तत्र कश् चिन् नयेत् प्राज्ञो गृहीत्वैव करे नरम्। उह्यमानः स धर्मेण धर्मे बहुभयच्छले। प्राप्नुयात् परम् अच्युतम्। विश्वास एव कर्तव्यो। युधिष्ठिरः। पितामह महाबाहो सर्वधर्मभृतां वर। सत्यार्जवगुणोपेतं सौम्यं धर्मं वदस्व मे। भवतः श्रोतुम् इच्छामि सत्यवाक्यम् अनुत्तमम्। यत् प्राग् बहुलया प्रोक्तं तन् मे त्वं वक्तुम् अर्हसि। भीष्मः। सौम्य धर्मं प्रवक्ष्यामि सत्यार्जवसमन्वितम्। कामरूपस्य व्याघ्रस्य धेन्वा संवादम् उत्तमम्। माथुरे विषये रम्ये धनधान्यसमन्विते। नानाजनपदाकीर्णे यज्ञवाटविभूषिते। तत्र सा नगरी रम्या यमुनातीरम् आश्रिता। अर्धचन्द्रप्रतीकाशा विद्वज्जनविभूषिता। इन्द्रयष्टिध्वजाकीर्णा गोपीभिर् उपशोभिता। बहुद्विजसमाकीर्णा नानापण्योपशोभिता। सुप्रमाणा सुरम्या च स्वातिनक्षत्रनिर्मिता। प्राकाराट्टप्रतोलीभिर् दुर्जया परिखादिभिः। आम्रातककपित्थैश् च राजवृक्षैश् च शोभिता। देवतायतनैर् दिव्यैः कदलीखण्डमण्डिता। हंसमालाप्रतीकाशैर् दीप्यते धवलैर् गृहैः। पनसैर् बकुलैस् तालैः प्रियालैर् नागकेसरैः। करवीरैः कर्णिकारैः पाटलाशोकचम्पकैः। मल्लिकाकुन्दजातीभिः कुब्जाह्लादकुरण्टकैः। सुवर्णश्वेतयूथीभिः किंकिरातोत्पलादिभिः। पुंनागवृक्षबकुलैर् उद्यानैर् उपशोभिता। संपूर्णा धनधान्यैश् च गोधनैर् उपशोभिता। वेदाध्ययनघोषैश् च पवित्रीकृतमङ्गला। वेदीशृङ्गाटकै रम्यैस् त्रिकचत्वरशोभिता। रावणस्येव रत्नाढ्या लङ्का चैव महापुरी। इन्द्रसेनो नृपस् तत्र राजधर्मसमन्वितः। धर्मे चाभिरतो नित्यं देवतातिथिपूजकः। क्षत्रधर्मे रतः श्रीमान् प्रजापतिसमः क्षितौ। तेन सा नगरी रम्या राजसिंहेन पालिता। नित्योत्सवप्रमुदिता शङ्खवादित्रनादिता। सुसंगीतविदग्धैश् च प्रेक्षणीयैः समाकुला। अन्तरापणवीथीभिः सुविभक्तैश् चतुष्पथैः। दीर्घिकाकूपवापीभिस् तडागैर् उपशोभिता। सभाप्रपासमाकीर्णा विवाहमखसंकुला। पुरी चन्द्रवती नाम दृष्टा ते यदि वा श्रुता। तस्यां पुर्यां पुरा वृत्तं तत्त्वं शृणु युधिष्ठिर। कस्य चिद् द्विजमुख्यस्य कल्याणी धेनुर् उत्तमा। हृष्टपुष्टा सुसंतुष्टा बहुला नाम विश्रुता। गोधनस्य च सा मुख्या हंसवर्णा घटस्रवा। दीर्घघोणा विभक्ताङ्गी श्रेष्ठलोमतनुत्वचा। विस्तीर्णजघना दिव्या पीनश्रोणिपयोधरा। सर्वलक्षणसंपन्ना सर्वावयवसुन्दरी। नीलकण्ठा शुभग्रीवा घण्टाली मधुरस्वरा। सा च यूथस्य सर्वस्य चचाराग्रे सुनिर्भया। ग्रामधान्यं चरेच् छन्नं गत्वैकैव यथासुखम्। सान्द्रं सुपुष्पितं सुरभि अच्छिन्नं चरते तृणम्। रोहितो नाम तत्रान्यः पर्वतो यमुनातटे। अनेककन्दरदरीनिर्झरैर् उपशोभितः। तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले। संकटे विषमे दुर्गे भैरवे लोमहर्षणे। मृगसिंहसमाकीर्णे बहुश्वापदसेविते। वल्लीवृक्षादिगहने शिवाशतनिनादिते। दुर्गे ऽस्मिन् वसते रौद्रः कामरूपी भयंकरः। द्वीपी शोणितमांसाशी महादंष्ट्रो महाबलः। महापर्वतसंकाशो मेघगर्जितनिस्वनः। महागुहादरीवक्त्रस् तीक्ष्णदंष्ट्रो नखायुधः। नन्दी नाम स धर्मात्मा स च गोपहिते रतः। अच्छिन्नाग्रैस् तृणैर् दीर्घैर् गोधनं परिरक्षति। तस्य यूथपरिभ्रष्टा बहुला तृणतृष्णया। चरन्ती व्याघ्रपुरतः सा धेनुः समुपस्थिता। अभिद्रवंश् च तां व्याघ्रस् तिष्ठ तिष्ठेति चाब्रवीत्। त्वम् अद्य विहितो भक्षः स्वयं प्राप्तासि मे वनम्। व्याघ्रस्य वचनं श्रुत्वा निष्ठुरं लोमहर्षणम्। सुतं रूपान्वितं बालं चन्द्ररूपसमप्रभम्। वत्सं स्मरति सा धेनुः स्नेहार्ता गद्गदस्वरा। दह्यन्ती पुत्रशोकेन बहुला पुत्रवत्सला। रुदन्ती करुणं सा तु निराशा पुत्रदर्शने। दृष्ट्वा तु बहुलां व्याघ्रः क्रन्दमानां सुदुःखिताम्। उवाच वचनं घोरं बहुले किं प्ररुद्यते। दैवाद् यथोपपन्नासि भक्षस् त्वं मे यदृच्छया। न रुदन्त्या वा हसन्त्या वा तथा ते जीवितं भवेत्। विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके। मृत्युस् ते विहितो ऽद्यैव वृथा किम् अनुशोचसि। पप्रच्छ च पुनर् व्याघ्रः किमर्थं रुदितं त्वया। कौतुकं मे ऽद्य संजातम् अशेषं कथयस्व नः। व्याघ्रस्य वचनं श्रुत्वा बहुला वाक्यम् अब्रवीत्। क्षन्तुम् अर्हसि मे नाथ कामरूप नमो ऽस्तु ते। त्वां समालोक्य लोकस्य परित्राणं न विद्यते। जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया। जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च। तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि। देवैर् अपि सदा सर्वैर् मर्तव्यम् अवशैर् ध्रुवम्। तस्मात् तन् नाहम् एवैकं व्याघ्र शोचामि जीवितम्। किं तु स्नेहवशाद् व्याघ्र दुःखेन रुदितं मया। अस्ति मे हृदि संतापस् तं च त्वं श्रोतुम् अर्हसि। अग्रे वयसि वर्तन्ती प्रसूताहं मृगाधिप। इष्टः प्रथमजातस् तु सुतश् च मम बालकः। क्षीरं पिबति मे वत्सस् तृणं नाद्यापि जिघ्रति। स च गोपकुले बद्धः क्षुधितो माम् उदीक्षते। सुतं तम् अनुशोचामि कथं जीविष्यते सुतः। तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशानुगा। पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि। सखीनाम् अर्पयित्वा च संदिश्य च हिताहितम्। पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि। शीघ्राहम् आगमिष्यामि महाव्याघ्र तवान्तिकम्। बहुलाया वचः श्रुत्वा मृगेन्द्रः पुनर् अब्रवीत्। किं ते पुत्रेण कर्तव्यं मरणं किं न पश्यसि। त्रसन्ति सर्वभूतानि मां निरीक्ष्य म्रियन्ति च। त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे। न मन्त्रा न तपो दानं न माता न पिता सुतः। शक्नुवन्ति परित्रातुम् आगतां मत्समीपतः। कथं तद् गोकुलं गत्वा गोपीजनसमाकुलम्। वृषभैर् नादितं रम्यं बालवत्सविभूषितम्। भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः। नित्यं प्रमुदितं रम्यं सर्वदैवतपूजितम्। पवित्रं तत् पवित्राणां मङ्गलानां च मङ्गलम्। यत् तीर्थं सर्वतीर्थानां रम्याणां रम्यम् उत्तमम्। समस्तगुणसंकीर्णम् ईश्वरायतनं महत्। यत् स्थानं सर्वसिद्धानां भूमिस्वर्गम् अनुत्तमम्। गर्गरीरवशब्देन यत्र लक्ष्मीर् न हन्यते। यत्र वत्साश् च हुंकारं करुणं मातृकाङ्क्षया। यद् गोपैः पालितं शूरैर् बाहुयुद्धविशारदैः। प्रगीतनृत्यसंलापं वल्गुतास्फोटनादितम्। इतस् ततः स्थितैर् वत्सैर् अर्घ्यमानैः समन्ततः। सरोवद् भ्राजते गोष्ठं श्रीमद्भिर् इव पङ्कजैः। तच् छ्रीनिकेतनं रम्यं मातरं भ्रातरं सुतम्। दृष्ट्वा सखीजनं भूयः कथं प्रत्यागमिष्यसि। पञ्च भूतानि मे भद्रे पिबन्तु रुधिरं तव। बहुला। न निराशानि भूतानि वाङ्मात्रेण करोम्य् अहम्। प्रथमं दृष्टवत्साहं मृगेन्द्र शृणु मे वचः। दृष्ट्वा सखीजनं बालं गोपांश् च परिचारकान्। गोपीजनं समागम्य जननीं च विशेषतः। व्याघ्रः। शपथैर् आगमिष्यामि मन्यसे यदि मुञ्च माम्। शपथाः कीदृशा भद्रे ये त्वया परिनोदिताः। बहुला। प्रत्ययं चैवम् आख्याहि बहुले मम यत्नतः। यदि ते नास्ति विश्वासो ममोपरि मृगाधिप। शपथैर् आगमिष्यामि सत्यं ब्रूयां न संशयः। मा ददस्वेति यो ब्रूयाद् गुर्वग्निब्राह्मणेषु च। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। मधुमांसे च यत् पापं लाक्षाविक्रयणे तथा। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। यो वेदविक्रयी विप्रश् चत्वरे पठते तु यः। असंतोषी च यो विप्रो नित्यं भवति याचकः। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। मत्सरी गोत्रभावेन भूतानां गुणनाशकः। कौमारं चापि भर्तारं या नारी नानुमन्यते। परद्रव्योपयोगेन यज्ञं कुर्वन्ति ये द्विजाः। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। स्वपाकं च परित्यज्य परपाकरताश् च ये। ये सक्ता गुरुदारेषु स्वामिदारेषु ये नराः। ब्राह्मणो वृषलीं गत्वा न तु तीर्थानि सेवते। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। ब्राह्मणः कृतसंस्कारः शूद्रप्रेक्षणकारकः। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। अनृतं धनसंबद्धे कूटसाक्ष्यं वदन्ति ये। यत् पापं ब्रह्महत्यायां मातापितृवधेन च। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। यत् पापं लुब्धकानां च म्लेच्छानां गरदायिनाम्। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। पादेन स्पृशते गाश् च शिरोभिर् न नमन्ति ये। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। गोष्व् अवज्ञां प्रकुर्वन्ति शपन्ते ताडयन्ति च। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। सकृद् दत्त्वा तु यः कन्यां द्वितीयाय प्रयच्छति। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। कथायां क्रियमाणायाम् अन्तरायं करोति यः। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। गृहे यस्यागतो विप्रो निराशः प्रतिगच्छति। तेन पापेन लिप्यामि यत् ते ऽहं नागमे पुनः। द्विभार्यः पुरुषो यस् तु एकां स्नेहेन पश्यति। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। एकाकी मृष्टम् अश्नाति यः कश् चित् पुरुषाधमः। तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः। यस् त्रीन् हले बलीवर्दान् विषमं वाहयेत यः। तेन पापेन लिप्ये ऽहं यदि नायां तवान्तिकम्। इत्य् एतैः पातकैर् घोरैर् आगमिष्याम्य् अहं पुनः। लब्ध्वा स प्रत्ययं व्याघ्रः पुनर् वचनम् अब्रवीत्। संजातः प्रत्ययो ऽस्माकं शपथैर् बहुले तव। कदा चिन् मन्यसे गत्वा मूर्खो ऽसौ वञ्चितो मया। लोके ऽस्मिन् नास्तिकाः के चिन् मूर्खाः पण्डितमानिनः। भ्रामयन्ति च ते बुद्धिं चक्रारूढ इवेक्षणम्। अतथ्यान्य् अपि तथ्यानि दर्शयन्त्य् अपि पेशलाः। समे निम्नोन्नतानीव चित्रं कर्मविदो जनाः। प्रायः कृतार्थो लोको ऽयं मन्यते नोपकारिणम्। वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्। न तं पश्यामि लोके ऽस्मिन् कृते प्रतिकरोति यः। सर्वस्य हि कृतार्थस्य मतिर् अन्या प्रवर्तते। ऋषिदेवासुरगणैः शपथाः कार्यसिद्धये। कृताः परस्परं पूर्वं तन् न मन्यामहे कथम्। सत्येनाभिशपेद् यस् तु देवाग्निगुरुसंनिधौ। तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति। मा ते बुद्धिर् भवेद् एवं शपथैर् एव यन्त्रिता। तेनैवं दर्शितं पूर्वं यथेष्टं कुरु सांप्रतम्। बहुले गच्छ पश्य त्वं पुत्रकं पुत्रवत्सले। पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि। मातरं भ्रातरं दृष्ट्वा सखीः स्वजनबान्धवान्। भीष्मः। सत्यम् एवाग्रतः कृत्वा शीघ्रम् आगमनं कुरु। एवं सा प्रत्ययं कृत्वा बहुला सत्यवादिनी। अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रवत्सला। अश्रुपूर्णमुखी दीना वेपमाना सुदुःखिता। कुररी निःश्वसन्तीव पतिता शोकसागरे। करिणीव हि नागेन गृहीता सलिलाशये। अशक्तात्मपरित्राणे विलपन्ती मुहुर् मुहुः। सा तु गोपकुलं गत्वा बहुला हृतविक्रमा। श्रुत्वात्मवत्सं क्रोशन्तं पर्यधावत तन्मुखी। उपासर्पत तं वत्सं बाष्पपर्याकुलेक्षणा। स प्राप्तां मातरं वत्सः शङ्कितः परिपृच्छति। न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यसे। बहुला। उद्विग्ना चापि ते दृष्टिर् भीतभीता च दृश्यते। पिब पुत्र स्तनं मह्यं कारणं यदि पृच्छसि। आगता च तव स्नेहात् कुरु तृप्तिं यथेप्सिताम्। अपश्चिमम् इदं वत्स दुर्लभं मातृदर्शनम्। एकाहम् अथ मां पीत्वा प्रत्यूषे कस्य पास्यसि। मया तु पुत्र गन्तव्यं शपथैर् आगता ह्य् अहम्। कामरूपस्य व्याघ्रस्य दातव्यं जीवितं मया। बहुलाया वचः श्रुत्वा वत्सो वचनम् अब्रवीत्। अहं तत्र गमिष्यामि यत्र त्वं गन्तुम् इच्छसि। श्लाघ्यं ममापि मरणं त्वया सह न संशयः। एकाकिनापि मर्तव्यं मयावश्यं त्वया विना। यदि मां सहितं मातर् वने व्याघ्रो हनिष्यति। या गतिर् मातृभक्तानां ध्रुवं सा मे भविष्यति। तस्माद् अवश्यं यास्यामि त्वया सह न संशयः। अथ मातश् च तिष्ठ त्वं शपथाः सन्तु ते मम। जनन्या विप्रयुक्तस्य जीविते किं प्रयोजनम्। अनाथस्य वने नित्यं को मे नाथो भविष्यति। नास्ति मातृसमो बन्धुर् बालानां क्षीरपायिनाम्। नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः। नास्ति मातृसमः स्नेहो नास्ति मातृसमं सुखम्। नास्ति मातृसमो देव इहलोके परत्र च। एष नः परमो धर्मः प्रजापतिविनिर्मितः। ये तु तिष्ठन्ति सत्पुत्रास् ते यान्ति परमां गतिम्। ममैव विहितो मृत्युर् न त्वं पुत्र गमिष्यसि। न चायम् अन्यजीवानां मृत्युः स्याद् अन्यमृत्युना। अपश्चिमम् इमं पुत्र मातुः संदेशम् उत्तमम्। अनुतिष्ठस्व मद्वाक्यं तत्र शुश्रूषणं परम्। वने जले च विचरन् मा प्रमादं करिष्यसि। प्रमादात् सर्वभूतानि विनश्यन्ति न संशयः। न च लोभेन वर्तव्यं विषमस्थं तृणं क्व चित्। लोभाद् विनाशः सर्वेषाम् इह लोके परत्र च। समुद्रम् अटवीं युद्धं विशन्तो लोभमोहिताः। लोभाद् अकार्यम् अत्युग्रं विद्वान् अपि समाचरेत्। लोभात् प्रमादाद् विश्रम्भात् त्रिभिर् वै बध्यते पुमान्। तस्माल् लोभं न कुर्वीत न प्रमादं न विश्वसेत्। आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः। सर्पेभ्यः श्वापदेभ्यश् च म्लेच्छचोरादिसंकटे। तिरश्चां पापजातीनाम् एकत्र वसताम् अपि। विपरीतानि चित्तानि न ज्ञायन्ते ह पुत्रक। नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम्। विश्वासो नैव कर्तव्यः स्त्रीणां वेश्याजनस्य च। न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत्। विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति। न विश्वसेत् स्वदेहे ऽपि चलतो जीवचेतसः। तद् व्यक्तिमूढम् अत्यर्थं सदा सुप्तं विचारयेत्। गन्धः सर्वत्र सततम् आघ्रातव्यः प्रयत्नतः। गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति ब्राह्मणाः। चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः। नैकस् तिष्ठेद् वने घोरे धर्मम् एकश् च चिन्तयेत्। न चोद्वेगस् त्वया कार्यः सर्वस्य मरणं ध्रुवम्। यथा हि पथिकः कश् चिच् छायाम् आश्रित्य विश्रमेत्। विश्रम्य च पुनर् गच्छेत् तद्वद् भूतसमागमः। यत्रानित्यं जगत् सर्वं तत्रैकः शोच्यते कथम्। वत्सान्तःशोकम् उत्सृज्य मद्वाक्यम् अनुपालय। शिरस्य् आघ्राय तं वत्सम् अवलिह्य च मूर्धनि। शोकेन महताविष्टा बाष्पव्याकुललोचना। विनिःश्वसन्ती मार्गीव व्याघ्राणां वशम् आगता। पुत्रहीना जगत् सर्वं पश्यन्त्य् अन्धेव साभवत्। महापङ्कविनिर्मग्ना तिष्ठन्त्य् एवात्र सीदति। विलप्य बहुला पुत्रम् उवाचेदं पुनर् वचः। नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम्। नास्ति पुत्रसमा प्रीतिर् नास्ति पुत्रसमा गतिः। अपुत्रस्य जगच् छून्यम् अपुत्रस्य गृहं कुतः। पुत्रेण जयते लोकान् पुत्रेण नरकं जयेत्। अनृतं वदते लोकश् चन्दनं किल शीतलम्। पुत्रगात्रपरिष्वङ्गश् चन्दनाद् अपि शीतलः। दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम्। पुण्यैर् विना न पश्यन्ति गङ्गाधरम् इवात्मजम्। किं चन्दनेन पीयूषबिन्दुना किं किम् इन्दुना। पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद् यदि। इति पुत्रगुणान् उक्त्वा निरीक्ष्य च मुहुर् मुहुः। स्वमातरं सखीर् गोपान् क्रमात् तान् अनुपृच्छति। यूथस्याग्रे चरन्तीं माम् आससाद मृगाधिपः। मुक्ताहं तेन शपथैः कुलं दृष्ट्वागमिष्यसि। साहं भवन्तं संद्रष्टुं मातरं स्वकुलं सुतम्। आगता सत्यवाक्येन पुनर् यास्यामि तत्र च। मातः क्षमस्व तत् सर्वं बालत्वे यत् कृतं मया। न्यासस् तवायं दौहित्रः किम् अन्यत् प्रब्रवीमि ते। विपुले चम्पके दामे भद्रे सुरभि मालिनि। वसुधारे श्रिये नन्दे महानन्दे घटस्रवे। अज्ञानाज् ज्ञानतो वापि यद् उक्तं क्व चिद् अप्रियम्। तत् क्षमध्वं महाभागाः पश्चाद् यच् च कृतं मया। सर्वाः सर्वगुणोपेताः सर्वलोकस्य मातरः। सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकम्। अनाथम् अबलं दीनं सीदन्तं मम पुत्रकम्। मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ। भगिनीनाम् अयं पुत्रः सांप्रतं च विशेषतः। बालो ऽबलाभिः सर्वाभिः पोष्यः पाल्यश् च पुत्रवत्। चरन्तं विषमे स्थाने गच्छन्तं परगोकुले। अकार्येषु प्रवर्तन्तं हे सख्यो वारयिष्यथ। परपुत्रात्मपुत्रेषु यासां चित्तं समं भवेत्। ता धन्यास् ताः कृतार्थाश् च ताः स्त्रियस् ताश् च मातरः। मोदन्ते देवलोकेषु ता गावस् ताश् च योषितः। याः पालयन्त्य् अनाथांश् च परपुत्रान् आत्मपुत्रवत्। तस्माद् अनाथं मत्पुत्रं पुत्रवत् पालयिष्यथ। रक्षध्वं च महाभागा यास्यामि सत्यसंश्रयात्। यतः सर्वस्य जातस्य स्थितं मरणम् अग्रतः। न चास्मद्गमने मन्युः सख्यः कार्यः कथं चन। श्रुत्वैतद् बहुलावाक्यं माता सख्यश् च विह्वलाः। विषादं परमं जग्मुर् इदम् ऊचुः सुविस्मिताः। अहो सुमहद् आश्चर्यं यद् व्याघ्रवदनं महत्। प्रवेष्टुम् उद्यता भीमं बहुला सत्यवाक्यतः। शपथैः सत्यवाक्येन वञ्चयित्वा यतो भयम्। नाशितव्यं प्रयत्नेन तत् कथं गम्यते पुनः। बहुले नैव गन्तव्यं धर्मो ऽयं कतमस् तव। यद् बालं स्वकुलं त्यक्त्वा सत्यलोभेन गम्यते। अत्र गाथाः पुरा गीता ऋषिभिस् तत्त्वदर्शिभिः। प्राणत्यागे समुत्पन्ने शपथैर् नास्ति पातकम्। उक्त्वानृतं भवेद् यत्र प्राणिनां प्राणरक्षणम्। अनृतं तत्र वै सत्यं सत्यं चैवानृतं भवेत्। कामिनीषु विवाहेषु गवां कार्ये तथैव च। बहुला। ब्राह्मणाभ्युपपत्तौ च शपथैर् नास्ति पातकम्। परेषां प्राणरक्षार्थं वदाम्य् एवानृतं वचः। नात्मार्थम् उत्सहे वक्तुं स्वल्पम् अप्य् अनृतं क्व चित्। एकः संश्लिष्यते गर्भे जायेतैको म्रियेत च। भुङ्क्ते चैकः सुखं दुःखं मातः सत्यं वदाम्य् अहम्। सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः। उदधिः सत्यवाक्येन मर्यादां न विलङ्घति। विष्णवे पृथिवीं दत्त्वा बलिः पातालम् आश्रितः। छद्मना च बलिर् बद्धः सत्यवाक्येन तिष्ठति। प्रवर्धमानः शैलेन्द्रः शतयोजनम् उच्छ्रितः। सत्येन संस्थितो विन्ध्यो न प्रवृद्धः स सांप्रतम्। स्वर्गापवर्गनरकाः सर्वे वाचि प्रतिष्ठिताः। यस् तां लोपयते वाचम् अशेषं तेन लोपितम्। यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते। किं तेन न कृतं पापं चोरेणात्मापहारिणा। तस्मान् नैवाहम् आत्मानम् असत्येन च लोपये। यास्यामि नरकं घोरं विलोप्यात्मानम् आत्मना। अगाधे विपुले शुद्धे सत्यतीर्थे क्षमाह्रदे। स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिम्। अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते। सत्यं साधु तपः श्रुतं च परमं क्लेशादिभिर् वर्जितं। स्वाधीनं च सुदुर्लभं च जगतः साधारणं भूषणम्। साधूनां निकषं सतां कुलधनं सर्वाश्रमाणां बलं। यन् म्लेच्छो ऽपि विधाय गच्छति दिवं तत् त्यज्य तिष्ठेत् कथम्। सख्यः। बहुले त्वं नमस्कार्या सर्वैर् अपि सुरासुरैः। मा त्वं परमसत्येन प्राणांस् त्यजसि दुस्त्यजान्। ब्रूमः किम् अत्र कल्याणि या त्वं धर्मधुरंधरा। त्यागेनानेन यत् प्राप्यं त्रैलोक्ये कः समो ऽस्ति ते। अधियोगं च पश्यामस् त्यागाद् अस्मात् सुतेन ते। न हि कल्याणचित्तानाम् आपदः सन्ति कुत्र चित्। दृष्ट्वा गोपाञ्जनं सर्वं परिक्रम्य च गोकुलम्। बहुला प्रस्थिता देवान् वृक्षांश् चापृच्छ्य तान् पुनः। क्षितिं च जलम् अग्निं च वायुं खार्कनिशाकरम्। दशदिग्देवताम् अद्रीन् नक्षत्राणि ग्रहांस् तथा। सर्वान् विज्ञापयाम्य् अद्य प्रणिपत्य मुहुर् मुहुः। स्वैः स्वैः प्रभावै रक्षध्वम् अनाथं मम वत्सकम्। करुणाहितचित्तानां न स्यात् परजनो यतः। तस्मात् करुणया बालम् अनाथं पालयिष्यथ। ये संश्रिता वने सिद्धाः सर्वाश् च वनदेवताः। वने चरन्तं मे बालं ते रक्षन्तु सुतं मम। चम्पकाशोकपुंनागसरलार्जुनकिंशुकाः। शृण्वन्तु पादपाः सर्वे संदेशं मम विक्लवम्। बालम् एकाकिनं दीनं चरन्तं विषमे वने। रक्षध्वं वत्सकं बालं स्नेहात् पुत्रम् इवौरसम्। मातापितृविनिर्मुक्तम् अनाथं दीनम् आतुरम्। विचरन्तम् इमां भूमिं क्रन्दमानं सुदुःखितम्। तस्येहाक्रन्दमानस्य मत्पुत्रस्य महावने। मातृशोकाभिभूतस्य क्षुत्पिपासातुरस्य च। न्यस्तस्यैकाकिनः शून्यं जगत् सर्वं प्रपश्यतः। चरमाणस्य कर्तव्यं सानुक्रोशस्य रक्षणम्। एवं संदिश्य बहुला पुत्रस्नेहवशं गता। शोकाग्निनातिसंतप्ता छिन्नाशा पुत्रदर्शने। वियुक्ता चक्रवाकीव लतेव पतिता तरोः। अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे। गत्वा तु सा पुनस् तत्र यत्रासौ पिशिताशनः। आस्ते विस्फूर्जितमुखस् तीक्ष्णदंष्ट्रो भयानकः। व्याघ्रं दृष्ट्वा तु सा धेनुर् इदं वचनम् अब्रवीत्। आगताहं महाभाग सत्यधर्मव्यवस्थया। कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम्। तर्पयस्व स्वभूतानि पञ्चास्य शोणितेन मे। व्याघ्रः। स्वागतं तव कल्याणि बहुले सत्यवादिनि। न हि सत्यवतां किं चिद् अशुभं विद्यते क्व चित्। त्वयोक्तं बहुले पूर्वं सत्यात् प्रत्यागता पुनः। तेन नः कौतुकं जातं प्राप्तागच्छेत् कथं पुनः। अन्यथा मां समासाद्य जीवन्ती यास्यसे कथम्। तच् च नः कौतुकं पूर्णं दृष्टं सत्यं गवां मया। तस्माद् अनेन सत्येन विमुक्तासि मयाधुना। सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः। सत्ये प्रतिष्ठितं ज्ञानं सर्वं सत्ये प्रतिष्ठितम्। सत्येन देवास् तुष्यन्ति सत्येन पितरस् तथा। सत्येन ऋषयः सिद्धाः सर्वं सत्ये प्रतिष्ठितम्। धन्या गावः क्षितिर् धन्या धन्या त्वम् अपि धेनुके। धन्यः स राजा यत्र त्वं वससे सत्यवादिनि। धन्यः सराष्ट्रः सतृणः प्राणिवृक्षसमन्वितः। चचार बहुला यत्र दिष्ट्या पापविनाशिनी। ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम्। तैः प्राप्तं जन्मनः सारं ये पिबन्ति गवां पयः। मृगेन्द्रः प्रत्ययं गत्वा विस्मयं परमं गतः। प्रत्यादेशो ऽयम् अस्माकं सर्वैर् देवैः प्रदर्शितः। तत् करिष्याम्य् अहं कर्म येन मोक्ष्यामि किल्बिषात्। मया जीवसहस्राणि भक्षितानि हतानि च। गतिं कां नु गमिष्यामि दृष्ट्वा गोसत्यम् ईदृशम्। अहं पापी दुराचारो नृशंसो जीवघातकः। कांल् लोकान् हि गमिष्यामि कृत्वा कर्म सुदारुणम्। गमिष्ये पुण्यतीर्थानि करिष्ये कायशोधनम्। पतिष्ये गिरिम् आसाद्य विशे वापि हुताशनम्। बहुले यन् मया कार्यं तपः पापविशुद्धये। बहुला। तद् आदेशय संक्षेपान् न कालो विस्तरस्य मे। तपः कृते प्रशंसन्ति त्रेतायां यज्ञकर्म च। द्वापरे ध्यानयोगं च दानम् एकं कलौ युगे। सर्वेषाम् एव दानानाम् इदम् एवैकम् उत्तमम्। अभयं सर्वभूतानां नास्ति दानम् अतः परम्। चराचराणां भूतानाम् अभयं यः प्रयच्छति। स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति। नास्त्य् अहिंसापरं दानं नास्त्य् अहिंसापरो दमः। यथा हस्तिपदेनान्यत् पदं सर्वं प्रलीयते। सर्वे धर्मास् तथा व्याघ्र विधीयन्ते ह्य् अहिंसया। योगवृक्षस्य या छाया तापत्रयविनाशिनी। धर्मज्ञानसुपुष्पस्य स्वर्गमोक्षफलस्य च। दुःखत्रयार्कसंतप्तश् छायां योगतरोः श्रितः। न बध्यते पुनर् दुःखैः प्राप्य निर्वाणम् उत्तमम्। इत्य् एवं परमं श्रेयः कीर्तितं ते समासतः। व्याघ्रः। ज्ञातं चैतत् त्वया सर्वं केवलं मां हि पृच्छसि। अहं देवैः पुरा सर्वैर् व्याघ्ररूपेण पातितः। तत्र प्राणिवधे घोरे अशेषं मम विस्मृतम्। त्वत्संपर्कोपदेशेन संजातं स्मरणं पुनः। मुक्तशापश् च संजातः प्रसादात् तव धेनुके। बहुले गच्छ तुष्टो ऽस्मि पुत्रेण सहिता भव। त्वं चाप्य् अनेन सत्येन गमिष्यसि परां गतिम्। ततो योगं समाश्रित्य व्याघ्रस् तद्गतमानसः। प्राणायामैः स्वकं देहं परित्यज्य दिवं गतः। सर्वपापविशुद्धात्मा योगैश्वर्यसमन्वितः। विमाने हंससंयुक्ते महता अप्सरोगणैः। विमानसंस्थितं दृष्ट्वा विस्मयं परमं गतः। बहुला हृष्टतुष्टाङ्गी गोकुलं पुनर् आगता। आगत्य च यथावृत्तं व्याघ्रसंवादम् उत्तमम्। सखीभ्यः कथयाम् आस पुत्रस्य च विशेषतः। बहुला पुत्रसंयुक्ता सुप्रीता सुनिराकुला। गोधनैर् वृषभैर् वत्सैर् गोपगोपीजनैर् वृता। विचचाराटवीं सर्वाम् अशेषभयवर्जिता। यथेष्टचेष्टम् अभवद् गोकुलं तत्प्रभावतः। सराष्ट्रभृत्यराजानं सान्तःपुरपरिच्छदम्। सर्वान् गोपांश् च तान् दृष्ट्वा गोपीगोमण्डलानि च। इति संगृह्य तान् सर्वान् बहुला प्रस्थिता दिवम्। महाविमानैः श्रीमद्भिर् असंख्यैः सर्वतोवृतम्। प्राप्य स्वर्गं क्रमाद् ऊर्ध्वम् अशेषैः सहिता पुनः। उपर्य् उपरि लोकानां गत्वा गोलोकम् आस्थिता। तत्र संभोगसंकीर्णे असंख्यातैः पुरोत्तमैः। भीष्मः। क्रीडते सहिता सर्वैर् यावद् आभूतसंप्लवम्। इत्य् एतत् सत्यवाक्यस्य माहाभाग्यम् उदाहृतम्। यः पठेच् छृणुयाद् वापि स्वर्गलोकं स गच्छति। बहुलाव्याघ्रसंवादं यः पठेत् सततं द्विजः। शृणुयाद् एकचित्तश् च स व्याघ्रैर् नाभिभूयते। वियुक्ता या सुतैर् नारी नरो वापि पठेत् सदा। सो ऽपि पापैर् विनिर्मुक्तः पुत्रैर् भवति संगतः। यः पठेत् प्रातर् उत्थाय चतुर्दश्यष्टमीषु च। सतां पुण्यकृतां लोकान् गच्छते नात्र संशयः। गवां गोष्ठे च पठतां गोवृद्धिर् नात्र संशयः। क्षेत्रमध्ये च पठतां सस्यवृद्धिः प्रजायते। गृहमध्ये च पठतां बालानां शान्तिवर्धनम्। भवेद् ग्रहाभिभूतानां रक्षाम् एतां च यः पठेत्। दुर्गेषु पठतां नित्यम् अटव्यायतनेषु च। दिवा वा यदि वा रात्रौ न भयं विद्यते क्व चित्। दुःस्वप्नारिष्टदुर्मित्रं श्रुत्वेदं संप्रणश्यति। वन्ध्यायाश् च भवेत् पुत्रः संमतश् च पतिर् भवेत्। कुमारी च सदा शृण्वन् वीरं पतिम् अवाप्नुयात्। नारी वा पुरुषो वापि दुर्भगः सुभगो भवेत्। गवां पर्वसु भक्त्या च माहात्म्यं पुरतः पठेत्। स गोवृद्धिम् अवाप्नोति गोलोकं चैव गच्छति। शूद्रो ऽहं नाधिकारो मे चातुराश्रम्यसेवने। इति विज्ञानम् अपरे नात्मन्य् उपदधत्य् उत। विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः। पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम्। लोकधर्मे च धर्मे च विशेषकरणं कृतम्। यत्रैकत्वं पुनर् यान्ति प्राणिनस् तत्र विस्तरः। अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः। यत्र कालो ध्रुवस् तात तत्र धर्मः सनातनः। सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम्। कालो धर्मेण संयुक्तः शेष एव सुसंग्रहः। एवं सति न दोषो ऽस्ति भूतानां धर्मसेवने। तिर्यग्योनाव् अपि सतां लोक एव मतो गुरुः। पालय त्वं प्रजाः सर्वाः शान्तात्मा चानुशासितः। द्वैपायनस् त्व् अयं चक्षुः कृष्णस् ते ऽस्तु परायणम्। इत्य् उक्त्वोपासनार्थाय विरराम महामतिः।
tatra kaś cin nayet prājño gṛhītvaiva kare naram. uhyamānaḥ sa dharmeṇa dharme bahubhayacchale. prāpnuyāt param acyutam. viśvāsa eva kartavyo. yudhiṣṭhiraḥ. pitāmaha mahābāho sarvadharmabhṛtāṃ vara. satyārjavaguṇopetaṃ saumyaṃ dharmaṃ vadasva me. bhavataḥ śrotum icchāmi satyavākyam anuttamam. yat prāg bahulayā proktaṃ tan me tvaṃ vaktum arhasi. bhīṣmaḥ. saumya dharmaṃ pravakṣyāmi satyārjavasamanvitam. kāmarūpasya vyāghrasya dhenvā saṃvādam uttamam. māthure viṣaye ramye dhanadhānyasamanvite. nānājanapadākīrṇe yajñavāṭavibhūṣite. tatra sā nagarī ramyā yamunātīram āśritā. ardhacandrapratīkāśā vidvajjanavibhūṣitā. indrayaṣṭidhvajākīrṇā gopībhir upaśobhitā. bahudvijasamākīrṇā nānāpaṇyopaśobhitā. supramāṇā suramyā ca svātinakṣatranirmitā. prākārāṭṭapratolībhir durjayā parikhādibhiḥ. āmrātakakapitthaiś ca rājavṛkṣaiś ca śobhitā. devatāyatanair divyaiḥ kadalīkhaṇḍamaṇḍitā. haṃsamālāpratīkāśair dīpyate dhavalair gṛhaiḥ. panasair bakulais tālaiḥ priyālair nāgakesaraiḥ. karavīraiḥ karṇikāraiḥ pāṭalāśokacampakaiḥ. mallikākundajātībhiḥ kubjāhlādakuraṇṭakaiḥ. suvarṇaśvetayūthībhiḥ kiṃkirātotpalādibhiḥ. puṃnāgavṛkṣabakulair udyānair upaśobhitā. saṃpūrṇā dhanadhānyaiś ca godhanair upaśobhitā. vedādhyayanaghoṣaiś ca pavitrīkṛtamaṅgalā. vedīśṛṅgāṭakai ramyais trikacatvaraśobhitā. rāvaṇasyeva ratnāḍhyā laṅkā caiva mahāpurī. indraseno nṛpas tatra rājadharmasamanvitaḥ. dharme cābhirato nityaṃ devatātithipūjakaḥ. kṣatradharme rataḥ śrīmān prajāpatisamaḥ kṣitau. tena sā nagarī ramyā rājasiṃhena pālitā. nityotsavapramuditā śaṅkhavāditranāditā. susaṃgītavidagdhaiś ca prekṣaṇīyaiḥ samākulā. antarāpaṇavīthībhiḥ suvibhaktaiś catuṣpathaiḥ. dīrghikākūpavāpībhis taḍāgair upaśobhitā. sabhāprapāsamākīrṇā vivāhamakhasaṃkulā. purī candravatī nāma dṛṣṭā te yadi vā śrutā. tasyāṃ puryāṃ purā vṛttaṃ tattvaṃ śṛṇu yudhiṣṭhira. kasya cid dvijamukhyasya kalyāṇī dhenur uttamā. hṛṣṭapuṣṭā susaṃtuṣṭā bahulā nāma viśrutā. godhanasya ca sā mukhyā haṃsavarṇā ghaṭasravā. dīrghaghoṇā vibhaktāṅgī śreṣṭhalomatanutvacā. vistīrṇajaghanā divyā pīnaśroṇipayodharā. sarvalakṣaṇasaṃpannā sarvāvayavasundarī. nīlakaṇṭhā śubhagrīvā ghaṇṭālī madhurasvarā. sā ca yūthasya sarvasya cacārāgre sunirbhayā. grāmadhānyaṃ carec channaṃ gatvaikaiva yathāsukham. sāndraṃ supuṣpitaṃ surabhi acchinnaṃ carate tṛṇam. rohito nāma tatrānyaḥ parvato yamunātaṭe. anekakandaradarīnirjharair upaśobhitaḥ. tasya pūrvottare bhāge ghore tṛṇasamākule. saṃkaṭe viṣame durge bhairave lomaharṣaṇe. mṛgasiṃhasamākīrṇe bahuśvāpadasevite. vallīvṛkṣādigahane śivāśataninādite. durge 'smin vasate raudraḥ kāmarūpī bhayaṃkaraḥ. dvīpī śoṇitamāṃsāśī mahādaṃṣṭro mahābalaḥ. mahāparvatasaṃkāśo meghagarjitanisvanaḥ. mahāguhādarīvaktras tīkṣṇadaṃṣṭro nakhāyudhaḥ. nandī nāma sa dharmātmā sa ca gopahite rataḥ. acchinnāgrais tṛṇair dīrghair godhanaṃ parirakṣati. tasya yūthaparibhraṣṭā bahulā tṛṇatṛṣṇayā. carantī vyāghrapurataḥ sā dhenuḥ samupasthitā. abhidravaṃś ca tāṃ vyāghras tiṣṭha tiṣṭheti cābravīt. tvam adya vihito bhakṣaḥ svayaṃ prāptāsi me vanam. vyāghrasya vacanaṃ śrutvā niṣṭhuraṃ lomaharṣaṇam. sutaṃ rūpānvitaṃ bālaṃ candrarūpasamaprabham. vatsaṃ smarati sā dhenuḥ snehārtā gadgadasvarā. dahyantī putraśokena bahulā putravatsalā. rudantī karuṇaṃ sā tu nirāśā putradarśane. dṛṣṭvā tu bahulāṃ vyāghraḥ krandamānāṃ suduḥkhitām. uvāca vacanaṃ ghoraṃ bahule kiṃ prarudyate. daivād yathopapannāsi bhakṣas tvaṃ me yadṛcchayā. na rudantyā vā hasantyā vā tathā te jīvitaṃ bhavet. vihitaṃ bhujyate loke svayaṃ prāptāsi dhenuke. mṛtyus te vihito 'dyaiva vṛthā kim anuśocasi. papraccha ca punar vyāghraḥ kimarthaṃ ruditaṃ tvayā. kautukaṃ me 'dya saṃjātam aśeṣaṃ kathayasva naḥ. vyāghrasya vacanaṃ śrutvā bahulā vākyam abravīt. kṣantum arhasi me nātha kāmarūpa namo 'stu te. tvāṃ samālokya lokasya paritrāṇaṃ na vidyate. jīvitārthaṃ na śocāmi prāptavyaṃ maraṇaṃ mayā. jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca. tasmād aparihārye 'rthe na tvaṃ śocitum arhasi. devair api sadā sarvair martavyam avaśair dhruvam. tasmāt tan nāham evaikaṃ vyāghra śocāmi jīvitam. kiṃ tu snehavaśād vyāghra duḥkhena ruditaṃ mayā. asti me hṛdi saṃtāpas taṃ ca tvaṃ śrotum arhasi. agre vayasi vartantī prasūtāhaṃ mṛgādhipa. iṣṭaḥ prathamajātas tu sutaś ca mama bālakaḥ. kṣīraṃ pibati me vatsas tṛṇaṃ nādyāpi jighrati. sa ca gopakule baddhaḥ kṣudhito mām udīkṣate. sutaṃ tam anuśocāmi kathaṃ jīviṣyate sutaḥ. tasyecchāmi stanaṃ dātuṃ putrasnehavaśānugā. pāyayitvā ca taṃ vatsam avalihya ca mūrdhani. sakhīnām arpayitvā ca saṃdiśya ca hitāhitam. punaḥ pratyāgamiṣyāmi yatheṣṭaṃ bhakṣayiṣyasi. śīghrāham āgamiṣyāmi mahāvyāghra tavāntikam. bahulāyā vacaḥ śrutvā mṛgendraḥ punar abravīt. kiṃ te putreṇa kartavyaṃ maraṇaṃ kiṃ na paśyasi. trasanti sarvabhūtāni māṃ nirīkṣya mriyanti ca. tvaṃ punaḥ kṛpayāviṣṭā putra putreti bhāṣase. na mantrā na tapo dānaṃ na mātā na pitā sutaḥ. śaknuvanti paritrātum āgatāṃ matsamīpataḥ. kathaṃ tad gokulaṃ gatvā gopījanasamākulam. vṛṣabhair nāditaṃ ramyaṃ bālavatsavibhūṣitam. bhūṣaṇaṃ devalokasya svargatulyaṃ na saṃśayaḥ. nityaṃ pramuditaṃ ramyaṃ sarvadaivatapūjitam. pavitraṃ tat pavitrāṇāṃ maṅgalānāṃ ca maṅgalam. yat tīrthaṃ sarvatīrthānāṃ ramyāṇāṃ ramyam uttamam. samastaguṇasaṃkīrṇam īśvarāyatanaṃ mahat. yat sthānaṃ sarvasiddhānāṃ bhūmisvargam anuttamam. gargarīravaśabdena yatra lakṣmīr na hanyate. yatra vatsāś ca huṃkāraṃ karuṇaṃ mātṛkāṅkṣayā. yad gopaiḥ pālitaṃ śūrair bāhuyuddhaviśāradaiḥ. pragītanṛtyasaṃlāpaṃ valgutāsphoṭanāditam. itas tataḥ sthitair vatsair arghyamānaiḥ samantataḥ. sarovad bhrājate goṣṭhaṃ śrīmadbhir iva paṅkajaiḥ. tac chrīniketanaṃ ramyaṃ mātaraṃ bhrātaraṃ sutam. dṛṣṭvā sakhījanaṃ bhūyaḥ kathaṃ pratyāgamiṣyasi. pañca bhūtāni me bhadre pibantu rudhiraṃ tava. bahulā. na nirāśāni bhūtāni vāṅmātreṇa karomy aham. prathamaṃ dṛṣṭavatsāhaṃ mṛgendra śṛṇu me vacaḥ. dṛṣṭvā sakhījanaṃ bālaṃ gopāṃś ca paricārakān. gopījanaṃ samāgamya jananīṃ ca viśeṣataḥ. vyāghraḥ. śapathair āgamiṣyāmi manyase yadi muñca mām. śapathāḥ kīdṛśā bhadre ye tvayā parinoditāḥ. bahulā. pratyayaṃ caivam ākhyāhi bahule mama yatnataḥ. yadi te nāsti viśvāso mamopari mṛgādhipa. śapathair āgamiṣyāmi satyaṃ brūyāṃ na saṃśayaḥ. mā dadasveti yo brūyād gurvagnibrāhmaṇeṣu ca. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. madhumāṃse ca yat pāpaṃ lākṣāvikrayaṇe tathā. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. yo vedavikrayī vipraś catvare paṭhate tu yaḥ. asaṃtoṣī ca yo vipro nityaṃ bhavati yācakaḥ. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. matsarī gotrabhāvena bhūtānāṃ guṇanāśakaḥ. kaumāraṃ cāpi bhartāraṃ yā nārī nānumanyate. paradravyopayogena yajñaṃ kurvanti ye dvijāḥ. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. svapākaṃ ca parityajya parapākaratāś ca ye. ye saktā gurudāreṣu svāmidāreṣu ye narāḥ. brāhmaṇo vṛṣalīṃ gatvā na tu tīrthāni sevate. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. brāhmaṇaḥ kṛtasaṃskāraḥ śūdraprekṣaṇakārakaḥ. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. anṛtaṃ dhanasaṃbaddhe kūṭasākṣyaṃ vadanti ye. yat pāpaṃ brahmahatyāyāṃ mātāpitṛvadhena ca. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. yat pāpaṃ lubdhakānāṃ ca mlecchānāṃ garadāyinām. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. pādena spṛśate gāś ca śirobhir na namanti ye. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. goṣv avajñāṃ prakurvanti śapante tāḍayanti ca. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. sakṛd dattvā tu yaḥ kanyāṃ dvitīyāya prayacchati. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. kathāyāṃ kriyamāṇāyām antarāyaṃ karoti yaḥ. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. gṛhe yasyāgato vipro nirāśaḥ pratigacchati. tena pāpena lipyāmi yat te 'haṃ nāgame punaḥ. dvibhāryaḥ puruṣo yas tu ekāṃ snehena paśyati. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. ekākī mṛṣṭam aśnāti yaḥ kaś cit puruṣādhamaḥ. tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ. yas trīn hale balīvardān viṣamaṃ vāhayeta yaḥ. tena pāpena lipye 'haṃ yadi nāyāṃ tavāntikam. ity etaiḥ pātakair ghorair āgamiṣyāmy ahaṃ punaḥ. labdhvā sa pratyayaṃ vyāghraḥ punar vacanam abravīt. saṃjātaḥ pratyayo 'smākaṃ śapathair bahule tava. kadā cin manyase gatvā mūrkho 'sau vañcito mayā. loke 'smin nāstikāḥ ke cin mūrkhāḥ paṇḍitamāninaḥ. bhrāmayanti ca te buddhiṃ cakrārūḍha ivekṣaṇam. atathyāny api tathyāni darśayanty api peśalāḥ. same nimnonnatānīva citraṃ karmavido janāḥ. prāyaḥ kṛtārtho loko 'yaṃ manyate nopakāriṇam. vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram. na taṃ paśyāmi loke 'smin kṛte pratikaroti yaḥ. sarvasya hi kṛtārthasya matir anyā pravartate. ṛṣidevāsuragaṇaiḥ śapathāḥ kāryasiddhaye. kṛtāḥ parasparaṃ pūrvaṃ tan na manyāmahe katham. satyenābhiśaped yas tu devāgnigurusaṃnidhau. tasya vaivasvato rājā dharmasyārdhaṃ nikṛntati. mā te buddhir bhaved evaṃ śapathair eva yantritā. tenaivaṃ darśitaṃ pūrvaṃ yatheṣṭaṃ kuru sāṃpratam. bahule gaccha paśya tvaṃ putrakaṃ putravatsale. pāyayitvā ca taṃ vatsam avalihya ca mūrdhani. mātaraṃ bhrātaraṃ dṛṣṭvā sakhīḥ svajanabāndhavān. bhīṣmaḥ. satyam evāgrataḥ kṛtvā śīghram āgamanaṃ kuru. evaṃ sā pratyayaṃ kṛtvā bahulā satyavādinī. anujñātā mṛgendreṇa prayātā putravatsalā. aśrupūrṇamukhī dīnā vepamānā suduḥkhitā. kurarī niḥśvasantīva patitā śokasāgare. kariṇīva hi nāgena gṛhītā salilāśaye. aśaktātmaparitrāṇe vilapantī muhur muhuḥ. sā tu gopakulaṃ gatvā bahulā hṛtavikramā. śrutvātmavatsaṃ krośantaṃ paryadhāvata tanmukhī. upāsarpata taṃ vatsaṃ bāṣpaparyākulekṣaṇā. sa prāptāṃ mātaraṃ vatsaḥ śaṅkitaḥ paripṛcchati. na te paśyāmi saumyatvaṃ durmanā iva lakṣyase. bahulā. udvignā cāpi te dṛṣṭir bhītabhītā ca dṛśyate. piba putra stanaṃ mahyaṃ kāraṇaṃ yadi pṛcchasi. āgatā ca tava snehāt kuru tṛptiṃ yathepsitām. apaścimam idaṃ vatsa durlabhaṃ mātṛdarśanam. ekāham atha māṃ pītvā pratyūṣe kasya pāsyasi. mayā tu putra gantavyaṃ śapathair āgatā hy aham. kāmarūpasya vyāghrasya dātavyaṃ jīvitaṃ mayā. bahulāyā vacaḥ śrutvā vatso vacanam abravīt. ahaṃ tatra gamiṣyāmi yatra tvaṃ gantum icchasi. ślāghyaṃ mamāpi maraṇaṃ tvayā saha na saṃśayaḥ. ekākināpi martavyaṃ mayāvaśyaṃ tvayā vinā. yadi māṃ sahitaṃ mātar vane vyāghro haniṣyati. yā gatir mātṛbhaktānāṃ dhruvaṃ sā me bhaviṣyati. tasmād avaśyaṃ yāsyāmi tvayā saha na saṃśayaḥ. atha mātaś ca tiṣṭha tvaṃ śapathāḥ santu te mama. jananyā viprayuktasya jīvite kiṃ prayojanam. anāthasya vane nityaṃ ko me nātho bhaviṣyati. nāsti mātṛsamo bandhur bālānāṃ kṣīrapāyinām. nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ. nāsti mātṛsamaḥ sneho nāsti mātṛsamaṃ sukham. nāsti mātṛsamo deva ihaloke paratra ca. eṣa naḥ paramo dharmaḥ prajāpativinirmitaḥ. ye tu tiṣṭhanti satputrās te yānti paramāṃ gatim. mamaiva vihito mṛtyur na tvaṃ putra gamiṣyasi. na cāyam anyajīvānāṃ mṛtyuḥ syād anyamṛtyunā. apaścimam imaṃ putra mātuḥ saṃdeśam uttamam. anutiṣṭhasva madvākyaṃ tatra śuśrūṣaṇaṃ param. vane jale ca vicaran mā pramādaṃ kariṣyasi. pramādāt sarvabhūtāni vinaśyanti na saṃśayaḥ. na ca lobhena vartavyaṃ viṣamasthaṃ tṛṇaṃ kva cit. lobhād vināśaḥ sarveṣām iha loke paratra ca. samudram aṭavīṃ yuddhaṃ viśanto lobhamohitāḥ. lobhād akāryam atyugraṃ vidvān api samācaret. lobhāt pramādād viśrambhāt tribhir vai badhyate pumān. tasmāl lobhaṃ na kurvīta na pramādaṃ na viśvaset. ātmā ca satataṃ putra rakṣitavyaḥ prayatnataḥ. sarpebhyaḥ śvāpadebhyaś ca mlecchacorādisaṃkaṭe. tiraścāṃ pāpajātīnām ekatra vasatām api. viparītāni cittāni na jñāyante ha putraka. nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām. viśvāso naiva kartavyaḥ strīṇāṃ veśyājanasya ca. na viśvased aviśvaste viśvaste 'pi na viśvaset. viśvāsād bhayam utpannaṃ mūlāny api nikṛntati. na viśvaset svadehe 'pi calato jīvacetasaḥ. tad vyaktimūḍham atyarthaṃ sadā suptaṃ vicārayet. gandhaḥ sarvatra satatam āghrātavyaḥ prayatnataḥ. gāvaḥ paśyanti gandhena vedaiḥ paśyanti brāhmaṇāḥ. cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ. naikas tiṣṭhed vane ghore dharmam ekaś ca cintayet. na codvegas tvayā kāryaḥ sarvasya maraṇaṃ dhruvam. yathā hi pathikaḥ kaś cic chāyām āśritya viśramet. viśramya ca punar gacchet tadvad bhūtasamāgamaḥ. yatrānityaṃ jagat sarvaṃ tatraikaḥ śocyate katham. vatsāntaḥśokam utsṛjya madvākyam anupālaya. śirasy āghrāya taṃ vatsam avalihya ca mūrdhani. śokena mahatāviṣṭā bāṣpavyākulalocanā. viniḥśvasantī mārgīva vyāghrāṇāṃ vaśam āgatā. putrahīnā jagat sarvaṃ paśyanty andheva sābhavat. mahāpaṅkavinirmagnā tiṣṭhanty evātra sīdati. vilapya bahulā putram uvācedaṃ punar vacaḥ. nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham. nāsti putrasamā prītir nāsti putrasamā gatiḥ. aputrasya jagac chūnyam aputrasya gṛhaṃ kutaḥ. putreṇa jayate lokān putreṇa narakaṃ jayet. anṛtaṃ vadate lokaś candanaṃ kila śītalam. putragātrapariṣvaṅgaś candanād api śītalaḥ. digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram. puṇyair vinā na paśyanti gaṅgādharam ivātmajam. kiṃ candanena pīyūṣabindunā kiṃ kim indunā. putragātrapariṣvaṅgapātraṃ gātraṃ bhaved yadi. iti putraguṇān uktvā nirīkṣya ca muhur muhuḥ. svamātaraṃ sakhīr gopān kramāt tān anupṛcchati. yūthasyāgre carantīṃ mām āsasāda mṛgādhipaḥ. muktāhaṃ tena śapathaiḥ kulaṃ dṛṣṭvāgamiṣyasi. sāhaṃ bhavantaṃ saṃdraṣṭuṃ mātaraṃ svakulaṃ sutam. āgatā satyavākyena punar yāsyāmi tatra ca. mātaḥ kṣamasva tat sarvaṃ bālatve yat kṛtaṃ mayā. nyāsas tavāyaṃ dauhitraḥ kim anyat prabravīmi te. vipule campake dāme bhadre surabhi mālini. vasudhāre śriye nande mahānande ghaṭasrave. ajñānāj jñānato vāpi yad uktaṃ kva cid apriyam. tat kṣamadhvaṃ mahābhāgāḥ paścād yac ca kṛtaṃ mayā. sarvāḥ sarvaguṇopetāḥ sarvalokasya mātaraḥ. sarvāḥ sarvapradā nityaṃ rakṣadhvaṃ mama bālakam. anātham abalaṃ dīnaṃ sīdantaṃ mama putrakam. mātṛśokābhisaṃtaptaṃ bhaginyaḥ pālayiṣyatha. bhaginīnām ayaṃ putraḥ sāṃprataṃ ca viśeṣataḥ. bālo 'balābhiḥ sarvābhiḥ poṣyaḥ pālyaś ca putravat. carantaṃ viṣame sthāne gacchantaṃ paragokule. akāryeṣu pravartantaṃ he sakhyo vārayiṣyatha. paraputrātmaputreṣu yāsāṃ cittaṃ samaṃ bhavet. tā dhanyās tāḥ kṛtārthāś ca tāḥ striyas tāś ca mātaraḥ. modante devalokeṣu tā gāvas tāś ca yoṣitaḥ. yāḥ pālayanty anāthāṃś ca paraputrān ātmaputravat. tasmād anāthaṃ matputraṃ putravat pālayiṣyatha. rakṣadhvaṃ ca mahābhāgā yāsyāmi satyasaṃśrayāt. yataḥ sarvasya jātasya sthitaṃ maraṇam agrataḥ. na cāsmadgamane manyuḥ sakhyaḥ kāryaḥ kathaṃ cana. śrutvaitad bahulāvākyaṃ mātā sakhyaś ca vihvalāḥ. viṣādaṃ paramaṃ jagmur idam ūcuḥ suvismitāḥ. aho sumahad āścaryaṃ yad vyāghravadanaṃ mahat. praveṣṭum udyatā bhīmaṃ bahulā satyavākyataḥ. śapathaiḥ satyavākyena vañcayitvā yato bhayam. nāśitavyaṃ prayatnena tat kathaṃ gamyate punaḥ. bahule naiva gantavyaṃ dharmo 'yaṃ katamas tava. yad bālaṃ svakulaṃ tyaktvā satyalobhena gamyate. atra gāthāḥ purā gītā ṛṣibhis tattvadarśibhiḥ. prāṇatyāge samutpanne śapathair nāsti pātakam. uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇarakṣaṇam. anṛtaṃ tatra vai satyaṃ satyaṃ caivānṛtaṃ bhavet. kāminīṣu vivāheṣu gavāṃ kārye tathaiva ca. bahulā. brāhmaṇābhyupapattau ca śapathair nāsti pātakam. pareṣāṃ prāṇarakṣārthaṃ vadāmy evānṛtaṃ vacaḥ. nātmārtham utsahe vaktuṃ svalpam apy anṛtaṃ kva cit. ekaḥ saṃśliṣyate garbhe jāyetaiko mriyeta ca. bhuṅkte caikaḥ sukhaṃ duḥkhaṃ mātaḥ satyaṃ vadāmy aham. satye pratiṣṭhito loko dharmaḥ satye pratiṣṭhitaḥ. udadhiḥ satyavākyena maryādāṃ na vilaṅghati. viṣṇave pṛthivīṃ dattvā baliḥ pātālam āśritaḥ. chadmanā ca balir baddhaḥ satyavākyena tiṣṭhati. pravardhamānaḥ śailendraḥ śatayojanam ucchritaḥ. satyena saṃsthito vindhyo na pravṛddhaḥ sa sāṃpratam. svargāpavarganarakāḥ sarve vāci pratiṣṭhitāḥ. yas tāṃ lopayate vācam aśeṣaṃ tena lopitam. yo 'nyathā santam ātmānam anyathā satsu bhāṣate. kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā. tasmān naivāham ātmānam asatyena ca lopaye. yāsyāmi narakaṃ ghoraṃ vilopyātmānam ātmanā. agādhe vipule śuddhe satyatīrthe kṣamāhrade. snātvā pāpavinirmuktaḥ prayāti paramāṃ gatim. aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam. aśvamedhasahasrād dhi satyam eva viśiṣyate. satyaṃ sādhu tapaḥ śrutaṃ ca paramaṃ kleśādibhir varjitaṃ. svādhīnaṃ ca sudurlabhaṃ ca jagataḥ sādhāraṇaṃ bhūṣaṇam. sādhūnāṃ nikaṣaṃ satāṃ kuladhanaṃ sarvāśramāṇāṃ balaṃ. yan mleccho 'pi vidhāya gacchati divaṃ tat tyajya tiṣṭhet katham. sakhyaḥ. bahule tvaṃ namaskāryā sarvair api surāsuraiḥ. mā tvaṃ paramasatyena prāṇāṃs tyajasi dustyajān. brūmaḥ kim atra kalyāṇi yā tvaṃ dharmadhuraṃdharā. tyāgenānena yat prāpyaṃ trailokye kaḥ samo 'sti te. adhiyogaṃ ca paśyāmas tyāgād asmāt sutena te. na hi kalyāṇacittānām āpadaḥ santi kutra cit. dṛṣṭvā gopāñjanaṃ sarvaṃ parikramya ca gokulam. bahulā prasthitā devān vṛkṣāṃś cāpṛcchya tān punaḥ. kṣitiṃ ca jalam agniṃ ca vāyuṃ khārkaniśākaram. daśadigdevatām adrīn nakṣatrāṇi grahāṃs tathā. sarvān vijñāpayāmy adya praṇipatya muhur muhuḥ. svaiḥ svaiḥ prabhāvai rakṣadhvam anāthaṃ mama vatsakam. karuṇāhitacittānāṃ na syāt parajano yataḥ. tasmāt karuṇayā bālam anāthaṃ pālayiṣyatha. ye saṃśritā vane siddhāḥ sarvāś ca vanadevatāḥ. vane carantaṃ me bālaṃ te rakṣantu sutaṃ mama. campakāśokapuṃnāgasaralārjunakiṃśukāḥ. śṛṇvantu pādapāḥ sarve saṃdeśaṃ mama viklavam. bālam ekākinaṃ dīnaṃ carantaṃ viṣame vane. rakṣadhvaṃ vatsakaṃ bālaṃ snehāt putram ivaurasam. mātāpitṛvinirmuktam anāthaṃ dīnam āturam. vicarantam imāṃ bhūmiṃ krandamānaṃ suduḥkhitam. tasyehākrandamānasya matputrasya mahāvane. mātṛśokābhibhūtasya kṣutpipāsāturasya ca. nyastasyaikākinaḥ śūnyaṃ jagat sarvaṃ prapaśyataḥ. caramāṇasya kartavyaṃ sānukrośasya rakṣaṇam. evaṃ saṃdiśya bahulā putrasnehavaśaṃ gatā. śokāgninātisaṃtaptā chinnāśā putradarśane. viyuktā cakravākīva lateva patitā taroḥ. andheva yaṣṭirahitā praskhalantī pade pade. gatvā tu sā punas tatra yatrāsau piśitāśanaḥ. āste visphūrjitamukhas tīkṣṇadaṃṣṭro bhayānakaḥ. vyāghraṃ dṛṣṭvā tu sā dhenur idaṃ vacanam abravīt. āgatāhaṃ mahābhāga satyadharmavyavasthayā. kuru tṛptiṃ yathākāmaṃ mama māṃsena sāṃpratam. tarpayasva svabhūtāni pañcāsya śoṇitena me. vyāghraḥ. svāgataṃ tava kalyāṇi bahule satyavādini. na hi satyavatāṃ kiṃ cid aśubhaṃ vidyate kva cit. tvayoktaṃ bahule pūrvaṃ satyāt pratyāgatā punaḥ. tena naḥ kautukaṃ jātaṃ prāptāgacchet kathaṃ punaḥ. anyathā māṃ samāsādya jīvantī yāsyase katham. tac ca naḥ kautukaṃ pūrṇaṃ dṛṣṭaṃ satyaṃ gavāṃ mayā. tasmād anena satyena vimuktāsi mayādhunā. satye pratiṣṭhitā lokā dharmaḥ satye pratiṣṭhitaḥ. satye pratiṣṭhitaṃ jñānaṃ sarvaṃ satye pratiṣṭhitam. satyena devās tuṣyanti satyena pitaras tathā. satyena ṛṣayaḥ siddhāḥ sarvaṃ satye pratiṣṭhitam. dhanyā gāvaḥ kṣitir dhanyā dhanyā tvam api dhenuke. dhanyaḥ sa rājā yatra tvaṃ vasase satyavādini. dhanyaḥ sarāṣṭraḥ satṛṇaḥ prāṇivṛkṣasamanvitaḥ. cacāra bahulā yatra diṣṭyā pāpavināśinī. te dhanyās te kṛtārthāś ca tair eva sukṛtaṃ kṛtam. taiḥ prāptaṃ janmanaḥ sāraṃ ye pibanti gavāṃ payaḥ. mṛgendraḥ pratyayaṃ gatvā vismayaṃ paramaṃ gataḥ. pratyādeśo 'yam asmākaṃ sarvair devaiḥ pradarśitaḥ. tat kariṣyāmy ahaṃ karma yena mokṣyāmi kilbiṣāt. mayā jīvasahasrāṇi bhakṣitāni hatāni ca. gatiṃ kāṃ nu gamiṣyāmi dṛṣṭvā gosatyam īdṛśam. ahaṃ pāpī durācāro nṛśaṃso jīvaghātakaḥ. kāṃl lokān hi gamiṣyāmi kṛtvā karma sudāruṇam. gamiṣye puṇyatīrthāni kariṣye kāyaśodhanam. patiṣye girim āsādya viśe vāpi hutāśanam. bahule yan mayā kāryaṃ tapaḥ pāpaviśuddhaye. bahulā. tad ādeśaya saṃkṣepān na kālo vistarasya me. tapaḥ kṛte praśaṃsanti tretāyāṃ yajñakarma ca. dvāpare dhyānayogaṃ ca dānam ekaṃ kalau yuge. sarveṣām eva dānānām idam evaikam uttamam. abhayaṃ sarvabhūtānāṃ nāsti dānam ataḥ param. carācarāṇāṃ bhūtānām abhayaṃ yaḥ prayacchati. sa sarvabhayanirmuktaḥ paraṃ brahmādhigacchati. nāsty ahiṃsāparaṃ dānaṃ nāsty ahiṃsāparo damaḥ. yathā hastipadenānyat padaṃ sarvaṃ pralīyate. sarve dharmās tathā vyāghra vidhīyante hy ahiṃsayā. yogavṛkṣasya yā chāyā tāpatrayavināśinī. dharmajñānasupuṣpasya svargamokṣaphalasya ca. duḥkhatrayārkasaṃtaptaś chāyāṃ yogataroḥ śritaḥ. na badhyate punar duḥkhaiḥ prāpya nirvāṇam uttamam. ity evaṃ paramaṃ śreyaḥ kīrtitaṃ te samāsataḥ. vyāghraḥ. jñātaṃ caitat tvayā sarvaṃ kevalaṃ māṃ hi pṛcchasi. ahaṃ devaiḥ purā sarvair vyāghrarūpeṇa pātitaḥ. tatra prāṇivadhe ghore aśeṣaṃ mama vismṛtam. tvatsaṃparkopadeśena saṃjātaṃ smaraṇaṃ punaḥ. muktaśāpaś ca saṃjātaḥ prasādāt tava dhenuke. bahule gaccha tuṣṭo 'smi putreṇa sahitā bhava. tvaṃ cāpy anena satyena gamiṣyasi parāṃ gatim. tato yogaṃ samāśritya vyāghras tadgatamānasaḥ. prāṇāyāmaiḥ svakaṃ dehaṃ parityajya divaṃ gataḥ. sarvapāpaviśuddhātmā yogaiśvaryasamanvitaḥ. vimāne haṃsasaṃyukte mahatā apsarogaṇaiḥ. vimānasaṃsthitaṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ. bahulā hṛṣṭatuṣṭāṅgī gokulaṃ punar āgatā. āgatya ca yathāvṛttaṃ vyāghrasaṃvādam uttamam. sakhībhyaḥ kathayām āsa putrasya ca viśeṣataḥ. bahulā putrasaṃyuktā suprītā sunirākulā. godhanair vṛṣabhair vatsair gopagopījanair vṛtā. vicacārāṭavīṃ sarvām aśeṣabhayavarjitā. yatheṣṭaceṣṭam abhavad gokulaṃ tatprabhāvataḥ. sarāṣṭrabhṛtyarājānaṃ sāntaḥpuraparicchadam. sarvān gopāṃś ca tān dṛṣṭvā gopīgomaṇḍalāni ca. iti saṃgṛhya tān sarvān bahulā prasthitā divam. mahāvimānaiḥ śrīmadbhir asaṃkhyaiḥ sarvatovṛtam. prāpya svargaṃ kramād ūrdhvam aśeṣaiḥ sahitā punaḥ. upary upari lokānāṃ gatvā golokam āsthitā. tatra saṃbhogasaṃkīrṇe asaṃkhyātaiḥ purottamaiḥ. bhīṣmaḥ. krīḍate sahitā sarvair yāvad ābhūtasaṃplavam. ity etat satyavākyasya māhābhāgyam udāhṛtam. yaḥ paṭhec chṛṇuyād vāpi svargalokaṃ sa gacchati. bahulāvyāghrasaṃvādaṃ yaḥ paṭhet satataṃ dvijaḥ. śṛṇuyād ekacittaś ca sa vyāghrair nābhibhūyate. viyuktā yā sutair nārī naro vāpi paṭhet sadā. so 'pi pāpair vinirmuktaḥ putrair bhavati saṃgataḥ. yaḥ paṭhet prātar utthāya caturdaśyaṣṭamīṣu ca. satāṃ puṇyakṛtāṃ lokān gacchate nātra saṃśayaḥ. gavāṃ goṣṭhe ca paṭhatāṃ govṛddhir nātra saṃśayaḥ. kṣetramadhye ca paṭhatāṃ sasyavṛddhiḥ prajāyate. gṛhamadhye ca paṭhatāṃ bālānāṃ śāntivardhanam. bhaved grahābhibhūtānāṃ rakṣām etāṃ ca yaḥ paṭhet. durgeṣu paṭhatāṃ nityam aṭavyāyataneṣu ca. divā vā yadi vā rātrau na bhayaṃ vidyate kva cit. duḥsvapnāriṣṭadurmitraṃ śrutvedaṃ saṃpraṇaśyati. vandhyāyāś ca bhavet putraḥ saṃmataś ca patir bhavet. kumārī ca sadā śṛṇvan vīraṃ patim avāpnuyāt. nārī vā puruṣo vāpi durbhagaḥ subhago bhavet. gavāṃ parvasu bhaktyā ca māhātmyaṃ purataḥ paṭhet. sa govṛddhim avāpnoti golokaṃ caiva gacchati. śūdro 'haṃ nādhikāro me cāturāśramyasevane. iti vijñānam apare nātmany upadadhaty uta. viśeṣeṇa ca vakṣyāmi cāturvarṇyasya liṅgataḥ. pañcabhūtaśarīrāṇāṃ sarveṣāṃ sadṛśātmanām. lokadharme ca dharme ca viśeṣakaraṇaṃ kṛtam. yatraikatvaṃ punar yānti prāṇinas tatra vistaraḥ. adhruvo hi kathaṃ lokaḥ smṛto dharmaḥ kathaṃ dhruvaḥ. yatra kālo dhruvas tāta tatra dharmaḥ sanātanaḥ. sarveṣāṃ tulyadehānāṃ sarveṣāṃ sadṛśātmanām. kālo dharmeṇa saṃyuktaḥ śeṣa eva susaṃgrahaḥ. evaṃ sati na doṣo 'sti bhūtānāṃ dharmasevane. tiryagyonāv api satāṃ loka eva mato guruḥ. pālaya tvaṃ prajāḥ sarvāḥ śāntātmā cānuśāsitaḥ. dvaipāyanas tv ayaṃ cakṣuḥ kṛṣṇas te 'stu parāyaṇam. ity uktvopāsanārthāya virarāma mahāmatiḥ.