कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्। उवास मुदितस् तत्र आश्रमे स्वे गतज्वरः। युधिष्ठिरः। वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च। ब्रह्मर्षय इति प्रोक्ताः पुराणा द्विजसत्तमाः। कथम् एतन् महाराज तत्त्वं शंसितुम् अर्हसि। भीष्मः। विरुद्धम् इह पश्यामि वियोनौ ब्राह्मणो भवेत्। अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर। शुभेतरं शुभं वापि न चिन्तयितुम् अर्हसि। ईशन्त्य् आत्मन इत्य् एतद् गतिश् चैषां न सज्जते। ब्रह्मभूयांस इत्य् एव ऋषयः श्रुतिचोदिताः। निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम्। लोको ऽनुमन्यते चैतान् प्रमाणं ह्य् अत्र वै तपः। एवं महात्मभिस् तात तपोज्ञानसमन्वितैः। प्रवर्तितानि कार्याणि प्रमाणान्य् एव सत्तम। भार्याश् चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः। ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ। राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ। वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ। शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु संकरः। शूद्रायास् तु नरश्रेष्ठ चत्वारः पतयः स्मृताः। वर्णोत्तमायास् तु पतिः सवर्णस् त्व् एक एव सः। द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस् तथा। वैश्यायास् तु नरश्रेष्ठ विहिताः पतयस् त्रयः। सवर्णः क्षत्रियश् चैव ब्राह्मणश् च विशां पते। एवं विधिम् अनुस्मृत्य ततस् ते ऋषिभिः पुरा। उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा। पुराणाभ्याम् ऋषिभ्यां तु मित्रेण वरुणेन च। वसिष्ठो ऽथ तथागस्त्यो बर्हिषद्भिस् तथैव च। कक्षीवान् आर्ष्टिषेणश् च पुरुषः कक्ष एव च। मामतेयस्य वै पुत्रा गौतमस्यात्मजाः स्मृताः। वत्सप्रियश् च भगवान् स्थूलरश्मिस् तथाक्षणिः। गौतमस्यैव तनया ये दास्यां जनिता ह्य् उत। कपिंजलादो ब्रह्मर्षिश् चण्डाल्याम् उदपद्यत। वैनतेयस् तथा पक्षी तुर्यायां च वसिष्ठतः। प्रसादाच् च वसिष्ठस्य शुल्काभ्युपगमेन च। अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा। ब्राह्मणत्वम् अनुप्राप्तो ब्रह्मर्षित्वं च कौरव। वैश्यश् चित्रमुखः कन्यां वसिष्ठतनयस्य वै। शुभां प्रादाद् यतो जातो ब्रह्मर्षिस् तु पराशरः। तथैव दाशकन्यायां सत्यवत्यां महान् ऋषिः। पराशरात् प्रसूतश् च व्यासो योगमयो मुनिः। विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः। ऋश्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः। शाङ्गर्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः। जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः। द्रोणश् च स्तम्बमित्रश् च शारिसृक्वश् च बुद्धिमान्। जरितारिश् च विख्याताश् चत्वारः सूर्यसंनिभाः। महर्षेः कालवृक्षस्य शकुन्त्याम् एव जज्ञिवान्। हिरण्यहस्तो भगवान् महर्षिः काञ्चनप्रभः। पावकात् तात संभूता मनसा च महर्षयः। पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः। सवर्णश् चापि राजर्षिः सवर्णायाम् अजायत। मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता। शाण्डिल्यश् चाग्नितो जातः काश्यपस्यात्मजः प्रभुः। शरद्वतः शरस्तम्बात् कृपश् च कृपया सह। पद्माच् च जज्ञे राजेन्द्र सोमपस्य महात्मनः। रेणुश् च रेणुका चैव राममाता यशस्विनी। यमुनायां समुद्भूतः सोमकेन महात्मना। अर्कदत्तो महान् ऋषिः प्रथितः पृथिवीतले। अग्नेर् आहवनीयाच् च द्रुपदस्येन्द्रवर्चसः। धृष्टद्युम्नश् च संभूतो वेद्यां कृष्णा च भारत। व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः। एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः। मन्धश् च बादलोमश् च जाबालिश् च महान् ऋषिः। मन्युश् चैवोपमन्युश् च सेतुकर्णस् तथैव च। एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः। विश्वकाशस्य राजर्षेर् ऐक्ष्वाकोस् तु महात्मनः। बालाश्वो नाम पुत्रो ऽभूच् छिखां भित्त्वा विनिःसृतः। मान्धाता चैव राजर्षिर् युवनाश्वेन धीमता। स्वयं धृतो ऽथ गर्भेण दिव्यास्त्रबलसंयुतः। गौरिकश् चापि राजर्षिश् चक्रवर्ती महायशाः। बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना। भूमेश् च पुत्रो नरकः संवर्तश् चैव पुष्कलः। अद्भिश् चैव महातेजा ऋषिर् गार्ग्यो ह्य् अजायत। एते चान्ये च बहवो राजन्या ब्राह्मणास् तथा। प्रभावेनाभिसंभूता महर्षीणां महात्मनाम्। नासाध्यं तपसा तेषां विद्ययात्मगुणैः परैः। अस्मिन्न् अर्थे च मनुना गीतः श्लोको नराधिप। धर्मं प्रणयता राजंस् तं निबोध युधिष्ठिर। ऋषीणां च नदीनां च साधूनां च महात्मनाम्। प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च। तन् नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे। यथा सर्वगतो ह्य् अग्निस् तथा तेजो महात्मसु। युधिष्ठिरः। पुत्रैः कथं महाराज पुरुषस् तारितो भवेत्। यावन् न लब्धवान् पुत्रम् अफलः पुरुषो नृप। भीष्मः। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते। पर्वतं नारदं चैव असितं देवलं च तम्। आरणेयं च रैभ्यं च एतान् अत्रागतान् पुरा। गङ्गायमुनयोर् मध्ये भोगवत्याः समागमे। दृष्ट्वा पूर्वं समासीनान् मार्कण्डेयो ऽभ्यगच्छत। ऋषयस् तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः। अर्चयित्वार्हतो विप्रं किं कुर्म इति चाब्रुवन्। मार्कण्डेयः। अयं समागमः सद्भिर् यत्नेनासादितो मया। अत्र प्राप्स्यामि धर्माणाम् आचारस्य च निश्चयम्। ऋजुः कृतयुगे धर्मस् तस्मिन् क्षीणे विमुह्यति। युगे युगे महर्षिभ्यो धर्मम् इच्छामि वेदितुम्। ऋषिभिर् नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः। धर्माधर्मेषु तत्त्वज्ञ त्वं हि च्छेत्तासि संशयान्। ऋषिभ्यो ऽनुमतं वाक्यं नियोगान् नारदो ऽब्रवीत्। सर्वधर्मार्थतत्त्वज्ञं मार्कण्डेयं ततो ऽब्रवीत्। दीर्घायो तपसा दीप्त वेदवेदाङ्गतत्त्ववित्। यत्र ते संशयो ब्रह्मन् समुत्पन्नः स उच्यताम्। धर्मं लोकोपकारं वा यच् चान्यच् छ्रोतुम् इच्छसि। मार्कण्डेयः। तद् अहं कथयिष्यामि ब्रूहि त्वं सुमहातपः। युगे युगे व्यतीते ऽस्मिन् धर्मसेतुः प्रणश्यति। नारदः। कथं धर्मच्छलेनाहं प्राप्नुयाम् इति मे मतिः। आसीद् धर्मः पुरा विप्र चतुष्पादः कृते युगे। ततो ह्य् अधर्मः कालेन प्रसूतः किं चिद् उन्नतः। ततस् त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम्। तस्मिन् व्यतीते संप्राप्तं तृतीयं द्वापरं युगम्। तदा धर्मस्य द्वौ पादाव् अधर्मो नाशयिष्यति। द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते। लोकवृत्तं च धर्मं च उच्यमानं निबोध मे। चतुर्थं नन्दिकं नाम धर्मपादाव् अशेषतः। ततःप्रभृति जायन्ते क्षीणप्रज्ञायुषो नराः। मार्कण्डेयः। क्षीणप्राणधना लोके धर्माचारबहिष्कृताः। एवं विलुलिते धर्मे लोके चाधर्मसंयुते। नारदः। चातुर्वर्ण्यस्य नियतं हव्यकव्यं नियच्छति। मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति। प्रतिगृह्णन्ति तद् देवा दातुर् न्यायात् प्रयच्छतः। सत्त्वयुक्तं च दाता च सर्वान् कामान् अवाप्नुयात्। मार्कण्डेयः। अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम्। चत्वारो ह्य् अथ ये वर्णा हव्यकव्यं प्रदास्यते। नारदः। मन्त्रहीनम् अपन्यायं तेषां दत्तं क्व गच्छति। असुरान् गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः। मार्कण्डेयः। वैश्यैः प्रेतानि वै दत्तं शूद्रैर् भूतानि गच्छति। अथ वर्णावरे जाताश् चातुर्वर्ण्यापदेशिनः। नारदः। दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति। वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम्। नैव देवा न पितरः प्रतिगृह्णन्ति तत् स्वयम्। यातुधानाः पिशाचाश् च भूता ये चापि नैरृताः। तेषां सा विहिता वृत्तिः पितृदैवतनिर्गता। तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः। मार्कण्डेयः। यत् प्रयच्छन्ति विधिवत् तद् वै भुञ्जन्ति देवताः। श्रुतं वर्णावरे दत्तं हव्यं कव्यं च नारद। नारदः। संप्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे। कन्याप्रदानं पुत्राणां स्त्रीणां संयोगम् एव च। आनुपूर्व्यान् मया सम्यग् उच्यमानं निबोध मे। जातमात्रा तु दातव्या कन्यका सदृशे वरे। कालदत्तासु कन्यासु पिता धर्मेण युज्यते। यस् तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति। मासि मासि गते बन्धुस् तस्या भ्रौणघ्न्यम् आप्नुते। यस् तु कन्यां गृहे रुन्ध्याद् ग्राम्यैर् भोगैर् विवर्जिताम्। अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम्। दूषिता पाणिमात्रेण मृते भर्तरि दारिका। संस्कारं लभते नारी द्वितीये सा पुनः पतौ। पुनर् भूर् नाम सा कन्या सपुत्रा हव्यकव्यदा। मार्कण्डेयः। अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि। या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत्। अथ दारक्रियां भूयः सा भजेद् ऋषिसत्तम। नारदः। तत्त्वार्थनिश्चितं शब्दं कन्यका नयते ऽग्नये। तस्मात् कुर्वन्ति वै भावं कुमार्यस् ता न कन्यकाः। ब्रह्महत्यात्रिभागेन गर्भाधानविशोधिताम्। मार्कण्डेयः। गृह्णीयात् तां चतुर्भागं विशुद्धां सर्जनात् पुनः। कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा। कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने। नारदः। कन्यायास् तु पितुः पुत्राः कानीना हव्यकव्यदाः। मार्कण्डेयः। अन्तर्वत्न्यास् तु यः पाणिं गृह्णीयात् स सहोढजः। अथ येनाहितो गर्भः कन्यायां तत्र नारद। नारदः। कथं पुत्रफलं तस्य भवेद् एतत् प्रचक्ष्व मे। धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः। बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते। मार्कण्डेयः। अथ का चिद् भवेत् कन्या क्रीता दत्ता हृतापि वा। नारदः। कथं पुत्रकृतं तस्यास् तद् भवेद् ऋषिसत्तम। क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता। कौमारी नाम सा भार्या प्रसवेद् औरसान् सुतान्। मार्कण्डेयः। न पत्यर्थे शुभा प्रोक्ता तत्कर्मण्य् अपराजिते। केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः। नारदः। एतद् इच्छामि विज्ञातुं तत्त्वेनेह महामुने। नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता। शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु। आकरस्थं यथा रत्नं सर्वकामफलोपगम्। तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम्। एवं कन्या परा लक्ष्मी रतिस् तोषश् च देहिनाम्। महाकुलानां चारित्रं वृत्तेन निकषोपलम्। आनयित्वा स्वकाद् वर्णात् कन्यकां यो भजेन् नरः। दातारं हव्यकव्यानां पुत्रकं सा प्रसूयते। साध्वी कुलं वर्धयति साध्वी पुष्टिर् गृहे परा। मार्कण्डेयः। साध्वी लक्ष्मी रतिः साक्षात् प्रतिष्ठा संततिस् तथा। श्रुतं बहुविधं वृत्तं कन्यकानां महामते। इच्छामि योषितां श्रोतुं धर्माधर्मं परिग्रहे। नारदः। अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि। प्रेत्येह च हिता यास् तु सपुत्रा हव्यकव्यदाः। साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता। भ्रातृभार्या स्वभार्येति प्रसूयेत् पुत्रम् औरसम्। मार्कण्डेयः। त्रयो भार्यागमा ज्ञाता यत्र धर्मो न नश्यति। नारदः। पञ्चान्याः पश्चिमा ब्रूहि भार्यास् तासां च ये सुताः। सगोत्रभार्या क्रीता च परभार्या च कारिता। गतागता च या भार्या आश्रमाद् आहृता च या। एते भार्यागमाः पञ्च पुनर् भार्या भवन्ति याः। मार्कण्डेयः। एता भार्या नृणां गम्यास् तत्पुत्रा हव्यकव्यदाः। श्रुता भार्याश् च पुत्राश् च विस्तरेण महामुने। नारदः। आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि मे। आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति। नष्टवंश्या भवन्त्य् एता बन्धूनाम् अथ भर्तृणाम्। परदारा मुक्तदोषास् ता नार्यो ऽऽश्रमसंस्थिताः। स्वयम् ईशाः स्वदेहानां काम्यास् तद्गतमानसाः। एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु। धर्मपत्न्यो भवन्त्य् एताः सपुत्रा हव्यकव्यदाः। मार्कण्डेयः। परस्य भार्या या पूर्वं मृते भर्तरि या पुनः। नारदः। अन्यं भजति भर्तारं ससुता असुता कथम्। असूता वा प्रसूता वा गृहस्थानां परस्त्रियः। परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः। न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः। मार्कण्डेयः। यस् तासु जनयेत् पुत्रान् न तैः पुत्रम् अवाप्नुयात्। परक्षेत्रेषु यो बीजं चापल्याद् विसृजेन् नरः। नारदः। कथं पुत्रफलं तस्य भवेत् तद् ऋषिसत्तम। अस्वामिके परक्षेत्रे यो नरो बीजम् उत्सृजेत्। स्वयंवृत्तो ऽऽश्रमस्थायां तद् बीजं न विनश्यति। परक्षेत्रेषु यो बीजं नरो दर्पात् समुत्सृजेत्। क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम्। नातः परम् अधर्म्यं चाप्य् अयशस्यं तथोत्तरम्। गर्भादीनां च बहुभिस् ताश् च त्याज्याः समेष्व् अपि। मार्कण्डेयः। अथ ये परदारेषु पुत्रा जायन्ति नारद। नारदः। कस्य ते बन्धुदायादा भवन्ति परमद्युते। परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ। जीवत्य् अथ पतौ कुण्डो मृते भर्तरि गोलकः। ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च। दत्तानि हव्यकव्यानि नाशयन्त्य् अथ दातृणाम्। पितुर् हि नरकायैते गोलकस् तु विशेषतः। मार्कण्डेयः। चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः। कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः। नारदः। यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ् जनयेत् सुतान्। क्षेत्रिकश् चैव बीजी च द्वाव् एतौ निरयं गतौ। न रक्षति हि यो दारान् परदारांश् च गच्छति। गर्हितास् ते नरा नित्यं धर्माचारबहिष्कृताः। मार्कण्डेयः। कुण्डो भोक्ता च भोजी च कुत्सिताः पितृदैवतैः। तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद। नारदः। कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलम्। यातुधानाः पिशाचाश् च प्रतिगृह्णन्ति तैर् हुतम्। हव्यं कव्यं च तैर् दत्तं ये च भूता निशाचराः। मार्कण्डेयः। अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम्। नारदः। किं वा धर्मफलं तेषां भवेत् तद् ऋषिसत्तम। न दत्तं नश्यते किं चित् सर्वभूतेषु दातृणाम्। मार्कण्डेयः। प्रेत्य चेह च तां पुष्टिम् उपाश्नन्ति प्रदायिनः। अथ गोलककुण्डाभ्यां संततिर् या भविष्यति। तयोर् ये बान्धवाः के चित् प्रदास्यन्ति कथं नु तत्। नारदः। साध्वीजाताः सुतास् तेषां तां वृत्तिम् अनुतिष्ठताम्। प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः। एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः। हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः। मार्कण्डेयः। श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम्। नारदः। प्रमदानां तु चापल्ये दोषम् इच्छामि वेदितुम्। एकवर्णे ऽपि दोषं तु गमनं पूर्वकालिकम्। धाता च समनुज्ञातो विष्णुना तत् तथाकरोत्। भगलिङ्गे महाप्राज्ञ पूर्वम् एव प्रजापतिः। ससर्ज ताभ्यां संयोगम् अनुज्ञातश् चकार सः। अथ विष्णुप्रसादेन भगो दत्तवरः किल। तेन चैव प्रसादेन सर्वांल् लोकान् उपाश्नुते। तस्मात् तु पुरुषे दोषो ह्य् अधिको नात्र संशयः। विना गर्भं सवर्णेषु न त्याज्या गमनात् स्त्रियः। प्रायश्चित्तं यथान्यायं दण्डं कुर्यात् स पण्डितः। श्वभिर् वा दशनं स्नानं सवनत्रितयं निशि। भूमौ च भस्मशयनं दानं भोगविवर्जितम्। दोषगौरवतः कालो द्रव्यगौरवम् एव च। मर्यादा स्थापिता पूर्वम् इति तीर्थान्तरं गते। तद् योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे। भगस्तीर्थान्तरे शुद्धो विष्णोस् तु वचनाद् इह। रक्ष्याश् चैवान्यसंवादैर् अन्यगेहाद् विमोक्षणैः। आसां शुद्धौ विशेषेण कर्मणां फलम् अश्नुते। नैता वाच्या न वै वध्या न क्लेश्याः शुभम् इच्छता। विष्णुप्रसादाद् इत्य् एव भगस्तीर्थान्तरं गतः। मासि मासि रजस् तासां दुष्कृतान्य् अपकर्षति। स्त्रियस् तोषकरा नॄणां स्त्रियस् तुष्टिप्रदाः सदा। मार्कण्डेयः। पुत्रसेतुप्रतिष्ठाश् च स्त्रियो लोके महाद्युते। श्रुतं बलं प्रभावश् च योषितां मुनिसत्तम। नारदः। एकस्य बहुभार्यस्य धर्मम् इच्छामि वेदितुम्। बहुभार्यासु सक्तस्य नारीभोगेषु देहिनः। ऋतौ विमुच्यमानस्य सांनिध्ये भ्रूणहा स्मृतः। वृद्धां वन्ध्यां सुव्रतां च मृतापत्याम् अपुष्पिणीम्। कन्यां च बहुपुत्रां च वर्जयन् मुच्यते भयात्। व्याधितो बन्धनस्थो वा प्रवासेष्व् अथ पर्वसु। ऋतुकालेषु नारीणां भ्रूणहत्यां प्रमुञ्चति। मार्कण्डेयः। वेशनारीषु वै जाताः परप्रेष्यासु वा सुताः। नारदः। कस्य ते बन्धुदायादा भवन्ति हि महामुने। पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः। मार्कण्डेयः। क्रयाच् च कृत्रिमाः पुत्राः प्रदानाच् चैव दत्रिमाः। पण्यनारीष्व् अनियतः पुंसो ऽर्थो वर्तते ध्रुवम्। अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम्। नारदः। तीर्थभूतासु नारीषु ज्ञायते यो ऽभिगच्छति। मार्कण्डेयः। ऋतौ तस्य भवेद् गर्भो यं वा नारी न शङ्कते। नराणां त्यजतां भार्यां कामक्रोधाद् गुणान्विताम्। नारदः। अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम्। अपापां त्यजमानस्य साध्वीं मत्वैवम् आदितः। आत्मवंशः स्वधर्मो वा त्यजतो निष्कृतिर् न तु। यो नरस् त्यजते भार्यां पुष्पिणीम् अप्रसूतिकाम्। स नष्टवंशः पितृभिर् युक्तस् त्यज्येत दैवतैः। भार्याम् अपत्यसंजातां प्रसूतां पुत्रपौत्रिणीम्। पुत्रदारपरित्यागी न संप्राप्नोति निष्कृतिम्। एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः। मार्कण्डेयः। नार्हन्ति प्रमदास् त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः। कीदृशीं संत्यजन् भार्यां नरो दोषैर् न लिप्यते। नारदः। एतद् इच्छामि तत्त्वेन विज्ञातुम् ऋषिसत्तम। मोक्षधर्मस्थितानां तु अन्योन्यम् अनुजानताम्। भार्यापतीनां मुक्तानाम् अधर्मो न विधीयते। अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम्। परीक्ष्य त्यजमानानां नराणां नास्ति पातकम्। पातके ऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा। मार्कण्डेयः। भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा। नारदः। कथं धर्मो ऽप्य् अधर्मो वा भवतीह महामते। अनृते ऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत्। अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा। अपत्यहेतोर् या नारी भर्तारम् अतिलङ्घयेत्। लोलेन्द्रियेति सा रक्ष्या न संत्याज्या कथं चन। नद्यश् च नार्यश् च समस्वभावा। नैताः प्रदुष्यन्ति नरावगाढाः। स्रोतांसि नद्या वहते निपातं। नारी रजोभिः पुनर् एति शौचम्। एवं नार्यो न दुष्यन्ति व्यभिचारे ऽपि भर्तृणाम्। मासि मासि भवेत् त्यागस् ततः शुद्धा भवन्त्य् उत। मार्कण्डेयः। कानि तीर्थानि भगवन् नृणां देहाश्रितानि वै। तानि वै शंस भगवन् याथातथ्येन पृच्छतः। सर्वतीर्थेषु तीर्थज्ञ किं तीर्थं परमं नृणाम्। यत्रोपस्पृश्य पूतात्मा नरो भवति नित्यशः। नारदः। देवर्षिपितृतीर्थानि ब्राह्मं मध्ये ऽथ वैष्णवम्। नृणां तीर्थानि पञ्चाहुः पाणौ संनिहितानि वै। आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते। यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम्। मार्कण्डेयः। पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च। नराणां कामवृत्तानां या नार्यो निरवग्रहाः। यासाम् अभिग्रहो नास्ति ता मे कथय नारद। नारदः। वागुर् वेश्या नटी गोपी तान्तुकी तुन्नवायिकी। मार्कण्डेयः। नारी किराती शबरी नर्तकी चानभिग्रहा। एतासु जाता नारीषु सर्ववर्णेषु ये सुताः। नारदः। तेषु के बन्धुदायादा भवन्ति ऋषिसत्तम। य एताः परिगृह्णन्ति तेषाम् एव हि ते सुताः। सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम्। मार्कण्डेयः। सर्वस्त्रीषु प्रवृत्ताश् च साधुवेदविवर्जिताः। मानवाः काण्डपृष्ठाश् च वेदमन्त्रबहिष्कृताः। नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत्। नारदः। नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः। मार्कण्डेयः। व्रात्येष्व् अन्नप्रदानं तद् यथा शूद्रेषु वै तथा। धर्मेष्व् अधिकृतानां तु नराणां मुह्यते मनः। नारदः। कथं नु विघ्नो भवति एतद् इच्छामि वेदितुम्। अर्थाश् च नार्यश् च समानम् एतच्। छ्रेयांसि पुंसाम् इह मोहयन्ति। रतिप्रमोदात् प्रमदा हरन्ति। भोगैर् धनं चाप्य् उपहन्ति धर्मान्। हव्यं कव्यं च धर्मात्मा सर्वं तच् छ्रोत्रियो ऽर्हति। मार्कण्डेयः। दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाव् इवाहुतिः। श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम्। नारदः। हित्वा कस्मात् त्रयीं विद्यां वार्तां वृत्तिम् उपाश्रिताः। चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु। तस्माद् वर्णैः संविभज्या वृत्तिः संकरवर्जिता। ये चान्ये श्रोत्रियाज् जाताः संस्कृताः पुत्रगृध्नुभिः। मार्कण्डेयः। पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिम् उपाश्रिताः। नारदः। असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिनः कथम्। असंस्कारो वैदिकश् च न मान्यः श्रोत्रियात्मजः। शुद्धान्वयः श्रोत्रियस् तु स विद्वद्भिः समो ऽन्यथा। अनधीयानपुत्राश् च वेदसंस्कारवर्जिताः। तस्मात् ते वेदविज्ञापि विप्राः श्रुतिनिकारिणः। ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः। मार्कण्डेयः। तस्मात् तेष्व् एव ते जाताः साधवः कुलधारिणः। स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः। कस्य नार्यः सुताश् चैव भवन्ति ऋषिसत्तम। नारदः। स्वदास्यां यो नरो मोहात् प्रसूयेत स पापकृत्। इहापि निन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत्। सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास् तु ते। तस्या ये बान्धवाः के चिद् विषक्ताः प्रेष्यतां गताः। सर्वे तस्यास् तु संबन्धान् मुच्यन्ते प्रेष्यकर्मसु। एतत् ते कथितं सर्वं यद् अभिव्याहृतं त्वया। मार्कण्डेयः। अथ वा संशयः कश् चिद् भूयः संप्रष्टुम् अर्हसि। अमिथ्यादर्शनो लोके नारदः सर्वकोविदः। भीष्मः। प्रत्यक्षदर्शी लोकानां स्वयंभूर् इव सत्तमः। इति संभाष्य ऋषिभिर् मार्कण्डेयो महातपाः। नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः। आमन्त्रयित्वा ऋषिभिः प्रययाव् आश्रमं मुनिः। ऋषयश् चापि तीर्थानां परिचर्यां प्रचक्रमुः। सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया। नित्यनैमित्तिकात् स्नातो मनःशुद्ध्या च शुध्यति।
kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām. uvāsa muditas tatra āśrame sve gatajvaraḥ. yudhiṣṭhiraḥ. vaiśyayonyāṃ samutpannāḥ śūdrayonyāṃ tathaiva ca. brahmarṣaya iti proktāḥ purāṇā dvijasattamāḥ. katham etan mahārāja tattvaṃ śaṃsitum arhasi. bhīṣmaḥ. viruddham iha paśyāmi viyonau brāhmaṇo bhavet. alaṃ kautūhalenātra nibodha tvaṃ yudhiṣṭhira. śubhetaraṃ śubhaṃ vāpi na cintayitum arhasi. īśanty ātmana ity etad gatiś caiṣāṃ na sajjate. brahmabhūyāṃsa ity eva ṛṣayaḥ śruticoditāḥ. nindyā na caite rājendra pramāṇaṃ hi pramāṇinām. loko 'numanyate caitān pramāṇaṃ hy atra vai tapaḥ. evaṃ mahātmabhis tāta tapojñānasamanvitaiḥ. pravartitāni kāryāṇi pramāṇāny eva sattama. bhāryāś catasro rājendra brāhmaṇasya svadharmataḥ. brāhmaṇī kṣatriyā vaiśyā śūdrā ca bharatarṣabha. rājñāṃ tu kṣatriyā vaiśyā śūdrā ca bharatarṣabha. vaiśyasya vaiśyā vihitā śūdrā ca bharatarṣabha. śūdrasyaikā smṛtā bhāryā pratilome tu saṃkaraḥ. śūdrāyās tu naraśreṣṭha catvāraḥ patayaḥ smṛtāḥ. varṇottamāyās tu patiḥ savarṇas tv eka eva saḥ. dvau kṣatriyāyā vihitau brāhmaṇaḥ kṣatriyas tathā. vaiśyāyās tu naraśreṣṭha vihitāḥ patayas trayaḥ. savarṇaḥ kṣatriyaś caiva brāhmaṇaś ca viśāṃ pate. evaṃ vidhim anusmṛtya tatas te ṛṣibhiḥ purā. utpāditā mahātmānaḥ putrā brahmarṣayaḥ purā. purāṇābhyām ṛṣibhyāṃ tu mitreṇa varuṇena ca. vasiṣṭho 'tha tathāgastyo barhiṣadbhis tathaiva ca. kakṣīvān ārṣṭiṣeṇaś ca puruṣaḥ kakṣa eva ca. māmateyasya vai putrā gautamasyātmajāḥ smṛtāḥ. vatsapriyaś ca bhagavān sthūlaraśmis tathākṣaṇiḥ. gautamasyaiva tanayā ye dāsyāṃ janitā hy uta. kapiṃjalādo brahmarṣiś caṇḍālyām udapadyata. vainateyas tathā pakṣī turyāyāṃ ca vasiṣṭhataḥ. prasādāc ca vasiṣṭhasya śulkābhyupagamena ca. adṛśyantyāḥ pitā vaiśyo nāmnā citramukhaḥ purā. brāhmaṇatvam anuprāpto brahmarṣitvaṃ ca kaurava. vaiśyaś citramukhaḥ kanyāṃ vasiṣṭhatanayasya vai. śubhāṃ prādād yato jāto brahmarṣis tu parāśaraḥ. tathaiva dāśakanyāyāṃ satyavatyāṃ mahān ṛṣiḥ. parāśarāt prasūtaś ca vyāso yogamayo muniḥ. vibhaṇḍakasya mṛgyāṃ ca tapoyogātmako muniḥ. ṛśyaśṛṅgaḥ samutpanno brahmacārī mahāyaśāḥ. śāṅgaryāṃ ca mandapālasya catvāro brahmavādinaḥ. jātā brahmarṣayaḥ puṇyā yaiḥ stuto havyavāhanaḥ. droṇaś ca stambamitraś ca śārisṛkvaś ca buddhimān. jaritāriś ca vikhyātāś catvāraḥ sūryasaṃnibhāḥ. maharṣeḥ kālavṛkṣasya śakuntyām eva jajñivān. hiraṇyahasto bhagavān maharṣiḥ kāñcanaprabhaḥ. pāvakāt tāta saṃbhūtā manasā ca maharṣayaḥ. pitāmahasya rājendra pulastyapulahādayaḥ. savarṇaś cāpi rājarṣiḥ savarṇāyām ajāyata. mṛṇmayyāṃ bharataśreṣṭha ādityena vivasvatā. śāṇḍilyaś cāgnito jātaḥ kāśyapasyātmajaḥ prabhuḥ. śaradvataḥ śarastambāt kṛpaś ca kṛpayā saha. padmāc ca jajñe rājendra somapasya mahātmanaḥ. reṇuś ca reṇukā caiva rāmamātā yaśasvinī. yamunāyāṃ samudbhūtaḥ somakena mahātmanā. arkadatto mahān ṛṣiḥ prathitaḥ pṛthivītale. agner āhavanīyāc ca drupadasyendravarcasaḥ. dhṛṣṭadyumnaś ca saṃbhūto vedyāṃ kṛṣṇā ca bhārata. vyāghrayonyāṃ tato jātā vasiṣṭhasya mahātmanaḥ. ekonaviṃśatiḥ putrāḥ khyātā vyāghrapadādayaḥ. mandhaś ca bādalomaś ca jābāliś ca mahān ṛṣiḥ. manyuś caivopamanyuś ca setukarṇas tathaiva ca. ete cānye ca vikhyātāḥ pṛthivyāṃ gotratāṃ gatāḥ. viśvakāśasya rājarṣer aikṣvākos tu mahātmanaḥ. bālāśvo nāma putro 'bhūc chikhāṃ bhittvā viniḥsṛtaḥ. māndhātā caiva rājarṣir yuvanāśvena dhīmatā. svayaṃ dhṛto 'tha garbheṇa divyāstrabalasaṃyutaḥ. gaurikaś cāpi rājarṣiś cakravartī mahāyaśāḥ. bāhudāyāṃ samutpanno nadyāṃ rājñā subāhunā. bhūmeś ca putro narakaḥ saṃvartaś caiva puṣkalaḥ. adbhiś caiva mahātejā ṛṣir gārgyo hy ajāyata. ete cānye ca bahavo rājanyā brāhmaṇās tathā. prabhāvenābhisaṃbhūtā maharṣīṇāṃ mahātmanām. nāsādhyaṃ tapasā teṣāṃ vidyayātmaguṇaiḥ paraiḥ. asminn arthe ca manunā gītaḥ śloko narādhipa. dharmaṃ praṇayatā rājaṃs taṃ nibodha yudhiṣṭhira. ṛṣīṇāṃ ca nadīnāṃ ca sādhūnāṃ ca mahātmanām. prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca. tan nātra cintā kartavyā maharṣīṇāṃ samudbhave. yathā sarvagato hy agnis tathā tejo mahātmasu. yudhiṣṭhiraḥ. putraiḥ kathaṃ mahārāja puruṣas tārito bhavet. yāvan na labdhavān putram aphalaḥ puruṣo nṛpa. bhīṣmaḥ. atrāpy udāharantīmam itihāsaṃ purātanam. nāradena purā gītaṃ mārkaṇḍeyāya pṛcchate. parvataṃ nāradaṃ caiva asitaṃ devalaṃ ca tam. āraṇeyaṃ ca raibhyaṃ ca etān atrāgatān purā. gaṅgāyamunayor madhye bhogavatyāḥ samāgame. dṛṣṭvā pūrvaṃ samāsīnān mārkaṇḍeyo 'bhyagacchata. ṛṣayas tu muniṃ dṛṣṭvā samutthāyonmukhāḥ sthitāḥ. arcayitvārhato vipraṃ kiṃ kurma iti cābruvan. mārkaṇḍeyaḥ. ayaṃ samāgamaḥ sadbhir yatnenāsādito mayā. atra prāpsyāmi dharmāṇām ācārasya ca niścayam. ṛjuḥ kṛtayuge dharmas tasmin kṣīṇe vimuhyati. yuge yuge maharṣibhyo dharmam icchāmi veditum. ṛṣibhir nāradaḥ prokto brūhi yatrāsya saṃśayaḥ. dharmādharmeṣu tattvajña tvaṃ hi cchettāsi saṃśayān. ṛṣibhyo 'numataṃ vākyaṃ niyogān nārado 'bravīt. sarvadharmārthatattvajñaṃ mārkaṇḍeyaṃ tato 'bravīt. dīrghāyo tapasā dīpta vedavedāṅgatattvavit. yatra te saṃśayo brahman samutpannaḥ sa ucyatām. dharmaṃ lokopakāraṃ vā yac cānyac chrotum icchasi. mārkaṇḍeyaḥ. tad ahaṃ kathayiṣyāmi brūhi tvaṃ sumahātapaḥ. yuge yuge vyatīte 'smin dharmasetuḥ praṇaśyati. nāradaḥ. kathaṃ dharmacchalenāhaṃ prāpnuyām iti me matiḥ. āsīd dharmaḥ purā vipra catuṣpādaḥ kṛte yuge. tato hy adharmaḥ kālena prasūtaḥ kiṃ cid unnataḥ. tatas tretāyugaṃ nāma pravṛttaṃ dharmadūṣaṇam. tasmin vyatīte saṃprāptaṃ tṛtīyaṃ dvāparaṃ yugam. tadā dharmasya dvau pādāv adharmo nāśayiṣyati. dvāpare tu parikṣīṇe nandike samupasthite. lokavṛttaṃ ca dharmaṃ ca ucyamānaṃ nibodha me. caturthaṃ nandikaṃ nāma dharmapādāv aśeṣataḥ. tataḥprabhṛti jāyante kṣīṇaprajñāyuṣo narāḥ. mārkaṇḍeyaḥ. kṣīṇaprāṇadhanā loke dharmācārabahiṣkṛtāḥ. evaṃ vilulite dharme loke cādharmasaṃyute. nāradaḥ. cāturvarṇyasya niyataṃ havyakavyaṃ niyacchati. mantrapūtaṃ sadā havyaṃ kavyaṃ caiva na naśyati. pratigṛhṇanti tad devā dātur nyāyāt prayacchataḥ. sattvayuktaṃ ca dātā ca sarvān kāmān avāpnuyāt. mārkaṇḍeyaḥ. avāptakāmaḥ svarge ca mahīyeta yathepsitam. catvāro hy atha ye varṇā havyakavyaṃ pradāsyate. nāradaḥ. mantrahīnam apanyāyaṃ teṣāṃ dattaṃ kva gacchati. asurān gacchate dattaṃ viprai rakṣāṃsi kṣatriyaiḥ. mārkaṇḍeyaḥ. vaiśyaiḥ pretāni vai dattaṃ śūdrair bhūtāni gacchati. atha varṇāvare jātāś cāturvarṇyāpadeśinaḥ. nāradaḥ. dāsyanti havyakavyāni teṣāṃ dattaṃ kva gacchati. varṇāvarāṇāṃ bhūtānāṃ havyakavyapradātṛṇām. naiva devā na pitaraḥ pratigṛhṇanti tat svayam. yātudhānāḥ piśācāś ca bhūtā ye cāpi nairṛtāḥ. teṣāṃ sā vihitā vṛttiḥ pitṛdaivatanirgatā. teṣāṃ sarvapradātṝṇāṃ havyakavyaṃ samāhitāḥ. mārkaṇḍeyaḥ. yat prayacchanti vidhivat tad vai bhuñjanti devatāḥ. śrutaṃ varṇāvare dattaṃ havyaṃ kavyaṃ ca nārada. nāradaḥ. saṃprayoge ca putrāṇāṃ kanyānāṃ ca bravīhi me. kanyāpradānaṃ putrāṇāṃ strīṇāṃ saṃyogam eva ca. ānupūrvyān mayā samyag ucyamānaṃ nibodha me. jātamātrā tu dātavyā kanyakā sadṛśe vare. kāladattāsu kanyāsu pitā dharmeṇa yujyate. yas tu puṣpavatīṃ kanyāṃ bāndhavo na prayacchati. māsi māsi gate bandhus tasyā bhrauṇaghnyam āpnute. yas tu kanyāṃ gṛhe rundhyād grāmyair bhogair vivarjitām. avadhyātaḥ sa kanyāyā bandhuḥ prāpnoti bhrūṇahām. dūṣitā pāṇimātreṇa mṛte bhartari dārikā. saṃskāraṃ labhate nārī dvitīye sā punaḥ patau. punar bhūr nāma sā kanyā saputrā havyakavyadā. mārkaṇḍeyaḥ. adūṣyā sā prasūtīṣu prajānāṃ dārakarmaṇi. yā tu kanyā prasūyeta garbhiṇī yā tu vā bhavet. atha dārakriyāṃ bhūyaḥ sā bhajed ṛṣisattama. nāradaḥ. tattvārthaniścitaṃ śabdaṃ kanyakā nayate 'gnaye. tasmāt kurvanti vai bhāvaṃ kumāryas tā na kanyakāḥ. brahmahatyātribhāgena garbhādhānaviśodhitām. mārkaṇḍeyaḥ. gṛhṇīyāt tāṃ caturbhāgaṃ viśuddhāṃ sarjanāt punaḥ. kathaṃ kanyāsu ye jātā bandhūnāṃ dūṣitāḥ sadā. kasya te havyakavyāni pradāsyanti mahāmune. nāradaḥ. kanyāyās tu pituḥ putrāḥ kānīnā havyakavyadāḥ. mārkaṇḍeyaḥ. antarvatnyās tu yaḥ pāṇiṃ gṛhṇīyāt sa sahoḍhajaḥ. atha yenāhito garbhaḥ kanyāyāṃ tatra nārada. nāradaḥ. kathaṃ putraphalaṃ tasya bhaved etat pracakṣva me. dharmācāreṣu te nityaṃ dūṣakāḥ kṛtaśodhanāḥ. bījaṃ ca naśyate teṣāṃ moghaceṣṭā bhavanti te. mārkaṇḍeyaḥ. atha kā cid bhavet kanyā krītā dattā hṛtāpi vā. nāradaḥ. kathaṃ putrakṛtaṃ tasyās tad bhaved ṛṣisattama. krītā dattā hṛtā caiva yā kanyā pāṇivarjitā. kaumārī nāma sā bhāryā prasaved aurasān sutān. mārkaṇḍeyaḥ. na patyarthe śubhā proktā tatkarmaṇy aparājite. kena maṅgalakṛtyeṣu viniyujyanti kanyakāḥ. nāradaḥ. etad icchāmi vijñātuṃ tattveneha mahāmune. nityaṃ nivasate lakṣmīḥ kanyakāsu pratiṣṭhitā. śobhanā śubhayogyā ca pūjyā maṅgalakarmasu. ākarasthaṃ yathā ratnaṃ sarvakāmaphalopagam. tathā kanyā mahālakṣmīḥ sarvalokasya maṅgalam. evaṃ kanyā parā lakṣmī ratis toṣaś ca dehinām. mahākulānāṃ cāritraṃ vṛttena nikaṣopalam. ānayitvā svakād varṇāt kanyakāṃ yo bhajen naraḥ. dātāraṃ havyakavyānāṃ putrakaṃ sā prasūyate. sādhvī kulaṃ vardhayati sādhvī puṣṭir gṛhe parā. mārkaṇḍeyaḥ. sādhvī lakṣmī ratiḥ sākṣāt pratiṣṭhā saṃtatis tathā. śrutaṃ bahuvidhaṃ vṛttaṃ kanyakānāṃ mahāmate. icchāmi yoṣitāṃ śrotuṃ dharmādharmaṃ parigrahe. nāradaḥ. aṣṭau bhāryāgamā dharmyā narāṇāṃ dārakarmaṇi. pretyeha ca hitā yās tu saputrā havyakavyadāḥ. sādhvī pāṇigṛhītā yā kaumārī pāṇivarjitā. bhrātṛbhāryā svabhāryeti prasūyet putram aurasam. mārkaṇḍeyaḥ. trayo bhāryāgamā jñātā yatra dharmo na naśyati. nāradaḥ. pañcānyāḥ paścimā brūhi bhāryās tāsāṃ ca ye sutāḥ. sagotrabhāryā krītā ca parabhāryā ca kāritā. gatāgatā ca yā bhāryā āśramād āhṛtā ca yā. ete bhāryāgamāḥ pañca punar bhāryā bhavanti yāḥ. mārkaṇḍeyaḥ. etā bhāryā nṛṇāṃ gamyās tatputrā havyakavyadāḥ. śrutā bhāryāś ca putrāś ca vistareṇa mahāmune. nāradaḥ. āśramasthāḥ kathaṃ nāryo na duṣyantīti brūhi me. āśramasthāsu nārīṣu bāndhavatvaṃ praṇaśyati. naṣṭavaṃśyā bhavanty etā bandhūnām atha bhartṛṇām. paradārā muktadoṣās tā nāryo ''śramasaṃsthitāḥ. svayam īśāḥ svadehānāṃ kāmyās tadgatamānasāḥ. evaṃ nāryo na duṣyanti narāṇāṃ tatprasūtiṣu. dharmapatnyo bhavanty etāḥ saputrā havyakavyadāḥ. mārkaṇḍeyaḥ. parasya bhāryā yā pūrvaṃ mṛte bhartari yā punaḥ. nāradaḥ. anyaṃ bhajati bhartāraṃ sasutā asutā katham. asūtā vā prasūtā vā gṛhasthānāṃ parastriyaḥ. parāmṛṣṭeti tā varjyā dharmācāreṣu dūṣitāḥ. na cāsāṃ havyakavyāni pratigṛhṇanti devatāḥ. mārkaṇḍeyaḥ. yas tāsu janayet putrān na taiḥ putram avāpnuyāt. parakṣetreṣu yo bījaṃ cāpalyād visṛjen naraḥ. nāradaḥ. kathaṃ putraphalaṃ tasya bhavet tad ṛṣisattama. asvāmike parakṣetre yo naro bījam utsṛjet. svayaṃvṛtto ''śramasthāyāṃ tad bījaṃ na vinaśyati. parakṣetreṣu yo bījaṃ naro darpāt samutsṛjet. kṣetrikasyaiva tad bījaṃ na bījī labhate phalam. nātaḥ param adharmyaṃ cāpy ayaśasyaṃ tathottaram. garbhādīnāṃ ca bahubhis tāś ca tyājyāḥ sameṣv api. mārkaṇḍeyaḥ. atha ye paradāreṣu putrā jāyanti nārada. nāradaḥ. kasya te bandhudāyādā bhavanti paramadyute. paradāreṣu jāyete dvau putrau kuṇḍagolakau. jīvaty atha patau kuṇḍo mṛte bhartari golakaḥ. te ca jātāḥ parakṣetre dehināṃ pretya ceha ca. dattāni havyakavyāni nāśayanty atha dātṛṇām. pitur hi narakāyaite golakas tu viśeṣataḥ. mārkaṇḍeyaḥ. caṇḍālatulyau tajjau hi paratreha ca naśyataḥ. kasya te garhitāḥ putrāḥ pitṝṇāṃ havyakavyadāḥ. nāradaḥ. yasya kṣetre prasūyante yo vā tāñ janayet sutān. kṣetrikaś caiva bījī ca dvāv etau nirayaṃ gatau. na rakṣati hi yo dārān paradārāṃś ca gacchati. garhitās te narā nityaṃ dharmācārabahiṣkṛtāḥ. mārkaṇḍeyaḥ. kuṇḍo bhoktā ca bhojī ca kutsitāḥ pitṛdaivataiḥ. tathaite garhitāḥ putrā havyakavyāni nārada. nāradaḥ. kasya nityaṃ prayacchanti dharmo vā teṣu kiṃ phalam. yātudhānāḥ piśācāś ca pratigṛhṇanti tair hutam. havyaṃ kavyaṃ ca tair dattaṃ ye ca bhūtā niśācarāḥ. mārkaṇḍeyaḥ. atha te rākṣasāḥ prītāḥ kiṃ prayacchanti dātṛṇām. nāradaḥ. kiṃ vā dharmaphalaṃ teṣāṃ bhavet tad ṛṣisattama. na dattaṃ naśyate kiṃ cit sarvabhūteṣu dātṛṇām. mārkaṇḍeyaḥ. pretya ceha ca tāṃ puṣṭim upāśnanti pradāyinaḥ. atha golakakuṇḍābhyāṃ saṃtatir yā bhaviṣyati. tayor ye bāndhavāḥ ke cit pradāsyanti kathaṃ nu tat. nāradaḥ. sādhvījātāḥ sutās teṣāṃ tāṃ vṛttim anutiṣṭhatām. prīṇanti pitṛdaivatyaṃ havyakavyasamāhitāḥ. evaṃ golakakuṇḍābhyāṃ ye ca varṇāpadeśinaḥ. havyaṃ kavyaṃ ca śuddhānāṃ pratigṛhṇanti devatāḥ. mārkaṇḍeyaḥ. śrutaṃ narāṇāṃ cāpalyaṃ parastrīṣu prajāyatām. nāradaḥ. pramadānāṃ tu cāpalye doṣam icchāmi veditum. ekavarṇe 'pi doṣaṃ tu gamanaṃ pūrvakālikam. dhātā ca samanujñāto viṣṇunā tat tathākarot. bhagaliṅge mahāprājña pūrvam eva prajāpatiḥ. sasarja tābhyāṃ saṃyogam anujñātaś cakāra saḥ. atha viṣṇuprasādena bhago dattavaraḥ kila. tena caiva prasādena sarvāṃl lokān upāśnute. tasmāt tu puruṣe doṣo hy adhiko nātra saṃśayaḥ. vinā garbhaṃ savarṇeṣu na tyājyā gamanāt striyaḥ. prāyaścittaṃ yathānyāyaṃ daṇḍaṃ kuryāt sa paṇḍitaḥ. śvabhir vā daśanaṃ snānaṃ savanatritayaṃ niśi. bhūmau ca bhasmaśayanaṃ dānaṃ bhogavivarjitam. doṣagauravataḥ kālo dravyagauravam eva ca. maryādā sthāpitā pūrvam iti tīrthāntaraṃ gate. tad yoṣitāṃ tu dīrghāyo nāsti doṣo vyatikrame. bhagastīrthāntare śuddho viṣṇos tu vacanād iha. rakṣyāś caivānyasaṃvādair anyagehād vimokṣaṇaiḥ. āsāṃ śuddhau viśeṣeṇa karmaṇāṃ phalam aśnute. naitā vācyā na vai vadhyā na kleśyāḥ śubham icchatā. viṣṇuprasādād ity eva bhagastīrthāntaraṃ gataḥ. māsi māsi rajas tāsāṃ duṣkṛtāny apakarṣati. striyas toṣakarā nṝṇāṃ striyas tuṣṭipradāḥ sadā. mārkaṇḍeyaḥ. putrasetupratiṣṭhāś ca striyo loke mahādyute. śrutaṃ balaṃ prabhāvaś ca yoṣitāṃ munisattama. nāradaḥ. ekasya bahubhāryasya dharmam icchāmi veditum. bahubhāryāsu saktasya nārībhogeṣu dehinaḥ. ṛtau vimucyamānasya sāṃnidhye bhrūṇahā smṛtaḥ. vṛddhāṃ vandhyāṃ suvratāṃ ca mṛtāpatyām apuṣpiṇīm. kanyāṃ ca bahuputrāṃ ca varjayan mucyate bhayāt. vyādhito bandhanastho vā pravāseṣv atha parvasu. ṛtukāleṣu nārīṇāṃ bhrūṇahatyāṃ pramuñcati. mārkaṇḍeyaḥ. veśanārīṣu vai jātāḥ parapreṣyāsu vā sutāḥ. nāradaḥ. kasya te bandhudāyādā bhavanti hi mahāmune. paṇyastrīṣu prasūtā ye yasya strī tasya te sutāḥ. mārkaṇḍeyaḥ. krayāc ca kṛtrimāḥ putrāḥ pradānāc caiva datrimāḥ. paṇyanārīṣv aniyataḥ puṃso 'rtho vartate dhruvam. atra cāhitagarbhāyāḥ kasya putraṃ vadanti tam. nāradaḥ. tīrthabhūtāsu nārīṣu jñāyate yo 'bhigacchati. mārkaṇḍeyaḥ. ṛtau tasya bhaved garbho yaṃ vā nārī na śaṅkate. narāṇāṃ tyajatāṃ bhāryāṃ kāmakrodhād guṇānvitām. nāradaḥ. aprasūtāṃ prasūtāṃ vā teṣāṃ pṛcchāmi niṣkṛtim. apāpāṃ tyajamānasya sādhvīṃ matvaivam āditaḥ. ātmavaṃśaḥ svadharmo vā tyajato niṣkṛtir na tu. yo naras tyajate bhāryāṃ puṣpiṇīm aprasūtikām. sa naṣṭavaṃśaḥ pitṛbhir yuktas tyajyeta daivataiḥ. bhāryām apatyasaṃjātāṃ prasūtāṃ putrapautriṇīm. putradāraparityāgī na saṃprāpnoti niṣkṛtim. evaṃ hi bhāryāṃ tyajatāṃ narāṇāṃ nāsti niṣkṛtiḥ. mārkaṇḍeyaḥ. nārhanti pramadās tyaktuṃ putrapautrapratiṣṭhitāḥ. kīdṛśīṃ saṃtyajan bhāryāṃ naro doṣair na lipyate. nāradaḥ. etad icchāmi tattvena vijñātum ṛṣisattama. mokṣadharmasthitānāṃ tu anyonyam anujānatām. bhāryāpatīnāṃ muktānām adharmo na vidhīyate. anyasaṅgāṃ gatāpatyāṃ śūdragāṃ paragāminīm. parīkṣya tyajamānānāṃ narāṇāṃ nāsti pātakam. pātake 'pi tu bhartavyau dvau tu mātā pitā tathā. mārkaṇḍeyaḥ. bhāryāyāṃ vyabhicāriṇyāṃ narasya tyajato ruṣā. nāradaḥ. kathaṃ dharmo 'py adharmo vā bhavatīha mahāmate. anṛte 'pi hi satye vā yo nārīṃ dūṣitāṃ tyajet. arakṣamāṇaḥ svāṃ bhāryāṃ naro bhavati bhrūṇahā. apatyahetor yā nārī bhartāram atilaṅghayet. lolendriyeti sā rakṣyā na saṃtyājyā kathaṃ cana. nadyaś ca nāryaś ca samasvabhāvā. naitāḥ praduṣyanti narāvagāḍhāḥ. srotāṃsi nadyā vahate nipātaṃ. nārī rajobhiḥ punar eti śaucam. evaṃ nāryo na duṣyanti vyabhicāre 'pi bhartṛṇām. māsi māsi bhavet tyāgas tataḥ śuddhā bhavanty uta. mārkaṇḍeyaḥ. kāni tīrthāni bhagavan nṛṇāṃ dehāśritāni vai. tāni vai śaṃsa bhagavan yāthātathyena pṛcchataḥ. sarvatīrtheṣu tīrthajña kiṃ tīrthaṃ paramaṃ nṛṇām. yatropaspṛśya pūtātmā naro bhavati nityaśaḥ. nāradaḥ. devarṣipitṛtīrthāni brāhmaṃ madhye 'tha vaiṣṇavam. nṛṇāṃ tīrthāni pañcāhuḥ pāṇau saṃnihitāni vai. ādyatīrthaṃ tu tīrthānāṃ vaiṣṇavo bhāga ucyate. yatropaspṛśya varṇānāṃ caturṇāṃ vardhate kulam. mārkaṇḍeyaḥ. pitṛdaivatakāryāṇi vardhante pretya ceha ca. narāṇāṃ kāmavṛttānāṃ yā nāryo niravagrahāḥ. yāsām abhigraho nāsti tā me kathaya nārada. nāradaḥ. vāgur veśyā naṭī gopī tāntukī tunnavāyikī. mārkaṇḍeyaḥ. nārī kirātī śabarī nartakī cānabhigrahā. etāsu jātā nārīṣu sarvavarṇeṣu ye sutāḥ. nāradaḥ. teṣu ke bandhudāyādā bhavanti ṛṣisattama. ya etāḥ parigṛhṇanti teṣām eva hi te sutāḥ. sarvatra tu pravṛttāsu bījaṃ naśyati dehinām. mārkaṇḍeyaḥ. sarvastrīṣu pravṛttāś ca sādhuvedavivarjitāḥ. mānavāḥ kāṇḍapṛṣṭhāś ca vedamantrabahiṣkṛtāḥ. niyuktā havyakavyeṣu teṣāṃ dattaṃ kathaṃ bhavet. nāradaḥ. nārhanti havyakavyāni sāvitrīvarjitā dvijāḥ. mārkaṇḍeyaḥ. vrātyeṣv annapradānaṃ tad yathā śūdreṣu vai tathā. dharmeṣv adhikṛtānāṃ tu narāṇāṃ muhyate manaḥ. nāradaḥ. kathaṃ nu vighno bhavati etad icchāmi veditum. arthāś ca nāryaś ca samānam etac. chreyāṃsi puṃsām iha mohayanti. ratipramodāt pramadā haranti. bhogair dhanaṃ cāpy upahanti dharmān. havyaṃ kavyaṃ ca dharmātmā sarvaṃ tac chrotriyo 'rhati. mārkaṇḍeyaḥ. dattaṃ hi śrotriye sādhau jvalitāgnāv ivāhutiḥ. śrotriyāṇāṃ kule jātā vedārthaviditātmanām. nāradaḥ. hitvā kasmāt trayīṃ vidyāṃ vārtāṃ vṛttim upāśritāḥ. cāturvarṇyaṃ purā nyastaṃ suvidvatsu dvijātiṣu. tasmād varṇaiḥ saṃvibhajyā vṛttiḥ saṃkaravarjitā. ye cānye śrotriyāj jātāḥ saṃskṛtāḥ putragṛdhnubhiḥ. mārkaṇḍeyaḥ. pūrvanirvāṇanirvṛttāṃ jātāṃ vṛttim upāśritāḥ. nāradaḥ. asaṃskṛtāḥ śrotriyajāḥ saṃskṛtā jñāninaḥ katham. asaṃskāro vaidikaś ca na mānyaḥ śrotriyātmajaḥ. śuddhānvayaḥ śrotriyas tu sa vidvadbhiḥ samo 'nyathā. anadhīyānaputrāś ca vedasaṃskāravarjitāḥ. tasmāt te vedavijñāpi viprāḥ śrutinikāriṇaḥ. brahmarāśau purā sṛṣṭā vedasaṃskārasaṃskṛtāḥ. mārkaṇḍeyaḥ. tasmāt teṣv eva te jātāḥ sādhavaḥ kuladhāriṇaḥ. svayaṃ krītāsu preṣyāsu prasūyante tu ye narāḥ. kasya nāryaḥ sutāś caiva bhavanti ṛṣisattama. nāradaḥ. svadāsyāṃ yo naro mohāt prasūyeta sa pāpakṛt. ihāpi ninditaḥ pretya apatyaṃ preṣyatāṃ nayet. sā tasya bhāryā putrā ye havyakavyapradās tu te. tasyā ye bāndhavāḥ ke cid viṣaktāḥ preṣyatāṃ gatāḥ. sarve tasyās tu saṃbandhān mucyante preṣyakarmasu. etat te kathitaṃ sarvaṃ yad abhivyāhṛtaṃ tvayā. mārkaṇḍeyaḥ. atha vā saṃśayaḥ kaś cid bhūyaḥ saṃpraṣṭum arhasi. amithyādarśano loke nāradaḥ sarvakovidaḥ. bhīṣmaḥ. pratyakṣadarśī lokānāṃ svayaṃbhūr iva sattamaḥ. iti saṃbhāṣya ṛṣibhir mārkaṇḍeyo mahātapāḥ. nāradaṃ cāpi satkṛtya tena caivābhisatkṛtaḥ. āmantrayitvā ṛṣibhiḥ prayayāv āśramaṃ muniḥ. ṛṣayaś cāpi tīrthānāṃ paricaryāṃ pracakramuḥ. sukṣetrabījasaṃskāraviśuddho brahmacaryayā. nityanaimittikāt snāto manaḥśuddhyā ca śudhyati.