ततस् तु द्विशते काले लभते काण्डपृष्ठताम्। सर्वस्त्रीषु प्रवृत्ताश् च ये च वेदबहिष्कृताः। काण्डपृष्ठास् तु ते ज्ञेयाः सर्वकर्मबहिष्कृताः। काण्डपृष्ठश् चिरं कालं तत्रैव परिवर्तते।
tatas tu dviśate kāle labhate kāṇḍapṛṣṭhatām. sarvastrīṣu pravṛttāś ca ye ca vedabahiṣkṛtāḥ. kāṇḍapṛṣṭhās tu te jñeyāḥ sarvakarmabahiṣkṛtāḥ. kāṇḍapṛṣṭhaś ciraṃ kālaṃ tatraiva parivartate.