अथ स्त्री भगवन्तं सा सुप्यताम् इत्य् अचोदयत्। तत्र वै शयने दिव्ये तस्य तस्याश् च कल्पिते। पृथक् चैव तथा सुप्तौ सा स्त्री स च मुनिस् तदा। अथार्धरात्रे सा स्त्री तु शयनं तद् उपागमत्।
atha strī bhagavantaṃ sā supyatām ity acodayat. tatra vai śayane divye tasya tasyāś ca kalpite. pṛthak caiva tathā suptau sā strī sa ca munis tadā. athārdharātre sā strī tu śayanaṃ tad upāgamat.