भीष्म उवाच। एतद् राज्ञः कृत्यतमम् अभिषिक्तस्य भारत। ब्राह्मणानाम् अनुष्ठानम् अत्यन्तं सुखम् इच्छता। ब्राह्मणानां रक्षणं च पूजा च सुखम् इच्छतः। कर्तव्यं पार्थिवेनेह तद् विद्धि भरतर्षभ। श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यम् एवाभिपूजयेत्।
bhīṣma uvāca. etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata. brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā. brāhmaṇānāṃ rakṣaṇaṃ ca pūjā ca sukham icchataḥ. kartavyaṃ pārthiveneha tad viddhi bharatarṣabha. śrotriyān brāhmaṇān vṛddhān nityam evābhipūjayet.