣikaṃ dvivārṣikaṃ vā vārṣikaṃ vā samutthitam. ṣāṇmāsikaṃ māsikaṃ vā saptarātrikam eva vā. sarvāṃs tadarthān vā vidyāt teṣāṃ cihnāni lakṣayet. puruṣaṃ hiraṇmayaṃ yas tu tiṣṭhantaṃ dakṣiṇāmukham. lakṣayed uttareṇaiva mṛtyus traivārṣiko bhavet. śuddhamaṇḍalam ādityam araśmiṃ saṃprapaśyataḥ. saṃvatsaradvayenaiva tasya mṛtyuṃ samādiśet. jyotsnāyām ātmanaś chāyāṃ sacchidrāṃ yaḥ prapaśyati. mṛtyuṃ saṃvatsareṇaiva jānīyāt sa vicakṣaṇaḥ. viśiraskāṃ yadā chāyāṃ paśyet puruṣa ātmanaḥ. jānīyād ātmano mṛtyuṃ ṣaṇmāseneha buddhimān. karṇau pidhāya hastābhyāṃ śabdaṃ na śṛṇute yadi. jānīyād ātmano mṛtyuṃ māsenaiva vicakṣaṇaḥ. śavagandham upāghrāti anyad vā surabhiṃ naraḥ. devatāyatanastho vai saptarātreṇa mṛtyubhāk. karṇanāsāpanayanaṃ dantadṛṣṭivirāgatā. luptasaṃjñaṃ hi karaṇaṃ sadyo mṛtyuṃ samādiśet. evam eṣām ariṣṭānāṃ paśyed anyatamaṃ yadi. na taṃ kālaṃ parīkṣeta yathāriṣṭaṃ prakalpitam. abhyāśena tu kālasya gaccheta pulinaṃ śuci. tatra prāṇān pramuñceta tam īśānam anusmaran. tato 'nyaṃ deham āsādya gāndharvaṃ sthānam āpnuyāt. tatrastho vasate viṃśatpadmāni sa mahādyutiḥ. gandharvaiś citrasenādyaiḥ sahitaḥ satkṛtas tathā. nīlavaiḍūryavarṇena vimānenāvabhāsayan. nabhaḥsthalam adīnātmā sārdham apsarasāṃ gaṇaiḥ. chandakāmānusārī ca tatra tatra mahīyate. modate 'maratulyātmā sadāmaragaṇaiḥ saha. patitaś ca kṣaye kāle kṣaṇena vimaladyutiḥ. vaiśyasya bahuvittasya kule 'grye bahugodhane. avāpya tatra vai janma sa pūto devakarmaṇā. chandasā jāgatenaiva prāptopanayanaṃ tataḥ. kṣaumavastropakaraṇaṃ dvijatvaṃ samavāpya tu. adhīyamāno vedārthān guruśuśrūṣaṇe rataḥ. brahmacārī jitakrodhas tapasvī jāyate tataḥ. adhītya dakṣiṇāṃ dattvā gurave vidhipūrvakam. kṛtadāraḥ samupaiti gṛhasthavratam uttamam. dadāti yajate caiva yajñair vipuladakṣiṇaiḥ. agnihotram upāsan vai juhvac caiva yathāvidhi. dharmaṃ saṃcinute nityaṃ mṛdugāmī jitendriyaḥ. sa kālapariṇāmāt tu mṛtyunā saṃprayujyate. saṃskṛtaś cāgnihotreṇa kṛtapātropadhānavān. saṃskṛto deham utsṛjya marudbhir upapadyate. marudbhiḥ sahitaś cāpi tulyatejā mahādyutiḥ. bālārkasamavarṇena vimānena virājatā. sukhaṃ carati tatrastho gandharvāpsarasāṃ gaṇaiḥ. virajombarasaṃvītas taptakāñcanabhūṣaṇaḥ. chandakāmānusārī ca dviguṇaṃ kālam āvaset. saṃnivarteta kālena sthānāt tasmāt paricyutaḥ. avitṛptavihārārtho divyabhogān vihāya tu. sa jāyate nṛpakule gajāśvarathasaṃkule. pārthivīṃ śriyam āpannaḥ śrīmān dharmapatir yathā. janmaprabhṛti saṃskāraṃ caulopanayanāni ca. prāpya rājakule tatra yathāvad vidhipūrvakam. chandasā traiṣṭubheneha dvijatvam upanīyate. adhītya vedam akhilaṃ dhanurvedaṃ ca mukhyaśaḥ. samāvṛttas tataḥ pitrā yauvarājye 'bhiṣicyate. kṛtadārakriyaḥ śrīmān rājyaṃ saṃprāpya dharmataḥ. prajāḥ pālayate samyak ṣaḍbhāgakṛtasaṃvidhiḥ. yajñair bahubhir ījānaḥ samyag āptārthadakṣiṇaiḥ. praśāsati mahīṃ śrīmān rājyam indrasamadyutiḥ. svadharmanirato nityaṃ putrapautrasahāyavān. kālasya vaśam āpannaḥ prāṇāṃs tyajati saṃyuge. devarājasya bhavanam indralokam avāpnute. saṃpūjyamānas tridaśair vicacāra yathāsukham. rājarṣibhiḥ puṇyakṛdbhir yathā devapatis tathā. taiḥ stūyate bandibhis tu nānāvādyaiḥ prabodhyate. divyajāmbūnadamayaṃ bhrājamānaṃ samantataḥ. varāpsarobhiḥ saṃpūrṇaṃ devagandharvasevitam. yānam āruhya vicared yathā śakraḥ śacīpatiḥ. sa tatra vasate ṣaṣṭiṃ padmānīha mudānvitaḥ. sarvāṃl lokān anucaran maharddhir avabhāsayan. atha puṇyakṣayāt tasmāt sthāpyate bhuvi bhārata. parāśaraḥ. jāyate ca dvijakule vedavedāṅgapārage. tataḥ śrutisamāpannaḥ saṃskṛtaś ca yathāvidhi. caulopanayanaṃ tasya yathāvat kriyate dvijaiḥ. tato 'ṣṭame sa varṣe tu vratopanayanādibhiḥ. kriyābhir vidhidṛṣṭābhir brahmatvam upanīyate. gāyatreṇa cchandasā tu saṃskṛtaś caritavrataḥ. adhīyamāno medhāvī śuddhātmā niyatavrataḥ. acireṇaiva kālena sāṅgān vedān avāpnute. samāvṛttaḥ sa dharmātmā samāvṛttakriyas tathā. yājanādhyāpanarataḥ kuśale karmaṇi sthitaḥ. agnihotraparo nityaṃ devatātithipūjakaḥ. yajate vividhair yajñair japayajñais tathaiva ca. nyāyāgatadhanānveṣī nyāyavṛttas tapodhanaḥ. sarvabhūtahitaś caiva sarvaśāstraviśāradaḥ. svadāraparituṣṭātmā ṛtugāmī jitendriyaḥ. parāpavādavirataḥ satyavrataparaḥ sadā. sa kālapariṇāmāt tu saṃyuktaḥ kāladharmaṇā. saṃskṛtaś cāgnihotreṇa yathāvad vidhipūrvakam. somalokam avāpnoti dehanyāsān na saṃśayaḥ. tatra somaprabhair devair agniṣv āttaiś ca bhāsvaraiḥ. tathā barhiṣadaiś caiva devair āṅgirasair api. viśvebhiś caiva devaiś ca tathā brahmarṣibhiḥ punaḥ. devarṣibhiś cāpratimais tathaivāpsarasāṃ gaṇaiḥ. sādhyaiḥ siddhaiś ca satataṃ satkṛtas tatra modate. jātarūpamayaṃ divyam arkatulyaṃ manojavam. devagandharvasaṃkīrṇaṃ vimānam adhirohati. saumyarūpā manaḥkāntās taptakāñcanabhūṣaṇāḥ. somakanyā vimānasthaṃ ramayanti mudānvitāḥ. sa tatra ramate prītaḥ saha devaiḥ saharṣibhiḥ. lokān sarvān anucaran dīptatejā manojavaḥ. sabhāṃ kāmajavīṃ cāpi nityam evābhigacchati. sarvalokeśvaram ṛṣiṃ namaskṛtya pitāmaham. parameṣṭhir anantaśrīr lokānāṃ prabhavāpyayaḥ. yataḥ sarvāḥ pravartante sargapralayavikriyāḥ. sa tatra vartate śrīmān dviśataṃ dvijasattamaḥ. atha kālakṣayāt tasmāt sthānād āvartate punaḥ. jātidharmāṃs tathā sarvān sargād āvartanāni ca. aśāśvatam idaṃ sarvam iti cintyopalabhya ca. śāśvataṃ divyam acalam adīnam apunarbhavam. āsthāsyaty abhayaṃ nityaṃ yatrāvṛttir na vidyate. yatra gatvā na mriyate janma cāpi na vidyate. garbhakleśā mayā prāptā jāyatā ca punaḥ punaḥ. kāyakleśāś ca vividhā dvaṃdvāni vividhāni ca. śītoṣṇasukhaduḥkhāni īrṣyādveṣakṛtāni ca. tatratatropabhuktāni na kva cic chāśvatī sthitiḥ. evaṃ sa niścayaṃ kṛtvā nirmucya grahabandhanāt. chittvā bhāryāmayaṃ pāśaṃ tathaivāpatyasaṃbhavam. yatidharmam upāśritya guruśuśrūṣaṇe rataḥ. acireṇaiva kālena śreyaḥ samadhigacchati. yogaśāstraṃ ca sāṃkhyaṃ ca viditvā so 'rthatattvataḥ. anujñātaś ca guruṇā yathāśāstram avasthitaḥ. puṇyatīrthānusevī ca nadīnāṃ pulināśrayaḥ. śūnyāgāraniketaś ca vanavṛkṣaguhāśayaḥ. araṇyānucaro nityaṃ devāraṇyaniketanaḥ. ekarātraṃ dvirātraṃ vā na kva cit sajjate dvijaḥ. śīrṇaparṇapuṭe cāpi vyahne carati bhikṣukaḥ. na bhogārtham anupretya yātrāmātraṃ samaśnute. dharmalabdhaṃ samaśnāti na kāmāt kiṃ cid aśnute. yugamātradṛg adhvānaṃ krośād ūrdhvaṃ na gacchati. samo mānāvamānābhyāṃ samaloṣṭāśmakāñcanaḥ. sarvabhūtābhayakaras tathaivābhayadakṣiṇaḥ. nirdvaṃdvo nirnamaskāro nirānandaparigrahaḥ. nirmamo nirahaṃkāraḥ sarvabhūtanirāśrayaḥ. parisaṃkhyānatattvajñas tadā satyarataḥ sadā. ūrdhvaṃ nādho na tiryak ca na kiṃ cid abhikāmayet. evaṃ hi ramamāṇas tu yatidharmaṃ yathāvidhi. kālasya parimāṇāt tu yathā pakvaphalaṃ tathā. sa visṛjya svakaṃ dehaṃ praviśed brahma śāśvatam. nirāmayam anādyantaṃ guṇasaumyam acetanam. nirakṣaram abījaṃ ca nirindriyam ajaṃ tathā. ajayyam akṣayaṃ yat tad abhedyaṃ sūkṣmam eva ca. nirguṇaṃ ca prakṛtiman nirvikāraṃ ca sarvaśaḥ. bhūtabhavyabhaviṣyasya kālasya parameśvaram. parāśaraḥ. avyaktaṃ puruṣaṃ kṣetram ānantyāya prapadyate. evaṃ sa bhikṣur nirvāṇaṃ prāpnuyād dagdhakilbiṣaḥ. ihastho deham utsṛjya nīḍaṃ śakunivad yathā. satpathālambanād eva śūdraḥ prāpnoti sadgatim. brahmaṇaḥ sthānam acalaṃ sthānāt sthānam avāpnuyāt. yathā khanan khanitreṇa jāṅgale vāri vindati. anirvedāt tataḥ sthānam īpsitaṃ pratipadyate. saiṣā gatir anādyantā sarvair apy upadhāritā. tasmāc chūdrair anirvedāc chraddadhānais tu nityadā. vartitavyaṃ yathāśaktyā yathā proktaṃ manīṣibhiḥ. yat karoti tad aśnāti śubhaṃ vā yadi vāśubham. nākṛtaṃ bhujyate karma na kṛtaṃ naśyate phalam. tathā śubhasamācāraḥ śubham evāpnute phalam. tathāśubhasamācāro hy aśubhaṃ samavāpnute. tathā śubhasamācāro hy aśubhāni vivarjayet. śubhāny eva samādadyād ya icched bhūtim ātmanaḥ. bhūtiś ca nānyataḥ śakyā śūdrāṇām iti niścayaḥ. ṛte yatīnāṃ śuśrūṣām iti santo vyavasthitāḥ. tasmād āgamasaṃpanno bhavet suniyatendriyaḥ. śakyate hy āgamād eva gatiṃ prāptum anāmayām. parā caiṣāṃ gatir dṛṣṭā yām anveṣanti sādhavaḥ. yatrāmṛtatvaṃ labhate tyaktvā duḥkham anantakam. imaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ. striyo vaiśyāś ca śūdrāś ca prāpnuyuḥ paramāṃ gatim. kiṃ punar brāhmaṇo vidvān kṣatriyo vā bahuśrutaḥ. na cāpy akṣīṇapāpasya jñānaṃ bhavati dehinaḥ. jñānopalabdhir bhavati kṛtakṛtyo yadā bhavet. upalabhya tu vijñānaṃ jñānaṃ vāpy anasūyakaḥ. tathaiva varted guruṣu bhūyāṃsaṃ vā samāhitaḥ. athāvamanyeta guruṃ tathā teṣu pravartate. vyartham asya śrutaṃ bhavati jñānam ajñānatāṃ vrajet. gatiṃ cāpy aśubhāṃ gacchen nirayāya na saṃśayaḥ. prakṣīyate tasya puṇyaṃ jñānam asya virudhyate. adṛṣṭapūrvakalyāṇo yathā dṛṣṭvā vidhiṃ naraḥ. utsekān moham āpadya tattvajñānam avāptavān. evam eva hi notsekaḥ kartavyo jñānasaṃbhavaḥ. phalaṃ jñānasya hi śamaḥ praśamāya yatet sadā. upaśāntena dāntena kṣamāyuktena sarvadā. śuśrūṣā pratipattavyā nityam evānasūyatā. dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā. indriyārthāṃś ca manasā mano buddhau samādadhet. dhṛtyāsīta tato gatvā śuddhadeśaṃ susaṃvṛtam. labdhvāsanaṃ yathādṛṣṭaṃ vidhipūrvaṃ samācaret. jñānayuktas tathā devaṃ hṛdistham upalakṣayet. ādīpyamānaṃ vapuṣā vidhūmam analaṃ yathā. raśmimantam ivādityaṃ vaidyutāgnim ivāmbare. saṃsthitaṃ hṛdaye paśyed īśaṃ śāśvatam avyayam. na cāyuktena śakyeta draṣṭuṃ dehe maheśvaraḥ. yuktas tu paśyate buddhyā saṃniveśya mano hṛdi. atha tv evaṃ na śaknoti kartuṃ hṛdayadhāraṇam. yathāsāṃkhyam upāsīta yathāvad yogam āsthitaḥ. pañca buddhīndriyāṇīha pañca karmendriyāṇy api. pañcabhūtaviśeṣāś ca manaś caiva tu ṣoḍaśa. tanmātrāṇy api pañcaiva mano 'haṃkāra eva ca. aṣṭamaṃ cāpy athāvyaktam etāḥ prakṛtisaṃjñitāḥ. etāḥ prakṛtayaś cāṣṭau vikārāś cāpi ṣoḍaśa. evam etad ihasthena vijñeyaṃ tattvabuddhinā. evaṃ varṣaṃ samuttīrya tīrṇo bhavati nānyathā. parisaṃkhyānam evaitan mantavyaṃ jñānabuddhinā. ahany ahani śāntātmā pāvanāya hitāya ca. evam eva prasaṃkhyāya tattvabuddhir vimucyate. niṣkalaṃ kevalaṃ bhavati śuddhatattvārthatattvavit. bhikṣukāśramam āsthāya śuśrūṣānirato budhaḥ. śūdro nirmucyate sattvasaṃsargād eva nānyathā. satsaṃnikarṣe parivartitavyaṃ. vidyādhikāś cāpi niṣevitavyāḥ. savarṇatāṃ gacchati saṃnikarṣān. nīlaḥ khago merum ivāśrayan vai. bhīṣmaḥ. ity evam ākhyāya mahāmunis tadā. caturthavarṇeṣu vidhānam arthavit. śuśrūṣayā vṛttagatiṃ samādhinā. samādhiyuktaḥ prayayau svam āśramam. yudhiṣṭhiraḥ. keṣāṃ devā mahābhāgāḥ saṃnamante mahātmanām. bhīṣmaḥ. loke 'smiṃs tān ṛṣīn sarvāñ śrotum icchāmi sattama. itihāsam imaṃ viprāḥ kīrtayanti purāvidaḥ. asminn arthe mahāprājñās taṃ nibodha yudhiṣṭhira. vṛtraṃ hatvāpy upāvṛttaṃ tridaśānāṃ puraskṛtam. mahendram anusaṃprāptaṃ stūyamānaṃ maharṣibhiḥ. śriyā paramayā yuktaṃ rathasthaṃ harivāhanam. mātaliḥ prāñjalir bhūtvā devam indram uvāca ha. namaskṛtānāṃ sarveṣāṃ bhagavaṃs tvaṃ puraskṛtaḥ. bhīṣmaḥ. yeṣāṃ loke namaskuryāt tān bravītu bhavān mama. tasya tad vacanaṃ śrutvā devarājaḥ śacīpatiḥ. yantāraṃ paripṛcchantaṃ tam indraḥ pratyuvāca saḥ. dharmaṃ cārthaṃ ca kāmaṃ ca yeṣāṃ cintayatāṃ matiḥ. nādharme vartate nityaṃ tān namasyāmi mātale. ye rūpaguṇasaṃpannāḥ pramadāhṛdayaṃgamāḥ. nivṛttāḥ kāmabhogeṣu tān namasyāmi mātale. sveṣu bhogeṣu saṃtuṣṭāḥ suvāco vacanakṣamāḥ. amānakāmāś cārghyārhās tān namasyāmi mātale. dhanaṃ vidyās tathaiśvaryaṃ yeṣāṃ na calayen matim. calitāṃ ye nigṛhṇanti tān nityaṃ pūjayāmy aham. iṣṭair dārair upetānāṃ śucīnām agnihotriṇām. catuṣpādakuṭumbānāṃ mātale praṇamāmy aham. mahatas tapasā prāptau dhanasya vipulasya ca. tyāgas tasya na vai kāryo yo ''tmānaṃ nāvabudhyate. yeṣām arthas tathā kāmo dharmamūlavivardhitaḥ. dharmārthau yasya niyatau tān namasyāmi mātale. dharmamūlārthakāmānāṃ brāhmaṇānāṃ gavām api. pativratānāṃ nārīṇāṃ praṇāmaṃ prakaromy aham. ye bhuktvā mānuṣān bhogān pūrve vayasi mātale. tapasā svargam āyānti śaśvat tān pūjayāmy aham. asaṃbhogān na cāsaktān dharmanityāñ jitendriyān. saṃnyastān acalaprakhyān manasā pūjayāmi tān. jñānaprasannavidyānāṃ nirūḍhaṃ dharmam icchatām. paraiḥ kīrtitaśaucānāṃ mātale tān namāmy aham. mayā bhārataśārdūla kiṃ bhūyaḥ śrotum icchasi.