शिलवृत्तिर् उवाच। के देशाः के जनपदाः के ऽऽश्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काश् च ज्ञेया नद्यस् तद् उच्यताम्। सिद्ध उवाच। पुष्करं च प्रभासं च नैमिषं हिमवान् गिरिः। गङ्गा च यमुना चैव वेदिका मथुरा गया। सरस्वत्यारुणा चैव कुरुक्षेत्रं पृथूदकम्। शिलवृत्तिर् उवाच। एतेषां कतमस्याहं माहात्म्यं कथयामि ते। बाल्यात् प्रभृति विप्रेन्द्र भक्तिः कौतुकम् एव च। माहात्म्यं प्रति विप्रेन्द्र गङ्गाया मम तत्त्वतः।
śilavṛttir uvāca. ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ. prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām. siddha uvāca. puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ himavān giriḥ. gaṅgā ca yamunā caiva vedikā mathurā gayā. sarasvatyāruṇā caiva kurukṣetraṃ pṛthūdakam. śilavṛttir uvāca. eteṣāṃ katamasyāhaṃ māhātmyaṃ kathayāmi te. bālyāt prabhṛti viprendra bhaktiḥ kautukam eva ca. māhātmyaṃ prati viprendra gaṅgāyā mama tattvataḥ.