पितेव पुत्रान् रक्षेथा ब्राह्मणान् ब्रह्मतेजसः। गृहे चैषाम् अवेक्षेथाः कच्चिद् अस्तीह जीवनम्। भीष्मः। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। ऋग्वेदः। चतुर्णाम् अपि वेदानां संवादं पुत्र तच् छृणु। गृहान् आश्रयमाणस्य अग्निहोत्रं च जुह्वतः। सर्वं सुकृतम् आदत्ते यः साये नुद्यते ऽतिथिः। यजुर्वेदः। न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः। सामवेदः। वरिष्ठम् अग्निहोत्राच् च ब्राह्मणस्य मुखे हुतम्। न चेद् धन्ति पितरं मातरं वा। न ब्राह्मणं नो ऽपवादं करोति। यत् किं चिद् अन्यद् वृजिनं करोति। अथर्ववेदः। प्रीतो ऽतिथिस् तद् उपहन्ति पापम्। यत् क्रोधनो यजते यद् ददाति। यद् वा तपस् तप्यति यज् जुहोति। वैवस्वतो हरते सर्वम् अस्य। भीष्मः। मोघं चेष्टं भवति क्रोधनस्य। भूयस् तु शृणु राजेन्द्र धर्मान् धर्मभृतां वर। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। इन्द्रः। इन्द्राग्न्योः सूर्यशच्योश् च तन् मे निगदतः शृणु। राज्ये विप्रान् प्रपश्यामि कामक्रोधविवर्जितान्। अग्निः। एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्। यथाहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः। सूर्यः। एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्। यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम्। शची। एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्। कर्मणा मनसा वाचा नावमन्ये पुरंदरम्। भीष्मः। एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। मद्रराजस्य संवादं व्यासस्य च महात्मनः। वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा। मद्रराजः। उक्तो भगवान् यज्ञार्थे तथा तत्राशृणोद् भवान्। कानि तीर्थानि भगवन् फलार्थाश् चेह के ऽऽश्रमाः। क इज्यते कश् च यज्ञः को यूपः क्रमते च कः। कश् चाध्वरे शस्यते गीतिशब्दैः। कश् चाध्वरे गीयते वल्गुभाषैः। को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च। कस्येह वै हविर् अध्वर्यवः कल्पयन्ति। वर्णाश्रमे गोफले कश् च सोमे। कश् च्ॐकारः कश् च वेदार्थमार्गः। पृष्टस् तन् मे ब्रूहि सर्वं महर्षे। द्वैपायनः। लोकज्येष्ठं यस्य विज्ञानम् आहुः। लोकज्येष्ठं यस्य विज्ञानम् आहुर्। योनिज्येष्ठं यस्य वदन्ति जन्म। पूतात्मानो ब्राह्मणा वेदमुख्या। ब्राह्मणः। अस्मिन् प्रश्नो दीयतां केशवाय। बालो जात्या क्षत्रधर्मार्थशीलो। जातो देवक्यां शूरपुत्रेण वीर। वेत्तुं वेदान् अर्हते क्षत्रियो वै। वासुदेवः। दाशार्हाणाम् उत्तमः पुष्कराक्षः। पाराशर्य ब्रूहि यद् ब्राह्मणेभ्यः। प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः। पृष्टो यज्ञार्थं पाण्डवस्यातितेजा। व्यासः। एतच् छ्रेयस् तस्य लोकस्य चैव। उक्तं वाक्यं यद् भवान् माम् अवोचत्। प्रश्नं चित्रं नाहम् अत्रोत्सहे ऽद्य। छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै। वासुदेवः। लोकज्येष्ठे विश्वरूपे सुनाभे। तत् त्वं वाक्यं ब्रूहि यत् त्वं महर्षे। यस्मिन् कृष्णः प्रोच्यते वै यथावत्। प्रीतस् ते ऽहं ज्ञानशक्त्या यथावत्। वैशंपायनः। तस्मान् निर्देशे कर्मणां ब्रूहि सिद्धिम्। उक्तवाक्ये सत्तमे यादवानां। कृष्णो व्यासः प्राञ्जलिर् वासुदेवम्। विप्रैः सार्धं पूजयन् देवदेवं। कृष्णं विष्णुं वासुदेवं बभाषे। व्यासः। आनन्त्यं ते विश्वकर्मंस् तवैवं। रूपं पौराणं शाश्वतं च ध्रुवं च। कस् ते बुध्येद् वेदवादेषु चैतल्। भीष्मः। लोके ह्य् अस्मिञ् शासकस् त्वं पितैव। द्वारकायां यथा प्राह पुरायं मुनिसत्तमः। वेदविप्रमयत्वं तु वासुदेवस्य तच् छृणु। यूपं विष्णुं वासुदेवं विजानन्। सर्वान् विप्रान् बोधते तत्त्वदर्शी। विष्णुं क्रान्तं वासुदेवं विजानन्। विप्रो विप्रत्वं गच्छते तत्त्वदर्शी। विष्णुर् यज्ञस् त्व् इज्यते चापि विष्णुः। कृष्णो विष्णुर् यश् च कृत्स्नः प्रभुश् च। कृष्णो वेदाङ्गं वेदवादाश् च कृष्ण। एवं जानन् ब्राह्मणो ब्रह्म एति। स्थानं सर्वं वैष्णवं यज्ञमार्गे। चातुर्होत्रं वैष्णवं तत्र कृष्णः। सर्वैर् भावैर् इज्यते सर्वकामैः। पुण्यांल् लोकान् ब्राह्मणाः प्राप्नुवन्ति। सोमं सद्भावाद् ये च जातं पिबन्ति। दीप्तं कर्म ये विदानाश् चरन्ति। एकान्तम् इष्टौ चिन्तयन्तो दिविस्थास्। ते वै स्थानं प्रप्नुवन्ति व्रतज्ञाः। ओम् इत्य् एतद् ध्यायमानो न गच्छेद्। दुर्गं पन्थानं पापकर्मापि विप्रः। सर्वं कृष्णं वासुदेवं हि विप्राः। कृत्वा ध्यानं दुर्गतिं न प्रयान्ति। आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता। इच्छा पत्नी पत्निशाला हवींषि। इध्माः पुरोडाशः सर्वदा होतृकर्ता। कृत्स्नं विष्णुं संविजानंस् तम् एति। योगे योगे कर्मणां चाभिहारे। युक्ते वैताने कर्मणि ब्राह्मणस्य। पुष्ट्यर्थेषु प्राप्नुयात् कर्मसिद्धिं। द्वैपायनः। शान्त्यर्थेषु प्राप्नुयात् सर्वशान्तिम्। श्रद्धां त्यागं निर्वृतिं चापि पूजां। सत्यं धर्मं यः कृतं चाभ्युपैति। कामद्वेषौ त्यज्य सर्वेषु तुल्यः। श्रद्धापूतः सर्वयज्ञेषु योग्यः। यस्मिन् यज्ञे सर्वभूताः प्रहृष्टाः। सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः। धर्म्यैर् अर्थ्यैर् ये यजन्ते ध्रुवं ते। पूतात्मानो धर्मम् एकं भजन्ते। एकाक्षरं द्व्यक्षरम् एकम् एव। सदा यजन्ते नियताः प्रतीताः। दृष्ट्वा मनाग् अर्चयित्वा स्म विप्राः। सतां मार्गं तं ध्रुवं संभजन्ते। पापात्मानः क्रोधरागाभिभूताः। कृष्णे भक्ता नाम संकीर्तयन्तः। पूतात्मानो यज्ञशीलाः सुमेधा। यज्ञस्यान्ते कीर्तिलोकान् भजन्ते। एको वेदो ब्राह्मणानां बभूव। चतुष्पादस् त्रैगुणो ब्रह्मशीर्षः। पादं पादं ब्राह्मणा वेदम् आहुस्। द्वैपायनः। त्रेताकाले तं च तं विद्धि शीर्षम्। सर्वे वेदाः सर्ववेद्याः सशास्त्राः। सर्वे यज्ञाः सर्व इज्याश् च कृष्णः। विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये। तेषां राजन् सर्वयज्ञाः समाप्ताः। ज्ञेयो योगी ब्राह्मणैर् वेदतत्त्वैर्। आरण्यकैः सैष कृष्णः प्रभुत्वात्। सर्वान् यज्ञान् ब्राह्मणान् ब्रह्म चैव। व्याप्यातिष्ठद् देवदेवस् त्रिलोके। स एष देवः शक्रम् ईशं यजानं। प्रीत्या प्राह क्रतुयष्टारम् अग्र्यम्। न मा शक्रो वेद वेदार्थतत्त्वाद्। भक्तो भक्त्या शुद्धभावप्रधानः। मां जानन्ते ब्रह्मशीर्षं वरिष्ठं। विश्वे विश्वं ब्रह्मयोनिं ह्य् अयोनिम्। सर्वत्राहं शाश्वतः शाश्वतेशः। कृत्स्नो वेदो निर्गुणो ऽनन्ततेजाः। सर्वे देवा वासुदेवं यजन्ते। ततो बुद्ध्या मार्गमाणास् तनूनाम्। सर्वान् कामान् प्राप्नुवन्ते विशालांस्। त्रैलोक्ये ऽस्मिन् कृष्णनामाभिधानात्। कृष्णो यज्ञैर् इज्यते यायजूकैः। कृष्णो वीरैर् इज्यते विक्रमद्भिः। कृष्णो वाक्यैर् इज्यते संमृशानैः। कृष्णो मुक्तैर् इज्यते वीतमोहैः। विद्यावन्तः सोमपा ये विपापा। भगवान्। इष्ट्वा यज्ञैर् गोचरं प्रार्थयन्ते। सर्वं क्रान्तं देवलोकं विशालम्। अन्ते गत्वा मर्त्यलोकं भजन्ते। एवं सर्वे त्व् आश्रमाः सुव्रता ये। मां जानन्तो यान्ति लोकान् अदीनान्। यां यां दीक्षाम् उद्वहन्ते विपापा। ज्योतिर् भूत्वा देवलोकं भजन्ते। पूज्यन्ते मां पूजयन्तः प्रहृष्टा। मां जानन्तः श्रद्धया वासुदेवम्। भक्त्या तुष्टो ऽहं तस्य सत्त्वं प्रयच्छे। द्वैपायनः। सत्त्वस्पृष्टो वीतमोहो ऽयम् एति। ज्योतींषि शुक्लानि च यानि लोके। त्रयो लोका लोकपालास् त्रयी च। त्रयो ऽग्नयश् चाहुतयश् च पञ्च। भीष्मः। सर्वे देवा देवकीपुत्र एव। व्यासस्यैतद् वचः श्रुत्वा मद्रराजः सहर्षिभिः। वैशंपायनः। व्यासं कृष्णं च विधिवत् प्रीतात्मा प्रत्यपूजयत्। कविप्रधानस् तु महर्षिपुत्रो। द्वैपायनस् तद् वचनं निशम्य। जगाम पृथ्वीं शिरसा महात्मा। नमश् च कृष्णाय चकार भीष्मः। युधिष्ठिरः। गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह। उक्तस् त्वया महाबाहो श्वेतवाहं प्रशंसता। अत्र कौतूहलं मे ऽस्ति श्रवणे जायते मतिः। कथं गरुत्मान् पक्षीणां श्रैष्ठ्यं प्राप्तः परंतप। सुपर्णो वैनतेयश् च केन शत्रुश् च भोगिनाम्। किंवीर्यः किंबलश् चासौ वक्तुम् अर्हसि भारत। भीष्मः। वासुदेव महाबाहो देवकी सुप्रजास् त्वया। श्रुतं ते धर्मराजस्य यदुहर्षविवर्धन। सुपर्णं शंस इत्य् एव माम् आह कुरुनन्दनः। अस्य प्रवक्तुम् इच्छामि त्वयाज्ञप्तो महाद्युते। त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा। अनादिनिधने काले गरुडश् चासि केशव। तस्मात् पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते। वासुदेवः। गरुडं पततां श्रेष्ठं वक्तुम् इच्छामि माधव। यथैव मा भवान् वेद तथा वेद युधिष्ठिरः। भीष्मः। तथा च गरुडो राजंस् तथास्मै ब्रूहि तत्त्वतः। युधिष्ठिर महाबाहो शृणु राजन् यथातथम्। गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्। तथा च गरुडो राजन् सुपर्णश् च यथाभवत्। यथा च भुजगान् हन्ति तथा मे ब्रुवतः शृणु। पुराहं तात रामेण जामदग्न्येन धीमता। कैलासशिखरे रम्ये मृगान् निघ्नन् सहस्रशः। तम् अहं तात दृष्ट्वैव शस्त्राण्य् उत्सृज्य सर्वशः। अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान्। तम् अहं कथान्ते वरदं सुपर्णस्य बलौजसी। अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर। कद्रूश् च विनता चास्तां प्रजापतिसुते उभे। ते धर्मेणोपयेमे ऽथ मारीचः कश्यपः प्रभुः। प्रादात् ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः। तत्र कद्रूर् वरं वव्रे पुत्राणां दशतः शतम्। तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम्। विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम। कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ। स तु ताभ्यां वरं प्रादात् तथेत्य् उक्त्वा महातपाः। जनयाम् आस तान् पुत्रांस् ताभ्याम् आसीद् यथा पुरा। कद्रूः प्रजज्ञे त्व् अण्डानां तथैव दशतः शतम्। अण्डे द्वे विनता चैव दर्शनीयतरे शुभे। तानि त्व् अण्डानि तु तयोः कद्रूविनतयोर् द्वयोः। सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः। निःसरन्ति तदाण्डेभ्यः कद्रूपुत्रा भुजंगमाः। पञ्चवर्षशते काले दृष्टश्वासबलौजसः। विनता तेषु जातेषु पन्नगेषु महात्मसु। विपुत्रा पुत्रसंतापाद् अण्डम् एकं बिभेद ह। किम् अनेन करिष्ये ऽहम् इति वाक्यम् अभाषत। न हि पञ्चशते काले पुरा पुत्रौ ददर्श सा। सापश्यदण्डान् निष्क्रान्तं विना पत्रं मनस्विनम्। पूर्वकायोपसंपन्नं वियुक्तम् इतरेण ह। दृष्ट्वा तु तं तथारूपम् असमग्रशरीरिणम्। पुत्रदुःखान्विताशोचत् स च पक्षी तथा गतः। अब्रवीच् च मुदा युक्तः पर्यश्रुनयनस् तदा। मातरं चपलासीति हतो ऽहम् इति चासकृत्। न त्वया काङ्क्षितः कालो यावान् एवात्यगात् पुरा। आवां भवाव पुत्रौ ते श्वसनाद् बलवत्तरौ। ईर्ष्याक्रोधाभिभूतत्वाद् यो ऽहम् एवं कृतस् त्वया। तस्मात् त्वम् अपि मे मातर् दासीभावं गमिष्यसि। पञ्च वर्षशतानि त्वं स्पर्धसे वै यया सह। दासी तस्या भवित्रीति साश्रुपातम् उवाच ह। एष चैव महाभागे बली बलवतां वरः। भीष्मः। मोक्षयिष्यति ते मातर् दासीभावान् ममानुजः। विनता पुत्रशोकार्ता शापाद् भीता च भारत। प्रतीक्षते स्म तं कालं यः पुत्रोक्तस् तदाभवत्। ततो ऽप्य् अतीते पञ्चशते वर्षाणां कालसंयुगे। गरुडो ऽथ महावीर्यो जज्ञे भुजगभुग् बली। बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान्। रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः। यस् त्व् अण्डात् स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ। विनतापूर्वजः पुत्रः सो ऽरुणो दृश्यते दिवि। पूर्वां दिशम् अभिप्रेत्य सूर्यस्योदयनं प्रति। अरुणो ऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः। जातमात्रस् तु विहगो गरुडः पन्नगाशनः। विहाय मातरं क्षिप्रम् अगमत् सर्वतोदिशम्। स तथा चातिववृधे सर्वकामैर् अथार्चितः। पितामहविसृष्टेन भोजनेन विशां पते। तस्मिंश् च विहगे तत्र यथाकामं विवर्धति। कद्रूश् च विनता चैव गच्छेतां सागरं प्रति। ददृशाते तु ते यान्तम् उच्चैःश्रवसम् अन्तिकात्। स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम्। ततः कद्रूर् हसन्त्य् एव विनताम् इदम् अब्रवीत्। विनता। हयस्य वर्णः को न्व् अत्र ब्रूहि यस् ते मतः शुभे। एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम। कद्रूः। वर्णं वा कीदृशं तस्य मन्यसे त्वं मनस्विनि। सर्वश्वेतो मतस् तुभ्यं य एष हयसत्तमः। विनता। ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि। यद्य् आर्ये दीव्यसि त्वं मे कः पणो नो भविष्यति। कद्रूः। सा तज् ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया। जिता दासी भवेर् मे त्वम् अहं चाप्य् असितेक्षणे। नैकवर्णैकवर्णत्वे विनते रोचते च ते। रोचते मे पणो राज्ञि दासीत्वेन न संशयः। भीष्मः। सत्यम् आतिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्य् अहम्। विनता तु तथेत्य् उक्त्वा कृतसंशयना पणे। कद्रूर् अपि तथेत्य् उक्त्वा पुत्रान् इदम् उवाच ह। मया कृतः पणः पुत्रा मिथो विनतया सह। उच्चैःश्रवसि गान्धर्वे तच् छृणुध्वं भुजंगमाः। अब्रवं नैकवर्णं तं सैकवर्णम् अथाब्रवीत्। जिता दासी भवेत् पुत्राः सा वाहं वा न संशयः। एकवर्णश् च वाजी स चन्द्रकोकनदप्रभः। साहं दासी भविष्यामि जिता पुत्रा न संशयः। ते यूयम् अश्वप्रवरम् आविशध्वम् अतन्द्रिताः। सर्पाः। सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः। निकृत्या न जयः श्रेयान् मातः सत्या गिरः शृणु। आयत्यां च तदात्वे च न च धर्मो ऽत्र विद्यते। सा त्वं धर्माद् अपेतं वै कुलस्यैवाहितं तव। निकृत्या विजयं मातर् मा स्म कार्षीः कथं चन। यद्य् अधर्मेण विजयं वयं काङ्क्षामहे क्व चित्। त्वया नाम निवार्याः स्म मा कुरुध्वम् इति ध्रुवम्। सा त्वम् अस्मान् अपि सतो विपापान् ऋजुबुद्धिनः। कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता। ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश। यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम्। गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः। कद्रूः। उत्पथं प्रतिपन्नस्य परित्यागो विधीयते। शृणोमि विविधा वाचो हेतुमत्यः समीरिताः। वक्रगा मन्निवृत्त्यर्थं तद् अहं वो न रोचये। न च तत् पणितं मन्दाः शक्यं जेतुम् अतो ऽन्यथा। जिते निकृत्या श्रुत्वैतत् क्षमं कुरुत पुत्रकाः। श्वो ऽहं प्रभातसमये जिता धर्मेण पुत्रकाः। शैलूषिणी भविष्यामि विनताया न संशयः। इह चामुत्र चार्थाय पुत्रान् इच्छन्ति मातरः। सेयम् ईहा विपन्ना मे युष्मान् आसाद्य संगताम्। इह वा तारयेत् पुत्रः प्रेत्य वा तारयेत् पितॄन्। नात्र चित्रं भवेत् किं चित् पुनातीति च पुत्रता। ते यूयं तारणार्थाय मम पुत्रा मनोजवाः। आविशध्वं हयश्रेष्ठं वाला भूत्वाञ्जनप्रभाः। जानाम्य् अधर्मं सकलं विजिता विनता भवेत्। निकृत्या दासभावस् तु युष्मान् अप्य् अवपीडयेत्। निकृत्या विजयो वेति दासत्वं वा पराजये। उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः। यद्य् अप्य् अधर्मो विजयो युष्मान् एव स्पृशेत् पुनः। गुरोर् वचनम् आस्थाय धर्मो वः स भविष्यति। भीष्मः। श्रुत्वा तु वचनं मातुः क्रुद्धायास् ते भुजंगमाः। कृच्छ्रेणैवान्वमोदन्त के चिद् धित्वा दिशो गताः। ये प्रतस्थुर् दिशस् तत्र क्रुद्धा तान् अशपद् भृशम्। भुजंगमानां मातासौ कद्रूर् वैरकरी तदा। कद्रूः। उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः। चतुर्थो धन्विनां श्रेष्ठात् कुन्तीपुत्राद् धनंजयात्। स सर्पसत्रम् आहर्ता क्रुद्धः कुरुकुलोद्वहः। तस्मिन् सत्रे ऽग्निना युष्मान् पञ्चत्वम् उपनेष्यति। एवं क्रुद्धाशपन् माता पन्नगान् धर्मचारिणः। गुरोः परित्यागकृतं नैतद् अन्यद् भविष्यति। एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः। विहाय मातरं क्रुद्धा गता वैरकरीं तदा। तत्र ये वृजिनं तस्या अनापन्ना भुजंगमाः। ते तस्य वाजिनो वाला बभूवुर् असितप्रभाः। तान् दृष्ट्वा वालधिस्थांश् च पुत्रान् कद्रूर् अथाब्रवीत्। विनताम् अथ संहृष्टा हयो ऽसौ दृश्यताम् इति। एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः। उदकाद् उत्तरन्तं तं हयं चैव च भामिनी। सा त्व् अवक्रमतिर् देवी विनता जिह्मगाभिनीम्। अब्रवीद् भगिनीं किं चिद् विहसन्तीव भारत। हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे। दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि। एवं स्थिरं पणं कृत्वा हयं ते तु ददर्शतुः। कृत्वा साक्षिणम् आत्मानं भगिन्यौ कुरुसत्तम। सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता। श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम्। तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका। उवाच कालवालो ऽयं तुरगो विजितं त्वया। दासी मां प्रेषयस्वार्ये यथाकामवशां शुभे। भीष्मः। दास्यश् च कामकारा हि भर्तॄणां नात्र संशयः। ततः कद्रूर् हसन्तीव विनतां धर्मचारिणीम्। दासीवत् प्रेषयाम् आस सा च सर्वं चकार तत्। न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता। प्रेष्यकर्म चकारास्या विनता कमलेक्षणा। इमा दिशश् चतस्रो ऽस्याः प्रेष्यभावेन वर्तिताः। अथ स्म वैनतेयं वै बलदर्पौ समीयतुः। तं दर्पवशम् आपन्नं परिधावन्तम् अन्तिकात्। ददर्श नारदो राजन् देवर्षिर् दर्पसंयुतम्। तम् अब्रवीच् च देवर्षिर् नारदः प्रहसन्न् इव। किं दर्पवशम् आपन्नो न वै पश्यसि मातरम्। बलेन दृप्तः सततम् अहंमानकृतः सदा। दासीं पन्नगराजस्य मातुर् अन्तर्गृहे सतीम्। तम् अब्रवीद् वैनतेयः कर्म किं तन् महामुने। जनयित्री मयि सुते जाता दासी तपस्विनी। अथाब्रवीद् ऋषिर् वाक्यं दीव्यती विजिता खग। गरुडः। निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह। कथं जिता निकृत्या सा भगवञ् जननी मम। ब्रूहि तन् मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम्। ततस् तस्य यथावृत्तं सर्वं तन् नारदस् तदा। आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः। तच् छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत्। जगर्हे पन्नगान् सर्वान् मात्रा सह परंतप। ततस् तु रोषाद् दुःखाच् च तूर्णम् उत्पत्य पक्षिराट्। जगाम यत्र मातास्य कृच्छ्रे महति वर्तते। तत्रापश्यत् ततो दीनां जटिलां मलिनां कृशाम्। तोयदेन प्रतिच्छन्नां सूर्याभाम् इव मातरम्। तस्य दुःखाच् च रोषाच् च नेत्राभ्याम् अश्रु चास्रवत्। प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः। अनुक्त्वा मातरं किं चित् पतत्रिवरपुंगवः। कद्रूम् एव स धर्मात्मा वचनं प्रत्यभाषत। यदि धर्मेण मे माता जिता यद्य् अप्य् अधर्मतः। ज्येष्ठा त्वम् असि मे माता धर्मः सर्वः स मे मतः। इयं तु मे स्यात् कृपणा मयि पुत्रे ऽम्ब दुःखिता। अनुजानीहि तां साधु मत्कृते धर्मदर्शिनी। कद्रूः श्रुत्वास्य तद् वाक्यं वैनतेयस्य धीमतः। उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्छिता। नाहं तव न ते मातुर् वैनतेय कथं चन। कुर्यां प्रियम् अनिष्टात्मा मां ब्रवीषि खग द्विज। तां तदा ब्रुवतीं वाक्यम् अनिष्टां क्रूरभाषिणीम्। दारुणां सूनृताभिस् ताम् अनुनेतुं प्रचक्रमे। गरुडः। ज्येष्ठा त्वम् असि कल्याणि मातुर् मे भामिनि प्रिया। कद्रूः। सोदर्या मम चासि त्वं ज्येष्ठा माता न संशयः। विहंगम यथाकामं गच्छ कामगम द्विज। सूनृताभिस् त्वया माता नादासी शक्यम् अण्डज। अमृतं यद्य् आहरेस् त्वं विहंग जननीं तव। भीष्मः। अदासीं मम पश्येमां वैनतेय न संशयः। तथेत्य् उक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः। अमृताहरणे वाचं ततः पितरम् अब्रवीत्। कामं वै सूनृता वाचो विसृज्य च मुहुर् मुहुः। यच् चाप्य् अनुज्ञां मातुर् वै न च सा ह्य् अनुमन्यते। सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै। भगवन् विनता दासी मम माता महाद्युते। कद्रूः प्रेषयते चैव दासीयम् इति चाब्रवीत्। आहरामृतम् इत्य् एव मोक्ष्यते विनता ततः। सो ऽहं मातुर् विमोक्षार्थम् आहरिष्य इति ब्रुवन्। कश्यपः। अमृतं प्रार्थितस् तूर्णम् आहर्तुं प्रतिनन्द्य वै। अमृतं तात दुष्प्रापं देवैर् अपि कुतस् त्वया। रक्ष्यते हि भृशं पुत्र रक्षिभिस् तन् निबोध मे। गुप्तम् अद्भिर् भृशं साधु सर्वतः परिवारितम्। अनन्तरम् अथो गुप्तं ज्वलता जातवेदसा। ततः शतसहस्राणि प्रयुतान्य् अर्बुदानि च। रक्षन्त्य् अमृतम् अत्यर्थं किंकरा नाम राक्षसाः। तेषां शक्त्यृष्टिशूलांश् च शतघ्न्यः पट्टसास् तथा। आयुधा रक्षिणां तात वज्रकल्पाः शिलास् तथा। ततो जालेन महता अवनद्धं समन्ततः। अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात्। तत् त्वम् एवंविधं तात कथं प्रार्थयसे ऽमृतम्। सुरक्षितं वज्रभृता वैनतेय विहंगम। इन्द्रेण देवैर् नागैश् च खड्गैर् गिरिजलादिभिः। गरुडः। पुत्रगृद्ध्या ब्रवीष्य् एतच् छृणु तात विनिश्चयम्। बलवान् उपायवान् अस्मि भूयः किं करवाणि ते। तम् अब्रवीत् पिता हृष्टः प्रहसन् वै पुनः पुनः। यदि तौ भक्षयेस् तात क्रूरौ कच्छपवारणौ। तथा बलम् अमेयं ते भविता तन् न संशयः। गरुडः। अमृतस्यैव चाहर्ता भविष्यसि न संशयः। क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ। भक्षयिष्याम्य् अहं तात बलस्याप्यायनं प्रति। कश्यपः। पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेह तिष्ठति। उरगो नाम दुष्प्रापः पुरा देवगणैर् अपि। गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान्। तत्र पन्थाः कृतस् तात कुञ्जरेण बलीयसा। गोरुतान्य् उच्छ्रयस् तस्य नव सप्त च पुत्रक। गच्छतागच्छता चैव क्षपितः स महागिरिः। तावान् भूमिसमस् तात कृतः पन्थाः समुत्थितः। तेन गत्वा स मातंगः पिपासुर् युद्धम् इच्छति। तम् अतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः। कनकेति च विख्यातस् तत्र कूर्मो महाबलः। गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश् च सः। आयामतश् चापि समौ तेजोबलसमन्वितौ। पुनरावृत्तिम् आपन्नौ ताव् एतौ मधुकैटभौ। जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ। यदा स नागो व्रजति पिपासुस् तं जलाशयम्। तदैनं कच्छपो रोषात् प्रतियाति महाबलः। नखैश् च दशनैश् चापि निमज्योन्मज्य चासकृत्। विररादाग्रहस्तेन कुञ्जरं तं जलेचरः। नागराड् अपि तोयार्थी पिपासुश् चरणैर् अपि। अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम्। स तु तोयाद् अनुत्तिष्ठन् वारिजो गजयूथपम्। नखैश् च दशनैश् चैव द्विरदं प्रतिषेधति। निवारितो गजश्रेष्ठः पुनर् गच्छति स्वं वनम्। पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः। तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय। न तौ पृथक् त्वया शक्याव् अप्रमत्तौ बले स्थितौ। गरुडः। कथं तौ भगवञ् शक्यौ मया वारणकच्छपौ। कश्यपः। युगपद् ग्रहीतुं तन् मे त्वम् उपायं वक्तुम् अर्हसि। योद्धुकामे गजे तस्मिन् मुहूर्तं स जलेचरः। उत्तिष्ठति जलात् तूर्णं योद्धुकामः पुनः पुनः। जलजं निर्जलं तात प्रमत्तं चैव वारणम्। भीष्मः। ग्रहीष्यसि पतंगेश नान्यो योगो ऽत्र विद्यते। इत्य् एवम् उक्तो विहगस् तद् गत्वा वनम् उत्तमम्। ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम्। तां स नागो गिरेर् वीथिं संप्राप्त इव भारत। स तं दृष्ट्वा महाभागः संप्रहृष्टतनूरुहः। बिभक्षयिषतो राजन् दारुणस्य महात्मनः। मातंगं कच्छपं चैव प्रहर्षः सुमहान् अभूत्। अथ वेगेन महता खेचरः स महाबलः। संकुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत। तथा गत्वा तम् अध्वानं वारणप्रवरो बली। निशश्वास महाश्वासं श्रमाद् विश्रमणाय च। तस्य निःश्वासवातेन मदगन्धेन चैव ह। उदतिष्ठन् महाकूर्मो वारणप्रतिषेधकः। तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः। कच्छपेन्द्रद्विरदयोर् इन्द्रप्रह्रादयोर् इव। स्पृशन्तम् अग्रहस्तेन तोयं वारणयूथपम्। दन्तैर् नखैश् च जलजो वारयाम् आस भारत। जलजं वारणो ऽप्य् एवं चरणैः पुष्करेण च। प्रत्यषेधन् निमज्जन्तम् उन्मज्जन्तं तथैव च। मुहूर्तम् अभवद् युद्धं तयोर् भीमप्रदर्शनम्। अथ तस्माज् जलाद् राजन् कच्छपः स्थलम् आस्थितः। स तु नागः प्रभग्नो ऽपि पिपासुर् न न्यवर्तत। तोयगृध्नुः शनैस् तर्षाद् अपासर्पत पृष्ठतः। तं दृष्ट्वा जलजं तूर्णम् अपसर्पन्तम् आहवात्। अभिदुद्राव वेगेन वज्रपाणिर् इवासुरम्। तं रोषात् स्थलम् उत्तीर्णम् असंप्राप्तं गजोत्तमम्। उभाव् एव समस्तौ तु जग्राह विनतासुतः। चरणेन तु सव्येन जग्राह स गजोत्तमम्। प्रस्पन्दमानं बलवान् दक्षिणेन तु कच्छपम्। उत्पपात ततस् तूर्णं पन्नगेन्द्रनिषूदनः। दिवं खं च समावृत्य पक्षाभ्याम् अपराजितः। तेन चोत्पतता तूर्णं संगृहीतौ नखैर् भृशम्। वज्रगर्भैः सुनिशितैः प्राणांस् तूर्णं मुमोचतुः। तौ गृह्य बलवांस् तूर्णं स्रस्तपादशिरोधरौ। विवल्गन्न् इव खे क्रीडन् खेचरो ऽभिजगाम ह। अत्तुकामस् ततो वीरः पृथिव्यां पृथिवीपते। निरैक्षत न चापश्यद् द्रुमं पर्याप्तम् आसितुम्। नैमिषं त्व् अथ संप्राप्य देवारण्यं महाद्युतिः। अपश्यत द्रुमं कं चिच् छाखास्कन्धसमावृतम्। हिमवच्छिखरप्रख्यं योजनद्वयम् उच्छ्रितम्। परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः। तस्य शाखाभवत् का चिद् आयता पञ्चयोजनम्। दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता। तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ। अत्तुकामस् ततः शाखां तस्य वेगाद् अवापतत्। तां पतन्तीम् अभिप्रेक्ष्य प्रेक्ष्य चर्षिगणान् अथ। आसीनान् वसुभिः सार्धं सत्रेण जगतीपते। वैखानसान् नाम यतीन् वालखिल्यगणान् अपि। तस्य भीर् आविशत् तत्र पतगेन्द्रस्य भारत। तान् दृष्ट्वा स यतींस् तत्र समासीनान् सुरैः सह। तुण्डेन गृह्य तां शाखाम् उत्पपात खगेश्वरः। तौ च पक्षी भुजंगाशो व्योम्नि क्रीडन्न् इवाव्रजत्। तं दृष्ट्वा गुरुसंभारं प्रगृह्योत्पतितं खगम्। ऋषयस् ते ऽब्रुवन् सर्वे गरुडो ऽयम् इति स्म ह। न त्व् अन्यः क्षमते कश् चिद् यथायं वीर्यवान् खगः। असौ गच्छति धर्मात्मा गुरुभारसमन्वितः। अयं क्रीडन्न् इवाकाशे तस्माद् गरुड एव सः। एवं ते समयं सर्वे वसवश् च दिवौकसः। अकार्षुः पक्षिराजस्य गरुडेत्य् एव नाम ह। स पक्षी पृथिवीं सर्वां परिधावंस् ततस् ततः। मुमुक्षुः शाखिनः शाखां न स्म देशम् अपश्यत। स वाचम् अशृणोद् दिव्याम् उपर्य् उपरि जल्पतः। देवदूतस्य विस्पष्टम् आभाष्य गरुडेति च। वैनतेय कुविन्देषु समुद्रान्ते महाबल। पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयः। तच् छ्रुत्वा गरुडस् तूर्णं जगाम लवणाम्भसः। उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः। ततो गत्वा ततः शाखां मुमोच पततां वरः। तया हता जनपदास् तदा षट्त्रिंशतो नृप। स देशो राजशार्दूल ख्यातः परमदारुणः। भीष्मः। शाखापतग इत्य् एव कुविन्दानां दुरात्मनाम्। हत्वा तं पक्षिशार्दूलः कुविन्दानां जनव्रजम्। उपोपविश्य शैलाग्रे भक्षयाम् आस ताव् उभौ। वारणं कच्छपं चैव संहृष्टः स पतत्रिराट्। तयोः स रुधिरं पीत्वा मेदसी च परंतप। संहृष्टः पततां श्रेष्ठो लब्ध्वा बलम् अनुत्तमम्। जगाम देवराजस्य भवनं पन्नगाशनः। तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम्। रात्रिंदिवं प्रज्वलितं रक्षार्थम् अमृतस्य ह। तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रम् अथाविशत्। न तु तोयान् न रक्षोभ्यो भयम् अस्योपपद्यते। पक्षित्वम् आत्मनो दृष्ट्वा ज्वलन्तं च हुताशनम्। पितामहम् अथो गत्वा ददर्श भुजगाशनः। तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः। प्रोवाच तद् असंदिग्धं वचनं पतगेश्वरः। उद्यतं गुरुकृत्ये मां भगवन् धर्मनिश्चितम्। विमोक्षणार्थं मातुर् हि दासभावाद् अनिन्दितम्। कद्रूसकाशम् अमृतं मया हर्तव्यम् ईश्वर। तदा मे जननी देव दासभावात् प्रमोक्ष्यते। तत्रामृतं प्रज्वलितो नित्यम् ईश्वर रक्षति। हिरण्यरेता भगवान् पाकशासनशासनात्। तत्र मे देवदेवेश भयं तीव्रम् अथाविशत्। ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो। समतिक्रमितुं शक्यः कथं स्यात् पावको मया। तस्याभ्युपायं वरद वक्तुम् ईशो ऽसि मे प्रभो। तम् अब्रवीन् महाभाग तप्यमानं विहंगमम्। अग्नेः संशमनोपायम् उत्स्मयन् स पुनः पुनः। पयसा शाम्यते वत्स सर्पिषा च हुताशनः। शरीरस्थो ऽपि भूतानां किं पुनः प्रज्वलन् भुवि। नवनीतं पयो वापि पावके त्वं समादधेः। भीष्मः। ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः। पितामहवचः श्रुत्वा गरुडः पततां वरः। जगाम गोकुलं किं चिन् नवनीतजिहीर्षया। नवनीतं तथापश्यन् मथितं कलशे स्थितम्। तद् आदाय ततो ऽगच्छद् यतस् तद् रक्ष्यते ऽमृतम्। स तत्र गत्वा पतगस् तिर्यक् तोयं महाबलः। हुताशनम् अपक्रम्य नवनीतम् अपातयत्। सो ऽर्चिष्मान् मन्दवेगो ऽभूत् सर्पिषा तेन तर्पितः। धूमकेतुर् न जज्वाल धूमम् एव ससर्ज ह। तम् अतीत्याशु गरुडो हृष्टात्मा जातवेदसम्। रक्षांसि समतिक्रामत् पक्षवातेन पातयन्। ते पतन्ति शिरोभिश् च जानुभिश् चरणैस् तथा। उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः। उत्प्लुत्य चावृतान् नागान् हत्वा चक्रं व्यतीत्य च। अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत्। स भित्त्वा शिरसा जालं वज्रवेगसमो बली। उज्जहार ततः शीघ्रम् अमृतं भुजगाशनः। तद् आदायाद्रवच् छीघ्रं गरुडः श्वसनो यथा। अथ संनाहम् अकरोद् वृत्रहा विबुधैः सह। ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः। आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम्। सो ऽभ्यद्रवत् पक्षिराजं वृत्रहा पाकशासनः। उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः। तथैव गरुडो राजन् वज्रहस्तं समाद्रवत्। ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः। अथ दिव्यं महाघोरं गरुडाय ससर्ज ह। वज्रं सहस्रनयनस् तिग्मवेगपराक्रमः। उत्सिसृक्षन्तम् आज्ञाय वज्रं वै त्रिदशेश्वरम्। तूर्णं वेगतरो भूत्वा जगाम पततां वरः। पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः। आयुधानां वरं वज्रम् अथ शक्रम् उवाच ह। वृत्रहन्न् एष वज्रस् ते वरो लब्धः पितामहात्। अतः संमानम् आकाङ्क्षन् मुञ्चाम्य् एकं तनूरुहम्। एतेनायुधराजेन यदि शक्तो ऽसि वृत्रहन्। हन्यास् त्वं परया शक्त्या गच्छाम्य् अहम् अनामयः। तत् तु तूर्णं तदा वज्रं स्वेन वेगेन भारत। जघान परया शक्त्या न चैनम् अदहद् भृशम्। ततो देवर्षयो राजन् गच्छन्तो वै विहायसा। दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णे ऽब्रुवन् वचः। सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम्। विषक्तं देवराजस्य वृत्रहन्तुः सनातनम्। एवं सुपर्णो विहगो वैनतेयः प्रतापवान्। ऋषयस् तं विजानन्ति चाग्नेयं वैष्णवं पुनः। वेदाभिष्टुतम् अत्यन्तं स्वर्गमार्गफलप्रदम्। तनु पर्णं सुपर्णस्य जगृहुर् बर्हिणस् तथा। भीष्मः। मयूरा विस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम्। ततो वज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम्। ऋषींश् च दृष्ट्वा सहसा सुपर्णम् इदम् अब्रवीत्। न ते सुपर्ण पश्यामि प्रभावं तेन योधये। इत्य् उक्ते न मया रक्षा शक्या कर्तुम् अतो ऽन्यथा। इदं वज्रं मया सार्धं निवृत्तं हि यथागतम्। ततः सहस्रनयने निवृत्ते गरुडस् तथा। गरुडः। कद्रूम् अभ्यागमत् तूर्णम् अमृतं गृह्य भारत। तदाहृतं मया शीघ्रम् अमृतं जननीकृते। कद्रूः। अदासी सा भवत्व् अद्य विनता धर्मचारिणी। स्वागतं स्वाहृतं चेदम् अमृतं विनतात्मज। अदासी जननी ते ऽद्य पुत्र कामवशा शुभा। एवम् उक्ते तदा सा च संप्राप्ता विनता गृहम्। उपनीय यथान्यायं विहगो बलिनां वरः। स्मृत्वा निकृत्या विजयं मातुः संप्रतिपद्यत। वधं च भुजगेन्द्राणां ये वालास् तस्य वाजिनः। बभूवुर् असितप्रख्या निकृत्या वै जितं त्वया। ताम् उवाच ततो न्यायं विहगो बलिनां वरः। उज्जहारामृतं तूर्णम् उत्पपात च रंहसा। तद् गृहीत्वामृतं तूर्णं प्रयान्तम् अपराजितम्। कद्रूर् भुजंगजननी सुपर्णम् इदम् अब्रवीत्। किमर्थं वैनतेय त्वम् आहृत्यामृतम् उत्तमम्। पुनर् हरसि दुर्बुद्धे मा जातु वृजिनं कृथाः। सुपर्णः। अमृताहरणं मे ऽद्य यत् कृतं जननीकृते। भवत्या वचनाद् एतद् आहरामृतम् इत्य् उत। आहृतं तद् इदं शीघ्रं मुक्ता च जननी मम। हराम्य् एष पुनस् तत्र यत एतन् मयाहृतम्। यदि मां भवती ब्रूयाद् अमृतं मे च दीयताम्। तथा कुर्यां न वा कुर्यां न हि त्वम् अमृतक्षमा। भीष्मः। मया धर्मेण सत्येन विनता च समुद्धृता। ततो गत्वाथ गरुडः पुरंदरम् उवाच ह। इदं मया वृत्रहन्तर् हृतं ते ऽमृतम् उत्तमम्। मात्रर्थे हि तथैवेदं गृहाणामृतम् आहृतम्। माता च मम देवेश दासीत्वम् उपजग्मुषी। भुजंगमानां मातुर् वै सा मुक्तामृतदर्शनात्। एतच् छ्रुत्वा सहस्राक्षः सुपर्णम् अनुमन्यते। उवाच च मुदा युक्तो दिष्ट्या दिष्ट्येति वासवः। ऋषयो ये सहस्राक्षम् उपासन्ति सुरैः सह। ते सर्वे च मुदा युक्ता विश्वे देवास् तथैव च। ततस् तम् ऋषयः सर्वे देवाश् च भरतर्षभ। ऊचुः पुरंदरं हृष्टा गरुडो लभतां वरम्। ततः शचीपतिर् वाक्यम् उवाच प्रहसन्न् इव। जनिष्यति हृषीकेशः स्वयम् एवैष पक्षिराट्। केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि। स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः। एष ते पाण्डवश्रेष्ठ गरुडो ऽथ पतत्रिराट्। सुपर्णो वैनतेयश् च कीर्तितो भद्रम् अस्तु ते। तद् एतद् ददतां श्रेष्ठ मयाख्यानं प्रकीर्तितम्। सुपर्णस्य महाबाहो किं भूयः कथयामि ते।
piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ. gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam. bhīṣmaḥ. atrāpy udāharantīmam itihāsaṃ purātanam. ṛgvedaḥ. caturṇām api vedānāṃ saṃvādaṃ putra tac chṛṇu. gṛhān āśrayamāṇasya agnihotraṃ ca juhvataḥ. sarvaṃ sukṛtam ādatte yaḥ sāye nudyate 'tithiḥ. yajurvedaḥ. na skandate na vyathate nāsyordhvaṃ sarpate rajaḥ. sāmavedaḥ. variṣṭham agnihotrāc ca brāhmaṇasya mukhe hutam. na ced dhanti pitaraṃ mātaraṃ vā. na brāhmaṇaṃ no 'pavādaṃ karoti. yat kiṃ cid anyad vṛjinaṃ karoti. atharvavedaḥ. prīto 'tithis tad upahanti pāpam. yat krodhano yajate yad dadāti. yad vā tapas tapyati yaj juhoti. vaivasvato harate sarvam asya. bhīṣmaḥ. moghaṃ ceṣṭaṃ bhavati krodhanasya. bhūyas tu śṛṇu rājendra dharmān dharmabhṛtāṃ vara. atrāpy udāharantīmam itihāsaṃ purātanam. indraḥ. indrāgnyoḥ sūryaśacyoś ca tan me nigadataḥ śṛṇu. rājye viprān prapaśyāmi kāmakrodhavivarjitān. agniḥ. etena satyavākyena pādaḥ kumbhasya pūryatām. yathāhaṃ tatra nāśnāmi yatra nāśnanti vai dvijāḥ. sūryaḥ. etena satyavākyena pādaḥ kumbhasya pūryatām. yathā gobrāhmaṇasyārthe na tapāmi yathābalam. śacī. etena satyavākyena pādaḥ kumbhasya pūryatām. karmaṇā manasā vācā nāvamanye puraṃdaram. bhīṣmaḥ. etena satyavākyena pādaḥ kumbhasya pūryatām. atrāpy udāharantīmam itihāsaṃ purātanam. madrarājasya saṃvādaṃ vyāsasya ca mahātmanaḥ. vaitāne karmaṇi tate kuntīputra yathā purā. madrarājaḥ. ukto bhagavān yajñārthe tathā tatrāśṛṇod bhavān. kāni tīrthāni bhagavan phalārthāś ceha ke ''śramāḥ. ka ijyate kaś ca yajñaḥ ko yūpaḥ kramate ca kaḥ. kaś cādhvare śasyate gītiśabdaiḥ. kaś cādhvare gīyate valgubhāṣaiḥ. ko brahmaśabdaiḥ stutibhiḥ stūyate ca. kasyeha vai havir adhvaryavaḥ kalpayanti. varṇāśrame gophale kaś ca some. kaś coṃkāraḥ kaś ca vedārthamārgaḥ. pṛṣṭas tan me brūhi sarvaṃ maharṣe. dvaipāyanaḥ. lokajyeṣṭhaṃ yasya vijñānam āhuḥ. lokajyeṣṭhaṃ yasya vijñānam āhur. yonijyeṣṭhaṃ yasya vadanti janma. pūtātmāno brāhmaṇā vedamukhyā. brāhmaṇaḥ. asmin praśno dīyatāṃ keśavāya. bālo jātyā kṣatradharmārthaśīlo. jāto devakyāṃ śūraputreṇa vīra. vettuṃ vedān arhate kṣatriyo vai. vāsudevaḥ. dāśārhāṇām uttamaḥ puṣkarākṣaḥ. pārāśarya brūhi yad brāhmaṇebhyaḥ. prītātmā vai brahmakalpaḥ sumedhāḥ. pṛṣṭo yajñārthaṃ pāṇḍavasyātitejā. vyāsaḥ. etac chreyas tasya lokasya caiva. uktaṃ vākyaṃ yad bhavān mām avocat. praśnaṃ citraṃ nāham atrotsahe 'dya. chettuṃ vispaṣṭaṃ tiṣṭhati tvadvidhe vai. vāsudevaḥ. lokajyeṣṭhe viśvarūpe sunābhe. tat tvaṃ vākyaṃ brūhi yat tvaṃ maharṣe. yasmin kṛṣṇaḥ procyate vai yathāvat. prītas te 'haṃ jñānaśaktyā yathāvat. vaiśaṃpāyanaḥ. tasmān nirdeśe karmaṇāṃ brūhi siddhim. uktavākye sattame yādavānāṃ. kṛṣṇo vyāsaḥ prāñjalir vāsudevam. vipraiḥ sārdhaṃ pūjayan devadevaṃ. kṛṣṇaṃ viṣṇuṃ vāsudevaṃ babhāṣe. vyāsaḥ. ānantyaṃ te viśvakarmaṃs tavaivaṃ. rūpaṃ paurāṇaṃ śāśvataṃ ca dhruvaṃ ca. kas te budhyed vedavādeṣu caital. bhīṣmaḥ. loke hy asmiñ śāsakas tvaṃ pitaiva. dvārakāyāṃ yathā prāha purāyaṃ munisattamaḥ. vedavipramayatvaṃ tu vāsudevasya tac chṛṇu. yūpaṃ viṣṇuṃ vāsudevaṃ vijānan. sarvān viprān bodhate tattvadarśī. viṣṇuṃ krāntaṃ vāsudevaṃ vijānan. vipro vipratvaṃ gacchate tattvadarśī. viṣṇur yajñas tv ijyate cāpi viṣṇuḥ. kṛṣṇo viṣṇur yaś ca kṛtsnaḥ prabhuś ca. kṛṣṇo vedāṅgaṃ vedavādāś ca kṛṣṇa. evaṃ jānan brāhmaṇo brahma eti. sthānaṃ sarvaṃ vaiṣṇavaṃ yajñamārge. cāturhotraṃ vaiṣṇavaṃ tatra kṛṣṇaḥ. sarvair bhāvair ijyate sarvakāmaiḥ. puṇyāṃl lokān brāhmaṇāḥ prāpnuvanti. somaṃ sadbhāvād ye ca jātaṃ pibanti. dīptaṃ karma ye vidānāś caranti. ekāntam iṣṭau cintayanto divisthās. te vai sthānaṃ prapnuvanti vratajñāḥ. om ity etad dhyāyamāno na gacched. durgaṃ panthānaṃ pāpakarmāpi vipraḥ. sarvaṃ kṛṣṇaṃ vāsudevaṃ hi viprāḥ. kṛtvā dhyānaṃ durgatiṃ na prayānti. ājyaṃ yajñaḥ sruksruvau yajñadātā. icchā patnī patniśālā havīṃṣi. idhmāḥ puroḍāśaḥ sarvadā hotṛkartā. kṛtsnaṃ viṣṇuṃ saṃvijānaṃs tam eti. yoge yoge karmaṇāṃ cābhihāre. yukte vaitāne karmaṇi brāhmaṇasya. puṣṭyartheṣu prāpnuyāt karmasiddhiṃ. dvaipāyanaḥ. śāntyartheṣu prāpnuyāt sarvaśāntim. śraddhāṃ tyāgaṃ nirvṛtiṃ cāpi pūjāṃ. satyaṃ dharmaṃ yaḥ kṛtaṃ cābhyupaiti. kāmadveṣau tyajya sarveṣu tulyaḥ. śraddhāpūtaḥ sarvayajñeṣu yogyaḥ. yasmin yajñe sarvabhūtāḥ prahṛṣṭāḥ. sarve cārambhāḥ śāstradṛṣṭāḥ pravṛttāḥ. dharmyair arthyair ye yajante dhruvaṃ te. pūtātmāno dharmam ekaṃ bhajante. ekākṣaraṃ dvyakṣaram ekam eva. sadā yajante niyatāḥ pratītāḥ. dṛṣṭvā manāg arcayitvā sma viprāḥ. satāṃ mārgaṃ taṃ dhruvaṃ saṃbhajante. pāpātmānaḥ krodharāgābhibhūtāḥ. kṛṣṇe bhaktā nāma saṃkīrtayantaḥ. pūtātmāno yajñaśīlāḥ sumedhā. yajñasyānte kīrtilokān bhajante. eko vedo brāhmaṇānāṃ babhūva. catuṣpādas traiguṇo brahmaśīrṣaḥ. pādaṃ pādaṃ brāhmaṇā vedam āhus. dvaipāyanaḥ. tretākāle taṃ ca taṃ viddhi śīrṣam. sarve vedāḥ sarvavedyāḥ saśāstrāḥ. sarve yajñāḥ sarva ijyāś ca kṛṣṇaḥ. viduḥ kṛṣṇaṃ brāhmaṇās tattvato ye. teṣāṃ rājan sarvayajñāḥ samāptāḥ. jñeyo yogī brāhmaṇair vedatattvair. āraṇyakaiḥ saiṣa kṛṣṇaḥ prabhutvāt. sarvān yajñān brāhmaṇān brahma caiva. vyāpyātiṣṭhad devadevas triloke. sa eṣa devaḥ śakram īśaṃ yajānaṃ. prītyā prāha kratuyaṣṭāram agryam. na mā śakro veda vedārthatattvād. bhakto bhaktyā śuddhabhāvapradhānaḥ. māṃ jānante brahmaśīrṣaṃ variṣṭhaṃ. viśve viśvaṃ brahmayoniṃ hy ayonim. sarvatrāhaṃ śāśvataḥ śāśvateśaḥ. kṛtsno vedo nirguṇo 'nantatejāḥ. sarve devā vāsudevaṃ yajante. tato buddhyā mārgamāṇās tanūnām. sarvān kāmān prāpnuvante viśālāṃs. trailokye 'smin kṛṣṇanāmābhidhānāt. kṛṣṇo yajñair ijyate yāyajūkaiḥ. kṛṣṇo vīrair ijyate vikramadbhiḥ. kṛṣṇo vākyair ijyate saṃmṛśānaiḥ. kṛṣṇo muktair ijyate vītamohaiḥ. vidyāvantaḥ somapā ye vipāpā. bhagavān. iṣṭvā yajñair gocaraṃ prārthayante. sarvaṃ krāntaṃ devalokaṃ viśālam. ante gatvā martyalokaṃ bhajante. evaṃ sarve tv āśramāḥ suvratā ye. māṃ jānanto yānti lokān adīnān. yāṃ yāṃ dīkṣām udvahante vipāpā. jyotir bhūtvā devalokaṃ bhajante. pūjyante māṃ pūjayantaḥ prahṛṣṭā. māṃ jānantaḥ śraddhayā vāsudevam. bhaktyā tuṣṭo 'haṃ tasya sattvaṃ prayacche. dvaipāyanaḥ. sattvaspṛṣṭo vītamoho 'yam eti. jyotīṃṣi śuklāni ca yāni loke. trayo lokā lokapālās trayī ca. trayo 'gnayaś cāhutayaś ca pañca. bhīṣmaḥ. sarve devā devakīputra eva. vyāsasyaitad vacaḥ śrutvā madrarājaḥ saharṣibhiḥ. vaiśaṃpāyanaḥ. vyāsaṃ kṛṣṇaṃ ca vidhivat prītātmā pratyapūjayat. kavipradhānas tu maharṣiputro. dvaipāyanas tad vacanaṃ niśamya. jagāma pṛthvīṃ śirasā mahātmā. namaś ca kṛṣṇāya cakāra bhīṣmaḥ. yudhiṣṭhiraḥ. garuḍaḥ pakṣiṇāṃ śreṣṭha iti pūrvaṃ pitāmaha. uktas tvayā mahābāho śvetavāhaṃ praśaṃsatā. atra kautūhalaṃ me 'sti śravaṇe jāyate matiḥ. kathaṃ garutmān pakṣīṇāṃ śraiṣṭhyaṃ prāptaḥ paraṃtapa. suparṇo vainateyaś ca kena śatruś ca bhoginām. kiṃvīryaḥ kiṃbalaś cāsau vaktum arhasi bhārata. bhīṣmaḥ. vāsudeva mahābāho devakī suprajās tvayā. śrutaṃ te dharmarājasya yaduharṣavivardhana. suparṇaṃ śaṃsa ity eva mām āha kurunandanaḥ. asya pravaktum icchāmi tvayājñapto mahādyute. tvaṃ hi śaure mahābāho suparṇaḥ procyase purā. anādinidhane kāle garuḍaś cāsi keśava. tasmāt pūrvaṃ prasādya tvāṃ dharmaputrāya dhīmate. vāsudevaḥ. garuḍaṃ patatāṃ śreṣṭhaṃ vaktum icchāmi mādhava. yathaiva mā bhavān veda tathā veda yudhiṣṭhiraḥ. bhīṣmaḥ. tathā ca garuḍo rājaṃs tathāsmai brūhi tattvataḥ. yudhiṣṭhira mahābāho śṛṇu rājan yathātatham. garuḍaṃ pakṣiṇāṃ śreṣṭhaṃ vainateyaṃ mahābalam. tathā ca garuḍo rājan suparṇaś ca yathābhavat. yathā ca bhujagān hanti tathā me bruvataḥ śṛṇu. purāhaṃ tāta rāmeṇa jāmadagnyena dhīmatā. kailāsaśikhare ramye mṛgān nighnan sahasraśaḥ. tam ahaṃ tāta dṛṣṭvaiva śastrāṇy utsṛjya sarvaśaḥ. abhivādya pūrvaṃ rāmāya vinayenopatasthivān. tam ahaṃ kathānte varadaṃ suparṇasya balaujasī. apṛcchaṃ sa ca māṃ prītaḥ pratyuvāca yudhiṣṭhira. kadrūś ca vinatā cāstāṃ prajāpatisute ubhe. te dharmeṇopayeme 'tha mārīcaḥ kaśyapaḥ prabhuḥ. prādāt tābhyāṃ varaṃ prīto bhāryābhyāṃ sumahātapāḥ. tatra kadrūr varaṃ vavre putrāṇāṃ daśataḥ śatam. tulyatejaḥprabhāvānāṃ sarveṣāṃ tulyajanmanām. vinatā tu vavre dvau putrau vīrau bharatasattama. kadrūputrasahasreṇa tulyavegaparākramau. sa tu tābhyāṃ varaṃ prādāt tathety uktvā mahātapāḥ. janayām āsa tān putrāṃs tābhyām āsīd yathā purā. kadrūḥ prajajñe tv aṇḍānāṃ tathaiva daśataḥ śatam. aṇḍe dve vinatā caiva darśanīyatare śubhe. tāni tv aṇḍāni tu tayoḥ kadrūvinatayor dvayoḥ. sopasvedeṣu pātreṣu nidadhuḥ paricāriṇaḥ. niḥsaranti tadāṇḍebhyaḥ kadrūputrā bhujaṃgamāḥ. pañcavarṣaśate kāle dṛṣṭaśvāsabalaujasaḥ. vinatā teṣu jāteṣu pannageṣu mahātmasu. viputrā putrasaṃtāpād aṇḍam ekaṃ bibheda ha. kim anena kariṣye 'ham iti vākyam abhāṣata. na hi pañcaśate kāle purā putrau dadarśa sā. sāpaśyadaṇḍān niṣkrāntaṃ vinā patraṃ manasvinam. pūrvakāyopasaṃpannaṃ viyuktam itareṇa ha. dṛṣṭvā tu taṃ tathārūpam asamagraśarīriṇam. putraduḥkhānvitāśocat sa ca pakṣī tathā gataḥ. abravīc ca mudā yuktaḥ paryaśrunayanas tadā. mātaraṃ capalāsīti hato 'ham iti cāsakṛt. na tvayā kāṅkṣitaḥ kālo yāvān evātyagāt purā. āvāṃ bhavāva putrau te śvasanād balavattarau. īrṣyākrodhābhibhūtatvād yo 'ham evaṃ kṛtas tvayā. tasmāt tvam api me mātar dāsībhāvaṃ gamiṣyasi. pañca varṣaśatāni tvaṃ spardhase vai yayā saha. dāsī tasyā bhavitrīti sāśrupātam uvāca ha. eṣa caiva mahābhāge balī balavatāṃ varaḥ. bhīṣmaḥ. mokṣayiṣyati te mātar dāsībhāvān mamānujaḥ. vinatā putraśokārtā śāpād bhītā ca bhārata. pratīkṣate sma taṃ kālaṃ yaḥ putroktas tadābhavat. tato 'py atīte pañcaśate varṣāṇāṃ kālasaṃyuge. garuḍo 'tha mahāvīryo jajñe bhujagabhug balī. bandhurāsyaḥ śikhī patrakośaḥ kūrmanakho mahān. raktākṣaḥ saṃhatagrīvo hrasvapādo mahāśirāḥ. yas tv aṇḍāt sa vinirbhinno niṣkrānto bharatarṣabha. vinatāpūrvajaḥ putraḥ so 'ruṇo dṛśyate divi. pūrvāṃ diśam abhipretya sūryasyodayanaṃ prati. aruṇo 'ruṇasaṃkāśo nāmnā caivāruṇaḥ smṛtaḥ. jātamātras tu vihago garuḍaḥ pannagāśanaḥ. vihāya mātaraṃ kṣipram agamat sarvatodiśam. sa tathā cātivavṛdhe sarvakāmair athārcitaḥ. pitāmahavisṛṣṭena bhojanena viśāṃ pate. tasmiṃś ca vihage tatra yathākāmaṃ vivardhati. kadrūś ca vinatā caiva gacchetāṃ sāgaraṃ prati. dadṛśāte tu te yāntam uccaiḥśravasam antikāt. snātvopavṛttaṃ tvaritaṃ pītavantaṃ ca vājinam. tataḥ kadrūr hasanty eva vinatām idam abravīt. vinatā. hayasya varṇaḥ ko nv atra brūhi yas te mataḥ śubhe. ekavarṇo hayo rājñi sarvaśveto mato mama. kadrūḥ. varṇaṃ vā kīdṛśaṃ tasya manyase tvaṃ manasvini. sarvaśveto matas tubhyaṃ ya eṣa hayasattamaḥ. vinatā. brūhi kalyāṇi dīvyāvo varṇānyatvena bhāmini. yady ārye dīvyasi tvaṃ me kaḥ paṇo no bhaviṣyati. kadrūḥ. sā taj jñātvā paṇeyaṃ vai jñātvā tu vipaṇe tvayā. jitā dāsī bhaver me tvam ahaṃ cāpy asitekṣaṇe. naikavarṇaikavarṇatve vinate rocate ca te. rocate me paṇo rājñi dāsītvena na saṃśayaḥ. bhīṣmaḥ. satyam ātiṣṭha bhadraṃ te satye sthāsyāmi cāpy aham. vinatā tu tathety uktvā kṛtasaṃśayanā paṇe. kadrūr api tathety uktvā putrān idam uvāca ha. mayā kṛtaḥ paṇaḥ putrā mitho vinatayā saha. uccaiḥśravasi gāndharve tac chṛṇudhvaṃ bhujaṃgamāḥ. abravaṃ naikavarṇaṃ taṃ saikavarṇam athābravīt. jitā dāsī bhavet putrāḥ sā vāhaṃ vā na saṃśayaḥ. ekavarṇaś ca vājī sa candrakokanadaprabhaḥ. sāhaṃ dāsī bhaviṣyāmi jitā putrā na saṃśayaḥ. te yūyam aśvapravaram āviśadhvam atandritāḥ. sarpāḥ. sarvaśvetaṃ vāladhiṣu vālā bhūtvāñjanaprabhāḥ. nikṛtyā na jayaḥ śreyān mātaḥ satyā giraḥ śṛṇu. āyatyāṃ ca tadātve ca na ca dharmo 'tra vidyate. sā tvaṃ dharmād apetaṃ vai kulasyaivāhitaṃ tava. nikṛtyā vijayaṃ mātar mā sma kārṣīḥ kathaṃ cana. yady adharmeṇa vijayaṃ vayaṃ kāṅkṣāmahe kva cit. tvayā nāma nivāryāḥ sma mā kurudhvam iti dhruvam. sā tvam asmān api sato vipāpān ṛjubuddhinaḥ. kalmaṣeṇābhisaṃyoktuṃ kāṅkṣase lobhamohitā. te vayaṃ tvāṃ parityajya draviṣyāma diśo daśa. yatra vākyaṃ na te mātaḥ punaḥ śroṣyāma īdṛśam. guror apy avaliptasya kāryākāryam ajānataḥ. kadrūḥ. utpathaṃ pratipannasya parityāgo vidhīyate. śṛṇomi vividhā vāco hetumatyaḥ samīritāḥ. vakragā mannivṛttyarthaṃ tad ahaṃ vo na rocaye. na ca tat paṇitaṃ mandāḥ śakyaṃ jetum ato 'nyathā. jite nikṛtyā śrutvaitat kṣamaṃ kuruta putrakāḥ. śvo 'haṃ prabhātasamaye jitā dharmeṇa putrakāḥ. śailūṣiṇī bhaviṣyāmi vinatāyā na saṃśayaḥ. iha cāmutra cārthāya putrān icchanti mātaraḥ. seyam īhā vipannā me yuṣmān āsādya saṃgatām. iha vā tārayet putraḥ pretya vā tārayet pitṝn. nātra citraṃ bhavet kiṃ cit punātīti ca putratā. te yūyaṃ tāraṇārthāya mama putrā manojavāḥ. āviśadhvaṃ hayaśreṣṭhaṃ vālā bhūtvāñjanaprabhāḥ. jānāmy adharmaṃ sakalaṃ vijitā vinatā bhavet. nikṛtyā dāsabhāvas tu yuṣmān apy avapīḍayet. nikṛtyā vijayo veti dāsatvaṃ vā parājaye. ubhayaṃ niścayaṃ kṛtvā jayo vai dhārmiko varaḥ. yady apy adharmo vijayo yuṣmān eva spṛśet punaḥ. guror vacanam āsthāya dharmo vaḥ sa bhaviṣyati. bhīṣmaḥ. śrutvā tu vacanaṃ mātuḥ kruddhāyās te bhujaṃgamāḥ. kṛcchreṇaivānvamodanta ke cid dhitvā diśo gatāḥ. ye pratasthur diśas tatra kruddhā tān aśapad bhṛśam. bhujaṃgamānāṃ mātāsau kadrūr vairakarī tadā. kadrūḥ. utpatsyati hi rājanyaḥ pāṇḍavo janamejayaḥ. caturtho dhanvināṃ śreṣṭhāt kuntīputrād dhanaṃjayāt. sa sarpasatram āhartā kruddhaḥ kurukulodvahaḥ. tasmin satre 'gninā yuṣmān pañcatvam upaneṣyati. evaṃ kruddhāśapan mātā pannagān dharmacāriṇaḥ. guroḥ parityāgakṛtaṃ naitad anyad bhaviṣyati. evaṃ śaptā diśaḥ prāptāḥ pannagā dharmacāriṇaḥ. vihāya mātaraṃ kruddhā gatā vairakarīṃ tadā. tatra ye vṛjinaṃ tasyā anāpannā bhujaṃgamāḥ. te tasya vājino vālā babhūvur asitaprabhāḥ. tān dṛṣṭvā vāladhisthāṃś ca putrān kadrūr athābravīt. vinatām atha saṃhṛṣṭā hayo 'sau dṛśyatām iti. ekavarṇo na vā bhadre paṇo nau suvyavasthitaḥ. udakād uttarantaṃ taṃ hayaṃ caiva ca bhāminī. sā tv avakramatir devī vinatā jihmagābhinīm. abravīd bhaginīṃ kiṃ cid vihasantīva bhārata. hanta paśyāva gacchāvaḥ sukṛto nau paṇaḥ śubhe. dāsī vā te bhaviṣyāmi tvaṃ vā dāsī bhaviṣyasi. evaṃ sthiraṃ paṇaṃ kṛtvā hayaṃ te tu dadarśatuḥ. kṛtvā sākṣiṇam ātmānaṃ bhaginyau kurusattama. sā dṛṣṭvaiva hayaṃ mandaṃ vinatā śokakarśitā. śvetaṃ candrāṃśuvālaṃ taṃ kālavālaṃ manojavam. tatra sā vrīlitā vākyaṃ vinatā sāśrubindukā. uvāca kālavālo 'yaṃ turago vijitaṃ tvayā. dāsī māṃ preṣayasvārye yathākāmavaśāṃ śubhe. bhīṣmaḥ. dāsyaś ca kāmakārā hi bhartṝṇāṃ nātra saṃśayaḥ. tataḥ kadrūr hasantīva vinatāṃ dharmacāriṇīm. dāsīvat preṣayām āsa sā ca sarvaṃ cakāra tat. na vivarṇā na saṃkṣubdhā na ca kruddhā na duḥkhitā. preṣyakarma cakārāsyā vinatā kamalekṣaṇā. imā diśaś catasro 'syāḥ preṣyabhāvena vartitāḥ. atha sma vainateyaṃ vai baladarpau samīyatuḥ. taṃ darpavaśam āpannaṃ paridhāvantam antikāt. dadarśa nārado rājan devarṣir darpasaṃyutam. tam abravīc ca devarṣir nāradaḥ prahasann iva. kiṃ darpavaśam āpanno na vai paśyasi mātaram. balena dṛptaḥ satatam ahaṃmānakṛtaḥ sadā. dāsīṃ pannagarājasya mātur antargṛhe satīm. tam abravīd vainateyaḥ karma kiṃ tan mahāmune. janayitrī mayi sute jātā dāsī tapasvinī. athābravīd ṛṣir vākyaṃ dīvyatī vijitā khaga. garuḍaḥ. nikṛtyā pannagendrasya mātrā putraiḥ purā saha. kathaṃ jitā nikṛtyā sā bhagavañ jananī mama. brūhi tan me yathāvṛttaṃ śrutvā vetsye tataḥ param. tatas tasya yathāvṛttaṃ sarvaṃ tan nāradas tadā. ācakhyau bharataśreṣṭha yathāvṛttaṃ patatriṇaḥ. tac chrutvā vainateyasya kopo hṛdi samāviśat. jagarhe pannagān sarvān mātrā saha paraṃtapa. tatas tu roṣād duḥkhāc ca tūrṇam utpatya pakṣirāṭ. jagāma yatra mātāsya kṛcchre mahati vartate. tatrāpaśyat tato dīnāṃ jaṭilāṃ malināṃ kṛśām. toyadena praticchannāṃ sūryābhām iva mātaram. tasya duḥkhāc ca roṣāc ca netrābhyām aśru cāsravat. pravṛttiṃ ca nivṛttiṃ ca pauruṣe pratitasthuṣaḥ. anuktvā mātaraṃ kiṃ cit patatrivarapuṃgavaḥ. kadrūm eva sa dharmātmā vacanaṃ pratyabhāṣata. yadi dharmeṇa me mātā jitā yady apy adharmataḥ. jyeṣṭhā tvam asi me mātā dharmaḥ sarvaḥ sa me mataḥ. iyaṃ tu me syāt kṛpaṇā mayi putre 'mba duḥkhitā. anujānīhi tāṃ sādhu matkṛte dharmadarśinī. kadrūḥ śrutvāsya tad vākyaṃ vainateyasya dhīmataḥ. uvāca vākyaṃ duṣprajñā parītā duḥkhamūrchitā. nāhaṃ tava na te mātur vainateya kathaṃ cana. kuryāṃ priyam aniṣṭātmā māṃ bravīṣi khaga dvija. tāṃ tadā bruvatīṃ vākyam aniṣṭāṃ krūrabhāṣiṇīm. dāruṇāṃ sūnṛtābhis tām anunetuṃ pracakrame. garuḍaḥ. jyeṣṭhā tvam asi kalyāṇi mātur me bhāmini priyā. kadrūḥ. sodaryā mama cāsi tvaṃ jyeṣṭhā mātā na saṃśayaḥ. vihaṃgama yathākāmaṃ gaccha kāmagama dvija. sūnṛtābhis tvayā mātā nādāsī śakyam aṇḍaja. amṛtaṃ yady āhares tvaṃ vihaṃga jananīṃ tava. bhīṣmaḥ. adāsīṃ mama paśyemāṃ vainateya na saṃśayaḥ. tathety uktvā tu vihagaḥ pratijñāya mahādyutiḥ. amṛtāharaṇe vācaṃ tataḥ pitaram abravīt. kāmaṃ vai sūnṛtā vāco visṛjya ca muhur muhuḥ. yac cāpy anujñāṃ mātur vai na ca sā hy anumanyate. sā mā bahuvidhā vāco vajrakalpā visṛjya vai. bhagavan vinatā dāsī mama mātā mahādyute. kadrūḥ preṣayate caiva dāsīyam iti cābravīt. āharāmṛtam ity eva mokṣyate vinatā tataḥ. so 'haṃ mātur vimokṣārtham āhariṣya iti bruvan. kaśyapaḥ. amṛtaṃ prārthitas tūrṇam āhartuṃ pratinandya vai. amṛtaṃ tāta duṣprāpaṃ devair api kutas tvayā. rakṣyate hi bhṛśaṃ putra rakṣibhis tan nibodha me. guptam adbhir bhṛśaṃ sādhu sarvataḥ parivāritam. anantaram atho guptaṃ jvalatā jātavedasā. tataḥ śatasahasrāṇi prayutāny arbudāni ca. rakṣanty amṛtam atyarthaṃ kiṃkarā nāma rākṣasāḥ. teṣāṃ śaktyṛṣṭiśūlāṃś ca śataghnyaḥ paṭṭasās tathā. āyudhā rakṣiṇāṃ tāta vajrakalpāḥ śilās tathā. tato jālena mahatā avanaddhaṃ samantataḥ. ayasmayena vai tāta vṛtrahantuḥ sma śāsanāt. tat tvam evaṃvidhaṃ tāta kathaṃ prārthayase 'mṛtam. surakṣitaṃ vajrabhṛtā vainateya vihaṃgama. indreṇa devair nāgaiś ca khaḍgair girijalādibhiḥ. garuḍaḥ. putragṛddhyā bravīṣy etac chṛṇu tāta viniścayam. balavān upāyavān asmi bhūyaḥ kiṃ karavāṇi te. tam abravīt pitā hṛṣṭaḥ prahasan vai punaḥ punaḥ. yadi tau bhakṣayes tāta krūrau kacchapavāraṇau. tathā balam ameyaṃ te bhavitā tan na saṃśayaḥ. garuḍaḥ. amṛtasyaiva cāhartā bhaviṣyasi na saṃśayaḥ. kva tau krūrau mahābhāga vartete hastikacchapau. bhakṣayiṣyāmy ahaṃ tāta balasyāpyāyanaṃ prati. kaśyapaḥ. parvato vai samudrānte nabhaḥ stabdhveha tiṣṭhati. urago nāma duṣprāpaḥ purā devagaṇair api. gorutāni sa vistīrṇaḥ puṣpitadrumasānumān. tatra panthāḥ kṛtas tāta kuñjareṇa balīyasā. gorutāny ucchrayas tasya nava sapta ca putraka. gacchatāgacchatā caiva kṣapitaḥ sa mahāgiriḥ. tāvān bhūmisamas tāta kṛtaḥ panthāḥ samutthitaḥ. tena gatvā sa mātaṃgaḥ pipāsur yuddham icchati. tam atītya tu śailendraṃ hradaḥ kokanadāyutaḥ. kanaketi ca vikhyātas tatra kūrmo mahābalaḥ. gorutāni sa vistīrṇaḥ kacchapaḥ kuñjaraś ca saḥ. āyāmataś cāpi samau tejobalasamanvitau. punarāvṛttim āpannau tāv etau madhukaiṭabhau. janmāntare vipramūḍhau parasparavadhaiṣiṇau. yadā sa nāgo vrajati pipāsus taṃ jalāśayam. tadainaṃ kacchapo roṣāt pratiyāti mahābalaḥ. nakhaiś ca daśanaiś cāpi nimajyonmajya cāsakṛt. virarādāgrahastena kuñjaraṃ taṃ jalecaraḥ. nāgarāḍ api toyārthī pipāsuś caraṇair api. agrahastena dantābhyāṃ nivārayati vārijam. sa tu toyād anuttiṣṭhan vārijo gajayūthapam. nakhaiś ca daśanaiś caiva dviradaṃ pratiṣedhati. nivārito gajaśreṣṭhaḥ punar gacchati svaṃ vanam. pipāsuḥ klinnahastāgro rudhireṇa samukṣitaḥ. tau gaccha sahitau putra yadi śaknoṣi bhakṣaya. na tau pṛthak tvayā śakyāv apramattau bale sthitau. garuḍaḥ. kathaṃ tau bhagavañ śakyau mayā vāraṇakacchapau. kaśyapaḥ. yugapad grahītuṃ tan me tvam upāyaṃ vaktum arhasi. yoddhukāme gaje tasmin muhūrtaṃ sa jalecaraḥ. uttiṣṭhati jalāt tūrṇaṃ yoddhukāmaḥ punaḥ punaḥ. jalajaṃ nirjalaṃ tāta pramattaṃ caiva vāraṇam. bhīṣmaḥ. grahīṣyasi pataṃgeśa nānyo yogo 'tra vidyate. ity evam ukto vihagas tad gatvā vanam uttamam. dadarśa vāraṇendraṃ taṃ meghācalasamaprabham. tāṃ sa nāgo girer vīthiṃ saṃprāpta iva bhārata. sa taṃ dṛṣṭvā mahābhāgaḥ saṃprahṛṣṭatanūruhaḥ. bibhakṣayiṣato rājan dāruṇasya mahātmanaḥ. mātaṃgaṃ kacchapaṃ caiva praharṣaḥ sumahān abhūt. atha vegena mahatā khecaraḥ sa mahābalaḥ. saṃkucya sarvagātrāṇi kṛcchreṇaivānvapadyata. tathā gatvā tam adhvānaṃ vāraṇapravaro balī. niśaśvāsa mahāśvāsaṃ śramād viśramaṇāya ca. tasya niḥśvāsavātena madagandhena caiva ha. udatiṣṭhan mahākūrmo vāraṇapratiṣedhakaḥ. tayoḥ sutumulaṃ yuddhaṃ dadarśa patageśvaraḥ. kacchapendradviradayor indraprahrādayor iva. spṛśantam agrahastena toyaṃ vāraṇayūthapam. dantair nakhaiś ca jalajo vārayām āsa bhārata. jalajaṃ vāraṇo 'py evaṃ caraṇaiḥ puṣkareṇa ca. pratyaṣedhan nimajjantam unmajjantaṃ tathaiva ca. muhūrtam abhavad yuddhaṃ tayor bhīmapradarśanam. atha tasmāj jalād rājan kacchapaḥ sthalam āsthitaḥ. sa tu nāgaḥ prabhagno 'pi pipāsur na nyavartata. toyagṛdhnuḥ śanais tarṣād apāsarpata pṛṣṭhataḥ. taṃ dṛṣṭvā jalajaṃ tūrṇam apasarpantam āhavāt. abhidudrāva vegena vajrapāṇir ivāsuram. taṃ roṣāt sthalam uttīrṇam asaṃprāptaṃ gajottamam. ubhāv eva samastau tu jagrāha vinatāsutaḥ. caraṇena tu savyena jagrāha sa gajottamam. praspandamānaṃ balavān dakṣiṇena tu kacchapam. utpapāta tatas tūrṇaṃ pannagendraniṣūdanaḥ. divaṃ khaṃ ca samāvṛtya pakṣābhyām aparājitaḥ. tena cotpatatā tūrṇaṃ saṃgṛhītau nakhair bhṛśam. vajragarbhaiḥ suniśitaiḥ prāṇāṃs tūrṇaṃ mumocatuḥ. tau gṛhya balavāṃs tūrṇaṃ srastapādaśirodharau. vivalgann iva khe krīḍan khecaro 'bhijagāma ha. attukāmas tato vīraḥ pṛthivyāṃ pṛthivīpate. niraikṣata na cāpaśyad drumaṃ paryāptam āsitum. naimiṣaṃ tv atha saṃprāpya devāraṇyaṃ mahādyutiḥ. apaśyata drumaṃ kaṃ cic chākhāskandhasamāvṛtam. himavacchikharaprakhyaṃ yojanadvayam ucchritam. pariṇāhena rājendra nalvamātraṃ samantataḥ. tasya śākhābhavat kā cid āyatā pañcayojanam. dṛḍhamūlā dṛḍhaskandhā vajrapatrasamācitā. tatropaviṣṭaḥ sahasā vainateyo nigṛhya tau. attukāmas tataḥ śākhāṃ tasya vegād avāpatat. tāṃ patantīm abhiprekṣya prekṣya carṣigaṇān atha. āsīnān vasubhiḥ sārdhaṃ satreṇa jagatīpate. vaikhānasān nāma yatīn vālakhilyagaṇān api. tasya bhīr āviśat tatra patagendrasya bhārata. tān dṛṣṭvā sa yatīṃs tatra samāsīnān suraiḥ saha. tuṇḍena gṛhya tāṃ śākhām utpapāta khageśvaraḥ. tau ca pakṣī bhujaṃgāśo vyomni krīḍann ivāvrajat. taṃ dṛṣṭvā gurusaṃbhāraṃ pragṛhyotpatitaṃ khagam. ṛṣayas te 'bruvan sarve garuḍo 'yam iti sma ha. na tv anyaḥ kṣamate kaś cid yathāyaṃ vīryavān khagaḥ. asau gacchati dharmātmā gurubhārasamanvitaḥ. ayaṃ krīḍann ivākāśe tasmād garuḍa eva saḥ. evaṃ te samayaṃ sarve vasavaś ca divaukasaḥ. akārṣuḥ pakṣirājasya garuḍety eva nāma ha. sa pakṣī pṛthivīṃ sarvāṃ paridhāvaṃs tatas tataḥ. mumukṣuḥ śākhinaḥ śākhāṃ na sma deśam apaśyata. sa vācam aśṛṇod divyām upary upari jalpataḥ. devadūtasya vispaṣṭam ābhāṣya garuḍeti ca. vainateya kuvindeṣu samudrānte mahābala. pātyatāṃ śākhinaḥ śākhā na hi te dharmaniścayaḥ. tac chrutvā garuḍas tūrṇaṃ jagāma lavaṇāmbhasaḥ. uddeśaṃ yatra te mandāḥ kuvindāḥ pāpakarmiṇaḥ. tato gatvā tataḥ śākhāṃ mumoca patatāṃ varaḥ. tayā hatā janapadās tadā ṣaṭtriṃśato nṛpa. sa deśo rājaśārdūla khyātaḥ paramadāruṇaḥ. bhīṣmaḥ. śākhāpataga ity eva kuvindānāṃ durātmanām. hatvā taṃ pakṣiśārdūlaḥ kuvindānāṃ janavrajam. upopaviśya śailāgre bhakṣayām āsa tāv ubhau. vāraṇaṃ kacchapaṃ caiva saṃhṛṣṭaḥ sa patatrirāṭ. tayoḥ sa rudhiraṃ pītvā medasī ca paraṃtapa. saṃhṛṣṭaḥ patatāṃ śreṣṭho labdhvā balam anuttamam. jagāma devarājasya bhavanaṃ pannagāśanaḥ. taṃ praṇamya mahātmānaṃ pāvakaṃ visphuliṅginam. rātriṃdivaṃ prajvalitaṃ rakṣārtham amṛtasya ha. taṃ dṛṣṭvā vihagendrasya bhayaṃ tīvram athāviśat. na tu toyān na rakṣobhyo bhayam asyopapadyate. pakṣitvam ātmano dṛṣṭvā jvalantaṃ ca hutāśanam. pitāmaham atho gatvā dadarśa bhujagāśanaḥ. taṃ praṇamya mahātmānaṃ garuḍaḥ prayatāñjaliḥ. provāca tad asaṃdigdhaṃ vacanaṃ patageśvaraḥ. udyataṃ gurukṛtye māṃ bhagavan dharmaniścitam. vimokṣaṇārthaṃ mātur hi dāsabhāvād aninditam. kadrūsakāśam amṛtaṃ mayā hartavyam īśvara. tadā me jananī deva dāsabhāvāt pramokṣyate. tatrāmṛtaṃ prajvalito nityam īśvara rakṣati. hiraṇyaretā bhagavān pākaśāsanaśāsanāt. tatra me devadeveśa bhayaṃ tīvram athāviśat. jvalantaṃ pāvakaṃ dṛṣṭvā pakṣitvaṃ cātmanaḥ prabho. samatikramituṃ śakyaḥ kathaṃ syāt pāvako mayā. tasyābhyupāyaṃ varada vaktum īśo 'si me prabho. tam abravīn mahābhāga tapyamānaṃ vihaṃgamam. agneḥ saṃśamanopāyam utsmayan sa punaḥ punaḥ. payasā śāmyate vatsa sarpiṣā ca hutāśanaḥ. śarīrastho 'pi bhūtānāṃ kiṃ punaḥ prajvalan bhuvi. navanītaṃ payo vāpi pāvake tvaṃ samādadheḥ. bhīṣmaḥ. tato gaccha yathākāmaṃ na tvā dhakṣyati pāvakaḥ. pitāmahavacaḥ śrutvā garuḍaḥ patatāṃ varaḥ. jagāma gokulaṃ kiṃ cin navanītajihīrṣayā. navanītaṃ tathāpaśyan mathitaṃ kalaśe sthitam. tad ādāya tato 'gacchad yatas tad rakṣyate 'mṛtam. sa tatra gatvā patagas tiryak toyaṃ mahābalaḥ. hutāśanam apakramya navanītam apātayat. so 'rciṣmān mandavego 'bhūt sarpiṣā tena tarpitaḥ. dhūmaketur na jajvāla dhūmam eva sasarja ha. tam atītyāśu garuḍo hṛṣṭātmā jātavedasam. rakṣāṃsi samatikrāmat pakṣavātena pātayan. te patanti śirobhiś ca jānubhiś caraṇais tathā. utsṛjya śastrāvaraṇaṃ pakṣipakṣasamāhatāḥ. utplutya cāvṛtān nāgān hatvā cakraṃ vyatītya ca. arāntareṇa śirasā bhittvā jālaṃ samādravat. sa bhittvā śirasā jālaṃ vajravegasamo balī. ujjahāra tataḥ śīghram amṛtaṃ bhujagāśanaḥ. tad ādāyādravac chīghraṃ garuḍaḥ śvasano yathā. atha saṃnāham akarod vṛtrahā vibudhaiḥ saha. tato mātalisaṃyuktaṃ haribhiḥ svarṇamālibhiḥ. āruroha rathaṃ śīghraṃ sūryāgnisamatejasam. so 'bhyadravat pakṣirājaṃ vṛtrahā pākaśāsanaḥ. udyamya niśitaṃ vajraṃ vajrahasto mahābalaḥ. tathaiva garuḍo rājan vajrahastaṃ samādravat. tato vai mātaliṃ prāha śīghraṃ vāhaya vājinaḥ. atha divyaṃ mahāghoraṃ garuḍāya sasarja ha. vajraṃ sahasranayanas tigmavegaparākramaḥ. utsisṛkṣantam ājñāya vajraṃ vai tridaśeśvaram. tūrṇaṃ vegataro bhūtvā jagāma patatāṃ varaḥ. pitāmahanisargeṇa jñātvā labdhavaraḥ khagaḥ. āyudhānāṃ varaṃ vajram atha śakram uvāca ha. vṛtrahann eṣa vajras te varo labdhaḥ pitāmahāt. ataḥ saṃmānam ākāṅkṣan muñcāmy ekaṃ tanūruham. etenāyudharājena yadi śakto 'si vṛtrahan. hanyās tvaṃ parayā śaktyā gacchāmy aham anāmayaḥ. tat tu tūrṇaṃ tadā vajraṃ svena vegena bhārata. jaghāna parayā śaktyā na cainam adahad bhṛśam. tato devarṣayo rājan gacchanto vai vihāyasā. dṛṣṭvā vajraṃ viṣaktaṃ taṃ pakṣiparṇe 'bruvan vacaḥ. suparṇaḥ pakṣigaruḍo yasya parṇe varāyudham. viṣaktaṃ devarājasya vṛtrahantuḥ sanātanam. evaṃ suparṇo vihago vainateyaḥ pratāpavān. ṛṣayas taṃ vijānanti cāgneyaṃ vaiṣṇavaṃ punaḥ. vedābhiṣṭutam atyantaṃ svargamārgaphalapradam. tanu parṇaṃ suparṇasya jagṛhur barhiṇas tathā. bhīṣmaḥ. mayūrā vismitāḥ sarve ādravanti sma vajriṇam. tato vajraṃ sahasrākṣo dṛṣṭvā saktaṃ varāyudham. ṛṣīṃś ca dṛṣṭvā sahasā suparṇam idam abravīt. na te suparṇa paśyāmi prabhāvaṃ tena yodhaye. ity ukte na mayā rakṣā śakyā kartum ato 'nyathā. idaṃ vajraṃ mayā sārdhaṃ nivṛttaṃ hi yathāgatam. tataḥ sahasranayane nivṛtte garuḍas tathā. garuḍaḥ. kadrūm abhyāgamat tūrṇam amṛtaṃ gṛhya bhārata. tadāhṛtaṃ mayā śīghram amṛtaṃ jananīkṛte. kadrūḥ. adāsī sā bhavatv adya vinatā dharmacāriṇī. svāgataṃ svāhṛtaṃ cedam amṛtaṃ vinatātmaja. adāsī jananī te 'dya putra kāmavaśā śubhā. evam ukte tadā sā ca saṃprāptā vinatā gṛham. upanīya yathānyāyaṃ vihago balināṃ varaḥ. smṛtvā nikṛtyā vijayaṃ mātuḥ saṃpratipadyata. vadhaṃ ca bhujagendrāṇāṃ ye vālās tasya vājinaḥ. babhūvur asitaprakhyā nikṛtyā vai jitaṃ tvayā. tām uvāca tato nyāyaṃ vihago balināṃ varaḥ. ujjahārāmṛtaṃ tūrṇam utpapāta ca raṃhasā. tad gṛhītvāmṛtaṃ tūrṇaṃ prayāntam aparājitam. kadrūr bhujaṃgajananī suparṇam idam abravīt. kimarthaṃ vainateya tvam āhṛtyāmṛtam uttamam. punar harasi durbuddhe mā jātu vṛjinaṃ kṛthāḥ. suparṇaḥ. amṛtāharaṇaṃ me 'dya yat kṛtaṃ jananīkṛte. bhavatyā vacanād etad āharāmṛtam ity uta. āhṛtaṃ tad idaṃ śīghraṃ muktā ca jananī mama. harāmy eṣa punas tatra yata etan mayāhṛtam. yadi māṃ bhavatī brūyād amṛtaṃ me ca dīyatām. tathā kuryāṃ na vā kuryāṃ na hi tvam amṛtakṣamā. bhīṣmaḥ. mayā dharmeṇa satyena vinatā ca samuddhṛtā. tato gatvātha garuḍaḥ puraṃdaram uvāca ha. idaṃ mayā vṛtrahantar hṛtaṃ te 'mṛtam uttamam. mātrarthe hi tathaivedaṃ gṛhāṇāmṛtam āhṛtam. mātā ca mama deveśa dāsītvam upajagmuṣī. bhujaṃgamānāṃ mātur vai sā muktāmṛtadarśanāt. etac chrutvā sahasrākṣaḥ suparṇam anumanyate. uvāca ca mudā yukto diṣṭyā diṣṭyeti vāsavaḥ. ṛṣayo ye sahasrākṣam upāsanti suraiḥ saha. te sarve ca mudā yuktā viśve devās tathaiva ca. tatas tam ṛṣayaḥ sarve devāś ca bharatarṣabha. ūcuḥ puraṃdaraṃ hṛṣṭā garuḍo labhatāṃ varam. tataḥ śacīpatir vākyam uvāca prahasann iva. janiṣyati hṛṣīkeśaḥ svayam evaiṣa pakṣirāṭ. keśavaḥ puṇḍarīkākṣaḥ śūraputrasya veśmani. svayaṃ dharmasya rakṣārthaṃ vibhajya bhujagāśanaḥ. eṣa te pāṇḍavaśreṣṭha garuḍo 'tha patatrirāṭ. suparṇo vainateyaś ca kīrtito bhadram astu te. tad etad dadatāṃ śreṣṭha mayākhyānaṃ prakīrtitam. suparṇasya mahābāho kiṃ bhūyaḥ kathayāmi te.