तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज। न च त्वं कृतवान् किं चिद् आगः प्रीतो ऽस्मि तेन ते। मनोदोषविहीनानां न दोषः स्यात् तथा तव। अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा। यतेश् च कामुकानां च योषिद्रूपे ऽन्यथा मतिः। अशिक्षयैव मनसः प्रायो लोकस् तु वञ्च्यते। लोलेत्य् उद्विजते लोको वक्त्रासव इति स्पृहा। अबन्धायोग्यमनसाम् इति मन्त्रात्मदैवतम्। न रागस्नेहलोभान्धं कर्मिणां तन् महाफलम्। निष्कषायो विशुद्धस् त्वं रुच्यावेशान् न दूषितः।
tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija. na ca tvaṃ kṛtavān kiṃ cid āgaḥ prīto 'smi tena te. manodoṣavihīnānāṃ na doṣaḥ syāt tathā tava. anyathāliṅgyate kāntā snehena duhitānyathā. yateś ca kāmukānāṃ ca yoṣidrūpe 'nyathā matiḥ. aśikṣayaiva manasaḥ prāyo lokas tu vañcyate. lolety udvijate loko vaktrāsava iti spṛhā. abandhāyogyamanasām iti mantrātmadaivatam. na rāgasnehalobhāndhaṃ karmiṇāṃ tan mahāphalam. niṣkaṣāyo viśuddhas tvaṃ rucyāveśān na dūṣitaḥ.