श्रीर् उवाच। लोककान्तास्मि भद्रं वः श्रीर् नाम्नेह परिश्रुता। मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः। मयाभिपन्ना देवाश् च मोदन्ते शाश्वतीः समाः।
śrīr uvāca. lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā. mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ. mayābhipannā devāś ca modante śāśvatīḥ samāḥ.