ततो ययुर् भूतगणाः सरितश् च यथागतम्। गन्धर्वाप्सरसश् चैव प्रणम्य शिरसा भवम्। वैशंपायनः। अनुशास्य शुभैर् वाक्यैर् भीष्मस् त्व् आह महामतिम्। जनमेजयः। प्रीत्या पुनः स शुश्रूषुर् वचनं यद् युधिष्ठिरे। पितामहो मे विप्रर्षे भीष्मं कालवशं गतम्। किम् अपृच्छत् तदा राजा सर्वसामासिकं हितम्। उभयोर् लोकयोर् युक्तं पुरुषार्थम् अनुत्तमम्। वैशंपायनः। तन् मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे। भूय एव महाराज शृणु धर्मसमुच्चयम्। यद् अपृच्छत् तदा राजा कुन्तीपुत्रो युधिष्ठिरः। शरतल्पगतं भीष्मं सर्वपार्थिवसंनिधौ। युधिष्ठिरः। अजातशत्रुः प्रीतात्मा पुनर् एवाभ्यभाषत। पितामह महाप्राज्ञ सर्वशास्त्रविशारद। श्रूयतां मे हि वचनम् अर्थित्वात् प्रब्रवीम्य् अहम्। परावरज्ञो भूतानां दयावान् सर्वजन्तुषु। आगमैर् बहुभिः स्फीतो भवान् नः परमः कुले। त्वादृशो दुर्लभो लोके सांप्रतं ज्ञानदर्शनः। भवता गुरुणा चैव धन्या बत वयं प्रभो। अयं स कालः संप्राप्तो दुर्लभो ज्ञातिबान्धवैः। शास्ता नु नास्ति नः कश् चित् त्वद् ऋते पुरुषर्षभ। तस्माद् धर्मार्थसंयुक्तम् आयत्यां च हितोदयम्। आश्चर्यं परमं वाक्यं श्रोतुम् इच्छामि भारत। अयं नारायणः श्रीमान् सर्वपार्थिवसंनिधौ। भवन्तं बहुमानाच् च प्रणयाच् चोपसेवते। अस्यैव तु समक्षं नः पार्थिवानां तथैव च। इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम्। यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ। वैशंपायनः। मत्प्रियार्थं तु कौरव्य स्नेहाद् भाषितुम् अर्हसि। तस्य तद् वचनं श्रुत्वा स्नेहाद् आगतविक्लवः। प्रपिबन्न् इव तं दृष्ट्वा भीष्मो वचनम् अब्रवीत्। शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम्। एतावद् उक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम्। धर्मराजं समीक्ष्येदं पुनर् वक्तुं समारभत्। अयं नारायणः श्रीमान् पुत्रार्थं व्रतकाङ्क्षया। दीक्षितो ऽभून् महाबाहुः पुरा द्वादशवार्षिकम्। दीक्षितं केशवं द्रष्टुम् अभिजग्मुर् महर्षयः। सेवितुं च महात्मानः प्रीयमाणा जनार्दनम्। नारदः पर्वतश् चैव कृष्णद्वैपायनस् तथा। देवलः काश्यपश् चैव हस्तिकाश्यप एव च। जमदग्निश् च राजेन्द्र धौम्यो वाल्मीकिर् एव च। अपरे ऽपि तपःसिद्धाः सत्यव्रतपरायणाः। शिष्यैर् अनुगताः सर्वे ब्रह्मविद्भिर् अकल्मषैः। केशवस् तान् अभिगतान् प्रीत्या संप्रतिगृह्य च। तेषाम् अतिथिसत्कारं पूजनार्थं कुलोचितम्। देवकीतनयो हृष्टो देवतुल्यम् अकल्पयत्। उपविष्टेषु सर्वेषु विष्टरेषु तदानघ। विश्वस्तेषु हि तुष्टेषु केशवार्चनया पुनः। परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः। विष्णोर् नारायणस्यैव प्रसादात् कथयामि ताः। तस्यैव व्रतचर्यायां मुनिभिर् विस्मितः पुरा। यश् च गोवृषभाङ्कस्य प्रभावो ऽभून् महात्मनः। यत्र देवी महादेवम् अपृच्छत् संशयान् पुरा। कथयाम् आस शर्वस् तान् देव्याः प्रियचिकीर्षया। उमापत्योश् च संवादं शृणु तात मनोरमम्। वर्णाश्रमाणां धर्मश् च तत्र तात समाहितः। ऋषिधर्मश् च निखिलो राजधर्मश् च पुष्कलः। गृहस्थधर्मश् च शुभः कर्मपाकफलानि च। देवगुह्यं च विविधं दानधर्मविधिस् तदा। विधानम् अत्र संप्रोक्तं यमस्य नियमस्य च। यमलोकविधानं च स्वर्गलोकविधिस् तथा। प्राणमोक्षविधिश् चैव तीर्थचर्या च पुष्कला। मोक्षधर्मविधानं च सांख्ययोगसमन्वितम्। स्त्रीधर्मश् च स्वयं देव्या देवदेवाय भाषितः। एवमादि शुभं सर्वं तत्र तात समाहितम्। रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते। धन्यं यशस्यम् आयुष्यं धर्म्यं च परमं हितम्। पुष्टियोगम् इदं दिव्यं कथ्यमानं मया शृणु। इतिहासम् इमं दिव्यं पवित्रं परमं शुभम्। सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता। ततो नारायणो देवः संक्लिष्टो व्रतचर्यया। वह्निर् विनिःसृतो वक्त्रात् कृष्णस्याद्भुतदर्शनः। अग्निना तेन महता निःसृतेन मुखाद् विभोः। पश्यताम् एव सर्वेषां दग्ध एव नगोत्तमः। मृगपक्षिसमाकीर्णः श्वापदैर् अभिसंकुलः। वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः। पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा। स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः। सिद्धचारणसंघैश् च प्रसन्नैर् उपशोभितः। मत्तवारणसंयुक्तो नानापक्षिगणैर् युतः। तद् अद्भुतम् अचिन्त्यं च सर्वेषाम् अभवद् भृशम्। तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास् तदा। विस्मिताः परमायस्ताः साध्वसाकुललोचनाः। न किं चिद् अब्रुवंस् तत्र शुभं वा यदि वेतरत्। ततो नारायणो देवो मुनिसंघे सुविस्मिते। तान् समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः। किमर्थं मुनिसंघस्य विस्मयो ऽयम् अनुत्तमः। एतं मे संशयं सर्वे याथातथ्यम् अनिन्दिताः। ऋषयो वक्तुम् अर्हन्ति निश्चयेनार्थकोविदाः। केशवस्य वचः श्रुत्वा तुष्टुवुर् मुनिपुंगवाः। भवान् सृजति वै लोकान् भवान् संहरति प्रजाः। भवाञ् शीतं भवान् उष्णं भवान् सत्यं भवान् क्रतुः। भवान् आदिर् भवान् अन्तो भवतो ऽन्यन् न विद्यते। स्थावरं जंगमं सर्वं त्वम् एव पुरुषोत्तम। त्वत्तः सर्वम् इदं तात लोकचक्रं प्रवर्तते। त्वम् एवार्हसि तद् वक्तुं मुखाद् अग्निविनिर्गमम्। एतन् नो विस्मयकरं बभूव मधुसूदन। ततो ऽधिगतसंत्रासा भवाम पुरुषोत्तम। भगवान्। यद् इच्छेत् तत्र वक्तव्यं कुतो ऽस्माकं नियोगतः। नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः। तस्माल् लोकहितं गुह्यं श्रूयतां कथयामि वः। असुरः सांप्रतं कश् चिद् अहितो लोकनाशनः। मायास्त्रकुशलश् चैव बलदर्पसमन्वितः। बभूव स मया वध्यो लोकानां हितकाम्यया। पुत्रेण मे वधो दृष्टस् तस्य वै मुनिपुंगवाः। तदर्थं पुत्रम् एवाहं सिसृक्षुर् वनम् आगतः। आत्मनः सदृशं पुत्रम् अहं जनयितुं व्रतैः। एवं व्रतपरीतस्य तपस्तीव्रतया मम। अथात्मा मम देहस्थः सो ऽग्निर् भूत्वा विनिःसृतः। विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम्। ब्रह्मणा मन्मथो ऽनङ्गः पुत्रत्वे मे प्रकल्पितः। अनुज्ञातश् च तेनैव पुनर् आयान् ममान्तिकम्। एतन् मे वैष्णवं तेजो मम वक्त्राद् विनिःसृतम्। तत्तेजसा निर्मथितः पुरतो ऽयं गिरिः स्थितः। दृष्ट्वा नाशं गिरेस् तस्य सौम्यभावतया मम। पुनः स दृष्टमात्रेण गिरिर् आसीद् यथापुरम्। एतद् गुह्यं मया तथ्यं कथितं वः समासतः। भवन्तो व्यथिता येन विस्मिताश् च तपोधनाः। भगवान्। ऋषीणाम् एवम् उक्त्वा तु तान् पुनः प्रत्यभाषत। भवतां दर्शनाद् एव प्रीतिर् अभ्यधिका मम। भवन्तस् तु तपःसिद्धा भवन्तो देवदर्शनाः। सर्वत्र गतिमन्तश् च ज्ञानविज्ञानभाविताः। गतागतज्ञा लोकानां सर्वे निर्धूतकल्मषाः। तस्माद् भवद्भिर् यत् किं चिद् दृष्टं वाप्य् अथ वा श्रुतम्। आश्चर्यभूतं लोकेषु तद् भवन्तो ब्रुवन्तु मे। युष्माभिः कथितं यत् स्यात् तपसा भावितात्मभिः। तत् स्याद् अमृतसंकाशं वाङ्मधुश्रवणे स्पृहा। रागद्वेषवियुक्तानां सततं सत्यवादिनाम्। श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत्। तत्संयोगं हि तन् मे ऽस्तु न वृथा कर्तुम् अर्हथ। भवतां दर्शनं तस्मात् सफलं तु भवेन् मम। तद् अहं सज्जनमुखान् निःसृतं जनसंसदि। कथयिष्याम्य् अहरहो बुद्धिदीपकरं नृणाम्। तद् अन्ये वर्धयिष्यन्ति पूजयिष्यन्ति वापरे। वाक्शल्यविगताश् चान्ये प्रशंसन्ति पुरातनम्। भीष्मः। एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः। वाग्भिः साञ्जलिमालाभिर् इदम् ऊचुर् जनार्दनम्। अयुक्तम् अस्मान् एवं त्वं वाचा वरद भाषितुम्। त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः। एवं पूजयितुं चास्मान् न चैवार्हसि केशव। तद् वस्त्व् अन्यन् न पश्यामो यल् लोके ते न विद्यते। दिवि वा भुवि वा किं चित् तत् सर्वं हि त्वया ततम्। न विद्महे वयं देव कथ्यमानं तवान्तिके। एवम् उक्तो हृषीकेशः सस्मितं चेदम् अब्रवीत्। अहं मानुषयोनिस्थः सांप्रतं मुनिपुंगवाः। तस्मान् मानुषवद् वीर्यं मम जानीत सुव्रताः। भीष्मः। भवद्भिः कथ्यमानं च अपूर्वम् इव तद् भवेत्। एवं संचोदिताः सर्वे केशवेन महात्मना। ऋषयश् चानुवर्तन्ते वासुदेवस्य शासनम्। ततस् त्व् ऋषिगणाः सर्वे नारदं देवदर्शनम्। अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने। ऋषिर् उग्रतपाश् चायं केशवस्य प्रियो ऽधिकम्। पुराणज्ञश् च वाग्मी च कारणैस् तं च मेनिरे। सर्वे तदर्हणं कृत्वा नारदं वाक्यम् अब्रुवन्। भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ। दृष्टं वै यत् तद् आश्चर्यं श्रोतॄणां परमं प्रियम्। तत्त्वं त्वम् अविशेषेण हितार्थं सर्वम् आदितः। भीष्मः। प्रियार्थं केशवस्यास्य स भवान् वक्तुम् अर्हति। तदा संचोदितः सर्वैर् ऋषिभिर् नारदस् तथा। प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम्। समुद्वीक्ष्य हृषीकेशं वक्तुम् एवोपचक्रमे। ततो नारायणसुहृन् नारदो वदतां वरः। नारदः। शंकरस्योमया सार्धं संवादम् अन्वभाषत। भगवंस् तीर्थयात्रार्थं तथैव चरता मया। दिव्यम् अद्भुतसंकाशं दृष्टं हैमवतं वनम्। नानावृक्षलतायुक्तं नानापक्षिगणैर् युतम्। नानारत्नसमाकीर्णं नानाभावसमन्वितम्। दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्। दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन मूर्छितम्। सिद्धचारणसंवासं भूतसंघैर् निषेवितम्। वरिष्ठाप्सरसाकीर्णं नानागन्धर्वसंकुलम्। मृदङ्गमुरजोद्घुष्टं शङ्खवीणाभिनादितम्। नृत्यद्भिर् भूतसंघैश् च सर्वतस् त्व् अभिशोभितम्। नानारूपैर् विरूपैश् च भीमरूपैर् भयानकैः। व्याघ्रसिंहोरगमुखैर् बिडालवदनैस् तथा। खरोष्ट्रद्वीपिवदनैर् गजवक्त्रैस् तथैव च। उलूकश्येनवदनैः काकगृध्रमुखैस् तथा। एवं बहुविधाकारैर् भूतसंघैर् भृशाकुलम्। नानद्यमानं बहुधा हरपारिषदैर् भृशम्। घोररूपं सुदुर्दर्शं रक्षोगणशतैर् वृतम्। समाजं तद्वने दृष्टं मया भूतपतेः पुरा। प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम्। षट्पदैर् उपगीतं च प्रथमे मासि माधवे। उत्क्रोशत्क्रौञ्चकुररैः सारसैर् जीवजीवकैः। मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम्। उत्तमोत्सवसंकाशं भीमरूपतरं ततः। द्रष्टुं भवति सर्वस्य धर्मभागिजनस्य च। ये चोर्ध्वरेतसः सिद्धास् तत्र तत्र समागताः। मार्ताण्डरश्मिसंचारा विश्वेदेवगणास् तथा। तथा नागास् तथादित्या लोकपाला हुताशनाः। वाताश् च सर्वे वायन्ति दिव्यपुष्पसमाकुलाः। किरन्तः सर्वपुष्पाणि किरन्तो ऽद्भुतदर्शनाः। ओषध्यः प्रज्वलन्त्यश् च द्योतयन्त्यो दिशो दश। विहगाश् च मुदा युक्ता नृत्यन्ति च नदन्ति च। गिरः सुमधुरास् तत्र दिव्या दिव्यजनप्रियाः। तत्र देवो गिरितटे हेमधातुविभूषिते। पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः। व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः। व्यालयज्ञोपवीतश् च लोहितान्त्रविभूषितः। हरिश्मश्रुजटो भीमो भयकर्ता सुरद्विषाम्। भयघ्नः सर्वभूतानां भक्तानाम् अभयंकरः। किंनरैर् देवगन्धर्वैः स्तूयमानः समन्ततः। ऋषिभिश् चाप्सरोभिश् च सर्वतश् चापि शोभितः। तत्र भूतपतेः स्थानं देवदानवसंकुलम्। सर्वतेजोमयं भूम्ना लोकपालनिषेवितम्। महोरगसमाकीर्णं सर्वेषां लोमहर्षणम्। भीमरूपम् अनिर्देश्यम् अप्रधृष्यतमं विभो। तत्र भूतपतिं देवम् आसीनं शिखरोत्तमे। ऋषयो भूतसंघाश् च प्रणम्य शिरसा हरम्। गीर्भिः परमशुद्धाभिस् तुष्टुवुश् च महेश्वरम्। विमुक्ताश् चैव पापेभ्यो बभूवुर् विगतज्वराः। ऋषयो वालखिल्याश् च तथा विप्रर्षयश् च ये। अयोनिजा योनिजाश् च तपःसिद्धा महर्षयः। तत्रस्थं देवदेवेशं भगवन्तम् उपासते। ततस् तस्मिन् क्षणे देवी भूतस्त्रीगणसेविता। हरतुल्याम्बरधरा समानव्रतचारिणी। काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम्। पुष्पवृष्ट्याभिवर्षन्ती दिव्यगन्धसमायुता। सरिद्वराभिः सर्वाभिः पृष्ठतो ऽनुगता वरा। सेवितुं भगवत्पार्श्वम् आजगाम शुचिस्मिता। आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम्। मनःप्रियं चिकीर्षन्ती क्रीडार्थं शंकरान्तिके। मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु। अवेक्ष्य हृष्टा स्वगणान् स्मयन्ती पृष्ठतः स्थिता। देव्या चान्धीकृते देवे कश्मलं समपद्यत। निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम्। निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम्। विषण्णं भयसंत्रस्तं जगद् आसीद् भयाकुलम्। हाहाकारस् त्व् ऋषीणां च लोकानाम् अभवत् तदा। तमोभिभूते संभ्रान्ते लोके जीवितशङ्किते। तृतीयं चास्य संभूतं ललाटे नेत्रम् आयतम्। द्वादशादित्यसंकाशं लोकान् भासाव् अभासयत्। तत्र नेत्राग्निना तेन युगान्ताग्निनिभेन वै। अदह्यत गिरिः सर्वो हिमवान् अग्रतः स्थितः। दह्यमाने गिरौ तस्मिन् मृगपक्षिसमाकुले। सविद्याधरगन्धर्वे दिव्यौषधसमायुते। ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना। बभूव च जगत् सर्वं तथा विस्मयसंयुतम्। पश्यताम् एव सर्वेषां देवदानवरक्षसाम्। नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः। तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा। पितुः शमनम् इच्छन्ती पपात भुवि पादयोः। तद् दृष्ट्वा देवदेवेशो देव्या दुःखम् अनुत्तमम्। हैमवत्याः प्रियार्थं च गिरिं पुनर् अवैक्षत। दृष्टमात्रो भगवता सौम्ययुक्तेन चेतसा। क्षणेन हिमवाञ् शैलः प्रकृतिस्थो ऽभवत् पुनः। हृष्टपुष्टविहंगश् च प्रफुल्लद्रुमकाननः। सिद्धचारणसंघैश् च प्रीतियुक्तैः समाकुलः। पितरं प्रकृतिस्थं तु दृष्ट्वा हैमवती भृशम्। अभवत् प्रीतिसंयुक्ता मुदिता च पिनाकिनम्। देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम्। हितार्थं सर्वलोकानां प्रजानां हितकाम्यया। देवदेवं महादेवी बभाषेदं वचो ऽर्थवत्। भगवन् देवदेवेश शूलपाणे महाद्युते। विस्मयो मे महाञ् जातस् तस्मिन् नेत्राग्निसंप्लुते। किमर्थं देवदेवेश ललाटे ऽस्मिन् प्रकाशते। अतिसूर्याग्निसंकाशं तृतीयं नेत्रम् आयतम्। नेत्राग्निना तु महता निर्दग्धो हिमवान् असौ। पुनः स दृष्टमात्रस् तु प्रकृतिस्थः पिता मम। एष मे संशयो देव हृदि संप्रति वर्तते। देवदेव नमस् तुभ्यं तन् मे शंसितुम् अर्हसि। नारदः। एवम् उक्तस् तया देव्या प्रीयमाणो ऽब्रवीद् भवः। स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि। त्वद् ऋते मां हि वै प्रष्टुं न शक्यं केन चित् प्रिये। प्रकाशं यदि वा गुह्यं त्वत्प्रियार्थं ब्रवीम्य् अहम्। शृणु तत् सर्वम् अखिलम् अस्यां संसदि भामिनि। सर्वेषाम् एव लोकानां कूटस्थं विद्धि मां प्रिये। मदधीनास् त्रयो लोका यथा विष्णौ तथा मयि। स्रष्टा विष्णुर् अहं गोप्ता इति तद् विद्धि भामिनि। तस्माद् यदा मां स्पृशति शुभं वा यदि वेतरत्। तथैवेदं जगत् सर्वं तत् तद् भवति शोभने। एतद् गुह्यम् अजानन्त्या त्वया बाल्याद् अनिन्दिते। नेत्रे मे पिहिते देवि क्रीडनार्थं दृढव्रते। त्वत्कृते नष्टचन्द्रार्कं जगद् आसीद् भृशाकुलम्। नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये। तृतीयं लोचनं सृष्टं लोकान् संरक्षितुं मया। अस्यैव तेजसाक्ष्णो मे मथितो ऽयं गिरिः शुभे। वृक्षगुल्मलताकीर्णो व्यालाध्युषितकंदरः। त्वत्प्रियार्थं कृतो देवि प्रकृतिस्थः पुनर् मया। नारदः। कथितं संशयस्थानं निर्विशङ्का भव प्रिये। क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम्। उमा देवी महादेवम् अपृच्छत् पुनर् एव तु। भगवन् देवदेवेश सर्वदेवनमस्कृत। चतुर्मुखो वै भगवान् अभवत् केन हेतुना। भगवन् केन वै वक्त्रम् ऐन्द्रम् अद्भुतदर्शनम्। उत्तरं चापि भगवन् पश्चिमं शुभदर्शनम्। दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम्। यथादिशं महादेव श्रोतुम् इच्छामि कारणम्। महेश्वरः। एष मे संशयो देव तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि यत् त्वं पृच्छसि भामिनि। पुरासुरौ महाघोरौ लोकोद्वेगकरौ भृशम्। ++++। सुन्दोपसुन्दनामानाव् आसतुर् बहुगर्वितौ। अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ। तयोर् एव विनाशाय निर्मिता विश्वकर्मणा। मृगपक्षिगणानां च स्थावराणां तथैव च। सर्वतः सारम् उद्धृत्य तिलशो लोकपूजिता। तिलोत्तमेति विख्याता अप्सराः सा बभूव ह। देवकार्यं करिष्यन्ती हावभावसमन्विता। सा तु पर्यन्तम् आगम्य रूपेणाप्रतिमा भुवि। मया बहुमता चेयं देवकार्यं करिष्यति। इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम्। तथैव तां दिदृक्षुश् च चतुर्वक्त्रो ऽभवं प्रिये। ऐन्द्रं मुखम् इदं पूर्वं तपश्चर्यापरं सदा। दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः। लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये। वेदान् अधीते सततम् अद्भुतं चोत्तरं मुखम्। उमा। एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि। भगवञ् श्रोतुम् इच्छामि शूलपाणे वरप्रद। महेश्वरः। किमर्थं नीलता कण्ठे भाति बर्हनिभा तव। हन्त ते कथयिष्यामि शृणु देवि समाहिता। पुरा युगान्तरे यत्नाद् अमृतार्थं सुरासुरैः। बलवद्भिर् विमथितश् चिरकालं महोदधिः। रज्जुना नागराजेन मथ्यमाने महोदधौ। विषं तत्र समुद्भूतं सर्वलोकविनाशनम्। तद् दृष्ट्वा विबुधाः सर्वे तदा विमनसो ऽभवन्। ग्रस्तं हि तन् मया देवि लोकानां हितकारणात्। तत्कृता नीलता चासीत् कण्ठे बर्हिनिभा शुभे। तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः। उमा। एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि। नीलकण्ठ नमस् ते ऽस्तु सर्वलोकसुखावह। बहूनाम् आयुधानां त्वं पिनाकं धर्तुम् इच्छसि। महेश्वरः। किमर्थं देवदेवेश तन् मे शंसितुम् अर्हसि। शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते। युगान्तरे महादेवि कण्वो नाम महामुनिः। स हि दिव्यां तपश्चर्यां कर्तुम् एवोपचक्रमे। तथा तस्य तपो घोरं चरतः कालपर्ययात्। वल्मीकं पुनर् उद्भूतं तस्यैव शिरसि प्रिये। वेणुर् वल्मीकसंयोगान् मूर्ध्नि तस्य बभूव ह। धरमाणश् च तत् सर्वं तपश्चर्याम् अथाकरोत्। तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः। दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्व् अचिन्तयत्। लोककार्यं समुद्दिश्य वेणुनानेन भामिनि। चिन्तयित्वा तम् आदाय कार्मुकार्थे न्ययोजयत्। विष्णोर् मम च सामर्थ्यं ज्ञात्वा लोकपितामहः। धनुषी द्वे तदा प्रादाद् विष्णवे च ममैव च। पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर् धनुः। तृतीयम् अवशेषेण गाण्डीवम् अभवद् धनुः। तच् च सोमाय निर्दिश्य ब्रह्मलोकं गतः पुनः। उमा। एतत् ते सर्वम् आख्यातं शस्त्रागमम् अनिन्दिते। भगवन् सर्वभूतेश पिनाकपरशुप्रिय। वाहनेषु तथान्येषु सत्सु भूतपते तव। अयं तु वृषभः कस्माद् वाहनत्वम् उपागमत्। महेश्वरः। एष मे संशयो देव तं मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि वाहनं स यथाभवत्। आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते। बलसंहननोपेता दर्पयुक्ताश् चरन्ति ताः। अहं तु तप आतिष्ठे तस्मिन् काले शुभानने। एकपादश् चोर्ध्वबाहुर् लोकार्थं हिमवद्गिरौ। गावो मे पार्श्वम् आविश्य दर्पोत्सिक्ताः समन्ततः। स्थानभ्रंशं तु मे देवि चक्रिरे बहुशस् तथा। अपचारेण चैतासां मनःक्षोभो ऽभवन् मम। तस्माद् दग्धा मया गावो रोषाविष्टेन चेतसा। तस्मिंस् तु व्यसने घोरे वर्तमाने पशून् प्रति। अनेन वृषभेणाहं शमितः संप्रसादनैः। तदाप्रभृति शान्ताश् च वर्णभेदत्वम् आगताः। श्वेतो ऽयं वृषभो देवि पूर्वसंस्कारसंयुतः। वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः। तस्मान् मे गोपतित्वं च देवैर् गोभिश् च कल्पितम्। उमा। प्रसन्नश् चाभवं देवि तदा गोपतितां गतः। भगवन् सर्वभूतेश शूलपाणे वृषध्वज। आवासेषु विचित्रेषु रम्येषु च शुभेषु च। सत्सु चान्येषु देशेषु श्मशाने रमसे कथम्। केशास्थिकलिले भीमे कपालशतसंकुले। सृगालगृध्रसंपूर्णे शवधूमसमाकुले। चिताग्निविषमे घोरे गहने च भयानके। एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम्। महेश्वरः। एष मे संशयो देव तन् मे शंसितुम् अर्हसि। हन्त ते कथयिष्यामि शृणु देवि समाहिता। आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते। नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे। एष मे ऽभिनिवेशो ऽभूत् तस्मिन् काले प्रजाः प्रति। आकुलं सुमहद् घोरं प्रादुरासीत् समन्ततः। संभूता भूतसृष्टिश् च घोरा लोकभयावहा। नानावर्णविरूपाश् च तीक्ष्णदंष्ट्राः प्रहारिणः। पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः। यतस् ततश् चरन्ति स्म निघ्नन्तः प्राणिनो भृशम्। एवं लोके क्षयं याते प्राणिहीने पितामहः। चिन्तयंस् तत्प्रतीकारं मां च शक्तं हि निग्रहे। एवं ज्ञात्वा तदा ब्रह्मा तस्मिन् कर्मण्य् अयोजयत्। तच् च प्राणिदयार्थं तु मयाप्य् अनुमतं प्रिये। तस्मात् संरक्षिता देवि भूतेभ्यः प्राणिनो भयात्। अस्माच् छ्मशानान् मेध्यं तु नास्ति किं चिद् अनिन्दिते। निःसंपातं मनुष्याणां तस्माच् छुचितमं स्मृतम्। भूतसृष्टिं तु तां चाहं श्मशाने संन्यवेशयम्। तत्रस्थः सर्वलोकानां विनिहन्मि प्रिये भयम्। न च भूतगणेनाहं विना वसितुम् उत्सहे। तस्मान् मे संनिवासाय श्मशाने रोचते मनः। मेध्यकामैर् द्विजैर् नित्यं मेध्यम् इत्य् अभिधीयते। आचरद्भिर् व्रतं रौद्रं मोक्षकामैश् च सेव्यते। स्थानं मे तत्र विहितं वीरस्थानम् इति प्रिये। कपालशतसंपूर्णं भीमरूपं भयानकम्। मध्याह्ने संध्ययोस् तत्र नक्षत्रे रुद्रदैवते। आयुष्कामैर् अशुद्धैर् वा न गन्तव्यम् इति स्थितिः। मद् अन्येन न शक्यं हि निहन्तुं भूतजं भयम्। तत्रस्थो ऽहं प्रजाः सर्वाः पालयामि दिने दिने। मन्नियोगाद् भूतसंघा न च घ्नन्तीह किं चन। तस्माल् लोकहितार्थाय श्मशाने रमयाम्य् अहम्। उमा। एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश त्रिनेत्र वृषभध्वज। पिङ्गलं विकृतं भाति रूपं ते सुभयानकम्। भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम्। व्याघ्रोरगत्वक्संवीतं कपिलश्मश्रुसंततम्। रौद्रं भयानकं घोरं शूलपट्टससंयुतम्। महेश्वरः। किमर्थम् ईदृशं रूपं तन् मे शंसितुम् अर्हसि। तद् अहं कथयिष्यामि शृणु तत्त्वं समाहिता। द्विविधो लौकिको भावः शीतम् उष्णम् इति प्रिये। तयोर् विग्रथितं सर्वं सौम्याग्नेयम् इदं जगत्। सौम्यत्वं सततं विष्णौ मय्य् आग्नेयं प्रतिष्ठितम्। अनेन वपुषा नित्यं सर्वलोकान् बिभर्म्य् अहम्। रौद्राकृति विरूपाक्षं शूलपट्टससंयुतम्। आग्नेयम् इति मे रूपं देवि लोकहिते रतम्। यद्य् अहं विपरीतः स्याम् एतत् त्यक्त्वा शुभानने। तदैव सर्वलोकानां विपरीतं प्रवर्तते। तस्मान् मयेदं ध्रियते रूपं लोकहितैषिणा। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश शूलपाणे वृषध्वज। किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते। महेश्वरः। श्रोतुम् इच्छाम्य् अहं देव तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। पुराहं कारणाद् देवि कोपयुक्तः शुचिस्मिते। दक्षयज्ञवधार्थाय भूतसंघसमावृतः। तस्मिन् क्रतुवधे घोरे यज्ञभागनिमित्ततः। देवा विभ्रंशितास् ते वै येषां भागः क्रतौ कृतः। सोमस् तत्र मया देवि कुपितेन भृशार्दितः। पश्यंश् चानपराधी सन् पादाङ्गुष्ठेन पीडितः। तथा विनिकृतेनाहं सामपूर्वं प्रसादितः। तन् मे चिन्तयतश् चासीत् पश्चात्तापः पुनः प्रिये। तदाप्रभृति सोमं हि शिरसा धारयाम्य् अहम्। एवं मे पापहानिस् तु भवेद् इति मतिर् मम। तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा। नारदः। एवं ब्रुवति देवेशे विस्मिताः परमर्षयः। वाग्भिः साञ्जलिमालाभिर् अभितुष्टुवुर् ईश्वरम्। नमः शंकर देवेश नमः सर्वजगद्गुरो। नमो देवादिदेवाय नमः शशिकलाधर। नमो घोरतराद् घोर नमो रुद्र भयंकर। नमः शान्ततराच् छान्त नमश् चन्द्रस्य पालक। नमः सोमाय देवाय नमस् तुभ्यं चतुर्मुख। नमो भूतपते शंभो जह्नुकन्याम्बुशेखर। नमस् त्रिशूलहस्ताय पन्नगाभरणाय च। नमो ऽस्तु विषमाक्षाय दक्षयज्ञप्रदाहक। नमो ऽस्तु बहुनेत्राय लोकरक्षणतत्पर। अहो देवस्य माहात्म्यं महादेवस्य वै कृपा। एवं धर्मपरत्वं च देवदेवस्य चार्हति। एवं ब्रुवत्सु मुनिषु वचो देव्य् अब्रवीद् धरम्। प्रीत्यर्थं च मुनीनां सा क्षणज्ञा परमं हितम्। भगवन् देवदेवेश सर्वलोकनमस्कृत। अस्य वै ऋषिसंघस्य मम च प्रियकाम्यया। वर्णाश्रमगतं धर्मं वक्तुम् अर्हस्य् अशेषतः। न तृप्तिर् अस्ति देवेश श्रवणीयं हि ते वचः। सधर्मचारिणी चेयं भक्ता चेयम् इति प्रभो। वक्तुम् अर्हसि देवेश लोकानां हितकाम्यया। महेश्वरः। याथातथ्येन तत् सर्वं वक्तुम् अर्हसि शंकर। हन्त ते कथयिष्यामि यत् ते देवि मनःप्रियम्। शृणु तत् सर्वम् अखिलं धर्मं वर्णाश्रमाश्रितम्। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चेति चतुर्विधाः। ब्रह्मणा विहिताः पूर्वं लोकतन्त्रम् अभीप्सता। कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै। यदि चेदेकवर्णं स्याज् जगत् सर्वं विनश्यति। सहैव देवैर् वर्णानि चत्वारि विहितान्य् उत। मुखतो ब्राह्मणाः सृष्टास् तस्मात् ते वाग्विशारदाः। बाहुभ्यां क्षत्रियाः सृष्टास् तस्माद् बाहुबलान्विताः। उदराद् उद्गता वैश्यास् तस्माद् वार्तोपजीविनः। शूद्राश् च पादतः सृष्टास् तस्मात् ते परिचारकाः। तेषां धर्मांश् च कर्माणि शृणु देवि समाहिता। विप्राः कृता भूमिदेवा लोकानां धारणे कृताः। ते कैश् चिन् नावमन्तव्या ब्राह्मणा हितम् इच्छुभिः। यदि ते ब्राह्मणा न स्युर् दानयोगवहाः सदा। उभयोर् लोकयोर् देवि स्थितिर् न स्यात् समासतः। लोकेषु दुर्लभं किं तु ब्राह्मणत्वम् इति स्मृतम्। अबुधो वा दरिद्रो वा पूजनीयः सदैव सः। ब्राह्मणं यो ऽवमन्येत निन्दयेत् क्रोशयेच् च वा। प्रहरेत हरेद् वापि धनं तेषां नराधमः। कारयेद् धीनकर्माणि कामलोभविमोहनात्। स च माम् अवमन्येत मां क्रोशति च निन्दति। माम् एव प्रहरेन् मूढो मद्धनस्यापहारकः। ममैव प्रेक्षणं कृत्वा नन्दते मूढचेतनः। स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः। कर्माण्य् अध्यापनं चैव याजनं च प्रतिग्रहः। सत्यं शान्तिस् तपः शौचं तस्य धर्मः सनातनः। विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः। अनापदि च शूद्रान्नं वृषलीसंग्रहस् तथा। तप एव सदा धर्मो ब्राह्मणस्य न संशयः। स तु धर्मार्थम् उत्पन्नः पूर्वं धात्रा तपोबलात्। तस्योपनयनं धर्मो नित्यं चोदकधारणम्। रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम्। अग्निकार्यं परो धर्मो नित्यं यज्ञोपवीतिता। शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम्। धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा। अमृताश्यं परं धर्मो गृहपुष्पबलिस् तथा। गृहसंमार्जनं धर्म आलेपनविधिस् तथा। अतिथिव्रतता धर्मो धर्मस् त्रेताग्निधारणम्। इष्टयः पशुबन्धाश् च विधिपूर्वं परं तपः। दंपत्योः समशीलत्वं धर्मो वै गृहमेधिनाम्। एष द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम्। यस् तु क्षत्रगतो धर्मस् त्वया देवि प्रचोदितः। तम् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता। क्षत्रियास् तु तथा देवि प्रजानां पालने स्मृताः। यदि न क्षत्रियो लोके जगत् स्याद् अधरोत्तरम्। रक्षणात् क्षत्रियैर् एव जगद् भवति शाश्वतम्। तस्याप्य् अध्ययनं दानं यजनं धर्मतः स्मृतम्। भीतानां रक्षणं चैव पापानाम् अनुशासनम्। सतां संपोषणं चैव करषड्भागजीवनम्। उत्साहः शस्त्रजीवित्वं तस्य धर्माः सनातनाः। भृत्यानां भरणं धर्मः कृते कर्मण्य् अमोघता। सम्यग् रणधृतो धर्मो धर्मः पौरहितक्रिया। व्यवहारस्थितिर् नित्यं गुणम् एतन् महीपतेः। आर्तहस्तप्रदो राजा धर्मं प्राप्नोत्य् अनुत्तमम्। एवं ते विहिताः पूर्वैर् धर्माः कर्मविधानतः। तथैव देवि वैश्याश् च लोकयात्राहिताः स्मृताः। अन्ये तान् उपजीवन्ति प्रत्यक्षफलदा हि ते। यदि न स्युस् तथा वैश्या न भवेयुस् तथा परे। तेषाम् अध्ययनं दानं यजनं धर्म इष्यते। वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस् तथा। अग्निहोत्रपरिस्पन्दास् त्रयो वर्णा द्विजातयः। वाणिज्यं सत्पथे स्थानम् आतिथेयं सदा भवेत्। विप्राणां स्वागतं न्यायो वैश्यधर्मः सनातनः। तिलगन्धरसाश् चैव न विक्रेयाः कथं चन। वणिक्पथम् उपासद्भिर् वैश्यैर् वैश्यपथि स्थितैः। सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्। एवं ते विहिता देवि लोकयात्रा स्वयंभुवा। तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः। शूद्राश् च यदि ते न स्युः कर्मकर्ता न विद्यते। त्रयः पूर्वे शूद्रमूलास् तस्मात् कर्मकराः स्मृताः। ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः। वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च। अहिंसकः शुभाचारो दैवतद्विजवन्दकः। शूद्रो धर्मफलैर् इष्टैः स्वधर्मेणोपयुज्यते। एवमादि तथान्यच् च शूद्रकर्म इति स्मृतम्। ते ऽप्य् एवं विहिता लोके कर्मयोगाः शुभानने। एवं चतुर्णां वर्णानां पुण्यलोकाः परत्र च। विहिताश् च तथा दृष्टा यथावद् धर्मचारिणाम्। एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम्। उमा। कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश नमस् ते वृषभध्वज। महेश्वरः। श्रोतुम् इच्छाम्य् अहं देव धर्मम् आश्रमिणां विभो। अथाश्रमगतं धर्मं शृणु देवि समाहिता। आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः। गृहस्थः प्रवरस् तेषां गार्हस्थ्यव्रतम् आश्रितः। पञ्चयज्ञक्रिया शौचं दारतुष्टिर् अतन्द्रिता। ऋतुकालाभिगमनं दानयज्ञतपांसि च। अविप्रवासस् तस्येष्टं स्वाध्यायश् चाग्निपूजनम्। अतिथीनाम् आभिमुख्यं शक्त्या चेष्टनिमन्त्रणम्। अनुग्रहश् च सर्वेषां मनोवाक्कायकर्मभिः। एवमादि शुभं चान्यत् कुर्यात् तद्वृत्तवान् गृही। एवं संचरतस् तस्य पुण्यलोका न संशयः। तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः। गृहवासं समुत्सृज्य निश्चित्यैकमनाः शुभैः। वन्यैर् एव सदाहारैर् वर्तयेद् इति च स्थितिः। भूमिशय्या जटाः श्मश्रुचर्मवल्कलधारणम्। देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम्। अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते। ब्रह्मचर्यं क्षमा शौचं तस्य धर्माः सनातनाः। एवं स विगते प्राणे देवलोके महीयते। यतिधर्मास् तथा देवि सङ्गांस् त्यक्त्वा यतस् ततः। आकिंचन्यम् अनारम्भः सर्वतः शौचम् आर्जवम्। सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम्। सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया। तत्त्वानुगतबुद्धित्वं तस्य धर्मविधिर् भवेत्। ब्रह्मचारी च यो देवि जन्मप्रभृति दीक्षितः। ब्रह्मचर्यपरो भूत्वा संश्रयेद् गुरुम् आत्मनः। सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत्। भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम्। स्वाध्यायः सततं देवि तस्य धर्मः सनातनः। तस्य चेष्टा तु गुर्वर्थम् आप्राणान्तम् इति स्थितिः। गुरोर् अभावे तत्पुत्रे गुरुवद् वृत्तिम् आचरेत्। एवं सो ऽप्य् अमलांल् लोकान् ब्राह्मणः प्रतिपद्यते। एष ते कथितो देवि धर्मश् चाश्रमवासिनाम्। चातुर्वर्ण्याश्रमे युक्तो लोक इत्य् एव विद्यते। उमा। कथितं ते समासेन किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश त्रिपुरान्तक शंकर। अयं त्व् ऋषिगणो देव तपस् तेप इति प्रभो। तपसा कर्शिता नित्यं तपोर्जनपरायणाः। अस्य किंलक्षणो धर्मः कीदृशश् चागमस् तथा। एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद वरप्रद। नारदः। एवं वदन्त्यां रुद्राण्याम् ऋषयः साधु साध्व् इति। अब्रुवन् हृष्टमनसः सर्वे तद्गतमानसाः। शृण्वन्तीम् ऋषिधर्मांस् तु ऋषयश् चाभ्यपूजयन्। त्वत्प्रसादाद् वयं देवि श्रोष्यामः परमं हितम्। धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः। महेश्वरः। इति सर्वे तदा देवीं वाचा समभिपूजयन्। न्यायतस् त्वं महाभागे श्रोतुकामा मनस्विनि। हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते। वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः। बहुशाखो बहुविध ऋषिधर्मः सनातनः। प्रायशः स्वर्गभोगार्थम् ऋषिभिः क्रियते तपः। तथा संचरतां तेषां देवि धर्मविधिं शृणु। भूत्वा पूर्वं गृहस्थस् तु पुत्रानृण्यम् अवाप्य च। कलत्रकार्यं संस्थाप्य कारणात् संत्यजेद् गृहम्। अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः। निर्द्वंद्वो वा सदारो वा वनवासाय संव्रजेत्। देशाः परमपुण्या ये नदीवनसमन्विताः। आबाधमुक्ताः प्रायेण तीर्थायतनसंयुताः। तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद् यथाक्रमम्। दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्। काल्योत्थानं च शौचं च सर्वदेवप्रणामनम्। शकृदालेपनं काये त्यक्तदोषाप्रमादिता। सायं प्रातश् चाभिषेकम् अग्निहोत्रं यथाविधि। कायशौचं च कार्यं च जटावल्कलधारणम्। सततं वनचर्या च समित्कुसुमकारणात्। नीवारग्रहणं काले शाकमूलोपचायनम्। सदायतनशौचं च तस्य धर्माय चेष्यते। अतिथीनाम् आभिमुख्यं तत्परत्वं च सर्वशः। पाद्यासनाभ्यां संपूजा तथाहारनिमन्त्रणम्। अग्राम्यपचनं काले पितृदेवार्चनं तथा। पश्चाद् अतिथिसत्कारस् तस्य धर्माः सनातनाः। शिष्टैर् धर्मासने चैव धर्मार्थसहिताः कथाः। प्रतिश्रयविभागश् च भूमिशय्या शिलासु वा। व्रतोपवासयोगश् च क्षमा चेन्द्रियनिग्रहः। दिवा रात्रौ यथायोगं शौचं धर्मार्थचिन्तना। एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम्। एवं वै यतमानस्य कालधर्मो यदा भवेत्। तदैव सो ऽभिजायेत स्वर्गलोकं शुचिस्मिते। तत्र संविहिता भोगाः स्वर्गस्त्रीभिर् अनिन्दिते। परिभ्रष्टो यदा स्वर्गाद् विशिष्टस् तु भवेन् नृप। एवं धर्मः सदा देवि सर्वेषां वनवासिनाम्। उमा। एतत् ते कथितं सर्वं किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश ऋषीणां चरितं शुभम्। महेश्वरः। विशेषधर्मान् इच्छामि श्रोतुं कौतूहलं हि मे। तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता। वननित्यैर् वनरतैर् वानप्रस्थैर् महर्षिभिः। वनं गुरुम् इवालम्ब्य वस्तव्यम् इति निश्चयः। वीरशय्याम् उपासद्भिर् वीरस्थानोपसेविभिः। व्रतोपवासैर् बहुभिर् ग्रीष्मे पञ्चतपैस् तथा। पञ्चयज्ञपरैर् नित्यं पौर्णमास्यपरायणैः। मण्डूकशायैर् हेमन्ते शैवालाङ्कुरभोजनैः। चीरवल्कलसंवीतैर् मृगाजिनधरैस् तथा। चातुर्मास्यपरैः कैश् चिद् देवधर्मपरायणैः। एवंविधैर् वनगतैस् तप्यते सुमहत् तपः। एवं कृत्वा शुभं कर्म पश्चाद् याति त्रिविष्टपम्। तत्रापि सुमहत् कालं स विहृत्य यथासुखम्। जायते मानुषे लोके दानभोगसमन्वितः। उमा। तपोविशेषसंयुक्ताः कथितास् ते शुचिस्मिते। भगवन् सर्वभूतेश तेषु ये दारसंयुताः। महेश्वरः। कीदृशं चरितं तेषां तन् मे शंसितुम् अर्हसि। य एकपत्नीधर्माणश् चरन्ति विपुलं तपः। विन्ध्यपादेषु ये के चिद् ये च नैमिषवासिनः। पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः। सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः। हिंसाद्रोहविमुक्ताश् च सर्वभूतानुकम्पिनः। शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः। प्राणिष्व् आत्मोपमा नित्यम् ऋतुकालाभिगामिनः। स्वदारसहिता देवि चरन्ति व्रतम् उत्तमम्। वसन्ति सुखम् अव्यग्राः पुत्रदारसमन्विताः। तेषां परिच्छदारम्भाः कृत्योपकरणानि च। गृहस्थवद् विधीयन्ते यथायोगं प्रमाणतः। पोषणार्थं च दाराणाम् अग्निकार्यार्थम् एव च। गावश् च कर्षणं चैव सर्वम् एतद् विधीयते। एवं वनगतैर् देवि कर्तव्यं दारसंयुतैः। ते स्वदारैः समायान्ति पुण्यांल् लोकान् दृढव्रताः। पतिभिः सह ये दाराश् चरन्ति विपुलं तपः। अव्यग्रभावाद् ऐकात्म्यात् ते च गच्छन्ति वै दिवम्। एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। उमा। भगवन् देवदेवेश तेषां कर्मफलं विभो। महेश्वरः। श्रोतुम् इच्छाम्य् अहं देव प्रसादात् ते वरप्रद। वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये। अग्नियोगं व्रजन् ग्रीष्मे नरो द्वादशवार्षिकम्। रुद्रलोके हि जायेत विधिदृष्टेन कर्मणा। उदवासव्रतं कुर्वन् वर्षकाले दृढव्रतः। सोमलोके ऽभिजायेत नरो द्वादशवार्षिकम्। काष्ठवन् मौनम् आस्थाय नरो द्वादशवार्षिकम्। मरुतां लोकम् आस्थाय तत्र भोगैश् च युज्यते। कण्टशर्करसंयुक्ते स्थण्डिले संविशेन् मुनिः। यक्षलोके ऽभिजायेत सहस्राणि चतुर्दश। वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम्। वीरासनगतो यस् तु कण्टकाफलकाश्रितः। गन्धर्वेष्व् अभिजायेत नरो द्वादशवार्षिकम्। वीरस्थायी चोर्ध्वबाहुर् नरो द्वादशवार्षिकम्। देवलोके ऽभिजायेत दिव्यभोगसमन्वितः। पादाङ्गुष्ठेन यस् तिष्ठेद् ऊर्ध्वबाहुर् जितेन्द्रियः। इन्द्रलोके ऽभिजायेत सहस्राणि चतुर्दश। आहारनियमं कृत्वा मुनिर् द्वादशवार्षिकम्। नागलोके ऽभिजायेत संवत्सरगणान् बहून्। एवं दृढव्रता देवि वानप्रस्थाश् च कर्मभिः। स्थानेषु तेषु तिष्ठन्ति तद्वद् भोगसमन्विताः। तेभ्यो भ्रष्टाः पुनर् देवि जायन्ते नृषु भोगिनः। वर्णोत्तमकुलेष्व् एव धनधान्यसमन्विताः। एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। उमा। एषां यायावराणां तु धर्मम् इच्छामि मानद। महेश्वरः। कृपया परयाविष्टस् तं मे ब्रूहि महेश्वर। धर्मं यायावराणां तु शृणु भामिनि तत्परा। व्रतोपवासशुद्धाङ्गास् तीर्थस्नानपरायणाः। धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः। पक्षमासोपवासैश् च कर्शिता धर्मदर्शिनः। वर्षशीतातपैर् एव कुर्वन्तः परमं तपः। कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते। तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः। दिव्यभूषणसंयुक्ता विमानवरम् आस्थिताः। विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः। उमा। एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। महेश्वरः। तेषां चक्रचराणां तु धर्मम् इच्छामि वै प्रभो। हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे। संवहन्तो धुरं दारैः शाकटानां तु सर्वदा। प्रार्थयन्ते यथा ग्राम्याः शकटैर् भैक्षचर्यया। तपोर्जनपराधीनास् तपसा क्षीणकल्मषाः। पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः। स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः। इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः। अमरैः सह ते यान्ति देववद् भोगसंयुताः। वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते। तेनैव कालयोगेन त्रिदिवं यान्ति शोभने। तत्र प्रमुदिता भोगैर् विचरन्ति यथासुखम्। उमा। एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। महेश्वरः। वैखानसानां वै धर्मं श्रोतुम् इच्छाम्य् अहं प्रभो। तेषु वैखानसा नाम वानप्रस्थाः शुभेक्षणे। तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा। सत्यव्रतपराधीनास् तेषां निष्कल्मषं तपः। अश्मकुट्टास् तथान्ये च दन्तोलूखलिनस् तथा। शीर्णपर्णाशिनश् चान्ये उञ्छयन्ति तथापरे। कपोतव्रतिनश् चान्ये कापोतीं वृत्तिम् आस्थिताः। पशुप्रचारनिरताः फेनपाश् च तथापरे। मृगवन् मृगचर्यायां संचरन्ति तथापरे। अब्भक्षा वायुभक्षाश् च निराहारास् तथैव च। संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः। स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः। इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः। अमरैः सह ते यान्ति देववद् भोगसंयुताः। वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते। उमा। एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। महेश्वरः। भगवञ् श्रोतुम् इच्छामि वालखिल्यांस् तपोधनान्। धर्मचर्यां तथा देवि वालखिल्यगतां शृणु। मृगनिर्मोकवसना निर्द्वंद्वास् ते तपोधनाः। अङ्गुष्ठमात्राः सुश्रोणि स्वेष्व् एवाङ्गेषु संयुताः। ते मृत्युविषयातीतास् तपःसिद्धास् तपोबलाः। जिताहारा जितक्रोधाः सर्वभोगेषु निःस्पृहाः। तपश्चरणम् इच्छन्तो लोकार्थं परमोद्यताः। उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः। भास्करस्यैव किरणैः सह संयान्ति नित्यदा। द्योतयन्ते दिशः सर्वा धर्मज्ञाः सत्यवादिनः। तेष्व् एव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्। लोको ऽयं धार्यते देवि तेषाम् एव तपोबलात्। महात्मनां तु तपसा सत्येन च शुचिस्मिते। क्षमया च महाभागे भूतानां संस्थितिं विदुः। प्रजार्थम् अपि लोकार्थं महद्भिः क्रियते तपः। तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्। दुष्प्रापम् अपि यल् लोके तपसा प्राप्यते हि तत्। पञ्चभूतस्थितिश् चैव लोकसृष्टिविवर्धनम्। एतत् सर्वं समासेन तपोयोगाद् विनिर्मितम्। तस्माद् अयं ऋषिगणस् तपस् तेप इति प्रिये। धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये। अमरत्वं वशित्वं च तपसा प्रार्थयेत् सदा। एतत् ते कथितं सर्वं शृण्वन्त्यास् ते श्रुतं प्रिये। प्रियार्थम् ऋषिसंघस्य लोकानां हितकाम्यया। नारदः। इति ब्रुवन्तं देवेशम् ऋषयश् चापि तुष्टुवुः। उमा। भूयः परमकं यत्नं तदाप्रभृति चक्रिरे। उक्तस् त्वया त्रिवर्गस्य धर्मः परमकः शुभः। महेश्वरः। सर्वव्यापी तु यो धर्मो भगवंस् तद् ब्रवीहि मे। ब्राह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना। लोकांस् तारयितुं युक्ता मर्त्येषु क्षितिदेवताः। तेषु तावत् प्रवक्ष्यामि धर्मं शुभफलोदयम्। ब्राह्मणेष्व् अभयो धर्मः परमः शुभलक्षणः। इमे हि धर्मा लोकार्थं पूर्वं सृष्टाः स्वयंभुवा। पृथिव्यां सज्जनैर् नित्यं कीर्त्यमानं निबोध मे। स्वदारनिरतिर् धर्मो नित्यं जप्यं तथैव च। सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्। शूद्रो धर्मपरो नित्यं शुश्रूषाभिमना भवेत्। त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः। त्रिवर्गं तु व्यतिक्रान्तस् तस्य धर्मः सनातनः। षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा। धर्मिष्ठानि वरिष्ठानि यानि तानि शृणूत्तमे। यजनं याजनं चैव दानं पात्रे प्रतिग्रहः। अध्यापनम् अध्ययनं षट्कर्मा धर्मभाग् ऋजुः। नित्यस्वाध्यायतो धर्मो नित्ययज्ञः सनातनः। दानं प्रशस्यते नित्यं ब्राह्मणेषु त्रिकर्मसु। अयं परमको धर्मः संवृत्तः सत्सु विद्यते। गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान्। पञ्चयज्ञविशुद्धात्मा क्रतुनित्यो ऽनसूयकः। दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः। चक्षुर्दो मनदो जिह्वास्निग्धवर्णप्रदः सदा। अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः। पाद्यम् अर्घ्यं यथान्यायम् आसनं शयनं तथा। दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः। प्रातर् उत्थाय वै पश्चाद् भोजनेन निमन्त्रयेत्। सत्कृत्यानुव्रजेद् यश् च तस्य धर्मः सनातनः। प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते। तद् अहं कीर्तयिष्यामि त्रिवर्गेषु च यद् यथा। एकेनांशेन धर्मो ऽर्थः कर्तव्यो हितम् इच्छता। एकेनांशेन कामार्थम् एकम् अंशं विवर्धयेत्। निवृत्तिलक्षणः पुण्यो धर्मो मोक्षे विधीयते। तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता। सर्वभूतदया धर्मो निवृत्तिपरमः सदा। बुभुक्षितं पिपासार्तम् अतिथिं श्रान्तम् आगतम्। अर्चयन्ति वरारोहे तेषाम् अपि फलं महत्। पात्रम् इत्य् एव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः। आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति। काले संप्राप्तम् अतिथिं भोक्तुकामम् उपस्थितम्। चित्तं संभावयेत् तत्र व्यासो ऽयं समुपस्थितः। तस्य पूजां यथाशक्ति सौम्यचित्तः प्रयोजयेत्। चित्तमूलो भवेद् धर्मो धर्ममूलं भवेद् यशः। तस्मात् सौम्येन चित्तेन दातव्यं देवि सर्वदा। सौम्यचित्तस् तु यो दद्यात् तद् धि दानम् अनुत्तमम्। यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर् मेदिनीतले। केदाराश् च तटाकानि सरांसि सरितस् तथा। तोयपूर्णानि दृश्यन्ते अप्रतर्क्याणि शोभने। अल्पम् अल्पम् अपि ह्य् एतद् दीयमानं विवर्धते। पीडयापि च भृत्यानां दानम् एव विशिष्यते। पुत्रदारा धनं धान्यं न मृतान् अनुगच्छति। श्रेयो दानं च भोगश् च धनं प्राप्य यशस्विनि। दानेन हि महाभागा भवन्ति मनुजाधिपाः। नास्ति भूमिसमं दानं नास्ति दानसमो निधिः। नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम्। आश्रमे यस् तु तप्येत तपोमूलफलाशनः। आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः। मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत्। सम्यक् तपश् चरन्तीह श्रद्दधाना वनाश्रमे। गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम्। उमा। गृहाश्रमस्य या चर्या व्रतानि नियमाश् च ये। यथा च देवताः पूज्याः सततं गृहमेधिना। यद् यच् च परिहर्तव्यं गृहिणा तिथिपर्वसु। महेश्वरः। तत् सर्वं श्रोतुम् इच्छामि कथ्यमानं त्वया प्रभो। गृहाश्रमस्य यन् मूलं फलं धर्मो ऽयम् उत्तमः। पादैश् चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः। सारभूतं वरारोहे दध्नो घृतम् इवोद्धृतम्। तद् अहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि। शुश्रूषते यः पितरः मातरं च गृहाश्रमे। भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः। तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः। उमा। पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते। मातापितृवियुक्तानां का चर्या गृहमेधिनाम्। विधवानां च नारीणां भवान् एतद् ब्रवीतु मे। महेश्वरः। देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम्। अहिंसा सर्वभूतानाम् अलोभः सत्यसंधता। ब्रह्मचर्यं शरण्यत्वं शौचं पूर्वाभिभाषणम्। कृतज्ञत्वम् अपैशुन्यं सततं धर्मशीलता। दिने द्विर् अभिषेकं च पितृदैवतपूजनम्। गवाह्निकप्रदानं च संविभागो ऽतिथिष्व् अपि। दीपं प्रतिश्रयं चैव दद्यात् पाद्यासनं तथा। पञ्चमे ऽहनि षष्ठे वा द्वादशे वाप्य् अथाष्टमे। चतुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत्। श्मश्रुकर्म शिरोभ्यङ्गम् अञ्जनं दन्तधावनम्। नैतेष्व् अहःसु कुर्वीत तेष्व् अलक्ष्मीः प्रतिष्ठिता। व्रतोपवासनियमस् तपो दानं च शक्तितः। भरणं भृत्यवर्गस्य दीनानाम् अनुकम्पनम्। परदारनिवृत्तिश् च स्वदारेषु रतिः सदा। शरीरम् एकं दंपत्योर् विधात्रा पूर्वनिर्मितम्। तस्मात् स्वदारनिरतो ब्रह्मचारी विधीयते। शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च। आर्जवे वर्तमानस्य सर्वभूतहितैषिणः। प्रियातिथेश् च क्षान्तस्य धर्मार्जितधनस्य च। गृहाश्रमपदस्थस्य किम् अन्यैः कृत्यम् आश्रमैः। यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः। तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः। राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः। व्यालग्राहाश् च दम्भाश् च चोरा राजभटास् तथा। सविद्याः सर्वशिल्पज्ञाः सर्वे चैव चिकित्सकाः। दूराध्वानं प्रपन्नाश् च क्षीणपथ्योदना नराः। एते चान्ये च बहवस् तर्कयन्ति गृहाश्रमम्। मार्जारा मूषिकाः श्वानः सूकराश् च शुकास् तथा। कपोतकाकचटकाः सरीसृपनिषेविणः। अरण्यवासिनश् चान्ये संघा ये मृगपक्षिणाम्। एवं बहुविधा देवि लोके ऽस्मिन् सचराचराः। गृहे क्षेत्रे बिले चैव शतशो ऽथ सहस्रशः। गृहस्थेन कृतं कर्म सर्वैस् तैर् उपभुज्यते। उपयुक्तं च यत् तेषां मतिमान् नानुशोचति। धर्म इत्य् एव संकल्प्य यत् तु तस्य फलं शृणु। सर्वयत्नप्रणीतस्य हयमेधस्य यत् फलम्। वर्षे स द्वादशे देवि फलेनैतेन युज्यते। आशापाशविमोक्षश् च विद्धि धर्मम् अनुत्तमम्। वृक्षमूलचरो नित्यं शून्यागारनिवेशनम्। नदीपुलिनशायी च नदीतीरम् अनुव्रजन्। विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः। आत्मन्य् एवात्मनो भावं समायोज्येह ते वने। आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा। पवित्रनित्यो युक्तश् च तस्य धर्मः सनातनः। नैकत्र रमते सक्तो न चैकग्रामगोचरः। युक्तो ऽप्य् अटति यो ऽयुक्तो न चैकपुलिनेशयः। उमा। एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः। देवदेव नमस् तुभ्यं त्रियक्ष वृषभध्वज। श्रुतं मे भगवन् सर्वं त्वत्प्रसादान् महेश्वर। संगृहीतं मया तच् च तव वाक्यम् अनुत्तमम्। इदानीम् अस्ति संदेहो मानुषेष्व् एव कश् चन। तुल्यपाणिशिरःकायो राजायम् इति दृश्यते। केन कर्मविपाकेन सर्वप्राधान्यम् अर्हति। स चापि दण्डयन् मर्त्यान् भर्त्सयन् विधमन्न् अपि। प्रेत्यभावे कथं लोकांल् लभते पुण्यकर्मणाम्। महेश्वरः। राजवृत्तम् अहं तस्माच् छ्रोतुम् इच्छामि मानद। तद् अहं ते प्रवक्ष्यामि राजधर्मं शुभानने। राजायत्तं हि तत् सर्वं लोकवृत्तं शुभाशुभम्। महतस् तपसो देवि फलं राज्यम् इति स्मृतम्। तपोदानमयं राज्यं परं स्थानं विधीयते। तस्माद् राज्ञः सदा मर्त्याः प्रणमन्ति यतस् ततः। न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि। तस्मात् तस्यैव चरितं जगत्पथ्यं शृणु प्रिये। अराजके पुरा त्व् आसीत् प्रजानां संकुलं महत्। तद् दृष्ट्वा संकुलं ब्रह्मा मनुं राज्ये न्यवेशयत्। तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम्। तन् मे शृणु वरारोहे तस्य पथ्यं जगद्धितम्। यथा प्रेत्य लभेत् स्वर्गं यथा वीर्यं यशस् तथा। पित्र्यं वा भूतपूर्वं वा स्वयम् उत्पाद्य वा पुनः। राजधर्मम् अनुष्ठाय विधिवद् भोक्तुम् अर्हति। आत्मानम् एव प्रथमं विनयैर् उपपादयेत्। अनु भृत्यान् प्रजाः पश्चाद् इत्य् एष विनयक्रमः। स्वामिनं चोपमां कृत्वा प्रजास् तद्वृत्तकाङ्क्षया। स्वयं विनयसंपन्ना भवन्तीह शुभेक्षणे। तस्मात् पूर्वतरं राजा आत्मानं विनये नयेत्। यो विनीतः स्वयं राजा विनयत्य् एव वै प्रजाः। अपहास्यो भवेत् तादृक् स्वदोषस्यानवेक्षणात्। विद्याभ्यासैर् वृद्धयोगैर् आत्मानं विनयं नयेत्। विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः। इन्द्रियाणां जयो देवि अत ऊर्ध्वम् उदाहृतम्। अजये सुमहान् दोषो राजानं विनिपातयेत्। पञ्चैव स्ववशान् कृत्वा तदर्थान् पञ्च शोषयेत्। षड् उत्सृज्य यथायोगं ज्ञानेन विनयेन च। शास्त्रचक्षुर् नयपरो भूत्वा भृत्यान् समाहरेत्। वृत्तश्रुतकुलोपेतान् उपधाभिः परीक्षितान्। अमात्यान् उपधातीतान् सापसर्पाञ् जितेन्द्रियान्। योजयेत यथायोगं यथार्हं स्वेषु कर्मसु। अमात्या बुद्धिसंपन्ना राष्ट्रं बहुजनप्रियम्। दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः। अनुरक्तं बलं सारम् अद्वैधं मित्रम् एव च। एताः प्रकृतयः षट् च स्वामी च नयतत्त्ववित्। प्रजानां रक्षणार्थाय सर्वम् एतद् विनिर्मितम्। आभिः करणभूताभिः कुर्याल् लोकहितं नृपः। आत्मरक्षा नृपेन्द्रस्य प्रजारक्षार्थम् इष्यते। तस्मात् सततम् आत्मानं संरक्षेद् अप्रमादवान्। भोजनाच्छादनात् स्नानाद् बहिर् निष्क्रमणाद् अपि। नित्यं स्त्रीगणसंयोगाद् रक्षेद् आत्मानम् आत्मवान्। स्वेभ्यश् चैव परेभ्यश् च शस्त्राद् अपि विषाद् अपि। सततं पुत्रदारेभ्यो रक्षेद् आत्मानम् आत्मवान्। सर्वेभ्य एव स्थानेभ्यो रक्षेद् आत्मानम् आत्मवान्। प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत्। प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम्। प्रजाप्रियं प्रियं तस्य स्वहितं हि प्रजाहितम्। प्रजार्थं तस्य सर्वस्वम् आत्मार्थं न विधीयते। प्रकृतीनां विवादार्थं रागद्वेषौ व्युदस्य च। उभयोः पक्षयोर् वादं श्रुत्वा चैव यथातथम्। तम् अर्थं विमृशेद् बुद्ध्या स्वयम् आ तत्त्वदर्शनात्। तद्विद्भिर् बहुभिर् वृद्धैः सहासीनो नरोत्तमैः। कर्तारम् अपराधं च देशकालौ नयानयौ। ज्ञात्वा सम्यग् यथाशास्त्रं ततो दण्डं नयेन् नृषु। एवं कुर्वंल् लभेद् धर्मं पक्षपातविवर्जनात्। प्रत्यक्षाप्तोपदेशाभ्याम् अनुमानेन वा पुनः। बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम्। चारैः कर्मप्रवृत्त्या च तद् विज्ञाय विचारयन्। अशुभं निर्हरेत् सद्यो जोषयेच् छुभम् आत्मनः। गर्ह्यान् विगर्हयेद् एव पूज्यान् संपूजयेत् तथा। दण्ड्यांश् च दण्डयेद् देवि नात्र कार्या विचारणा। पञ्चापेक्षं सदा मन्त्रं कुर्याद् बुद्धियुतैर् नरैः। कुलवृत्तश्रुतोपेतैर् नित्यं मन्त्रपरो भवेत्। कामरागेण वै मूर्खैर् नैव मन्त्रमना भवेत्। राजा राष्ट्रहितापेक्षः सत्यधर्माणि कारयेत्। सर्वोद्योगं स्वयं कुर्याद् दुर्गादिषु सदा नृपः। देशवृद्धिकरान् भृत्यान् अप्रमादेन कारयेत्। देशक्षयकरान् सर्वान् संप्रियान् अपि वर्जयेत्। अहन्य् अहनि संपश्येद् अनुजीविगणं स्वयम्। सुमुखः सुप्रियो भूत्वा सम्यग् वृत्तं समादिशेत्। अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति। नरे नरे गुणान् दोषान् सम्यग् वेदितुम् अर्हति। स्वेङ्गितं वृणुयाद् धैर्यान् न कुर्यात् क्षुद्रसंविदम्। परेङ्गितज्ञो लोकज्ञो भूत्वा संसर्गम् आचरेत्। स्वतश् च परतश् चैव परस्परभयाद् अपि। अमानुषभयेभ्यश् च स्वाः प्रजाः पालयेन् नृपः। लुब्धाः कठोराश् चाध्यक्षा मानवा दस्युवृत्तयः। निग्राह्या एव ते राज्ञा संगृहीता यतस् ततः। कुमारान् विनयैर् एव जन्मप्रभृति योजयेत्। तेषाम् आत्मगुणोपेतं यौवराज्ये नियोजयेत्। प्रकृतीनां यथा न स्याद् राज्यभ्रंशोद्भवं भयम्। एतत् संचिन्तयन् नित्यं तद्विधानं तथार्हति। अराजकं क्षणम् अपि राष्ट्रं न स्याद् धि शोभने। आत्मनो ऽनुविधानाय यौवराज्यं सदेष्यते। कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम्। अन्येषां वृत्तयुक्तानां विशेषं कर्तुम् अर्हति। आत्मार्थं राज्यतन्त्रार्थं कोशसंचयम् आरभेत्। दुर्गाद् राष्ट्रात् समुद्राच् च वणिग्भ्यः पुरुषात्ययात्। परात्मगुणसाराभ्यां भृत्यपोषणम् आचरेत्। वाहनानां विधायाग्रे पोषणं यौधकर्मसु। सादरः सततं भूत्वा अपेक्षाव्रतम् आचरेत्। चतुर्धा विभजेत् कोशं धर्मभृत्यात्मकारणात्। आपदर्थं च नीतिज्ञो देशकालवशेन तु। अनाथान् व्याधितान् वृद्धान् स्वदेशे पोषयेन् नृपः। संधिं च विग्रहं चैव तद्विशेषांस् तथापरान्। यथावत् संविमृश्यैव बुद्धिपूर्वं समाचरेत्। सर्वेषां स प्रियो भूत्वा मण्डलं सततं चरेत्। शुभेष्व् अपि च कार्येषु न चैको ऽन्तः समाचरेत्। स्वतश् च परतश् चैव व्यसनानि विमृश्य तु। परेण धार्मिकान् न्यायान् नातीयाद् द्वेषलोभतः। रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस् तु रक्षणम्। कुनृपैः पीडितास् तस्मात् प्रजाः सर्वत्र पालयेत्। यात्राकालम् अवेक्ष्यैव पश्चात् कोपः फलोदयम्। तद्युक्ताश् चापदश् चैव प्राग् यानाद् इति चिन्तयेत्। व्यसनेभ्यो बलं रक्षेन् नयतो व्ययतो ऽपि वा। प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात्। कारणाद् एव योद्धव्यं नात्मनः परदोषतः। सुयुद्धे प्राणमोक्षश् च तस्य धर्माय इष्यते। अभियुक्तो बलवता कुर्याद् आपद्विधिं नृपः। अनुनीय तथा सर्वान् प्रजानां हितकारणात्। अन्यप्रकृतियुक्तानां राज्ञां वृत्तविचारिणाम्। अन्यांश् चापत्प्रपन्नानां न तान् संयोक्तुम् अर्हति। शुभाशुभं यदा देवि वृत्तं तूभयतः स्मृतम्। आत्मैव तच् छुभं कुर्याद् अशुभं योजयेत् परान्। एवम् उद्देशतः प्रोक्तम् अलेपत्वं यथा भवेत्। एतद् एवं समासेन राजधर्मः प्रकीर्तितः। एवं संवर्तमानस् तु दण्डयन् भर्त्सयन् प्रजाः। न किल्बिषम् अवाप्नोति पद्मपत्रम् इवाम्भसा। एवं संवर्तमानस्य कालधर्मो यदा भवेत्। स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते। द्विविधं राजवृत्तं च न्यायभाग्यसमन्वितम्। एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे। राज्यं न्यायानुगं नाम बुद्धिशास्त्रानुगं भवेत्। धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत्। दैवपक्ष्ये सति नृपे राज्यं न्यायानुगं भवेत्। क्रियन्ते यत्र कर्माणि शास्त्रयुक्तिं विमृश्य वै। कर्ता द्वेषवियुक्तश् च तत्र न्यायानुगं भवेत्। राज्यं भोगानुगं नाम अयथावत् प्रदृश्यते। तत् तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत्। अधर्म्यम् अयशस्यं च दुरन्तं च भवेद् ध्रुवम्। यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः। यत्र भाग्यवशाद् भृत्या लभन्ते न विशेषतः। यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः। यत्र सन्तो विहन्यन्ते तत्र भाग्यानुगं भवेत्। शुभाशुभं यदा यत्र विपरीतं प्रदृश्यते। राज्ञि वासुरपक्षे तु तत्र भाग्यानुगं भवेत्। भाग्यानुगे तु राजानो वर्तमाना यथातथा। प्राप्याकीर्तिम् अनर्थं च इहलोके शुभेक्षणे। परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम्। तिष्ठन्ति नरके देवि प्रलयान्ताद् इति स्थितिः। मोक्षणं दुष्कृतीनां तु विद्यते कालपर्ययात्। नास्त्य् एव मोक्षणं देवि राज्ञां दुष्कृतकारिणाम्। एतत् सर्वं समासेन राजवृत्तं शुभाशुभम्। उमा। कथितं ते महाभागे भूयः श्रोतुं किम् इच्छसि। देवदेव महादेव सर्वदेवनमस्कृत। महेश्वरः। यानि धर्मरहस्यानि श्रोतुम् इच्छामि तान्य् अहम्। रहस्यं श्रूयतां देवि मानुषाणां सुखावहम्। नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले। उत्सर्गो रेतसस् तेषु न कार्यो धर्मकाङ्क्षिभिः। एतेषु बीजं प्रक्षिप्तं न विरोहति वै प्रिये। यत्र वा तत्र वा बीजं धर्मार्थी नोत्सृजेत् पुनः। नरो बीजविनाशेन लिप्यते भ्रूणहत्यया। अहिंसा परमो धर्मः अहिंसा परमं सुखम्। अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम्। देवतातिथिशुश्रूषा सततं धर्मशीलता। वेदाध्ययनयज्ञाश् च तपो दानं दमस् तथा। आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा। अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम्। उमा। एतत् ते परमं गुह्यम् आख्यातं परमार्चितम्। यदि धर्मस् त्व् अहिंसायां किमर्थम् अमरोत्तम। यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः। कथं च भगवन् भूयो हिंसमाना नराधिपाः। स्वर्गं सुदुर्गमं यान्ति सदा स्म रिपुसूदन। यस्यैव गोसहस्राणि विंशतिः साधिकानि तु। अहन्य् अहनि हन्यन्ते द्विजानां मांसकारणात्। समांसं तु स दत्त्वान्नं रन्तिदेवो नराधिपः। कथं स्वर्गम् अनुप्राप्तः परं कौतूहलं हि मे। किं नु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम्। मृगयायै विनिर्गत्य मृगान् घ्नन्ति नराधिपाः। एतत् सर्वं विशेषेण विस्तरेण वृषध्वज। महेश्वरः। श्रोतुम् इच्छामि भगवंस् तत्त्वम् एतन् ममोच्यताम्। बहुमान्यम् इदं देवि नास्ति कश् चिद् अहिंसकः। श्रूयतां कारणं चात्र यथानेकविधं भवेत्। दृश्यते चापि लोके ऽस्मिन् न कश् चिद् अविहिंसकः। धरणीसंश्रिताञ् जीवान् सुसूक्ष्मांश् चैव मध्यमान्। संचरंश् चरणाभ्यां च हन्ति जीवान् अनेकशः। अज्ञानाज् ज्ञानतो वापि ये जीवाः शयनासने। उपाविशञ् शयानश् च हन्ति जीवान् अनेकशः। शिरोवस्त्रेषु ये जीवा नराणां स्वेदसंभवाः। तांश् च हिंसन्ति सततं दंशांश् च मशकान् अपि। जले जीवास् तथाकाशे पृथिवी जीवमालिनी। एवं जीवाकुले लोके को ऽसौ स्याद् यस् त्व् अहिंसकः। स्थूलमध्यमसूक्ष्मैश् च स्वेदवातमहीरुहैः। दृश्यरूपैर् अदृश्यैश् च नानारूपैश् च भामिनि। जीवैस् ततम् इदं सर्वम् आकाशं पृथिवी तथा। अन्योन्यं ते च हिंसन्ति दुर्बलान् बलवत्तराः। मत्स्या मत्स्यान् ग्रसन्तीह खगांश् चैव खगास् तथा। सरीसृपैश् च जीवन्ति कपोताद्या विहंगमाः। भूचराः खेचराश् चान्ये क्रव्यादा मांसगृद्धिनः। समृद्धाः परमांसैस् तु भक्षेरन् ये ऽपि चापरैः। सत्त्वैः सत्त्वानि जीवन्ति शतशो ऽथ सहस्रशः। अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि। स्थूलकायस्य सत्त्वस्य खरस्य महिषस्य वा। जीवस्यैकस्य मांसेन पयसा रुधिरेण वा। तृप्यन्ते बहवो जीवाः क्रव्यादा मांसभोजिनः। एको जीवसहस्राणि सदा खादति मानवः। अन्नाद्यल्पोपभोगेन धान्यसंज्ञानि यानि तु। मांसधान्यैः सबीजैश् च भोजनं परिवर्जयेत्। त्रिरात्रं पञ्चरात्रं वा सप्तरात्रम् अथापि वा। धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः। नाश्नाति यावतो जीवांस् तावत् पुण्येन युज्यते। आहारस्य वियोगेन शरीरं परितप्यते। तप्यमाने शरीरे तु शरीरं चेन्द्रियाण्य् अपि। वशे तिष्ठन्ति सुश्रोणि नृपाणाम् इव किंकराः। निरुणद्धीन्द्रियाण्य् एव स सुखी स विचक्षणः। इन्द्रियाणां निरोधेन दानेन च दमेन च। नरः सर्वम् अवाप्नोति मनसा यद् यद् इच्छति। एतन् मूलम् अहिंसाया उपवासः प्रकीर्तितः। आहारं कुरुते यस् तु भूमिम् आक्रमते च यः। सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते। यथेहाहिंसको देवि तत्त्वज्ञो ज्ञायते नरः। तथा ते ऽहं प्रवक्ष्यामि श्रूयतां धर्मचारिणि। फलानि जीर्णपर्णानि भस्म वा यो ऽपि भक्षयेत्। आलेख्यम् इव निश्चेष्टं तं मन्ये ऽहम् अहिंसकम्। आरम्भा हिंसया युक्ता धूमेनाग्निर् इवावृताः। तस्माद् यस् तु निराहारस् तं मन्ये ऽहम् अहिंसकम्। यस् तु सर्वं समुत्सृज्य दीक्षितो नियतः शुचिः। कृत्वा मण्डलमर्यादां संकल्पं कुरुते नरः। यावज्जीवम् अनाशित्वा कालाकाङ्क्षी दृढव्रतः। ध्यानेन तपसा युक्तस् तं मन्ये ऽहम् अहिंसकम्। अन्यथा हि न पश्यामि नरो यः स्याद् अहिंसकः। बहु चिन्त्यम् इदं देवि नास्ति कश् चिद् अहिंसकः। यतो यतो महाभागे हिंसा स्यान् महती ततः। निवृत्तौ मधुमांसाभ्यां हिंसा त्व् अल्पतरा भवेत्। निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम्। मनसा विनिवृत्तानां धर्मस्य निचयो महान्। मनःपूर्वंगमा धर्मा अधर्माश् च न संशयः। मनसा बध्यते चापि मुच्यते चापि मानवः। निगृहीते भवेत् स्वर्गो विसृष्टे नरको ध्रुवः। घातकः शस्त्रम् उद्यम्य मनसा चिन्तयेद् यदि। आयुःक्षयं गते ऽद्यैषां मृते तु प्रहराम्य् अहम्। इति यो घातको हन्यान् न स पापेन लिप्यते। विधिना निहतः पूर्वं निमित्तं स तु घातकः। विधिर् हि बलवान् देवि दुस्त्यजं वै पुराकृतम्। जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः। नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः। नानाविधविचित्राङ्गा नानावीर्यपराक्रमाः। नानाभूमिप्रदेशेषु नानाहाराश् च जन्तवः। जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते। सुखं वा यदि वा दुःखं यथा पूर्वं कृतं तथा। प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च। नातिक्रान्तुं हि शक्यं स्यान् निदेशः पूर्वकर्मणः। अप्रमत्तः प्रमत्तेषु विधिर् जागर्ति जन्तुषु। न हि तस्य प्रियः कश् चिन् न द्वेष्यो न च मध्यमः। समः सर्वेषु भूतेषु कालः कालं निरीक्षते। गतायुषो ह्य् आक्षिपति जीवं सर्वस्य देहिनः। यथा येन च मर्तव्यं तथा युज्येत मृत्युना। अवशो नीयते तत्र मर्तव्यं यत्र येन तु। अरण्ये स्वगृहे वापि रात्रौ वाहनि वा तथा। यथा येन हि मर्तव्यं नान्यथा म्रियते हि सः। दृश्यते न च लोके ऽस्मिन् भूतो भव्यो ऽपि वा पुनः। विज्ञानैर् विक्रमैर् वापि नानामन्त्रौषधैर् अपि। यो हि वञ्चयितुं शक्तो विधेस् तु नियतां गतिम्। महेश्वरः। एष ते ऽभिहितो देवि जीवहिंसाविधिक्रमः। श्रूयतां कारणं देवि यथा हि दुरतिक्रमः। विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते। आयुःक्षयेणोपहताः समागम्य वरानने। कीटाः पतंगा बहवः स्थूलाः सूक्ष्माश् च मध्यमाः। प्रज्वलत्सु प्रदीपेषु स्वयम् एव पतन्ति ते। बहूनां मृगयूथानां नानावननिषेविणाम्। यस् तु कालहतस् तेषां स वै कालेन वध्यते। सूनार्थं देवि बद्धानां क्षीणायुर् यो निबध्यते। अवशो घातकस्याथ हस्तं तद् अहर् एति सः। यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः। क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम्। यथा वारिचरा मीना बहवो बहुजातयः। जालं समधिरोहन्ति स्वयम् एव विधेर् वशात्। शल्यकस्य च जिह्वाग्रं स्वयम् आरुह्य शोभने। आयुःक्षयेणोपहता निपद्यन्ते सरीसृपाः। कृषतां कर्षकाणां च नास्ति बुद्धिर् विहिंसने। अथैषां लाङ्गलाग्राद्यैर् हन्यन्ते जन्तवो ऽक्षयाः। पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः। मातंगो ऽपि न तां कुर्यात् क्रूरो जन्मशतैर् अपि। म्रियन्ते यैर् हि मर्तव्यं न तान् हन्ति कृषीवलः। कृषामीति मतिस् तस्य नास्ति चिन्ता विहिंसने। तस्माज् जीवसहस्राणि हत्वापि न स लिप्यते। विधिना विहितः पूर्वं पश्चात् प्राणी विपद्यते। एवं सर्वेषु भूतेषु विधिर् हि दुरतिक्रमः। गतायुषा न शक्यं हि मुहूर्तम् अपि जीवितुम्। जीवितव्ये न मर्तव्यं न भूतं न भविष्यति। शुभाशुभं कर्मफलं न शक्यम् अतिवर्तितुम्। तथा ताभिश् च मर्तव्यं भोक्तव्याश् चैव तास् तथा। रन्तिदेवस्य गावो वै विधेर् हि वशम् आगताः। स्वयम् आयान्ति गावो वै हन्यन्ते यत्र सुन्दरि। गवां वै हन्यमानानां रुधिरप्रभवा नदी। चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा। रुधिरं तां नदीं प्राप्य तोयं भवति शोभने। मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर् युतम्। तत्राभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः। द्विजा देवगणाश् चापि लोकपाला महेश्वराः। तस्य राज्ञः सदा सत्रे स्वयम् आगम्य सुन्दरि। विधिना पूर्वदृष्टेन तन्मांसम् उपकल्पितम्। मन्त्रवत् प्रतिगृह्णन्ति यथान्यायं यथाविधि। समांसं च सदा ह्य् अन्नं शतशो ऽथ सहस्रशः। भुञ्जानानां द्विजातीनाम् अस्तम् एति दिवाकरः। गावो यास् तत्र हन्यन्ते राज्ञस् तस्य क्रतूत्तमे। पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि। ताश् च स्वर्गं गता गावो रन्तिदेवश् च पार्थिवः। सदा सत्रविधानेन सिद्धिं प्राप्तो नरेश्वरः। अथ यस् तु सहायार्थम् उक्तः स्यात् पार्थिवैर् नरः। भोगानां संविभागेन वस्त्राभरणभूषणैः। सहभोजनसंबन्धैः सत्कारैर् विविधैर् अपि। सहायकाले संप्राप्ते संग्रामे शस्त्रम् उद्धरेत्। व्यूढानीके यथा शस्त्रं सेनयोर् उभयोर् अपि। हस्त्यश्वरथसंपूर्णे पदातिबलसंकुले। चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले। शक्तितोमरकुन्तासिशूलपट्टसधारिभिः। कूटमुद्गरचापेषुभुसुण्ढीजुष्टमुष्टिभिः। भिन्दिपालगदाचक्रप्रासकर्पणधारिभिः। नानाप्रहरणैर् योधैः सेनयोर् उभयोर् अपि। युद्धशौण्डैः प्रगर्जद्भिर् वृषेषु वृषभैर् इव। शङ्खदुंदुभिनादेन नानातूर्यरवेण च। हयहेषितशब्देन कुञ्जराणां च बृंहितैः। योधानां सिंहनादैश् च घण्टानां शिञ्जितस्वनैः। दिशश् च विदिशश् चैव समन्ताद् बधिरीकृताः। ग्रीष्मान्तेषु विगर्जद्भिर् नभसीव बलाहकैः। रथनेमिखुरोद्धूतैर् अरुणै रणरेणुभिः। कपिलाभिर् इवाकाशे छाद्यमाने समन्ततः। प्रवृत्ते शस्त्रसंपाते योधानां तत्र सेनयोः। तेषां प्रहारक्षतजं रक्तचन्दनसप्रभम्। ते स्रवन्तः स्वगात्रेभ्यस् तरन्ते रणमूर्धनि। पलाशाशोकपुष्पाणां जंगमा इव राशयः। रणे समभिवर्तन्त उद्यतायुधपाणयः। शोभमाना रणे शूरा आह्वयन्तः परस्परम्। हन्यमानेष्व् अभिघ्नत्सु शूरेषु रणसंकटे। पृष्ठं दत्त्वाथ ये तत्र नायकस्य नराधमाः। अनाहता निवर्तन्ते नायके वाप्य् अभीप्सति। ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः। यच् चास्ति सुकृतं तेषां युज्यते तेन नायकः। अहिंसा परमो धर्म इति ये ऽपि नरा विदुः। संग्रामेषु न युध्यन्ते भृताश् चैवानुरूपतः। नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः। यस् तु प्राणान् परित्यज्य प्रविशेद् उद्यतायुधः। संग्रामम् अग्निप्रतिमं पतंगा इव निर्भयम्। सत्त्वम् आविशते तत्र ज्ञात्वा योधस्य निश्चयम्। आविष्टश् चैव सत्त्वेन निर्घृणो जायते नरः। प्रहारैर् नन्दयेद् देवि सत्त्वेनाधिष्ठितो हि सः। प्रहारव्यथितश् चैव न वैक्लव्यम् उपैति सः। यस् तु स्वं नायकं रक्षन्न् अतिघोरे रणाङ्गणे। तापयन्न् अरिसैन्यानि सिंहो मृगगणान् इव। आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे। निर्दयो यस् तु संग्रामे प्रहरत्य् उद्यतायुधः। यजते स तु पूतात्मा संग्रामेण महाक्रतुम्। वर्म कृष्णाजिनं तस्य दण्डकाष्ठं धनुः स्मृतम्। रथो वेदी ध्वजो यूपः कुशाश् च रथरश्मयः। मानो दर्पस् त्व् अहंकारस् त्रयस् त्रेताग्नयः स्मृताः। प्रतोदश् च स्रुवस् तस्य उपाध्यायो ऽस्य सारथिः। स्रुग् भाण्डं चापि यत् किं चिद् यज्ञोपकरणानि च। आयुधान्य् अस्य तत् सर्वं समिधः सायकाः स्मृताः। स्वेदस्रावश् च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः। पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृतम्। तूणश् चैव चरुर् ज्ञेयो वसोर् धारा वसा स्मृता। क्रव्यादा भूतसंघाश् च तस्मिन् यज्ञे द्विजातयः। तेषां भक्षान्नपानानि हता नृगजवाजिनः। भुञ्जते ते यथाकामं यथा यज्ञे किम् इच्छके। निहतानां तु योधानां वस्त्राभरणभूषणम्। हिरण्यं च सुवर्णं च यद् वै यज्ञस्य दक्षिणा। यस् तत्र हन्यते देवि गजस्कन्धगतो नरः। ब्रह्मलोकम् अवाप्नोति रणेष्व् अभिमुखो हतः। रथमध्यगतो वापि हयपृष्ठगतो ऽपि वा। हन्यते यस् तु संग्रामे शक्रलोके महीयते। स्वर्गे हन्ता पूज्यते तैर् हतस् तत्रैव पूज्यते। द्वाव् एतौ सुखम् एधेते हन्ता यश् चैव हन्यते। तस्मात् संग्रामम् आसाद्य प्रहर्तव्यम् अभीतवत्। निर्भयो यस् तु संग्रामे प्रहरेद् उद्यतायुधः। राज्ञो वल्लभताम् एति कुलं भावयते स्वकम्। यथा नदीसहस्राणि प्रविष्टानि महोदधिम्। तथा सर्वे न संदेहो धर्मो धर्मभृतां वरे। प्रविष्टा राजधर्मेण आचार्यविनयस् तथा। वेदोक्ताश् चैव ये धर्माः पाषण्डेषु च कीर्तिताः। तथैव मानवा धर्मा धर्माश् चान्ये तथापरे। देशजातिकुलानां च ग्रामधर्मास् तथैव च। ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु। तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम्। धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद् धर्मो न हन्तव्यः पार्थिवेन विशेषतः। प्रजाः पालयते यत्र धर्मेण वसुधाधिपः। षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः। नैव तस्मिन्न् अनावृष्टिर् न रोगा नाप्य् उपद्रवाः। धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे। एष्टव्यः सततं देवि युक्ताचारो नराधिपः। छिद्रज्ञश् चैव शत्रूणाम् अप्रमत्तः प्रतापवान्। शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः। तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः। तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु। विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः। राज्ञो वल्लभताम् एति कुलं भावयते स्वकम्। यस् तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा। बन्दिग्राहाय मित्रार्थे प्राणांस् त्यजति दुस्त्यजान्। सर्वकामदुघां धेनुं धरणीं लोकधारिणीम्। समुद्रान्तां वरारोहे सशैलवनकाननाम्। दद्याद् देवि द्विजातिभ्यो वसुपूर्णां वसुंधराम्। न तत्समं वरारोहे प्राणत्यागी विशिष्यते। सहस्रम् अपि यज्ञानां यजते यदि चर्द्धिमान्। यज्ञैस् तस्य किम् आश्चर्यं प्राणत्यागः सुदुष्करः। तस्मात् सर्वेषु यज्ञेषु शस्त्रयज्ञो विशिष्यते। महेश्वरः। एवं संग्रामयज्ञास् ते यथातत्त्वम् उदाहृताः। मृगयात्रां तु वक्ष्यामि शृणु तां धर्मचारिणि। मृगान् हत्वा महीपालो यथा पापैर् न लिप्यते। निर्मानुषाम् इमां सर्वे मृगा इच्छन्ति मेदिनीम्। भक्षयन्ति च सस्यानि शासितव्या नृपेण ते। दुष्टानां शासनं धर्मः शिष्टानां परिपालनम्। कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम्। स्वर्गं मृगाश् च गच्छन्ति स्वयं नृपतिना हताः। यथा गावो ह्य् अगोपालास् तथा राष्ट्रम् अनायकम्। तस्माद् अंशास् तु देवानां गन्धर्वोरगरक्षसाम्। राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात्। अशिष्टशासने चैव शिष्टानां परिपालने। तेषां चर्यां प्रवक्ष्यामि श्रूयताम् अनुपूर्वशः। यथा प्रचरतां तेषां पार्थिवानां यशस्विनि। राष्ट्रं धर्मो धनं चैव यशः कीर्तिश् च वर्धते। नृपाणां पूर्वम् एवायं धर्मो धर्मभृतां वरे। सभाप्रपातटाकानि देवतायतनानि च। ब्राह्मणावसथाश् चैव कर्तव्या नृपसत्तमैः। ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः। कुलम् उत्सादयेयुस् ते क्रोधाविष्टा द्विजातयः। ध्मायमानो यथा ह्य् अग्निर् निर्दहेत् सर्वम् इन्धनम्। तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीम् इमाम्। न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः। परिभूय द्विजान् मोहाद् वातापिनहुषादयः। सबन्धुमित्रा नष्टास् ते दग्धा ब्राह्मणमन्युभिः। शरीरं चापि शक्रस्य कृतं भगनिरन्तरम्। ततो देवगणाः सर्वे इन्द्रस्यार्थे महामतिम्। प्रसादं कारयाम् आसुः प्रणामस्तुतिवन्दनैः। तेन प्रीतेन सुश्रोणि गौतमेन महात्मना। तच् छरीरं तु शक्रस्य सहस्रभगचिह्नितम्। कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम्। छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ। इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषम् आगतौ। एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः। अशक्तः शासितुं राज्यं किं पुनर् मानुषो भुवि। क्रोधाविष्टो दहेद् विप्रः शुष्केन्धनम् इवानलः। भस्मीकृत्य जगत् सर्वं सृजेद् अन्यज् जगत् पुनः। अदेवान् अपि देवान् स कुर्याद् देवान् अदेवताः। तस्मान् नोत्पादयेन् मन्युं मन्युप्रहरणा द्विजाः। महत्स्व् अप्य् अपराधेषु शासनं नार्हति द्विजः। न च शस्त्रनिपातानि न च प्राणैर् वियोजनम्। दृश्यते त्रिषु लोकेषु ब्राह्मणानाम् अनिन्दिते। क्रोधाश् च विपुला घोराः प्रसादाश् चाप्य् अनुत्तमाः। तस्मान् नोत्पादयेत् क्रोधं नित्यं पूज्या द्विजातयः। दृश्यते न स लोके ऽस्मिन् भूतो वाथ भविष्यति। क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः। न चैवोपहसेद् विप्रान् न चैवोपालभेच् च तान्। कालम् आसाद्य कुप्येच् च काले कुर्याद् अनुग्रहम्। संप्रहासश् च भृत्येषु न कर्तव्यो नराधिपैः। लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते। भृत्यानां संप्रहासेन पार्थिवः परिभूयते। अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च। पूर्वम् अप्य् उचितैर् लाभैः परितोषं न यान्ति ते। तस्माद् भृत्येषु नृपतिः संप्रहासं विवर्जयेत्। न विश्वसेद् अविश्वस्ते विश्वस्ते च न विश्वसेत्। सगोत्रेषु विशेषेण सर्वोपायैर् न विश्वसेत्। विश्वासाद् भयम् उत्पन्नं हन्याद् वृक्षम् इवाशनिः। प्रमादाद् धन्यते राजा लोभेन च वशीकृतः। तस्मात् प्रमादं लोभं च न कुर्यान् न च विश्वसेत्। भयार्तानां परित्राता दीनानुग्रहकारकः। तस्मात् कृत्यविशेषज्ञो नित्यं राष्ट्रहिते रतः। सत्यसंधः स्थितो राज्ये प्रजापालनतत्परः। अलुब्धो न्यायवादी च षड्भागं चोपजीवति। कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति। स्वराष्ट्रेषु दयां कुर्याद् अकार्यं न प्रवर्तते। ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः। शत्रुं च मित्रवत् पश्येद् अपराधविवर्जितम्। अपराधानुरूपेण दुष्टं दण्डेन शासयेत्। धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर् नृपः। नाधर्मो विद्यते तत्र यत्र राजा क्षमान्वितः। अशिष्टशासनं धर्मः शिष्टानां परिपालनम्। वध्यांश् च घातयेद् यस् तु अवध्यान् परिरक्षति। अवध्या ब्राह्मणा गावो दूतश् चैव पिता तथा। विद्यां ग्राहयते यश् च ये च पूर्वोपकारिणः। स्त्रियश् चैव न हन्तव्या यश् च सर्वातिथिर् नरः। धरणीं गां हिरण्यं च सिद्धान्नं च तिलान् घृतम्। ददन् नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात्। एवं चरति यो नित्यं राजा राष्ट्रहिते रतः। तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश् च वर्धते। न च पापैर् न चानर्थैर् युज्यते स नराधिपः। षड्भागम् उपयुञ्जन् यः प्रजा राजा न रक्षति। स्वचक्रपरचक्राभ्यां धनैर् वा विक्रमेण वा। निरुद्योगो नृपो यश् च परराष्ट्रनिघातने। स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते। यत् पापं परचक्रस्य परचक्राभिघातने। तत् पापं सकलं राजा हतराष्ट्रः प्रपद्यते। मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम्। पितरं वर्जयित्वैकं हन्याद् घातकम् आगतम्। स्वस्य राष्ट्रस्य रक्षार्थं युध्यमानस् तु यो हतः। संग्रामे परचक्रेण श्रूयतां तस्य या गतिः। विमाने तु वरारोहे अप्सरोगणसेविते। शक्रलोकम् इतो याति संग्रामे निहतो नृपः। यावन्तो लोमकूपाः स्युस् तस्य गात्रेषु सुन्दरि। तावद् वर्षसहस्राणि शक्रलोके महीयते। यदि वै मानुषे लोके कदा चिद् उपपद्यते। राजा वा राजमात्रो वा भूयो भवति वीर्यवान्। तस्माद् यत्नो ऽनुकर्तव्यः स्वराष्ट्रपरिपालने। व्यवहारश् च चारश् च सततं सत्यसंधता। अप्रमादः प्रमोदश् च व्यवसाये ऽप्य् अचण्डता। भरणं चैव भृत्यानां वाहनानां च पोषणम्। योधानां चैव सत्कारः कृते कर्मण्य् अमोघता। महेश्वरः। श्रेय एव नरेन्द्राणाम् इह चैव परत्र च। पशवः पशुबन्धेषु ये हन्यन्ते ऽध्वरेषु च। यूपे निबद्धा मन्त्रैश् च यथान्यायं यथाविधि। मन्त्राहुतिविपूतास् ते स्वर्गं यान्ति यशस्विनि। तर्पिता यज्ञभागेषु तेषां मांसैर् वरानने। अग्नयस् त्रिदशाश् चैव लोकपालाः सहेश्वराः। तेषु तुष्टेषु जायेत तस्य यज्ञस्य यत् फलम्। तेन संयुज्यते देवि यजमानो न संशयः। सपत्नीकः सपुत्रः स स पितृभ्रातृभिः सह। ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते। उमा। एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि। भगवन् सर्वभूतेश शूलपाणे महाद्युते। श्रोतुम् इच्छाम्य् अहं वृत्तं सर्वेषां गृहमेधिनाम्। कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो। प्रत्यायतिः कथं तेषां जीवनार्थम् उदाहृतम्। वर्तमानाः कथं सर्वे प्राप्नुवन्त्य् उत्तमां गतिम्। महेश्वरः। एतत् सर्वं समासेन वक्तुम् अर्हसि मानद। न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि। प्रायशो लोकसद्वृत्तम् इष्यते गृहवासिनाम्। तेषां संरक्षणार्थाय राजानः संस्मृता भुवि। सर्वेषाम् अथ मर्त्यानां वृत्तिं सामान्यतः शृणु। विद्या वार्त्ता च सेवा च कारुत्वं नाट्यता तथा। इत्य् एते जीवनार्थाय मर्त्यानां विहिताः प्रिये। अपि जन्मफलं तावन् मानुषाणां विशेषतः। विहितं तत् स्ववृत्तेन तन् मे निगदतः शृणु। कर्मक्षेत्रं हि मानुष्यं भोगदुःखयुताः परे। सर्वेषां प्राणिनां तस्मान् मानुष्ये वृत्तम् इष्यते। विद्यायोगस् तु सर्वेषां पूर्वम् एव विधीयते। कार्याकार्यं विजानाति विद्यया देवि नान्यथा। विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम्। दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम्। शक्यं विद्याविनीतेन लोके संजीवनं सुखम्। आत्मानं विद्यया तस्मात् पूर्वं कृत्वा तु भाजनम्। वश्येन्द्रियो जितक्रोधो भूत्वात्मानं तु भावयेत्। भावयित्वा तथात्मानं पूजनीयः सताम् अपि। कुलानुवृत्तं वृत्तं वा पूर्वम् एव समाश्रयेत्। इष्यते गृहवासाय दारकर्म यथापुरम्। यदि चेद् विद्यया चैव वृत्तिं काङ्क्षेद् अथात्मनः। राजविद्यां तु वादे ऽपि लोकविद्याम् अथापि वा। तीर्थतश् चापि गृह्णीयाच् छुश्रूषादिगुणैर् युतः। ग्रन्थतश् चार्थतश् चैव दृढीकुर्यात् प्रयत्नतः। एवं विद्याफलं देवि प्राप्नुयान् नान्यथा नरः। न्यायाद् विद्याफलं चेच्छेद् अधर्मं तत्र वर्जयेत्। यदि चेद् वार्त्तया वृत्तिं काङ्क्षेत विधिपूर्वकम्। क्षेत्रे जलोपपन्ने च तद् योग्यां कृषिम् आचरेत्। वाणिज्यं वा यथाकालं कुर्यात् तद्देशयोगतः। मूल्यम् अर्थं प्रयासं च विचार्यैव फलोदयौ। पशुसंजीवकश् चैव देशे गाः पोषयेद् ध्रुवम्। बहुप्रकारा बहवः पशवस् तस्य साधकाः। यः कश् चित् सेवया वृत्तिं काङ्क्षेत मतिमान् नरः। यतात्मा श्रवणीयानां भवेद् वै संप्रयोजकः। बुद्ध्या वा कर्मयोगाद् वा योधनाद् वा समाश्रयेत्। मार्गतस् तु समाश्रित्य तदा तत्संप्रियो भवेत्। यथा यथा स तुष्येत तथा संतोषयेत तम्। अनुजीविगुणोपेतः कुर्याद् आत्मार्थम् आश्रितः। विप्रियं नाचरेत् तस्य एषा सेवा समासतः। विप्रयोगात् पुरा तेन गतिम् अन्यां न लक्षयेत्। कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु। तयोर् अपि यथायोगं न्यायतः कर्मवेतनम्। आजीवेभ्यो ऽपि सर्वेभ्यश् चार्जवाद् वेतनं हरेत्। अनार्जवाद् आहरतस् तत् तु पापाय कल्पते। सर्वेषां पूर्वम् आरम्भांश् चिन्तयेन् नयपूर्वकम्। आत्मशक्तिम् उपायांश् च देशकालौ च शक्तितः। कारणानि प्रवासं च प्रक्षेपं च फलोदयम्। एवमादीनि संचिन्त्य दृष्ट्वा दैवानुकूलताम्। अतःपरं समारम्भेद् यत्रात्महितम् आहितम्। वृत्तिम् एवं समासाद्य तां सदा परिपालयेत्। दैवमानुषविघ्नेभ्यो न पुनर् भ्रश्यते यथा। पालयन् वर्धयन् भुञ्जंस् तां प्राप्य न विनाशयेत्। क्षीयते गिरिसंकाशम् अश्नतो ह्य् अनपेक्षया। आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद् बुधः। धर्मायार्थाय कामाय आपत्प्रशमनाय च। चतुर्ष्व् अपि विभागेषु विधानं शृणु शोभने। यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात्। देवब्राह्मणपूजार्थं पितृपूजार्थम् एव च। कुलार्थं संनिवासार्थं क्रियानित्यैश् च धार्मिकैः। एवमादिषु चान्येषु धर्मार्थं संत्यजेद् धनम्। धर्मकार्ये धनं दद्याद् अनवेक्ष्य फलोदयम्। ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात्। वार्त्तायां च समारम्भे भृत्यमित्रपरिग्रहे। आवाहे च विवाहे च पुत्राणां वृत्तिकारणात्। अर्थोदयसमावाप्ताव् अनर्थस्य विघातने। एवमादिषु चान्येषु अर्थार्थं विभजेद् धनम्। अनुबन्धं फलं हेतुं दृष्ट्वा वित्तं परित्यजेत्। अनर्थं बाधते ह्य् अर्थो अर्थं चैव फलान्य् उत। नाधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्नशतैर् अपि। तस्माद् धनं रक्षितव्यं दातव्यं च विधानतः। शरीरपोषणार्थाय आहारस्य विशेषणे। नटगान्धर्वसंयोगे कामयात्राविहारयोः। मनःप्रियाणां संयोगे प्रीतिदाने तथैव च। एवमादिषु चान्येषु कामार्थं विसृजेद् धनम्। विचार्य गुणदोषौ तु मात्रया तत्र संत्यजेत्। चतुर्थं संनिदध्याच् च आपदर्थं शुचिस्मिते। राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने। महाव्याधिविमोक्षार्थं वार्द्धकस्यैव कारणात्। शत्रूणां प्रतिकाराय साहसैश् चाप्य् अमर्षणात्। प्रस्थाने चान्यदेशार्थम् आपदां विप्रमोक्षणे। एवमादि समुद्दिश्य संनिदध्यात् स्वकं धनम्। सुखम् अर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम्। यस्य नास्ति धनं किं चित् तस्य लोकद्वयं न च। अशनाद् इन्द्रियाणीव सर्वम् अर्थात् प्रवर्तते। निधानं मात्रया कुर्याद् अन्यथा विलयं व्रजेत्। एवं देवि मनुष्याणां लोके त्व् आजीवनं प्रति। एवं युक्तस्य लोकस्य लौक्यं वृत्तं पुनः शृणु। धन्यं यशस्यम् आयुष्यं स्वर्गीयं परमं वचः। त्रिवर्गे च यथा युक्तं सर्वेषां संविधीयते। तथा संवर्तमानास् तु लोकयोर् हितम् आप्नुयुः। काल्योत्थानं च शौचं च देवब्राह्मणभक्तता। गुरूणाम् एव शुश्रूषा ब्राह्मणेष्व् अभिवादनम्। प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम्। आभिमुख्यं पुरस्कृत्य अतिथीनां च भोजनम्। वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः। पोषणं भृत्यवर्गस्य सान्त्वदानपरिग्रहैः। न्यायतः कर्मकरणम् अन्यायाहितवर्जनम्। सम्यग् वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम्। पुत्राणां विनयं कुर्यात् तत्तत्कार्ये नियोजयेत्। वर्जनं चाशुभार्थानां शुभानां जोषणं तथा। कुलोचितानां धर्माणां यथावत् परिपालनम्। वर्जनं कलहादीनां भक्त्या संशमनं तथा। सतां व्यसनसंयोगे स्वशक्त्याभ्यवपत्तिता। दीनानां संग्रहं चैव नानृशंस्यव्यपेक्षया। अबद्धानृतघोराणां वचनानां विवर्जनम्। कुलसंधारणं चैव पौरुषेणैव सर्वशः। एवमादि शुभं सर्वं तस्य वृत्तम् इति स्मृतम्। वृद्धसेवी भवेन् नित्यं हितार्थं ज्ञानकाङ्क्षया। परार्थं नाहरेद् द्रव्यम् अनामन्त्र्य तु सर्वदा। न याचेत परान् धीरः स्वबाहुबलम् आश्रयेत्। स्वशरीरं सदा रक्षेद् आहाराचारयोर् अपि। हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया। देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि। शेषं भुञ्जेच् छुचिर् भूत्वा न च भाषेत विप्रियम्। प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वशः। गृहस्थः प्रवहेद् दद्याद् गाश् च वत्सांश् च पोषयेत्। बहिर् निष्क्रमणं चैव कुर्यात् कारणतो दिवा। मध्याह्ने वार्धरात्रे वा गमनं नैव रोचयेत्। विषमान् नावगाहेत स्वशक्त्या समम् आचरेत्। यथायव्ययता लोके गृहस्थानां प्रपूजिता। अयशस्करम् अर्थघ्नं कर्म यत् परपीडनम्। भयाद् वा यदि वा लोभान् न कुर्वीत कदा चन। बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः। आरभेत तदा कर्म शुभं वा यदि वेतरत्। आत्मा साक्षी भवेन् नित्यम् आत्मनस् तु शुभाशुभे। उमा। मनसा कर्मणा वाचा न च काङ्क्षेत पातकम्। भगवन् भगनेत्रघ्न कालसूदन शंकर। इमे तु वर्णाश् चत्वारो विहिताः स्वित् स्वभावतः। उताहो क्रियया वर्णाः संभवन्ति महेश्वर। महेश्वरः। एष मे संशयप्रश्नस् तं मे छेत्तुं त्वम् अर्हसि। स्वभावाद् एव विद्यन्ते चत्वारो ब्राह्मणादयः। एकजात्याः सुदुष्प्रापम् अन्यवर्णत्वम् आगतम्। तच् च कर्म विशेषेण पुनर्जन्मनि जायते। तस्मात् ते संप्रवक्ष्यामि तत् सर्वं कर्म पाकतः। ब्राह्मणस् तु नरो भूत्वा स्वजातिम् अनुपालयेत्। दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत्। सत्यार्जवपरो भूत्वा दानयज्ञपरस् तथा। तस्यां जात्यां समुदितो जातिधर्मान् न हापयेत्। एवं संवर्तमानस् तु कालधर्मं गतः पुनः। स्वर्लोके चाभिजायेत स्वर्गभोगाय भामिनि। तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते। एवं स्वकर्मणा मर्त्यः स्वजातिं लभते पुनः। अपरस् तु तथा कश् चिद् ब्रह्मयोनिसमुद्भवः। अवमत्यैव तां जातिम् अज्ञानतमसावृतः। अन्यथा वर्तमानस् तु जातिकर्माणि वर्जयेत्। शूद्रवद् विचरेल् लोके शूद्रकर्माभिलाषया। शूद्रैः सह चरन् नित्यं शौचमङ्गलवर्जितः। स चापि कालधर्मस्थो यमलोकेषु दण्डितः। यदि जायेत मर्त्येषु शूद्र एवाभिजायते। शूद्र एव भवेद् देवि ब्राह्मणो ऽपि स्वकर्मणा। तथैव शूद्रस् त्व् अपरः शूद्रकर्माणि वर्जयन्। सत्यार्जवपरो भूत्वा दानधर्मपरस् तथा। मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः। एवंयुक्तसमाचारः शूद्रो ऽपि मरणं गतः। स्वर्गलोके ऽभिजायेत तत्क्षये नृषु जायते। ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते। एवम् एव सदा लोके शूद्रो ब्राह्मण्यम् आप्नुयात्। एवं क्षत्रियवैश्याश् च जातिधर्मेण संयुताः। स्वकर्मणैव जायन्ते विशिष्टेष्व् अधमेषु च। एवं जातिविपर्यासः प्रेत्यभावे भवेन् नृणाम्। अन्यथा तु न शक्यन्ते लोकसंस्थितिकारणात्। तस्माज् जातिं विशिष्टां तु कथं चित् प्राप्य पण्डितः। सर्वथा तां ततो रक्षेन् न पुनर् भ्रश्यते यथा। उमा। इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। जन्मप्रभृति कैः शुद्धो लभेज् जन्मफलं नरः। महेश्वरः। शोभनाशोभनं सर्वम् अधिकारवशात् स्वयम्। कर्म कुर्वन् न लिप्येत आर्जवेन समाचरन्। आत्मैव तच् छुभं कुर्याद् अशुभे नैव योजयेत्। शठेषु शठवत् कुर्याद् आर्येष्व् ऋजुवद् आचरेत्। आपत्सु नावसीदेच् च घोरान् संक्रामयेत् परान्। साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत्। अनर्थाधर्मशोकांस् तु यथा न प्राप्नुयात् स्वयम्। प्रयतेत तथा कर्तुम् एतद् वृत्तं समासतः। एतद् वृत्तं समासाद्य गृहम् आश्रित्य मानवाः। निराबाधा निरुद्वेगाः प्राप्नुवन्त्य् उत्तमां गतिम्। एतज् जन्मफलं नित्यं सर्वेषां गृहवासिनाम्। एवं गृहगतैर् नित्यं वर्तितव्यम् इति स्थितिः। एतत् सर्वं मया प्रोक्तं किं भूयः श्रोतुम् इच्छसि। उमा। सुरासुरपते देव वरद प्रीतिवर्धन। मानुषेष्व् एव ये के चिद् आढ्याः क्लेशविवर्जिताः। भुञ्जाना विविधान् भोगान् दृश्यन्ते निरुपद्रवाः। अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः। किमर्थं मानुषे लोके न समत्वेन कल्पिताः। महेश्वरः। एतच् छ्रोतुं महादेव कौतूहलम् अतीव मे। न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि। शृणु तत् सर्वम् अखिलं मानुषाणां हितं वचः। आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत् प्रजाः। नित्यं न भवतो ह्य् अस्य रागद्वेषौ प्रजापतेः। तदा तस्मात् समाः सर्वे बभूवुः सर्वतो नराः। एवं संवर्तमाने तु युगे कालविपर्ययात्। के चित् प्रपेदिरे तत्र विषमं बुद्धिमोहिताः। तेषां हानिं ततो दृष्ट्वा तुल्यानाम् एव भामिनि। ब्रह्माणं ते समाजग्मुस् तत्कारणनिवेदकाः। कर्तुं नार्हसि देवेश पक्षपातं त्वम् ईदृशम्। पुत्रभावे समे देव किमर्थं नो भवेत् कलिः। इत्य् एवं तैर् उपालब्धो ब्रह्मा वचनम् अब्रवीत्। यूयं मा कार्ष्ट मे रोषं स्वकृतं स्मरत प्रजाः। युष्माभिर् एव युष्माकं ग्रथितं हि शुभाशुभम्। यादृशं कुरुते कर्म तादृशं फलम् अश्नुते। स्वकृतस्य फलं भुङ्क्ते नान्यस् तद् भोक्तुम् अर्हति। एवं संबोधितास् तेन लोककर्त्रा स्वयंभुवा। पुनर् निवृत्य कर्माणि शुभान्य् एव प्रपेदिरे। एवं विज्ञाततत्त्वास् ते दानधर्मपरायणाः। शुभानि विधिवत् कृत्वा कालधर्मगताः पुनः। तानि दानफलान्य् एव भुञ्जते सुखभोगिनः। स्वकृतं तु नरस् तस्मात् स्वयम् एव प्रपद्यते। अपरे धर्मकार्येभ्यो निवृत्तास् तु शुभेक्षणे। कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः। तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने। उमा। दरिद्राः क्लेशसंयुक्ता भवन्त्य् एव न संशयः। मानुषेष्व् एव ये के चिद् धनधान्यसमन्विताः। भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्व् अपि। महेश्वरः। न भुञ्जते किमर्थं ते तन् मे शंसितुम् अर्हसि। परैः संचोदिता धर्मं कुर्वते न स्वकामतः। स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च। तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने। फलानि तानि संप्राप्य भुञ्जते न कदा चन। उमा। रक्षन्तो वर्धयन्तश् च आसते निधिपालवत्। के चिद् धनवियुक्ताश् च भोगयुक्ता महेश्वर। महेश्वरः। मानुषाः संप्रदृश्यन्ते तन् मे शंसितुम् अर्हसि। आनृशंस्यपरा ये तु धर्मकामाश् च दुर्गताः। परोपकारं कुर्वन्ति दीनानुग्रहकारणात्। प्रतिदद्युः परधनं नष्टं वान्यैर् हृतं धनम्। नित्यं ये दातुमनसो नरा वित्तेष्व् असत्स्व् अपि। कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः। एते धनवियुक्ताश् च भोगयुक्ता भवन्त्य् उत। धर्मदानोपदेशं वा कर्तव्यम् इति निश्चयः। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश त्रियक्ष वृषभध्वज। मानुषास् त्रिविधा देव दृश्यन्ते सततं विभो। आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः। अपरे यत्नपूर्वं तु लभन्ते भोगसंग्रहम्। अपरे यतमानास् तु लभन्ते न तु किं चन। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि। ये लोके मानुषा देवि दानधर्मपरायणाः। पात्राणि विधिवज् ज्ञात्वा दूरतो ह्य् अनुमानतः। अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च। दानानि चेङ्गितैर् एव तैर् अविज्ञातम् एव वा। पुनर्जन्मनि देवेशि तादृशाः शोभना नराः। अयत्नतस् तु तान्य् एव फलानि प्राप्नुवन्त्य् उत। आसीना एव भुञ्जन्ते भोगान् सुकृतभोगिनः। अपरे ये च दानानि ददत्य् एव प्रयाचिताः। यथा यथा ते दीनत्वात् पुनर् दास्यन्ति याचिताः। तावत् कालं तथा देवि पुनर्जन्मनि ते नराः। यत्नतः श्रमसंयुक्ताः पुनस् तान्य् आप्नुवन्त्य् उत। याचिता अपि ये के चिन् न ददत्य् एव किं चन। अभ्यसूयापरा मर्त्या लोभोपहतचेतसः। ते पुनर्जन्मनि शुभे यतन्ते बहुधा नराः। न प्राप्नुवन्ति मनुजा मार्गन्तस् ते ऽपि किं चन। नानुप्तं रोहते सस्यं तद्वद् दानफलं विदुः। यद् यद् ददाति पुरुषस् तत् तत् प्राप्नोति केवलम्। इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। उमा। भगवन् भगनेत्रघ्न के चिद् वार्द्धकसंयुताः। अभोगयोग्यकाले तु भोगांश् चैव धनानि च। लभन्ते स्थविरा भूत्वा भोगैश्वर्यं यतस् ततः। येन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता। धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः। प्राणान्तकाले संप्राप्ते व्याधिभिश् च निपीडिताः। आरभन्ते पुनर् धर्मं दातुं दानानि वा नराः। ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः। अतीतयौवने काले स्थविरत्वम् उपागताः। लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे। एवं कर्मफलं देवि कालयोगाद् भवत्य् उत। उमा। भोगयुक्ता महादेव के चिद् व्याधिपरिप्लुताः। महेश्वरः। असमर्थाश् च तान् भोक्तुं भवन्ति किम् उ कारणम्। व्याधियोगपरिक्लिष्टा ये निराशाः स्वजीविते। आरभन्ते तदा कर्तुं दानानि शुभलक्षणे। ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्य् उत। उमा। असमर्थाश् च तान् भोक्तुं व्याधितास् ते भवन्त्य् उत। भगवन् देवदेवेश मानुषेष्व् एव के चन। रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता। ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः। शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः। अमांसभोजिनश् चैव सदा प्राणिदयायुताः। प्रतिकर्मप्रदा वापि वस्त्रदा धर्मकारणात्। भूमिशुद्धिकरा वापि कारणाद् अग्निपूजकाः। एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः। उमा। रूपेण स्पृहणीयास् तु भवन्त्य् एव न संशयः। विरूपाश् च प्रदृश्यन्ते मानुषेष्व् एव के चन। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। रूपयोगात् पुरा मर्त्या दर्पाहंकारसंयुताः। विरूपहासकाश् चैव स्तुतिनिन्दादिभिर् भृशम्। परोपतापिनश् चैव मांसादाश् च तथैव च। अभ्यसूयापराश् चैव अशुद्धाश् च तथैव च। एवंयुक्तसमाचारा यमलोके सुदण्डिताः। कथं चित् प्राप्य मानुष्यं तत्र ते रूपवर्जिताः। विरूपाः संभवन्त्य् एव नास्ति तत्र विचारणा। उमा। भगवन् देवदेवेश के चित् सौभाग्यसंयुताः। रूपभोगविहीनाश् च दृश्यन्ते प्रमदाप्रियाः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः। स्वदारैर् एव संतुष्टा दारेषु समवृत्तयः। दाक्षिण्येनैव वर्तन्ते प्रमदास्व् अप्रियास्व् अपि। न तु प्रत्यादिशन्त्य् एव स्त्रीदोषान् गुह्यसंश्रितान्। अन्नपानीयदाः काले नृणां स्वादुप्रदाश् च ये। स्वदारवर्तिनश् चैव धृतिमन्तो निरत्ययाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। मानुषास् ते भवन्त्य् एव सततं सुभगा भृशम्। अर्थाद् ऋते ऽपि ते देवि भवन्ति प्रमदाप्रियाः। उमा। दुर्भगाः संप्रदृश्यन्ते आढ्या भोगयुता अपि। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता। ये पुरा मनुजा देवि स्वदारेष्व् अनपेक्षया। यथेष्टवृत्तयश् चैव निर्लज्जा वीतसंभ्रमाः। परेषां विप्रियकरा वाङ्मनःकायकर्मभिः। निराश्रया निरन्नाद्याः स्त्रीणां हृदयकोपनाः। एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः। दुर्भगाः संभवन्त्य् एव स्त्रीणां हृदयविप्रियाः। उमा। नास्ति तेषां रतिसुखं स्वदारेष्व् अपि किं चन। भगवन् देवदेवेश मानुषेष्व् एव के चन। ज्ञानविज्ञानसंपन्ना बुद्धिमन्तो विचक्षणाः। दुर्गतास् तु प्रदृश्यन्ते यतमाना यथाविधि। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। ये पुरा मनुजा देवि श्रुतवन्तो ऽपि केवलम्। निराश्रया निरन्नाद्या भृशम् आत्मपरायणाः। ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि। निष्किंचना भवन्त्य् एव अनुप्तं न हि रोहति। उमा। मूर्खा लोके प्रदृश्यन्ते दृढं मूढा विचेतसः। ज्ञानविज्ञानरहिताः समृद्धाश् च समन्ततः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि बालिशा अपि सर्वतः। समाचरन्ति दानानि दीनानुग्रहकारणात्। अबुद्धिपूर्वं वदतां ददत्य् एव यतस् ततः। ते पुनर्जन्मनि शुभे प्राप्नुवन्त्य् एव तत् तथा। पण्डितो ऽपण्डितो वापि भुङ्क्ते दानफलं नरः। उमा। बुद्ध्यानपेक्षितं दानं सर्वथा तत् फलत्य् उत। भगवन् देवदेवेश मानुषेष्व् एव के चन। मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम्। ज्ञानार्थं ते तु संगृह्य तीर्थतो विधिपूर्वकम्। विधिनैव परांश् चैव ग्राहयन्ति न चान्यथा। अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः। विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः। तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने। उमा। मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः। अपरे मानुषा देव यत्नतो ऽपि यतस् ततः। बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धिभिः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः। श्लाघमानाश् च तत् प्राप्य ज्ञानाहंकारमोहिताः। तपन्ति ये परान् नित्यं ज्ञानाधिक्येन दर्पिताः। ज्ञानाद् असूयां कुर्वन्ति न सहन्त्य् एव चापरान्। तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने। मानुष्यं सुचिरं प्राप्य तत्र बोधविवर्जिताः। उमा। भवन्ति सततं देवि यतन्तो हीनमेधसः। भगवन् मानुषाः के चित् सर्वकल्याणसंयुताः। पुत्रैर् दारैर् गुणयुतैर् दासीदासपरिच्छदैः। परस्परर्द्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः। व्याधिहीना निराबाधा रूपारोग्यबलैर् युताः। धनधान्येन संपन्नाः प्रासादैर् यानवाहनैः। सर्वोपभोगसंयुक्ता नानाचित्रैर् मनोहरैः। ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिने दिने। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता। ये पुरा मनुजा देवि आढ्या वा इतरे ऽपि वा। श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः। परेङ्गितपरा नित्यं दातव्यम् इति निश्चिताः। सत्यसंधाः क्षमाशीला लोभमोहविवर्जिताः। दातारः पात्रतो दानं व्रतैर् नियमसंयुताः। स्वदुःखम् इव संस्मृत्य परदुःखं महात्मनः। सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः। मानुषेष्व् अपि ये जातास् तादृशाः संभवन्ति ते। यादृशास् तु त्वया प्रोक्ताः सर्वे कल्याणसंयुताः। रूपं द्रव्यं बलं चायुर् भोगैश्वर्यं कुलं श्रुतम्। इत्य् एतत् सर्वसाद्गुण्यं दानाद् भवति नान्यथा। उमा। तपोदानमयं सर्वम् इति विद्धि शुभानने। अथ के चित् प्रदृश्यन्ते मानुषेष्व् एव मानुषाः। दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः। भयैस् त्रिभिः सदा जुष्टा व्याधिक्षुद्भयपीडिताः। दुष्कलत्राभिभूताश् च सततं विघ्नदर्शकाः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः। क्रोधलोभरता नित्यं निरन्नाद्याश् च निष्क्रियाः। नास्तिकाश् चैव धूर्ताश् च मूर्खाश् चात्मपरायणाः। परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। कथं चित् प्राप्य मानुष्यं तत्र ते दुःखपीडिताः। सर्वतः संभवन्त्य् एव पूर्वम् आत्मप्रमादतः। यथा ते पूर्वकथितं तथा ते संभवन्त्य् उत। शुभाशुभं कृतं कर्म सुखदुःखफलोदयम्। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश मम प्रीतिविवर्धन। जात्यन्धाश् चैव दृश्यन्ते जाता वा नष्टचक्षुषः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। हन्त ते कथयिष्यामि शृणु कल्याणि कारणम्। ये पुरा कामरागेण परवेश्मसु लोलुपाः। परस्त्रियो ऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषा। अन्धीकुर्वन्ति ये मर्त्यान् क्रोधलोभसमन्विताः। लक्षणज्ञाश् च रूपेषु अयथावत् प्रदर्शकाः। एवंयुक्तसमाचाराः कालधर्मगतास् तु ते। दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये। यदि चेन् मानुषं जन्म लभेरंस् तादृशा नराः। स्वभावतो वा जाता वा अन्धा एव भवन्ति ते। अक्षिरोगयुता वापि नास्ति तत्र विचारणा। उमा। मुखरोगयुताः के चित् क्लिश्यन्ते सततं नराः। दन्तकर्णकपोलस्थैर् व्याधिभिर् बहुपीडिताः। आदिप्रभृति मर्त्या वा जाता वाप्य् अथ कारणात्। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। हन्त ते कथयिष्यामि शृणु देवि समाहिता। कुवक्तारस् तु ये देवि जिह्वया कटुकं भृशम्। असत्यं परुषं घोरं गुरून् प्रति परान् प्रति। जिह्वाबाधां तथान्येषां कुर्वते कोपकारणात्। प्रायशो ऽनृतभूयिष्ठा नराः कार्यवशेन वा। तेषां जिह्वाप्रदेशस्था व्याधयः संभवन्ति ते। कुश्रोतारस् तु ये चार्थं परेषां कर्णनाशकाः। कर्णरोगान् बहुविधांल् लभन्ते ते पुनर्भवे। दन्तरोगशिरोरोगकर्णरोगास् तथैव च। उमा। अन्ये मुखाश्रिता दोषाः सर्वे चात्मकृतं फलम्। पीड्यन्ते सततं देव मानुषेष्व् एव के चन। कुक्षिपक्षाश्रितैर् दोषैर् व्याधिभिश् चोदराश्रितैः। तीक्ष्णशूलैश् च पीड्यन्ते नरा दुःखपरिप्लुताः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि कामक्रोधयुता भृशम्। आत्मार्थम् एव चाहारं भुञ्जते निरपेक्षकाः। अभक्ष्याहारदाश् चैव विश्वस्तानां विषप्रदाः। अभक्ष्यभक्ष्यदाश् चैव शौचमङ्गलवर्जिताः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। कथं चित् प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः। तैस् तैर् बहुविधाकारैर् व्याधिभिर् दुःखपीडिताः। उमा। भवन्त्य् एव तथा देवि यथा येन कृतं पुरा। दृश्यन्ते सततं देव व्याधिभिर् मेहनाश्रितैः। पीड्यमानास् तथा मर्त्या अश्मरीशर्करादिभिः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि परदारप्रधर्षकाः। तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च। कामदोषेण ये धूर्ताः कन्यासु विधवासु च। बलात्कारेण गच्छन्ति रूपदर्पधनान्विताः। तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने। यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः। उमा। तत्र मेहनजैर् घोरैः पीड्यन्ते व्याधिभिः प्रिये। भगवन् मानुषाः के चिद् दृश्यन्ते शोषिणः कृशाः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः। आत्मार्थं स्वादुगृद्धाश् च परभोगोपतापिनः। अभ्यसूयापराश् चैव परभोगेषु ये नराः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। शोषव्याधियुतास् तत्र नरा धमनिसंतताः। उमा। भवन्त्य् एव नरा देवि पापकर्मोपभोगिनः। भगवन् मानुषाः के चित् क्लिश्यन्ते कुष्ठरोगिणः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि परेषां रूपनाशकाः। आघातवधबन्धैश् च वृथादण्डेन मोहिताः। इष्टनाशकरा ये तु अपथ्याहारदा नराः। चिकित्सका वा दुष्टाश् च लोभमोहसमन्विताः। निर्दयाः प्राणिहिंसायां मलदाश् चित्तनाशकाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। यदि वै मानुषं जन्म लभेरंस् ते सुदुःखिताः। अत्र ते क्लेशसंयुक्ताः कुष्ठरोगसमन्विताः। के चित् त्वग्दोषसंयुक्ता व्रणकुष्ठैश् च संयुताः। श्वित्रकुष्ठयुता वापि बहुधा कुष्ठसंयुताः। उमा। भवन्त्य् एव नरा देवि यथा येन कृतं फलम्। भगवन् मानुषाः के चिद् अङ्गहीनाश् च पङ्गवः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि लोभमोहसमावृताः। प्राणिनां प्राणहिंसार्थम् अङ्गहीनं प्रकुर्वते। शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। तदङ्गहीना वै प्रेत्य भवन्त्य् एव न संशयः। उमा। स्वभावतो वा जाता वा पङ्गवस् तु भवन्ति ते। भगवन् मानुषाः के चिद् ग्रन्थिभिः पिटकैस् तथा। महेश्वरः। क्लिश्यमानाः प्रदृश्यन्ते तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम्। मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः। पाटकास् तोदकाश् चैव शूलतुन्नास् तथैव च। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। उमा। ग्रन्थिभिः पिटकैश् चैव क्लिश्यन्ते भृशदुःखिताः। भगवन् मानुषाः के चित् पादरोगसमन्विताः। महेश्वरः। दृश्यन्ते सततं देव तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि क्रोधलोभसमन्विताः। मनुजा देवतास्थानं स्वपादैर् भ्रंशयन्त्य् उत। जानुभिः पार्ष्णिभिश् चैव प्राणिहिंसां प्रकुर्वते। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। उमा। पादरोगैर् बहुविधैर् बाध्यन्ते श्लीपदादिभिः। भगवन् मानुषाः के चिद् दृश्यन्ते बहवो भुवि। वातजैः पित्तजै रोगैर् युगपत् सांनिपातिकैः। रोगैर् बहुविधैर् देव क्लिश्यमानाः सुदुःखिताः। असमस्तैः समस्तैश् च आढ्या वा दुर्गतास् तथा। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः। स्ववशाः कोपनपरा गुरुविद्वेषिणस् तथा। परेषां दुःखजनका मनोवाक्कायकर्मभिः। छिन्दन् भिन्दंस् तुदन्न् एव नित्यं प्राणिषु निर्दयाः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। यदि वै मानुषं जन्म लभेरंस् ते तथाविधाः। तत्र ते बहुभिर् घोरैस् तप्यन्ते व्याधिभिः प्रिये। के चिच् छ्लीपदसंयुक्ताः के चित् काससमन्विताः। ज्वरातिसारतृष्णाभिः पीड्यमानास् तथापरे। वातगुल्मैश् च बहुभिः शोफोदरसमन्विताः। पादरोगैश् च विविधैर् व्रणकुष्ठभगंदरैः। आढ्या वा दुर्गता वापि दृश्यन्ते व्याधिपीडिताः। एवम् आत्मकृतं कर्म भुञ्जते तत्र तत्र वै। गूहितुं न च शक्यं वै केन चित् स्वकृतं फलम्। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश भूतपाल नमो ऽस्तु ते। ह्रस्वाङ्गाश् चैव वक्राङ्गाः कुब्जा वामनकास् तथा। अपरे मानुषा देव दृश्यन्ते कुणिबाहवः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि लोभमोहसमन्विताः। धान्यमानान् विकुर्वन्ति क्रयविक्रयकारणात्। तुलादोषं तथा देवि धृतमानेषु नित्यशः। अर्घापकरणं चैव सर्वेषां क्रयविक्रये। अङ्गदोषकरा ये तु परेषां कोपकारणात्। मांसादाश् चैव ये मूर्खा अयथावद् वृथा सदा। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। उमा। ह्रस्वाङ्गा वामनाश् चैव कुब्जाश् चैव भवन्ति ते। भगवन् मानुषाः के चिद् दृश्यन्ते मानुषेषु वै। उन्मत्ताश् च पिशाचाश् च पर्यटन्तो यतस् ततः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि दर्पाहंकारसंयुताः। बहुधा प्रलपन्त्य् एव प्रहसन्ति परान् भृशम्। मोहयन्ति परान् भोगैर् मदनैर् लोभकारणात्। वृद्धान् गुरूंश् च ये मूर्खा वृथैवापहसन्ति च। शौण्डा विदग्धाः शास्त्रेषु तथैवानृतवादिनः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। उन्मत्ताश् च पिशाचाश् च भवन्त्य् एव न संशयः। उमा। भगवन् मानुषाः के चिन् निरपत्याः सुदुःखिताः। यतन्तो न लभन्त्य् एव अपत्यानि यतस् ततः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः। घ्नन्ति बालांश् च भुञ्जन्ते मृगाणां पक्षिणाम् अपि। गुरुविद्वेषिणश् चैव परपुत्राभ्यसूयकाः। पितृपूजां न कुर्वन्ति यथोक्तं चाष्टकादिभिः। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। मानुष्यं सुचिरात् प्राप्य निरपत्या भवन्ति ते। उमा। पुत्रशोकयुता वापि नास्ति तत्र विचारणा। भगवन् मानुषाः के चित् प्रदृश्यन्ते सुदुःखिताः। उद्वेगवासनिरताः सोद्वेगाश् च यतस् ततः। नित्यशोकसमाविष्टा दुर्गताश् च तथैव च। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा नित्यम् उत्कोचनपरायणाः। भीषयन्ति परान् नित्यं विकुर्वन्ति तथैव च। ऋणैर् वृद्धिं च ये कृत्वा दरिद्रेभ्यो यथेष्टतः। ऋणार्थम् अभिगच्छन्ति सततं वृद्धिरूपकाः। उद्विजन्ते हि तान् दृष्ट्वा धारकास् त्व् अथ कारणात्। अतिवृद्धिर् न कर्तव्या दरिद्रेभ्यश् च धर्मतः। ये श्वभिः क्रीडमानाश् च त्रासयन्ति वने मृगान्। प्राणिहिंसां तथा देवि कुर्वन्ति च यतस् ततः। येषां गृहेषु वै श्वानस् त्रासयन्ति वृथा नरान्। एवंयुक्तसमाचाराः कालधर्मगताः पुनः। पीडिता यमदण्डेन निरयस्थाश् चिरं प्रिये। कथं चित् प्राप्य मानुष्यं तत्र ते दुःखसंयुताः। कुदेशे दुःखभूयिष्ठे व्याघातशतसंकुले। उमा। जायन्ते तत्र शोचन्तः सोद्वेगाश् च यतस् ततः। भगवन् मानुषाः के चिद् ऐश्वर्यस्थानसंयुताः। म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। महेश्वरः। ये पुरा मनुजा देवि धनधान्यसमन्विताः। अयथावत् प्रयच्छन्ति श्रद्धावर्जितम् एव वा। अपात्रेभ्यश् च ये दानं शौचमङ्गलवर्जिताः। ददत्य् एव च ये मूर्खाः श्लाघयावज्ञयापि वा। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे। उमा। म्लेच्छाधिपत्यं संप्राप्य जायन्ते तत्र तत्र वै। भगवन् भगनेत्रघ्न मानुषेष्व् एव के चन। क्लीबा नपुंसकाश् चैव दृश्यन्ते पण्डकास् तथा। नीचकर्मरता नीचा नीचसौख्यास् तथा भुवि। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। ये पुरा मनुजा भूत्वा घोरकर्मरतास् तथा। पशुपुंस्त्वोपघातेन जीवन्ति च रमन्ति च। पुंस्त्वोपघातिनश् चैव नराणां कोपकारणात्। ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद् यथेष्टतः। कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात्। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये। यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः। क्लीबा वर्षवराश् चैव पण्डकाश् च भवन्ति ते। नीचकर्मरता लोके निर्लज्जा वीतसंभ्रमाः। परनिन्दां पुरस्कृत्य ते भवन्ति स्वकर्मणा। यदि चेत् संविमृश्येरंस् ते मुच्यन्ते हि किल्बिषात्। तत्रापि ते प्रमाद्येयुः पतन्ति नरकालये। स्त्रीणाम् अपि तथा देवि यथा पुंसां तु कर्मजम्। उमा। इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। भगवन् देवदेवेश शूलपाणे वृषध्वज। पुंश्चल्य इति याः स्त्रीषु नीचवृत्तरताः स्मृताः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। याः पुरा प्रमदा देवि बुद्धिमोहसमन्विताः। कामरागसमायुक्ताः पतीन् अपचरन्ति वै। प्रतिकूलपरा यास् तु पतीन् प्रति यथा तथा। शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारकाः। एवंयुक्तसमाचारा यमलोके सुदण्डिताः। यदि चेन् मानुषं जन्म लभेरंस् तास् तथाविधाः। बहुसाधारणा एवं पुंश्चल्यश् च भवन्ति ताः। पौंश्चल्यं यत् तु तद् वृत्तं स्त्रीणां कष्टतमं स्मृतम्। ततःप्रभृति ता देवि पतन्त्य् एव न संशयः। उमा। शोचन्ति चेत् तु तद् वृत्तं मनसा हितम् आप्नुयुः। भगवन् देवदेवेश प्रमदा विधवा भृशम्। दृश्यन्ते मानुषे लोके सर्वकल्याणवर्जिताः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। या पुरा प्रमदा देवि बुद्धिमोहसमन्विताः। कुटुम्बं तत्र वै पत्युर् नाशयन्ति वृथा तथा। विषदाश् चाग्निदाश् चैव पतीन् प्रति सुनिर्दयाः। अन्यासां हि पतीन् यान्ति स्वपतिद्वेषकारणात्। एवंयुक्तसमाचारा यमलोके सुदण्डिताः। निरयस्थाश् चिरं कालं कथं चित् प्राप्य मानुषम्। उमा। तत्र ता भोगरहिता विधवास् तु भवन्ति वै। भगवन् प्रमदास् त्व् अन्याः पतौ ज्ञातिषु सत्स्व् अपि। लिङ्गिन्यः संप्रदृश्यन्ते पाषण्डं धर्मम् आश्रिताः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। याः पुरा भावदोषेण लोभमोहसमन्विताः। परद्रव्यपरा लोभात् परेषां द्रव्यहारकाः। अभ्यसूयापरा यास् तु सपत्नीनां प्रदूषकाः। ईर्ष्यापराः कोपनाश् च बन्धूनां विफलाः सदा। एवंयुक्तसमाचाराः पुनर्जन्मनि ताः प्रिये। अपलक्षणसंपन्नाः पाषण्डं धर्मम् आश्रिताः। उमा। स्त्रियः प्रव्राजशीलाश् च भवन्त्य् एव न संशयः। भगवन् मानुषाः के चित् कारुवृत्तिं समाश्रिताः। प्रदृश्यन्ते मनुष्येषु नीचकर्मरता जनाः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि स्तब्धा मानयुता भृशम्। दर्पाहंकारसंयुक्ताः केवलात्मपरायणाः। तादृशा मनुजा देवि पुनर्जन्मनि शोभने। कारवो नटगन्धर्वाः संभवन्ति यथा तथा। नापिता बन्दिनश् चैव तथा वैतालिकाः प्रिये। एवंभूतास् त्व् अधोवृत्तिं जीवन्त्य् आश्रित्य मानवाः। परप्रसादनकरास् ते परैः कृतवेतनाः। उमा। परावमानस्य फलं भुञ्जते पौर्वदेहिकम्। भगवन् देवदेवेश मानुषेष्व् एव के चन। दासभूताः प्रदृश्यन्ते सर्वकर्मकरा भृशम्। आघातभर्त्सनसहाः पीड्यमानाश् च सर्वशः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। ये पुरा मनुजा देवि परेषां वित्तहारकाः। ऋणवृद्धिकरं कुर्यान् न्यासदत्तं तथैव च। निक्षेपकारणाद् दत्तं परेषां द्रव्यहारिणः। प्रमादाद् विस्मृतं नष्टं परेषां धनहारकाः। वधबन्धपरिक्लेशैर् दासत्वे कुर्वते ऽपरान्। तादृशा मरणं प्राप्ता दण्डिता यमशासनैः। कथं चित् प्राप्य मानुष्यं तत्र ते देवि सर्वथा। दासभूता भवन्त्य् एव जन्मप्रभृति मानवाः। तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः। आ समाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः। पशुभूतास् तथा चान्ये भवन्ति धनहारकाः। तत् तथा क्षीयते कर्म तेषां पूर्वापराधजम्। अतो ऽन्यथा न तच् छक्यं कर्म हातुं सुरासुरैः। किं तु मोक्षविधिस् तेषां सर्वथा तत्प्रसादनम्। अयथावन् मोक्षकामः पुनर्जन्मनि चेष्यते। मोक्षकामी यथान्यायं कुर्वन् कर्माणि सर्वशः। भर्तुः प्रसादम् आकाङ्क्षेद् आघातान् सर्वदा सहन्। प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः। तथाभूतान् कर्मकरान् सदा संपोषयेत् पतिः। यथार्हं कारयेत् कर्म दण्डं कारणतः क्षिपेत्। वृद्धान् बालांस् तथा क्षीणान् पालयन् धर्मम् आप्नुयात्। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् मानुषेष्व् एव मानुषाः समदर्शनाः। चण्डाला इव दृश्यन्ते स्पर्शमात्रेण दूषकाः। नीचकर्मकरा देव सर्वेषां मलहारकाः। दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि त्वम् एकाग्रमनाः शृणु। ये पुरा मनुजा घोरा अतिमानयुता भृशम्। आत्मसंभावनायुक्ताः स्तब्धा दर्पसमन्विताः। प्रणामं न तु कुर्वन्ति गुरूणाम् अपि पापकाः। ये स्वधर्मार्पणं कार्यम् अतिमानान् न कुर्वते। परान् संनामयन्त्य् एव आज्ञयात्मनि ये बलात्। ऋद्धियोगात् परान् नित्यम् अवमन्यन्ति मानवान्। पानपाः सर्वभक्षाश् च परुषाः कटुका नराः। एवंयुक्तसमाचारा दण्डिता यमशासनैः। कथं चित् प्राप्य मानुष्यं चण्डालाः संभवन्ति ते। नीचकर्मरताश् चैव सर्वेषां मलहारकाः। परेषां वन्दनपरास् ते भवन्त्य् अवमानिताः। विरूपाः पापयोनिस्थाः स्पर्शनाद् अपि वर्जिताः। कुवृत्तिम् उपजीवन्ति भूत्वा ते रजकादयः। पुरातिमानदोषात् तु भुञ्जते स्वकृतं फलम्। तान् अप्य् अवस्थाकृपणांश् चण्डालान् अपि बुद्धिमान्। न च निन्देन् नातिकुप्येद् भुञ्जते स्वकृतं फलम्। उमा। चण्डाला अपि तां जातिं शोचन्तः शुद्धिम् आप्नुयुः। भगवन् मानुषाः के चिद् आशापाशशतैर् वृताः। परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने। द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि ऐश्वर्यस्थानसंयुताः। संविदं तु न कुर्वन्ति परैर् ऐश्वर्यमोहिताः। द्वाराणि न ददत्य् एव द्वेषलोभादिभिर् वृताः। अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः। लुब्धा भोगयुता वापि सर्वेषां निष्फला भृशम्। अपि शक्ता न कुर्युर् ये परानुग्रहकारणात्। निर्दयाश् चैव निर्द्वारा भोगैश्वर्यगतिं प्रति। एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने। यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः। दुर्गता दुरवस्थाश् च कर्मव्याक्षेपसंयुताः। अभिधावन्ति ते सर्वे तम् अर्थम् अभिवेदिनः। राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः। कर्म विज्ञापितुं भद्रे न लभन्ते कथं चन। उमा। प्रवेष्टुम् अपि ते द्वारि बहिस् तिष्ठन्ति काङ्क्षया। भगवन् मानुषे लोके मानुषेषु बहुष्व् अपि। सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः। दृश्यन्ते मानुषाः के चिद् राजचोरोदकादिभिः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः। परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः। उत्कोचनपराश् चैव पिशुनाश् च तथाविधाः। परद्रव्यहरा घोराश् चौर्याद् वान्येन कर्मणा। निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः। नास्तिकानृतभूयिष्ठाः परद्रव्यापहारिणः। एवंयुक्तसमाचारा दण्डिता यमशासनैः। निरयस्थाश् चिरं कालं तत्र दुःखसमन्विताः। यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः। तत्रस्थाः प्राप्नुवन्त्य् एव सहसा द्रव्यनाशनम्। कष्टं च प्राप्नुवन्त्य् एव कारणाकारणाद् अपि। उमा। नाशं विनाशं द्रव्याणाम् उपघातांश् च सर्वशः। भगवन् मानुषाः के चिद् बान्धवैः सहसा पृथक्। कारणाकारणाद् एव सहसा प्राणनाशनम्। शस्त्रेण वान्यथा वापि प्राप्नुवन्ति वधं नराः। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि घोरकर्मरता नराः। आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशम्। निर्दयाः प्राणिहिंसायां तथा प्राणविघातकाः। विश्वस्तघातकाश् चैव तथा सुप्तविघातकाः। प्रायशो ऽनृतभूयिष्ठा नास्तिका मांसभोजिनः। एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः। दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये। तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात्। यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः। तत्र ते प्राप्नुवन्त्य् एव वधबन्धान् यथा तथा। आढ्या वा दुर्गता वापि भुञ्जते स्वकृतं फलम्। सुप्ता मत्ताश् च विश्वस्तास् तथा ते प्राप्नुवन्त्य् उत। प्राणाबाधकृतं दुःखं बान्धवैः सहसा पृथक्। उमा। पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम्। भगवन् मानुषाः के चिद् राजभिर् नीतिकोविदैः। दण्ड्यन्ते मानुषे लोके मानुषाः सततं भुवि। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि मनुजांश् चेतरांश् च वा। क्लिष्टघातेन निघ्नन्ति प्राणान् प्राणिषु निर्दयाः। असुरा घोरकर्माणः क्रूरदण्डवधप्रियाः। ये दण्डयन्त्य् अदण्ड्यांस् तु राजानः कोपमोहिताः। हिंसाविहाराः पुरुषा मांसादा नास्तिकाः शुभे। के चित् स्त्रीपुरुषघ्नाश् च गुरुघ्नाश् च तथा प्रिये। एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः। दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये। पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः। इहैव यत् कृतं कर्म तत् परत्र फलत्य् उत। एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते। न ऋषीणां न देवानाम् अमरत्वात् तपोबलात्। तैर् एकेन शरीरेण भुज्यते कर्मणः फलम्। उमा। न तथा मानुषाणां स्याद् अन्तर्धाय भवेद् धि तम्। किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः। कृतापराधम् उद्दिश्य हन्ता हर्तायम् इत्य् उत। पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान्। तेनैव हि शरीरेण भुञ्जानाः कर्मणां फलम्। दृश्यन्ते मानुषे लोके तद् भवान् अनुमन्यते। महेश्वरः। एतन् मे संशयस्थानं तत् त्वं शंसितुम् अर्हसि। स्थाने संशयितं देवि तत् त्वं शृणु समाहिता। कर्म कर्मफलं चेति युगपद् भुवि नेष्यते। यत् त्वयाभिहितं देवि हन्ता हर्तायम् इत्य् अपि। तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः। दैहिकं दुष्कृतं तेषां हेतुर् भवति शासने। अपराधापदेशेन राजा दण्डयति प्रजाः। इहलोके व्यवस्थार्थं राजभिर् दण्डनं स्मृतम्। उद्वेजनार्थं शेषाणाम् अपराधं तम् उद्दिशन्। पुराकृतफलं दण्डो दण्ड्यमानस्य तद् ध्रुवम्। उमा। प्राग् एव च मया प्रोक्तं तत्र निःसंशया भव। भगवन् भुवि मर्त्यानां दण्डितानां नरेश्वरैः। दण्डेनैव तु तेनेह पापनाशो भवेन् न वा। महेश्वरः। एतन् मया संशयितं तद् भवांश् छेत्तुम् अर्हति। स्थाने संशयितं देवि शृणु तत् त्वं समाहिता। ये नृपैर् दण्डिता भूमाव् अपराधापदेशतः। यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः। अदण्डिता वा ये मिथ्या मर्त्या वा दण्डिता भुवि। तान् यमो दण्डयत्य् एव स हि वेद कृताकृतम्। नातिक्रमेद् यमं कश् चित् कर्म कृत्वेह मानुषः। राजा यमश् च कुर्वाते दण्डमात्रं तु शोभने। उभाभ्यां यमराजभ्यां दण्डितो ऽदण्डितो ऽपि वा। पश्चात् कर्मफलं भुङ्क्ते नरके मानुषेषु वा। नास्ति कर्मफलच्छेत्ता कश् चिल् लोकत्रये ऽपि च। उमा। इति ते कथितं सर्वं निर्विशङ्का भव प्रिये। किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः। पुनस् तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते। सर्वपापहरं चेति हयमेधं वदन्ति च। प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते। महेश्वरः। तस्मान् मे संशयो जातस् त्वं तं छेत्तुम् इहार्हसि। स्थाने संशयितं देवि शृणु तत् त्वं समाहिता। संशयो हि महान् एष पूर्वेषां च मनीषिणाम्। द्विधा तु क्रियते पापं सद्भिश् चासद्भिर् एव च। अभिसंधाय वा नित्यम् अन्यथा वा यदृच्छया। केवलं चाभिसंधाय संरम्भाच् च करोति यत्। कर्मणस् तस्य नाशस् तु न कथं चन विद्यते। अभिसंधिकृतस्येह नैव नाशो ऽस्ति कर्मणः। अश्वमेधसहस्रैर् वा प्रायश्चित्तशतैर् अपि। अन्यथा यत् कृतं पापं प्रमादाद् वा यदृच्छया। प्रायश्चित्ताश्वमेधाभ्यां शोधनात् तु प्रणश्यति। लोकसंव्यवहारार्थं प्रायश्चित्तादिर् इष्यते। विद्ध्य् एवं पापके कार्ये निर्विशङ्का भव प्रिये। उमा। इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि। भगवन् देवदेवेश मानुषाश् चेतरा अपि। म्रियन्ते बहुधा लोके कारणाकारणाद् अपि। महेश्वरः। केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि। ये पुरा मनुजा देवि कारणाकारणाद् अपि। यथासुभिर् वियोज्यन्ते प्राणिनः प्राणिनिर्दयैः। तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम्। विषदस् तु विषेणैव शस्त्रैः शस्त्रेण घातकः। एवम् एव यथा लोके मानुषा घ्नन्ति मानुषान्। कारणैर् एव ते तेन तथा स्वप्राणनाशनम्। प्राप्नुवन्ति पुनर् देवि नास्ति तत्र विचारणा। इति ते कथितं सर्वं पापकर्मफलं प्रिये। भूयस् तव समासेन कथयिष्यामि तच् छृणु। सत्यप्रमाणकरणं नित्यम् अव्यभिचारि च। यैः पुरा मनुजैर् देवि यस्मिन् काले यथा कृतम्। येनैव कारणेनापि कर्म यत् तु शुभाशुभम्। तस्मिन् काले तथा देवि तेनैव करणेन ते। प्राप्नुवन्ति नराः प्रेत्य निःसंदेहं शुभाशुभम्। इति सत्यं विजानीहि लोकतन्त्रविधिं प्रति। कर्म कृत्वा नरो भोक्ता स नास्ति दिवि वा भुवि। न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः। कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते। एतद् उद्देशतः प्रोक्तं कर्मपाकफलं प्रिये। यद् अन्यच् च मया नोक्तं यस्मिंस् ते कर्मसंग्रहे। बुद्धितर्केण तत् सर्वं तथा वेदितुम् अर्हसि। उमा। कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि। भगवन् सर्वलोकेश लोकपालनमस्कृत। प्रसादात् ते महादेव श्रुता मे कर्मणां गतिः। संगृहीतं च तत् सर्वं तत्त्वतो ऽमृतसंनिभम्। कर्मणा ग्रथितं सर्वम् इति वेद्मि शुभाशुभम्। गोवत्सवच् च जननीं निम्नं सलिलवत् तथा। कर्तारं स्वकृतं कर्म नित्यं तम् अनुधावति। कृतस्य कर्मणश् चेह न नाशो ऽस्तीति निश्चयः। अशुभस्य शुभस्यापि तद् अप्य् अवगतं मया। भूय एव महादेव वरद प्रीतिवर्धन। कर्मणां गतिम् आश्रित्य संशयान् मोक्तुम् अर्हसि। महेश्वरः। यत् ते विवक्षितं देवि गुह्यम् अप्य् असितेक्षणे। उमा। तत् सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे। एवं व्यवस्थिते लोके कर्मणा वृषभध्वज। कृत्वा तत् पुरुषः कर्म शुभं वा यदि वेतरत्। कर्मणः स्वकृतस्येह कदा भुङ्क्ते फलं पुनः। महेश्वरः। इह वा प्रेत्य वा देव तन् मे शंसितुम् अर्हसि। स्थाने संशयितं देवि तद् धि गुह्यतमं शृणु। त्वत्प्रियार्थं प्रवक्ष्यामि देवगुह्यं शुभानने। पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः। इहैव यत् कृतं पुंसां तत् परत्र फलिष्यति। एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते। देवानाम् असुराणां च अमरत्वात् तपोबलात्। एकेनैव शरीरेण भुज्यते कर्मणां फलम्। उमा। मानुषैर् न तथा देवि अन्तरं त्व् एतद् इष्यते। भगवन् भगनेत्रघ्न मानुषाणां विचेष्टितम्। सर्वम् आत्मकृतं चेति श्रुतं मे भगवन्मतम्। लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम्। सदैव ग्रहनक्षत्रं प्रायशः पर्युपासते। महेश्वरः। एतं मे संशयं देव तद्गतं छेत्तुम् अर्हसि। स्थाने संशयितं देवि शृणु तत्त्वविनिश्चयम्। नक्षत्राणि ग्रहाश् चैव शुभाशुभनिवेदकाः। मानवानां महाभागे न तु कर्मकराः स्वयम्। प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति। अनागतम् अतिक्रान्तं ज्योतिश्चक्रेण बोध्यते। किं तु तत्र शुभं कर्म सुग्रहैस् तन् निवेद्यते। दुष्कृतस्याशुभैर् एव समवायो भवेद् इति। तस्माद् धि ग्रहवैषम्ये वैषम्यं कुरुते जनः। ग्रहसाम्ये शुभं कुर्याज् जात्यां जात्यां पुराकृतम्। केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्। सर्वम् आत्मकृतं कर्म लोकवादो ग्रहा इति। पृथग् ग्रहाः पृथक् कर्ता कर्त्रा स्वं भुज्यते फलम्। उमा। इति ते कथितं सर्वं विशङ्कां जहि शोभने। भगवन् विविधं कर्म कृत्वा जन्तुः शुभाशुभम्। किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः। महेश्वरः। एष मे संशयो देव तं मे छेत्तुम् इहार्हसि। स्थाने संशयितं देवि तत् ते वक्ष्यामि तत्त्वतः। अशुभं पूर्वम् इत्य् आहुर् अपरे शुभम् इत्य् अपि। मिथ्या तद् उभयं प्रोक्तं केवलं तद् ब्रवीमि ते। मानुषे तु पदे कर्म युगपद् भुज्यते सदा। यथाकृतं यथायोगम् उभयं भुज्यते क्रमात्। भुञ्जानाश् चैव दृश्यन्ते क्रमशो भुवि मानवाः। ऋद्धिं हानिं सुखं दुःखम् अभयं भयम् एव च। दुःखान्य् अनुभवन्त्य् आढ्या दरिद्राश् च सुखानि च। यौगपद्याच् च भुञ्जाना दृश्यन्ते लोकसाक्षिकम्। नरके स्वर्गलोके च न तथा संस्थितिः प्रिये। नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा। शुभाशुभानाम् आधिक्यात् कर्मणा तत्र सेव्यते। निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत्। तत्रापि सुमहत् कृत्वा पूर्वम् अल्पं पुनः शुभे। उमा। एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि। भगवन् प्राणिनो लोके म्रियन्ते केन हेतुना। जाता जाता न तिष्ठन्ति तन् मे शंसितुम् अर्हसि। महेश्वरः। तद् अहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता। आत्मकर्मक्षयाद् देहं यथा मुञ्चन्ति तच् छृणु। शरीरात्मसमाहारो जन्तुर् इत्य् अभिधीयते। तत्रात्मानं नित्यम् आहुर् अनित्यं क्षेत्रम् उच्यते। तत् तु कालवशाल् लोके जीर्णं भवति शोभने। कालश् छिनत्ति चायूंषि दिनमासर्तुहायनैः। कालः पचति भूतानि कालेनाकुलितं जगत्। कालं नातिक्रमेरन् हि सदेवासुरमानवाः। यथाकाशे न तिष्ठेत द्रव्यं किं चिद् अचेतनम्। तथा धावति कालो ऽयं क्षणं किं चिन् न तिष्ठति। एवं कालेन संक्रान्तं शरीरं जर्जरीकृतम्। अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत्। नित्यस्यानित्यसंत्यागाल् लोके तन् मरणं विदुः। न च नित्यस्य जीवस्य विनाशो विद्यते शुभे। स पुनर् जायते ऽन्यत्र शरीरं नवम् आविशन्। उमा। एवं लोकगतिर् नित्यम् आदिप्रभृति वर्तते। भगवन् प्राणिनां बाला दृश्यन्ते मरणं गताः। अतिवृद्धाश् च जीवन्तो दृश्यन्ते चिरजीविनः। केवलं कालमरणं न प्रमाणं महेश्वर। महेश्वरः। तस्मान् मे संशयं ब्रूहि प्राणिनां जीवकारणम्। शृणु तत्कारणं देवि निर्णयस् त्व् एक एव सः। जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत्। जीर्णे कर्मणि संघातः स्वयम् एव विशीर्यते। पूर्वकर्मप्रमाणेन जीवितं मृत्युर् एव वा। यावत् पूर्वकृतं कर्म तावज् जीवति मानवः। तद्वत् कालवशाद् बाला म्रियन्ते भोगसंक्षयात्। जीवन्ति चिरवृद्धाश् च तथा कर्मप्रमाणतः। उमा। इति ते कथितं देवि निर्विशङ्का भव प्रिये। भगवन् केन वृत्तेन भवन्ति चिरजीविनः। महेश्वरः। अल्पायुषो नराः केन तन् मे शंसितुम् अर्हसि। शृणु तत् सर्वम् अखिलं गुह्यं पथ्यतरं नृणाम्। ये नरा वृत्तसंपन्ना भवन्ति चिरजीविनः। अहिंसा सत्यवचनम् अक्रोधः क्षान्तिर् आर्जवम्। गुरूणां नित्यशुश्रूषा वृद्धानाम् अपि पूजनम्। शौचं चाकार्यसंत्यागः सदा पथ्यस्य भोजनम्। एवमादि शुभं वृत्तं नराणां दीर्घजीविनाम्। तपसा ब्रह्मचर्येण रसायननिषेवणात्। उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः। स्वर्गे वा मानुषे वापि चिरं तिष्ठन्ति धार्मिकाः। अपरे पापकर्माणः प्रायशो ऽनृतवादिनः। हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः। नास्तिका घोरकर्माणः सततं मांसपानपाः। पापाचारा गुरुद्वेषाः कोपनाः कलहप्रियाः। एवम् एवाशुभाचारास् तिष्ठन्ति निरये चिरम्। तिर्यग्योनौ तथात्यन्तम् अल्पं तिष्ठन्ति मानुषे। तस्माद् अल्पायुषो मर्त्यास् तादृशाः संभवन्ति ते। अगम्यदेशगमनाद् अपथ्यानां च भोजनात्। आयुःक्षयो भवेन् नॄणाम् आयुःक्षयकरा हि ते। भवन्त्य् अल्पायुषस् तैस् तैर् अन्यथा चिरजीविनः। उमा। एतत् ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि। भगवन् देवदेवेश श्रुतं मे परमं हितम्। आत्मनो जातिसंबन्धं ब्रूहि स्त्रीपुरुषान्तरे। स्त्रीप्राणः पुरुषप्राण एकः स पृथग् एव वा। महेश्वरः। एष मे संशयो देव तं मे छेत्तुं त्वम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता। पुंस्त्वं स्त्रीत्वम् इति प्राणे स्थितिर् नास्ति शुभेक्षणे। निर्विकारी सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि। कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते। अकर्ता चाविकारी च नित्यश् च पुरुषः स्मृतः। स्त्रीशरीरकृतं कर्म स्त्रीभावेनोपभुज्यते। पुरुषेण कृतं कर्म पुरुषेणैव भुज्यते। एवं प्रसज्यते लोके भावैकत्वेन भूयशः। शरीरं कर्मनानात्वाद् दृश्यते विपरीतवत्। कृत्वा तु पौरुषं कर्म स्त्री पुमान् अपि जायते। उमा। स्त्रीभावयुक् पुमान् कृत्वा कर्मणा प्रमदा भवेत्। भगवन् सर्वलोकेश कर्मात्मा न करोति चेत्। महेश्वरः। को ऽन्यः कर्मकरस् तत्र देहे तद् वक्तुम् अर्हसि। शृणु भामिनि कर्तारम् आत्मा हि न च कर्मकृत्। प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः। शरीरं प्राणिनां लोके यथा पित्तकफानिलैः। व्याप्तम् एव त्रिभिर् दोषैस् तथा व्याप्तं गुणैस् त्रिभिः। सत्त्वं रजस् तम इति गुणास् त्व् एते शरीरिणः। प्रकाशात्मकम् एतेषां सत्त्वं सततम् इष्यते। रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम्। त्रिभिर् एतैर् गुणैः सर्वं लोके कर्म प्रवर्तते। सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः। एवमादि तथान्यच् च कर्म सात्त्विकम् इष्यते। दाक्ष्यं कर्मपरत्वं च लोभो भोगविधिं प्रति। कलत्रसङ्गो माधुर्यं नित्यम् ऐश्वर्यलुब्धता। रजसश् चोद्भवं चैतत् कर्म नानाविधं सदा। अनृतं चैव पारुष्यं श्रुतिविद्वेषता भृशम्। हिंसापरत्वं नास्तिक्यं निद्रालस्यभयानि च। तमसश् चोद्भवं चैतत् कर्म पापयुतं सदा। तस्माद् गुणमयः सर्वः कार्यारम्भः शुभाशुभः। तस्माद् आत्मानम् अव्यग्रं विद्ध्य् अकर्तारम् अव्ययम्। सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे। उमा। तिर्यग्योनौ च नरके तिष्ठेयुस् तामसा नराः। किमर्थम् आत्मा भेद्यः सन्देहे शस्त्रेण वा हते। महेश्वरः। स्वयं प्रणश्यते देही तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्। एतन् नैयायिकैश् चापि मुह्यते सूक्ष्मबुद्धिभिः। कर्मक्षये तु संप्राप्ते प्राणिनां देहधारिणाम्। उपद्रवो भवेद् देहे येन केनापि हेतुना। तन्निमित्तं शरीरी तु शरीरं प्राप्तसंक्षयम्। अपयाति परित्यज्य ततः कर्मवशेन सः। देहक्षते ऽपि नैवात्मा वेदनाभिर् न चाल्यते। तिष्ठेत् कर्मफलं यावद् व्रजेत् कर्मक्षये पुनः। आदिप्रभृति लोके ऽस्मिन्न् एवम् आत्मगतिः सदा। उमा। एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। भगवन् देवदेवेश कर्मणैव शुभाशुभम्। यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः। परेषां विप्रियं कुर्वन् यथा संप्राप्नुयाच् छुभम्। महेश्वरः। यद्य् एतद् अस्ति चेद् देव तन् मे शंसितुम् अर्हसि। तद् अप्य् अस्ति महाभागे अभिसंधिफलं नृणाम्। हितार्थं दुःखम् अन्येषां कृत्वाशुभम् अवाप्नुयात्। दण्डयन् भर्त्सयन् राजा प्रजाः पुण्यम् अवाप्नुयात्। गुरुः संतर्जयञ् शिष्यान् भर्ता भृत्यजनं स्वकम्। उन्मार्गप्रतिपन्नांश् च शास्ता धर्मफलं लभेत्। चिकित्सकश् च दुःखानि जनयन् हितम् आप्नुयात्। यज्ञार्थं पशुहिंसां च कुर्वन्न् अपि न हिंसकः। एवम् अन्ये सुमनसो हिंसकाः स्वर्गम् आप्नुयुः। एकस्मिन् निहते ऽभद्रे बहवः सुखम् आप्नुयुः। तस्मिन् हते भवेद् धर्मः कुत एव तु पापकम्। अभिसंधेर् अजिह्मत्वाच् छुद्धे धर्मस्य गौरवात्। उमा। एतत् कृत्वा तु पापिष्ठान् दोषान् न प्राप्नुयात् क्व चित्। भगवन् सर्वमर्त्यानां ज्ञानी भवति सत्तमः। किम् अवेक्ष्य तद् उत्पन्नं ज्ञानं तस्य फलं च यत्। नारदः। कृत्रिमं तत् स्वभावं वा तन् मे शंसितुम् अर्हसि। महेश्वरः। एतच् छ्रुत्वा महादेवो जगौ ज्ञानस्य संभवम्। स्थावरं जंगमं चेति जगद् द्विविधम् उच्यते। चतस्रो जातयस् तत्र प्रजानां क्रमशो यथा। तेषाम् उद्भेदजा वृक्षा लता वल्ल्यश् च वीरुधः। दंशयूकादयश् चान्ये स्वेदजाः कृमिजातयः। पक्षिणश् छिद्रकर्णाश् च प्राणिनस् त्व् अण्डजाः स्मृताः। मृगव्यालमनुष्यांश् च विद्धि तेषां जरायुजान्। एवं चतुर्विधां जातिम् आत्मा संश्रित्य तिष्ठति। स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्य् उद्भेदजेषु वै। शरीरस्पर्शरूपाभ्यां क्लेदजेष्व् अपि तिष्ठति। पञ्चभिश् चेन्द्रियद्वारैर् जीवन्त्य् अण्डजरायुजाः। तथा भूम्यम्बुसंयोगाद् भवन्त्य् उद्भेदजाः प्रिये। शीतोष्णयोस् तु संयोगाज् जायन्ते क्लेदजाः प्रिये। अण्डजाश् चापि संयोगाज् जायन्ते क्षेत्रबीजयोः। शुक्लशोणितसंयोगात् संभवन्ति जरायुजाः। जरायुजानां सर्वेषां मानुषं पदम् उत्तमम्। सकलैर् इन्द्रियैर् मर्त्याः संयुक्ता जल्पिनस् तथा। भयं रतिश् च चित्तं तद् विद्यते मृगपक्षिषु। धर्माधर्मौ च विज्ञानं नैव पक्षिमृगादिषु। बुद्धिः सत्त्वं धृतिर् लज्जा ज्ञानं विज्ञानम् एव च। ऊहापोहौ च मर्त्येषु गुणा नानाविधाः स्मृताः। मानुषं हि पदं तस्माद् विशिष्टम् इह लक्ष्यते। महता धर्मकार्येण प्राप्यते जन्म मानुषम्। अतः परं तमोत्पत्तिं शृणु देवि समाहिता। द्विविधं हि तमो लोके शार्वरं देहजं तथा। ज्योतिर्भिश् चाग्निना लोके नाशं गच्छति शार्वरम्। देहजं तु तमो घोरं तैः समस्तैर् न शाम्यति। तमसस् तस्य नाशार्थं नोपायम् अधिजग्मिवान्। तपश् चकार विपुलं लोककर्ता पितामहः। चतुरस् तु समुद्भूता वेदाः साङ्गाः सहोत्तराः। तांल् लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकारणात्। देहजं तत् तमो घोरम् अभूत् तेनैव नाशितम्। कार्याकार्यम् इदं चेति वाच्यावाच्यम् इदं त्व् इति। यदि चेन् न भवेल् लोके श्रुतं चारित्रदेशिकम्। पशुभिर् निर्विशेषं तु चेष्टन्ते मानुषास् त्व् इति। यज्ञादीनां समारम्भः श्रुतेनैव विधीयते। यज्ञस्य फलयोगेन देवलोकः समृध्यते। प्रीतियुक्ताः पुनर् देवा मानुषाणां फलन्त्य् उत। एवं नित्यं प्रवर्धेते रोदसी च परस्परम्। लोकसंधारणं तस्माच् छ्रुतम् इत्य् अवधारय। ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रये ऽपि च। सहजं तत् प्रधानं स्याद् अपरं कृत्रिमं श्रुतम्। उभयं यत्र संपन्नं भवेत् तत्र तु शोभनम्। संप्रगृह्य श्रुतं सर्वं कृतकृत्या भवन्त्य् उत। उपरीव च मर्त्यानां देववत् संप्रकाशते। कामं क्रोधं भयं दर्पम् अज्ञानं चैव बुद्धिजम्। तच् छ्रुतं नुदति क्षिप्रं यथा वायुर् बलाहकान्। अल्पमात्रं कृतो धर्मो भवेज् ज्ञानवतां महान्। महान् अपि कृतो धर्मो ह्य् अज्ञानान् निष्फलो भवेत्। परावरज्ञो भूतानां ज्ञानवांस् तत्त्वविद् भवेत्। उमा। एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे। भगवन् मानुषाः के चिज् जातिस्मरणसंयुताः। किमर्थं ते ऽभिजायन्ते जानन्तः पौर्वदेहिकम्। महेश्वरः। एतन् मे तत्त्वतो देव मानुषेषु वदस्व भोः। तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने। ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः। तेषां पौराणिको ऽभ्यासः कं चित् कालं स तिष्ठति। तस्माज् जातिस्मरा लोके जायन्ते बोधसंयुताः। तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति। उमा। परलोकस्य चास्तित्वे मूढानां कारणं च तत्। भगवन् मानुषाः के चिन् मृता भूत्वा हि संप्रति। निवर्तमाना दृश्यन्ते देहेष्व् एव पुनर् नराः। महेश्वरः। तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने। प्राणैर् वियोज्यमानानां बहुत्वात् प्राणिनां क्षये। तथैव नामसामान्याद् यमदूता नृणां भुवि। वहन्ति ते क्व चिन् मोहाद् अन्यांस् त इति यामिकाः। निर्विकारं हि तत् सर्वं यमो वेद कृताकृतम्। तस्मात् संयमिनीं प्राप्य यमेनैते विमोक्षिताः। पुनर् एव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः। उमा। स्वकर्मण्य् असमाप्ते तु न म्रियन्ते हि मानवाः। भगवन् सुप्तमात्राणां मर्त्यानां स्वप्नदर्शनम्। महेश्वरः। किं तत् स्वभावम् अन्यद् वा तन् मे शंसितुम् अर्हसि। सुप्तानां तु पुनश् चेष्टा स्वप्न इत्य् अभिधीयते। अनागतम् अतिक्रान्तं पश्यते संचरन् मनः। निमित्तं च भवेत् तस्मात् प्राणिनां स्वप्नदर्शनम्। उमा। एवं ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि। भगवन् सर्वभूतेश लोके कर्मक्रियापथे। दैवात् प्रवर्तते सर्वम् इति के चिद् व्यवस्थिताः। अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम्। पक्षभेदे द्विधा चास्मिन् संशयस्थं मनो मम। तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे। महेश्वरः। तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता। न दैवं कुरुते कर्म लोके देवि शुभाशुभम्। लक्ष्यते द्विविधं कर्म मानुषाणां शुभानने। पुराकृतं तयोर् एकम् ऐहिकं च परं तथा। अदृष्टं पौर्विकं कर्म तद् दैवम् इति लक्ष्यते। ऐहिकं दृष्टकरणं तन् मानुषम् इति स्मृतम्। मानुषं च क्रियामात्रं दैवात् संभवते फलम्। एवं तद् उभयं सर्वं मानुषं विद्यते नृषु। लौकिकं तत् प्रवक्ष्यामि दैवमानुषनिर्मितम्। कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा। रोपणं चैव लवनं यच् चान्यत् पौरुषं स्मृतम्। काले वृष्टिः सुवापश् च प्ररोहः पक्तिर् एव च। एवमादि तु यच् चान्यत् तद् दैवतम् इति स्मृतम्। प्रवापः पौरुषं कर्म सिद्धिर् दैवम् इति स्मृतम्। दैवाद् असिद्धिश् च भवेद् दुष्कृतं चास्ति पौरुषे। सुयत्नाल् लभते कीर्तिं दुर्यत्नाद् अयशस् तथा। उमा। एवं लोकगतिर् देवि आदिप्रभृति वर्तते। भगवन् सर्वभूतेश सुरासुरनमस्कृत। कथम् आत्मा सदा गर्भं संविशेत् कर्मकारणात्। महेश्वरः। तन् मे वद महादेव तद् धि गुह्यं परं मम। शृणु भामिनि तद् गुह्यं गुह्यानां परमं प्रिये। देवगुह्याद् अपि परम् आत्मगुह्यम् इति स्मृतम्। देवासुरास् तन् न विदुर् आत्मनो हि गतागतम्। अदृश्यो हि स देवानां शैघ्र्यात् सौक्ष्म्यान् निराश्रयात्। अतिमात्रातिमायानाम् आत्ममाया सदेष्यते। सो ऽयं चतुर्विधां जातिं संविशत्य् आत्ममायया। मैथुनं शोणितं बीजं दैवं चाप्य् अत्र कारणम्। बीजशोणितसंयोगो यदा संभवते शुभे। तदात्मा विशते गर्भम् एवम् अण्डजरायुजे। शीतोष्णयोस् तु संयोगे क्लेदजेष्व् अवतिष्ठति। बीजभूमिजलानां तु योगाद् उद्भेदजेषु च। एवं संयोगकाले तु आत्मा गर्भत्वम् एयिवान्। कललाज् जायते पिण्डं पिण्डात् पेश्यर्बुदं भवेत्। व्यक्तिभावं गते चैव कर्म त्व् आश्रयते क्रमात्। एवं स्त्रीपुरुषसंयोगं पौरुषं विद्धि भामिनि। अपत्यलाभो यच् चान्यत् तद् दैवम् इति संस्मृतम्। एवं विवर्धमानेन कर्मात्मा सह वर्तते। एवम् आत्मगतिं विद्धि यन् मां पृच्छसि सुव्रते। पञ्चभूतस्थितिश् चैव ज्योतिषाम् अयनं तथा। अबुद्धिगम्यं यन् मर्त्यैर् हेतुभिर् वा न विद्यते। तादृशं कारणं दैवं शुभं वा यदि वेतरत्। यादृशं चात्मना शक्यं तत् पौरुषम् इति स्मृतम्। केवलं फलनिष्पत्तिर् एकेन न तु शक्यते। पौरुषेण च दैवेन युगपद् ग्रथितं प्रिये। तयोः समाहितं कर्म शीतोष्णं युगपत् तथा। पौरुषं तु तयोः पूर्वम् आरब्धव्यं विजानता। आत्मना नैव शक्यं हि न तथा कीर्तिम् आप्नुयात्। खननान् मथनाल् लोके जलाग्निप्रापणं यथा। तथा पुरुषकारे तु दैवसंपत् समाहिता। नरस्याकुर्वतः कर्म दैवसंपन् न लभ्यते। तस्मात् सर्वसमारम्भो दैवमानुषनिर्मितः। असुरा राक्षसाश् चैव मन्यन्ते लोकनायकाः। न पश्यन्ते च ते पापाः केवलं मांसभक्षकाः। प्रच्छादितं हि तत् सर्वं गुह्यकामा हि देवताः। तद् अहं ते प्रवक्ष्यामि देवगुह्यं पुरातनम्। आदिकाले प्रजाः सर्वाः कृत्वा कर्म शुभाशुभम्। भुञ्जते पश्यमानास् ते वृत्तान्तं लोकयोर् द्वयोः। यथैवात्मकृतं विद्युर् देशान्तरगता नराः। विद्युस् तथैवान्तकाले स्वकृतं पौर्वदेहिकम्। एवं व्यवस्थिते लोके सर्वे धर्मपराभवन्। अचिरेणैव कालेन स्वर्गः संपूरितस् तदा। देवानाम् अपि संबाधं दृष्ट्वा ब्रह्माप्य् अचिन्तयत्। संचरन्ते कथं देवा मानुषाः प्रविशन्ति हि। इत्य् एवम् अनुचिन्त्यैष मानुषान् सममोहयत्। तदाप्रभृति ते मर्त्या न विदुस् ते पुरातनम्। कामक्रोधौ च तत्काले मानुषेषु न्यपातयत्। ताभ्याम् अभिहता मर्त्याः स्वर्गलोकं न लेभिरे। पुराकृतस्याविज्ञानात् कामक्रोधाभिपीडनात्। नैतद् अस्तीति मन्वाना विकारांश् चक्रिरे पुनः। अकार्यादीन् महादोषान् आरभन्तात्मकारणात्। विस्मृत्य धर्मकार्याणि परलोकभयं तथा। एवं व्यवस्थिते लोके कश्मलं समपद्यत। लोकानां चैव वेदानां क्षयायैव तदा प्रिये। नरकाः पूरिताश् चासन् प्राणिभिः पापकारिभिः। पुनर् एव तु तद् दृष्ट्वा लोककर्ता पितामहः। अचिन्तयत् तम् एवार्थं लोकानां हितकारणात्। समत्वेन कथं लोको वर्तेतेति मुहुर् मुहुः। चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये। उमा। अकरोज् ज्ञानदृश्यं तु परलोकं न चक्षुषा। भगवन् मृतमात्रस् तु यो ऽयं जात इति स्मृतः। तथैव दृश्यते जातस् तत्रात्मा तु कथं भवेत्। गर्भादाव् एव संविष्ट आत्मेति भगवन्मतम्। एष मे संशयो देव तन् मे छेत्तुं त्वम् अर्हसि। महेश्वरः। तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता। अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः। पुनर् अन्यच् छरीरं तदाविश्य भुवि जायते। तत् क्व चिन् नैव सर्वत्र दैवयोगं तु तद् भवेत्। सूतिकाया हितार्थं च मोहनार्थं च देहिनाम्। यमकर्मविधानं तद् इत्य् एवं विद्धि शोभने। कौक्षमात्रं तु नरकं भुक्त्वा के चित् प्रयान्ति हि। माया सा यामिका नाम यज् जन्ममरणान्तरे। इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। उमा। भगवन् सर्वभूतेश लोकनाथ वृषध्वज। नास्त्य् आत्मा कर्मभोक्तेति मृतो जन्तुर् न जायते। स्वभावाज् जायते सर्वं यथा वृक्षफलं तथा। यथोर्मयः संभवन्ति तथैव जगदाकृतिः। तपोदानादि यत् कर्म तत्रात्मा दृश्यते वृथा। नास्ति पौनर्भवं जन्म इति के चिद् व्यवस्थिताः। परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात्। तत् सर्वं नास्ति वास्तीति संशयस्थास् तथापरे। पक्षभेदान्तरे चास्मिंस् तत्त्वं मे वक्तुम् अर्हसि। नारदः। उक्तं भगवता यत् तु तत् तु लोकस्य संस्थितिः। प्रश्नम् एतं तु पृच्छन्त्यां रुद्राण्यां परिषत् तदा। महेश्वरः। कौतूहलयुता श्रोतुं समाहितमनाभवत्। नैतद् अस्ति महाभागे यद् वदन्तीह नास्तिकाः। एतद् एवाभिशस्तानां श्रुतिविद्वेषिणां मतम्। सर्वम् अर्थं श्रुतं दृष्टं यत् प्राग् उक्तं मया तव। तदाप्रभृति मर्त्यानां श्रुतम् आश्रित्य पण्डिताः। कामान् संछिन्द्य परिघान् धृत्या वै परमासिना। अभियान्त्य् एव ते स्वर्गं पश्यन्तः कर्मणां फलम्। एवं श्रद्धाफलं लोके परतः सुमहत् फलम्। बुद्धिः श्रद्धा च शुश्रूषा कारणानि हितैषिणाम्। तस्मात् स्वर्गाभिगन्तारः कति चित् त्व् अभवन् नराः। अन्ये करणहीनत्वान् नास्तिक्यं भावम् आश्रिताः। श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः। निष्क्रियाश् च निरन्नाद्याः पतन्त्य् एवाधमां गतिम्। नास्तीति वै पुनर्जन्म कवयो ऽप्य् अत्र मोहिताः। नाधिगच्छन्ति तन् नित्यं हेतुवादशतैर् अपि। एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः। किं पुनर् मानुषैर् लोके ज्ञातुकामैः स्वकर्मभिः। केवलं श्रद्धया देवि श्रुतिमात्रनिविष्टया। तद् अस्तीत्य् एव मन्तव्यं तथा हि तम् अवाप्नुयात्। वेदगुह्येषु चान्येषु हेतुर् देवि निरर्थकः। बधिरान्धवद् एवात्र वर्तितव्यं हितैषिणा। एतत् ते कथितं सर्वं देवगुह्यं प्रजाहितम्। त्वत्प्रीत्यर्थम् इदं गुह्यम् अवाच्यम् अपि भाषितम्। उमा। भगवन् सर्वभूतेश त्रिपुरार्दन शंकर। कीदृशा यमदण्डास् ते कीदृशाः परिचारकाः। कथं मृतास् ते गच्छन्ति प्राणिनो यमसादनम्। कीदृशं भवनं तस्य कथं दण्डयति प्रजाः। महेश्वरः। एतत् सर्वं महादेव श्रोतुम् इच्छाम्य् अहं प्रभो। शृणु कल्याणि तत् सर्वं यत् तद् देवि मनःप्रियम्। दक्षिणस्यां दिशि शुभे यमस्य सदनं महत्। विचित्रं रमणीयं च नानाभावसमन्वितम्। पितृभिः प्रेतसंघैश् च यमदूतैश् च संततम्। प्राणिसंघैः सुबहुभिः कर्मवश्यैस् तु पूरितम्। तत्रास्ते दण्डयन् नित्यं यमो लोकहिते रतः। मायया सततं वेत्ति प्राणिनां यच् छुभाशुभम्। मायया संहरंस् तत्र प्राणिसंघान् यतस् ततः। तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः। को हि मानुषमात्रस् तु वेत्ता तच् चरितं महत्। एवं हि शासतस् तस्य यमस्य परिचारकाः। गृहीत्वा संनयन्त्य् एव प्राणिनः क्षीणकर्मिणः। येन केनापदेशेन अपदेशस् तदुद्भवः। कर्मणा प्राणिनो लोक उत्तमाधममध्यमाः। यथार्हं तान् समादाय नयन्ति यमसादनम्। धार्मिकान् उत्तमान् विद्धि स्वर्गीयास् ते यथामराः। नृषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः। तिर्यङ्नरकगन्तारो ह्य् अधमास् ते नराधमाः। पन्थानस् त्रिविधा दृष्टा सर्वेषां गतिजीविनाम्। रमणीयं निराबाधं दुर्दर्शम् इति नामतः। रमणीयं तु सन्मार्गं पताकाध्वजसंकुलम्। धूपितं सिक्तसंमृष्टं पुष्पमालाभिसंकुलम्। मनोहरं सुखस्पर्शं गच्छताम् एव तद् भवेत्। निराबाधं यथा लोके सुप्रशस्तं तथा भवेत्। तृतीयं तत् तु दुर्दर्शं दुर्गन्धि तमसावृतम्। परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम्। कृमिकीटसमाकीर्णं गच्छताम् अतिदुर्गमम्। मार्गैर् एभिस् त्रिभिर् नित्यम् उत्तमाधममध्यमान्। संनयन्ति यथा काले तन् मे शृणु शुचिस्मिते। उत्तमान् अन्तकाले तु यमदूताः सुसंयताः। उमा। नयन्ति सुखम् आदाय रमणीयपथेन वै। भगवंस् तत्र चात्मानं त्यक्तदेहं निराश्रयम्। महेश्वरः। अदृश्यं कथम् आदाय संनयन्ति यमान्तिकम्। शृणु भामिनि तत् सर्वं त्रिविधं देहधारणम्। कर्मवश्यं भोगवश्यं दुःखवश्यम् इति प्रिये। मानुषं कर्मवश्यं स्यात् स्वर्गीयं भोगसाधनम्। तृतीयं यातनावश्यं शरीरं मायया कृतम्। यमलोके न चान्यत्र दृश्यते यातनायुतम्। शरीरैर् यातनावश्यैर् जीवम् आमुच्य भामिनि। नयन्ति यामिकास् तत्र प्राणिनो मायया मृतान्। मध्यमान् अथ वेषेण मध्यमेन पथा तथा। चण्डालवेषास् त्व् अधमान् गृहीत्वा भर्त्स्य तर्जनैः। आकर्षन्तस् तथा पाशैर् दुर्दर्शेन नयन्ति तान्। त्रिविधान् एवम् आदाय नयन्ति यमसादनम्। धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा। लोकपालं सभाध्यक्षं तथैव परिषद्गतम्। दर्शयन्ति महाभागे यामिकास् तान् निवेद्य ते। पूजयन् दण्डयन् कांश् चित् तेषां शृण्वञ् शुभाशुभम्। व्यापृतो बहुसाहस्रैस् तत्रास्ते सततं यमः। गतानां तु यमस् तेषाम् उत्तमान् अभिपूजया। अभिसंगम्य विधिवत् पृष्ट्वा स्वागतकौशलम्। प्रस्तुत्य सत्कथां तेषां लोकं संदिशते यमः। यमेनैवम् अनुज्ञाता यान्ति पश्चान् त्रिविष्टपम्। मध्यमानां यमस् तेषां श्रुत्वा कर्म यथातथम्। जायन्तां मानुषेष्व् एव इति संदिशते च तान्। अधमान् पापसंयुक्तान् यमो नावेक्षते ऽऽगतान्। यमस्य पुरुषा घोराश् चण्डालसमदर्शनाः। यातना यापयन्त्य् एतांल् लोकपालस्य शासनात्। छिन्दन्तश् च नुदन्तश् च प्रकर्षन्ते यतस् ततः। क्रोशतः पातयन्त्य् एतान् मिथो गर्तेष्व् अवाङ्मुखान्। संघातिन्यः शिलाश् चैषां पतन्ति शिरसि प्रिये। अयोमुखाः काकबला भक्षयन्ति सुदारुणाः। असिपत्रवने घोरे चारयन्ति तथापरान्। तीक्ष्णदंष्ट्रास् तथा श्वानः कांश् चित् तत्र दशन्ति वै। तत्र वैतरणी नाम नदी ग्राहसमाकुला। दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी। तस्यां संमज्जयन्त्य् एतांस् तृषितान् पाययन्ति तान्। आरोपयन्ति वै कांश् चित् तत्र कण्टकशल्मलीम्। यन्त्रचक्रेषु तिलवत् पीड्यन्ते तत्र के चन। अङ्गारेषु च दह्यन्ते तथा दुष्कृतकारिणः। कुम्भीपाकेषु पच्यन्ते भर्ज्यन्ते सघृतेषु वै। पाट्यन्ते तरुवच् छस्त्रैः पीड्यन्ते लोचनादिषु। भिद्यन्ते ऽथाङ्गशः शूलैस् तुद्यन्ते सूक्ष्मसूचिभिः। एवं त्वया कृतो दोषस् तदर्थं दण्डनं त्व् इदम्। वाचैवं घोषयन्ति स्म दण्ड्यमानान् समन्ततः। एवं ते यातनाः प्राप्य शरीरैर् यातनावशैः। प्रसहन्तश् च तद् दुःखं स्मरन्तः स्वापराधजम्। क्रोशन्तश् च रुदन्तश् च न मुच्यन्ते कथं चन। स्मरन्तस् तत्र तप्यन्ते पापम् आत्मकृतं फलम्। एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः। यातनाश् च तथा भुक्त्वा पच्यन्ते नरके पुनः। अपरे यातना भुक्त्वा मुच्यन्ते तत्र किल्बिषात्। पापदोषक्षयकरा यातना संस्मृता नृणाम्। उमा। बहुतप्तं यथा लोहं निर्मलं तत् तथा भवेत्। भगवंस् ते कथं तत्र दण्ड्यन्ते नरकेषु वै। महेश्वरः। कति ते निरया घोराः कीदृशास् ते महेश्वर। शृणु भामिनि तत् सर्वं पञ्चैते नरकाह्वयाः। भूमेर् अधस्ताद् विहिता घोरा दुष्कृतकर्मणाम्। प्रथमं रौरवं नाम शतयोजनम् आयतम्। तावत् प्रमाणं विस्तीर्णं तामसं पापपीडितम्। भृशं दुर्गन्धि परुषं कृमिभिर् दारुणैर् युतम्। अतिघोरम् अनिर्देश्यं प्रतिकूलं यतस् ततः। ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने। कृमिभिर् भक्ष्यमाणाश् च विस्रगन्धसमायुताः। एवंप्रमाणम् उद्विग्ना यान्ति तिष्ठन्ति तत्र ते। यातनाभ्यो दशगुणं नरके दुःखम् इष्यते। तत्र चात्यन्तिकं दुःखम् इति विद्धि शुभेक्षणे। क्रोशन्तश् च रुदन्तश् च वेदनास् तत्र भुञ्जते। भ्रमन्ति दुःखमोक्षार्थं त्राता कश् चिन् न विद्यते। दुःखस्यान्तरमात्रं तु द्वारं वा न च लभ्यते। महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये। तस्माद् द्विगुणितं विद्धि माने दुःखे च रौरवात्। तृतीयं नरकं तत्र कण्टकावनसंज्ञितम्। ततो द्विगुणितं तं च पूर्वाभ्यां दुःखमानयोः। महापातकसंयुक्ता घोरास् तस्मिन् विशन्ति हि। अग्निकुण्डम् इति ख्यातं चतुर्थं नरकं प्रिये। एतद् द्विगुणितं तस्माद् यथानिष्टसुखं तथा। तत्र दुःखं हि सुमहद् अमानुषम् इति स्मृतम्। भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः। पञ्चकष्टम् इति ख्यातं पञ्चमं नरकं प्रिये। तत्र दुःखम् अनिर्देश्यं महाघोरं यथातथम्। पञ्चेन्द्रियैर् असह्यत्वात् पञ्चकष्टम् इति स्मृतम्। भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः। अमानुषार्हं तद् दुःखं महाभूतैस् तु भुज्यते। अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम्। पञ्चकष्टेन हि समं नास्ति दुःखं तथाविधम्। दुःखस्यान्तम् इति प्राहुः पञ्चकष्टं सदा प्रिये। एवं ते तेषु तिष्ठन्ति प्राणिनो दुःखभागिनः। अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये। क्रोशन्तश् च रुदन्तश् च वेदनार्ता भृशातुराः। के चिद् भ्रमन्ति वेष्टन्ते के चिद् धावन्ति चातुराः। आधावन्ते निवार्यन्ते शूलहस्तैर् यतस् ततः। रुजार्दितास् तृषायुक्ताः प्राणिनः पापकारिणः। क्रोशन्तश् च नदन्तश् च न मुच्यन्ते कथं चन। कृमिभिर् भक्ष्यमाणाश् च वेदनार्तास् तृषान्विताः। संस्मरन्तः स्वकं कर्म कृतम् आत्मापराधजम्। शोचन्तस् तत्र तिष्ठन्ति यावत् पापक्षयं प्रिये। एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात्। उमा। भगवन् कतिकालं ते तिष्ठन्ते नरकेषु वै। महेश्वरः। एतद् वेदितुम् इच्छामि तन् मे ब्रूहि महेश्वर। शतं सहस्रं वर्षाणाम् आदिं कृत्वा हि जन्तवः। उमा। तिष्ठन्ति नरकावासाः प्रलयान्तम् इति स्थितिः। महेश्वरः। भगवंस् तेषु ते कुत्र तिष्ठन्तीति वद प्रभो। रौरवे शतसाहस्रं वर्षाणाम् इति संस्थितिः। मानुषघ्नाः कृतघ्नाश् च तथैवानृतवादिनः। जारचोराश् च नारी च सर्वतश् चापचारिणी। उत्कोचकाश् च पिशुना वर्णसंभेदकारकाः। तादृशाः परिपच्यन्ते रौरवे नरके नराः। देशघ्नाश् चैव राजघ्नाः पितृमातृविघातिनः। राजा चान्यायतः शास्ता साक्षित्वे ऽनृतवादिनः। बहुघ्नाश् च कुलघ्नाश् च भ्रूणघ्ना गुरुघातिनः। विश्वस्तघातकाश् चैवम् आत्मघ्नाः कोपकारणात्। पतिघ्न्यः प्रमदा मोहाद् यज्ञविघ्नकराश् च ये। द्वितीये द्विगुणं कालं पच्यन्ते तादृशाः नराः। महापातकयुक्तास् तु तृतीये दुःखम् आप्नुयुः। एतावन् मानुषसहं परम् अन्येषु लक्ष्यते। यक्षा विद्याधराश् चैव काद्रवेयाश् च किंनराः। गन्धर्वा भूतसंघाश् च तेषां पापयुता भृशम्। चतुर्थे परिपच्यन्ते यावद् युगविपर्ययः। सहन्तस् तादृशं घोरं पञ्चकष्टे च यादृशम्। तादृग्विधस्य दुःखस्य अयोग्यान् विद्धि मानुषान्। एवं ते नरकान् भुक्त्वा तत्र क्षपितकल्मषाः। नरकेभ्यो विमुक्ताश् च जायन्ते कृमिजातिषु। उद्भेदजेषु वा के चित् तत्रापि क्षीणकल्मषाः। पुनर् एव प्रजायन्ते मृगपक्षिषु शोभने। उमा। मृगपक्षिषु तद् भुक्त्वा लभन्ते मानुषं पदम्। नानाजातिषु केनैव जायन्ते पापकारिणः। महेश्वरः। तद् अहं ते प्रवक्ष्यामि यत् त्वम् इच्छसि भामिनि। सर्वथात्मा कर्मवशान् नानाजातिषु दृश्यते। यश् च मांसप्रियो नित्यं कङ्कगृध्रान् स संस्पृशेत्। सुरापः सततं मर्त्यः सूकरत्वं व्रजेद् ध्रुवम्। अभक्ष्यभक्षणो मर्त्यः काकजातिषु संस्पृशेत्। परोद्वेगकरो नित्यं व्यालजातिषु जायते। आत्मघ्नो यो नरः कोपात् प्रेतजातिषु तिष्ठति। पैशुन्यात् परिवादाच् च कुक्कुटत्वं समश्नुयात्। नास्तिकश् चैव यो मूर्खो मृगजातिं स गच्छति। हिंसाविहारस् तु नरः कृमिकीटेषु जायते। अत्र मानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत्। असत्यं परुषं वाक्यं यो वदेन् मत्स्यतां व्रजेत्। अगम्यागमनाच् चैव परदाराभिमर्शनात्। मूषिकत्वं व्रजेन् मर्त्यो नास्ति तत्र विचारणा। कृतघ्नो मित्रघाती च सृगालवृकजातिषु। गुरुघ्नः पितृघाती च स्थावरेष्व् अवतिष्ठति। वाचिकैः पक्षिमृगतां मानसैर् अन्यजातिताम्। शरीरजैः कर्मदोषैर् याति स्थावरतां नरः। एवमाद्य् अशुभं कृत्वा नरा निरयम् आश्रिताः। तांस् तान् भावान् प्रपद्यन्ते स्वकृतस्यैव कारणात्। एवं जातिषु निर्दग्धाः प्राणिनः पापकारिणः। कथं चित् पुनर् उत्पद्य लभन्ते मानुषं पदम्। बहुकृत्वो ऽतिसंतप्तं लोहं शुचितमं यथा। बहुदुःखाभिसंतप्तस् तथात्मा शुध्यते मलात्। उमा। तस्मात् सुदुर्लभं चेति विद्धि जन्म सुमानुषम्। भगवन् देवदेवेश शूलपाणे वृषध्वज। श्रुतं मे परमं गुह्यं प्रसादात् ते वरप्रद। श्रोतुं भूयो ऽहम् इच्छामि प्रजानां हितकारणात्। शुभाशुभम् इति प्रोक्तं कर्म सर्वं समासतः। तन् मे विस्तरशो ब्रूहि शुभाशुभविधिं प्रति। अशुभं कीदृशं कर्म प्राणिनो ऽधो निपातयेत्। शुभं कर्म कथं देव प्रजानाम् ऊर्ध्वतो नयेत्। एतन् मे वद देवेश श्रोतुकामास्मि कीर्तय। महेश्वरः। तद् अहं ते प्रवक्ष्यामि तत् सर्वं शृणु शोभने। सुकृतं दुष्कृतं चेति द्विविधः कर्मविस्तरः। तयोर् यद् दुष्कृतं कर्म तच् च संजायते त्रिधा। मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवम्। मनःपूर्वं तु वाक्कर्म वर्तते वाङ्मयं ततः। जायते वै क्रियायोगम् एवं चेष्टाक्रमं प्रिये। अभिद्रोहो ऽभ्यसूया च परार्थे चक्षुषा स्पृहा। शुभाशुभानां मर्त्यानां वर्तनं विपरीततः। धर्मकार्ये यद् अश्रद्धा पापकर्मणि हर्षणम्। एवमाद्य् अशुभं कर्म मनसा पापम् उच्यते। अनृतं यच् च परुषम् अबद्धवचनं कटु। असत्यं परिवादश् च पापम् एतत् तु वाङ्मयम्। अगम्यागमनं चैव परदारनिषेवणम्। वधबन्धपरिक्लेशैः परप्राणोपतापनम्। चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा। अभक्ष्यभक्षणं चैव व्यसनेष्व् अभिषङ्गता। दर्पात् स्तम्भाभिमानाच् च परेषाम् उपतापनम्। अकार्याणां च करणम् अशौचं पानम् एव च। दौःशील्यं क्षुद्रसंपर्कः साहाय्यं पापकर्मणि। अधर्म्यम् अयशस्यं च कार्यं तस्य निषेवणम्। एवमाद्य् अशुभं चान्यच् छरीरं पापम् उच्यते। मानसाद् वाङ्मयं पापं विशिष्टम् इति वक्ष्यते। वाङ्मयाद् अपि वै पापं शारीरं गण्यते बहु। एवं पापयुतं कर्म पातयेत् त्रिविधं नरम्। परोपतापजननम् अत्यन्तं पापकं स्मृतम्। द्विविधं तत् कृतं पापं कर्तारं नरकं नयेत्। पातकं त्व् अपि यत् कर्म करणाद् बुद्धिपूर्वकम्। सापदेशम् अवश्यं तु कर्तव्यम् इति यत् कृतम्। कथं चित् तत् कृतम् अपि कर्ता तेन न लिप्यते। उमा। अवश्यभावदेशेन प्रतिहन्येत कारणम्। भगवन् पापकं कर्म यथा कृत्वा न लिप्यते। महेश्वरः। अनृतं धर्मयुक्तं च तन् मे शंसितुम् अर्हसि। यो नरो ऽनपराधी सन्न् आत्मप्राणस्य रक्षणात्। शत्रुम् उद्यतशस्त्रं वा पूर्वं तेन हतो ऽपि वा। प्रतिगत्य नरो हिंस्यान् न स पापेन लिप्यते। चोराटविकसंत्रस्तास् तत्प्रतीकारचेष्टया। तान् प्रतिघ्नन् नरो हिंस्यान् न स पापेन लिप्यते। वृत्तिघ्नं तु नरो हिंस्यान् न स पापेन लिप्यते। ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात्। वधबन्धपरिक्लेशान् कुर्वन् पापात् प्रमुच्यते। दुर्भिक्षे चात्मवृत्त्यर्थम् एकायनगतस् तथा। अकार्यं वाप्य् अभक्ष्यं वा कृत्वा पापैर् न लिप्यते। व्याधितो रोगमोक्षार्थम् अभक्ष्येण न लिप्यते। अनृतं धर्मयुक्तं च दाक्षिण्यात् स्त्रीषु भाषितम्। आत्मप्राणभयाद् उक्तं मोक्षार्थं चाप्य् अधार्मिकात्। विवाहकरणे चैव लौकिकेनानृतं ब्रुवन्। संस्तम्भनार्थं त्रस्तानाम् अनृतेन न लिप्यते। विधिर् एष गृहस्थानां प्रायेणैवोपदिश्यते। अवाच्यं वाप्य् अकार्यं वा देशकालवशेन तु। बुद्धिपूर्वं नरः कुर्वंस् तत् प्रयोजनमात्रया। किं चिद् वा लिप्यते पापैर् अथ वा न च लिप्यते। उमा। एवं देवि विजानीहि नास्ति तत्र विचारणा। भगवन् पानदोषांश् च पेयापेयत्वकारणम्। महेश्वरः। एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद महेश्वर। हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते। पुरा सर्वे ऽभवन् मर्त्या बुद्धिमन्तो नयानुगाः। शुचयः सुभगाचाराः सर्वे सुमनसः प्रिये। एवंभूते तदा लोके प्रेष्यत्वं न परस्परम्। प्रेष्याभावान् मनुष्याणां कर्मारम्भो ननाश ह। उभयोर् लोकयोर् नाशं दृष्ट्वा कर्मक्षयात् प्रभुः। यज्ञकर्म कथं लोके वर्तेतेति पितामहः। आज्ञापयत् सुरान् देवि मोहयस्वेति मानुषान्। तमसः सारम् उद्धृत्य पानं बुद्धिप्रणाशनम्। न्यपातयन् मनुष्येषु पापदोषावहं प्रिये। तदाप्रभृति तत् पीत्वा मुमुहुर् मानुषा भुवि। कार्याकार्यम् अजानन्तो वाच्यावाच्यं गुणागुणम्। के चिद् धसन्ति तत् पीत्वा प्ररुदन्ति तथा परे। नृत्यन्ति मुदिताः के चिद् गायन्ति च शुभाशुभम्। कलहं कुर्वते ऽभीक्ष्णं प्रहरन्ति परस्परम्। के चिद् धावन्ति सहसा प्रस्खलन्ति पतन्ति च। अयुक्तं बहु भाषन्ते यत्रक्वचन शेरते। नग्ना विक्षिप्य गात्राणि नष्टसंज्ञा मृता इव। एवं बहुविधान् पापान् कुर्वन्ति हृतचेतसः। ये पिबन्ति महामोहं पानं पापयुता नराः। धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत्। तस्मान् नराः संभवन्ति निर्लज्जा निरपत्रपाः। बुद्धिसत्त्वैः परिक्षीणास् तेजोहीना मलान्विताः। पीत्वा पीत्वा तृषायुक्ताः पानपाः संभवन्ति च। पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः। पानार्थं कर्मवश्यास् ते संभवन्ति नराधमाः। पानकामास् तृषायोगाद् बुद्धिसत्त्वपरिक्षयात्। पानपानां प्रेष्यकराः पानपास् त्व् अभवन् भृशम्। तदाप्रभृति वै लोके नीचैः पानवशैर् नरैः। कारयन्ति च कर्माणि बुद्धिमन्तस् त्व् अपानपाः। कारुत्वम् अथ दासत्वं प्रेष्यताम् एत्य पानपाः। सर्वकर्मकराश् चासन् पशुवद् रज्जुबन्धिताः। पानपास् तु मदान्धत्वात् तदा बुद्धिप्रणाशनात्। कार्याकार्यस्य चाज्ञानाद् यथेष्टकरणात् स्वयम्। विदुषाम् अविधेयत्वात् पापम् एवाभिपद्यते। परिभूतो भवेल् लोके मद्यपो मित्रभेदकः। सर्वकालम् अशुद्धश् च सर्वभक्षस् तथाभवत्। विशिष्टैर् ज्ञातिभिर् द्वेष्यः सततं कलिभावनः। कटुकं परुषं घोरं वाक्यं वदति सर्वतः। गुरून् अतिवदेन् मत्तः परदारान् प्रधर्षयेत्। संविदं कुरुते शौण्डैर् न शृणोति हितं क्व चित्। एवं बहुविधा दोषाः पानपे सन्ति शोभने। केवलं नरकं यान्ति नास्ति तत्र विचारणा। तस्मात् तद् वर्जितं सद्भिः पानम् आत्महितैषिभिः। यदि पानं न वर्जेरन् सन्तश् चारित्रकारणात्। भवेद् एवं जगत् सर्वं निर्मर्यादं च निष्क्रियम्। तस्माद् बुद्धेर् हि रक्षार्थं सद्भिः पानं विवर्जितम्। इति ते दुष्कृतं सर्वं त्रिविधं कथितं प्रिये। महेश्वरः। विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते। प्रोच्यते तत् त्रिधा देवि सुकृत च समासतः। यद् औपरमिकं चैव सुकृतं निरुपद्रवम्। तथैव सोपकरणं तावता सुकृतं विदुः। निवृत्तिः पापकर्मभ्यस् तद् औपरमिकं प्रिये। मनोवाक्कायजा दोषाः शृणु मे वर्जनाच् छुभम्। त्रैविध्यदोषोपरमे यस् तु दोषव्यपेक्षया। स तु प्राप्नोति सकलं सर्वदुष्कृतवर्जनात्। व्रतवद् वर्जयेद् दोषान् युगपत् पृथग् एव वा। तथा धर्मम् अवाप्नोति दोषत्यागो हि दुष्करः। दोषसाकल्यसंत्यागान् मुनिर् भवति मानवः। सौकर्यं परधर्मस्य कार्यारम्भाद् ऋते ऽपि च। आत्मना स्थापनामात्राल् लभ्यते सुकृतं परम्। अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः। ये तादृशं न बुध्यन्ते आत्माधीनं च निर्व्ययम्। दुष्कृतत्यागमात्रेण पदम् ऊर्ध्वं हि लभ्यते। पापभीरुत्वमात्रेण दोषाणां परिवर्जनात्। सुशोभनं भवेद् देवि किम् उ धर्मव्यपेक्षया। इत्य् औपरमिकं देवि सुकृतं कथितं तव। श्रुताच् च वृद्धसंयोगाद् इन्द्रियाणां च निग्रहात्। संतोषाच् च धृतेश् चैव शक्यते दोषवर्जनम्। तद् एव यम इत्य् आहुर् दोषसंयमनं प्रिये। यमधर्मेण धर्मो ऽस्ति नान्यः शुभतरः शुभे। यमधर्मेण यतयः प्राप्नुवन्त्य् उत्तमां गतिम्। ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम्। सफलो दोषसंत्यागो दानाद् अपि शुभाद् अपि। तपो दानं महादेवि दोषम् अल्पं विनिर्दहेत्। सुकृतं यामिकं प्रोक्तं पथ्यं निरुपसाधनम्। सुखाभिसंधिर् लोकानां सत्यं शौचम् अथार्जवम्। व्रतोपवासः प्रीतिश् च ब्रह्मचर्यं दमः शमः। एवमादि शुभं कर्म सुकृतं नियमाश्रितम्। शृणु तेषां विशेषांश् च कीर्तयिष्यामि भामिनि। सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव। नास्ति सत्यात् परं दानं नास्ति सत्यात् परं तपः। यथा श्रुतं यथा दृष्टम् आत्मना यद् यथा कृतम्। तथा तस्याविकारेण वचनं सत्यलक्षणम्। यच् छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत्। नित्यम् एव प्रवक्तव्यं पारावर्यं विजानता। दीर्घायुश् च भवेत् सत्यात् कुलसंतानपालकः। लोकसंस्थितिपालश् च भवेत् सत्येन मानवः। उमा। महेश्वरः। कथं संधारयन् मर्त्यो व्रतं शुभम् अवाप्नुयात्। पूर्वम् उक्तं तु यत् पापं मनोवाक्कायकर्मभिः। व्रतवत् तस्य संत्यागस् तद् औपरमिकं व्रतम्। तेन धर्मम् अवाप्नोति व्रतवत् परिपालयन्। मङ्गलं शुभकर्माणि व्रतेनैव समाचरेत्। नरो धर्मम् अवाप्नोति शुभसंजोषणं व्रतम्। यद् यद् आत्मप्रियं नित्यं मनोवाक्कायकर्मभिः। व्रतवत् तस्य संत्यागस् तपोव्रतम् इति स्थितम्। त्याज्यं वा यदि वा जोष्यम् अव्रतेन वृथा चरन्। तथा फलं न लभते तस्माद् धर्मं व्रताच् चरेत्। शुद्धकायो नरो भूत्वा स्नात्वा तीर्थे यथाविधि। पञ्च भूतानि चन्द्रार्कौ संध्ये धर्मं यमं पितॄन्। आत्मनैवं तथात्मानं निवेद्य व्रतवच् चरेत्। व्रतमा मरणाद् वापि कालच्छेदेन वा चरेत्। शाकादिषु व्रतं कुर्यात् तथा पुष्पफलादिषु। ब्रह्मचर्यं व्रतं कुर्याद् उपवासं तथा व्रतम्। एवम् अन्येषु बहुषु व्रतं कार्यं हितैषिणा। व्रतभङ्गो यथा न स्याद् रक्षितव्यं तथा बुधैः। व्रतभङ्गो महत् पापम् इति विद्धि शुभेक्षणे। औषधार्थं यद् अज्ञानाद् गुरूणां वचनाद् अपि। अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते। व्रतापवर्गकालेषु देवब्राह्मणपूजनम्। उमा। नरेण तु यथाशक्ति कार्यं सिद्धिं तथाप्नुयात्। महेश्वरः। कथं शौचविधिस् तत्र तन् मे शंसितुम् अर्हसि। बाह्यम् आभ्यन्तरं चेति द्विविधं शौचम् इष्यते। मानसं सुकृतं यत् तच् छौचम् आभ्यन्तरं स्मृतम्। सदाहारविशुद्धिश् च कायप्रक्षालनं च यत्। बाह्यं शौचं भवेद् एतत् तथैवाचमनादि च। मृच् चैव शुद्धदेशस्था गोशकृन्मूत्रम् एव च। द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च। एतैः संमार्जयेत् कायम् अम्भसा च पुनः पुनः। अक्षोभ्यं यत् प्रकीर्णं च नित्यस्रोतश् च यज् जलम्। प्रायशस् तादृशे मज्जेद् अन्यथा चापि वर्जयेत्। त्रिर् आचमनकं श्रेष्ठं निष्फेनैर् निर्मलैर् जलैः। तथा विण्मूत्रयोः शुद्धिर् अद्भिर् बहुमृदा भवेत्। तदैव जलसंशुद्धिर् यत् संशुद्धं तु संस्पृशेत्। शकृता भूमिशुद्धिः स्याल् लोहानां भस्मना स्मृता। तक्षणं घर्षणं चैव दारवाणां विशोधनम्। दहनं मृन्मयानां च मर्त्यानां कृच्छ्रधारणम्। शेषाणां देवि सर्वेषाम् आतपेन जलेन च। ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत्। अदुष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते। एवम् आपदि संशुद्धिर् एवं शौचं विधीयते। उमा। महेश्वरः। आहारशुद्धिस् तु कथं तन् मे वद महाप्रभो। अमांसमद्यम् अक्लेद्यम् अपर्युषितम् एव च। अतिकट्वम्ललवणैर् हीनं च शुभगन्धि च। कृमिकीटमलैर् हीनं संभृतं शुद्धभाजने। एवंविधं सदाहारं देवब्राह्मणसत्कृतम्। शुद्धम् इत्य् एव विज्ञेयम् अन्यथा त्व् अशुभं भवेत्। ग्राम्याद् आरण्यकैः सिद्धं शुद्धम् इत्य् अवधारय। अतिमात्रगृहीतात् तु अल्पदत्तं भवेच् छुचि। यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम्। उमा। इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि। भक्षयन्त्य् अपरे मांसं वर्जयन्त्य् अपरे भुवि। महेश्वरः। तन् मे वद महादेव भक्ष्याभक्ष्यस्य कारणम्। मांसस्य भक्षणे दोषो यश् चास्याभक्षणे गुणः। तद् अहं कीर्तयिष्यामि तन् निबोध यथातथम्। इष्टं दत्तम् अधीतं च क्रतवश् च सदक्षिणाः। अमांसभक्षणस्यैते कलां नार्हन्ति षोडशीम्। आत्मार्थं यः परप्राणान् हिंस्यात् स्वादुफलेप्सया। व्यालगृध्रसृगालैश् च राक्षसैश् च समस् तु सः। यो वृथानित्यमांसाशी स पुमान् अधमो भवेत्। ततः कष्टतरं नास्ति स्वयम् आहृत्य भक्षणात्। स्वमांसं परमांसेन यो वर्धयितुम् इच्छति। उद्विग्नवासं लभते यत्र यत्रोपजायते। संछेदनं स्वमांसस्य यथा संजनयेद् रुजम्। तथैव परमांसे ऽपि वेदितव्यं विजानता। यस् तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत्। स स्वर्गे विपुलं स्थानं लभते नात्र संशयः। यस् तु वर्षशतं पूर्णं तप्यते परमं तपः। यश् चापि वर्जयेन् मांसं समम् एतन् न वा समम्। न हि प्राणैः प्रियतमं लोके किं चन विद्यते। तस्मात् प्राणिदया कार्या यथात्मनि तथा परे। सर्वे यज्ञा न तत् कुर्युः सर्वे वेदाश् च भामिनि। यन् मांसरसम् आस्वाद्य पुनर् मांसानि वर्जयेत्। धर्म्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। इत्य् एवं मुनयः प्राहुर् मांसस्याभक्षणे गुणान्। एवं बहुगुणं देवि नृणां मांसविवर्जनम्। न शक्नुयाद् यदा जीवंस् त्यक्तुं मांसं कथं चन। त्रिपुण्यमासमात्रं वा वर्जनीयं विशेषतः। न शक्नुयाद् अपि तथा कौमुदीमासम् एव च। जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु। वर्जनीयं तथा मांसं परत्र हितम् इच्छता। अशक्तः कारणान् मर्त्यो भोक्तुम् इच्छेद् विधिं शृणु। अनेन विधिना खादन् कल्मषेण न लिप्यते। सूनायां च गतप्राणं क्रीत्वा न्यायेन भामिनि। ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितम् इच्छता। भैषज्यकारणाद् व्याधौ खादन् पापैर् न लिप्यते। पितृशेषं तथैवाश्नन् मांसं नाशुभम् ऋच्छति। उमा। महेश्वरः। गुरुपूजा कथं देव क्रियते धर्मकाङ्क्षिभिः। गुरुपूजां प्रवक्ष्यामि यथावत् तव शोभने। कृतज्ञानां परो धर्म इति वेदानुशासनम्। तस्मात् स्वगुरवः पूज्यास् ते हि पूर्वोपकारिणः। गुरूणां च गरीयांसस् त्रयो लोकेषु पूजिताः। उपाध्यायः पिता माता संपूज्यास् ते विशेषतः। ये पितृभ्रातरो ज्येष्ठा ये च तस्यानुजास् तथा। पितुः पिता च सर्वे ते पूजनीया यथा पिता। मातुर् या भगिनी ज्येष्ठा मातुर् या च यवीयसी। मातामही च धात्री च सर्वास् ता मातरः स्मृताः। उपाध्यायस्य यः पुत्रो यश् च तस्य भवेद् गुरुः। ऋत्विग् गुरुः पिता चेति गुरवः परिकीर्तिताः। ज्येष्ठो भ्राता नरेन्द्रश् च मातुलः श्वशुरस् तथा। भयत्राता च भर्ता च गुरवस् ते प्रकीर्तिताः। इत्य् एष कथितः स्वर्ग्यो गुरूणां सर्वसंग्रहः। अनुवृत्तिं च पूजां च तेषाम् अपि निबोध मे। अवध्यौ मातृपितरौ उपाध्यायस् तथैव च। कथं चिन् नावमन्तव्या नरेण हितम् इच्छता। येन प्रीणाति च पिता तेन प्रीतः प्रजापतिः। येन प्रीणाति चेन् माता प्रीताः स्युर् देवमातरः। येन प्रीणात्य् उपाध्यायो ब्रह्मा तेनाभिपूजितः। अप्रीतेषु पुनस् तेषु नरो नरकम् एति हि। गुरूणां वैरनिर्बन्धो न कर्तव्यः कथं चन। नरकं स गुरुप्रीत्या मनसापि न गच्छति। न ब्रूयाद् विप्रियं तेषाम् अनिष्टे न प्रवर्तयेत्। विगृह्य न वदेत् तेषां समीपे स्पर्धया क्व चित्। यद् यद् इच्छन्ति ते कर्तुम् अस्वतन्त्रस् तद् आचरेत्। वेदानुशासनसमं गुरुशासनम् इष्यते। कलहांश् च विवादांश् च गुरुभिः सह वर्जयेत्। कैतवं परिहासांश् च मन्युकामाश्रयाः कथाः। गुरूणां यो ऽनहंवादी करोत्य् आज्ञाम् अतन्द्रितः। न तस्मात् सर्वमर्त्येषु विद्यते पुण्यकृत्तमः। असूयाम् अपवादांश् च गुरूणां परिवर्जयेत्। तेषां प्रियहितान्वेषी भूत्वा परिचरेत् सदा। न तद् यज्ञफलं कुर्यात् तपो वाचरितं महत्। यत् कुर्यात् पुरुषस्येह गुरुपूजा सदा कृता। अनुवृत्तेर् विना धर्मो नास्ति सर्वाश्रमेष्व् अपि। तस्मात् समादृतः काले गुरुवृत्तिं समाचरेत्। स्वम् अर्थं स्वशरीरं च गुर्वर्थं संत्यजेद् बुधः। विवादं धनहेतोर् वा मोहाद् वा तैर् न रोचयेत्। ब्रह्मचर्यम् अहिंसा च दानानि विविधानि च। गुरुभिः प्रतिषिद्धस्य सर्वम् एतद् अपार्थकम्। उपाध्यायं पितरं मातरं च। ये ऽभिद्रुह्युर् मनसा कर्मणा वा। तेषां पापं भ्रूणहत्याविशिष्टं। तेभ्यो नान्यः पापकृद् अस्ति लोके। उमा। महेश्वरः। उपवासविधिं तत्र तन् मे शंसितुम् अर्हसि। शरीरमलकार्श्यार्थम् इन्द्रियोच्छोषणाय च। एकभुक्तोपवासैस् तु धारयन्ते व्रतं नराः। लभन्ते विपुलं धर्मं तथाहारपरिक्षयात्। बहूनाम् उपरोधं तु न कुर्याद् आत्मकारणात्। जीवोपघातं च तथा धान्यं संजीव्यम् इष्यते। तस्मात् पुण्यं लभेन् मर्त्यः स्वयम् आहारकर्शनात्। तद् गृहस्थैर् यथाशक्ति कर्तव्यम् इति निश्चयः। उपवासार्दिते काय आपदर्थं पयो जलम्। उमा। भुञ्जन् न व्रतघाती स्याद् ब्राह्मणान् अनुमान्य च। ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता। महेश्वरः। तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता। ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः। केवलं ब्रह्मचर्येण प्राप्यते परमं पदम्। संकल्पाद् दर्शनाच् चैव तद् युक्तवचनाद् अपि। संस्पर्शाद् अथ संयोगात् पञ्चधा रक्षितं परम्। व्रतवद् धारितं चैव ब्रह्मचर्यम् अकल्मषम्। नित्यसंरक्षणं तस्य नैष्ठिकानां विधीयते। तद् इष्यते गृहस्थानां कालम् उद्दिश्य कारणम्। जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु। देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत्। ब्रह्मचर्यव्रतफलं लभेद् दारव्रती सदा। शौचम् आयुस् तथारोग्यं लभ्यते ब्रह्मचारिभिः। उमा। तीर्थचर्या कथं देव क्रियते धर्मकाङ्क्षिभिः। महेश्वरः। कानि तीर्थानि लोकेश तन् मे शंसितुम् अर्हसि। हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये। पावनार्थं च शौचार्थं ब्रह्मणा निर्मिताः पुरा। यास् तु लोके महानद्यस् ताः सर्वास् तीर्थसंज्ञिताः। तासां प्राक् स्रोतसः श्रेष्ठाः संगमश् च परस्परम्। तासां सागरसंयोगो वरिष्ठश् चेति विद्यते। तासाम् उभयतः कूलं यत्र तत्र महर्षिभिः। देवैर् वा सेवितं देवि तत् तीर्थं परमं स्मृतम्। समुद्रश् च महातीर्थं पावनं परमं शुभम्। तस्य कूलगतास् तीर्था महद्भिश् च समाप्लुताः। स्रोतसां पर्वतानां च जोषितानां महर्षिभिः। अपि कूपतटाकं वा मुनिभिः सेवितं प्रिये। तत् तु तीर्थम् इति ज्ञेयं प्रभावात् तु तपस्विनाम्। तदाप्रभृति तीर्थत्वं लेभे लोकहिताय वै। एवं तीर्थोद्भवं विद्धि तस्य स्नानविधिं शृणु। तन्मना व्रतभूयिष्ठो गत्वा तीर्थाभिकाङ्क्षया। उपवासत्रयं कुर्याद् एकं वा नियमान्वितः। पुण्यमासयुते काले पौर्णमास्यां यथाविधि। बहिर् एव शुचिर् भूत्वा तत् तीर्थं तन्मनाविशेत्। त्रिर् आप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम्। अभ्यर्च्य देवायतनं ततः प्रायाद् यथागतम्। एतद् विधानं सर्वेषां तीर्थं तीर्थं प्रति प्रिये। समीपतीर्थस्नानात् तु दूरतीर्थं सुपूजितम्। आदिप्रभृति शुद्धस्य तीर्थस्नानं शुभं भवेत्। तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्। एवं पुण्येषु मासेषु तीर्थस्नानं शुभं भवेत्। महेश्वरः। एतन् नैयमिकं सर्वं सुकृतं कथितं तव। दानानि देवपूजां च पितृपूजां तथैव च। अन्यानि धर्मकार्याणि सुकृतं सोपसाधनम्। तत् सर्वं शृणु कल्याणि प्रजानां हितकाम्यया। चेतनाचेतनैर् युक्तं यल् लोके विद्यते धनम्। उमा। एतद् अर्थम् अवाप्नोति नरः प्रेत्य शुभेक्षणे। लोकसिद्धं तु यद् द्रव्यं सर्वसाधारणं भवेत्। तद् ददत् सर्वसामान्यं कथं धर्मं लभेन् नरः। महेश्वरः। एवं साधारणे द्रव्ये कस्य स्वत्वं कथं भवेत्। लोके भूतमयं द्रव्यं सर्वसाधारणं तथा। यथैव तद् ददन् मर्त्यो भवेत् पुण्यं हि तच् छृणु। दाता प्रतिग्रहीता च देयं सोपक्रमं तथा। देशकालौ च यत् त्व् एतद् दानं षड्गुणम् उच्यते। तेषां संपद्विशेषांश् च कीर्त्यमानान् निबोध मे। आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः। सत्यवादी जितक्रोधस् त्व् अलुब्धो नानसूयकः। श्रद्धावान् आस्तिकश् चैव एवं दाता प्रशस्यते। शुद्धो दान्तो जितक्रोधस् तथोदितकुलोद्भवः। श्रुतचारित्रसंपन्नस् तथा बहुकलत्रवान्। पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान्। एतान् पात्रगुणान् विद्धि तादृक् पात्रं प्रशस्यते। पितृदेवाग्निकार्येषु तस्य दत्तं महत् फलम्। यद् यद् अर्हति यो लोके पात्रं तस्य भवेच् च सः। मुच्येतापदम् आपन्नो येन पात्रं स तस्य तु। अन्नस्य क्षुधितः पात्रं तृषितस् तु जलस्य वै। एवं पात्रेषु नानात्वम् इष्यते पुरुषं प्रति। जारश् चोरश् च षण्डश् च हिंस्रः समयभेदकः। लोकविघ्नकराश् चान्ये वर्जिताः सर्वशः प्रिये। परोपघाताद् यद् द्रव्यं चौर्याद् वा लभ्यते नृभिः। निन्दया लभ्यते यच् च धूर्तभावेन वा तथा। अधर्माद् अथ मोहाद् वा बहूनाम् उपरोधनात्। लभ्यते यद् धनं देवि तद् अन्यद् वा हृतं भवेत्। तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि। तस्मान् न्यायागतेनैव दातव्यं शुभम् इच्छता। यद् यद् आत्मप्रियं नित्यं तत् तद् देयम् इति स्थितिः। उपक्रमम् इमं विद्धि दातॄणां परमं हितम्। पात्रभूतं तु दूरस्थम् अभिगम्य प्रसाद्य च। दाता दानं तथा दद्याद् यथा तुष्येत तेन सः। एष दानविधिः श्रेष्ठः समाहूय तु मध्यमः। पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च। शौचार्चनसमायुक्तं दातव्यं श्रद्धया प्रिये। याचितॄणां तु परमम् आभिमुख्यपुरस्कृतम्। संमानपूर्वं संगृह्य दातव्यं देशकालयोः। अपात्रेभ्यो ऽपि चान्येभ्यो दातव्यं भूतिम् इच्छता। पात्राणि संपरीक्ष्यैव दाता वै दानमात्रयोः। अतिशक्त्या परं दानं यथाशक्ति तु मध्यमम्। तृतीयं चापरं दानं नानुरूपम् इवात्मनः। यथासंभावितं पूर्वं दातव्यं तत् तथैव च। पुण्यक्षेत्रेषु यद् दत्तं पुण्यकालेषु वा तथा। उमा। तच् छोभनतरं विद्धि गौरवाद् देशकालयोः। यश् च पुण्यतमो देशस् तथा कालश् च शंस मे। महेश्वरः। कुरुक्षेत्रं महानद्यो यच् च देवर्षिसेवितम्। गिरिर् वरश् च तीर्थानि देशभागेन पूजिताः। ग्रहीतुर् ईप्सितो यश् च तत्र दत्तं महत् फलम्। शरद्वसन्तकालश् च पुण्यमासस् तथैव च। शुक्लपक्षश् च पक्षाणां पौर्णमासी च पर्वसु। पितृदैवतनक्षत्रं निर्मला दिवसास् तथा। तच् छोभनतरं विद्धि चन्द्रसूर्यग्रहं तथा। प्रतिग्रहीतुर् यः कालो मनसा कीर्तितः शुभे। एवमादिषु कालेषु दत्तं दानं महद् भवेत्। दाता देयं च पात्रं च उपक्रमयुता क्रिया। देशः कालश् च इत्य् एषां संपच्छुद्धिः प्रकीर्तिता। यत्रैव युगपत् संपत् तत्र शुद्धिर् महद् भवेत्। अत्यल्पम् अपि यद् दानम् एभिः षड्भिर् गुणैर् युतम्। भूत्वानन्तं नयेत् स्वर्गं दातारं दोषवर्जितम्। सुमहद् वापि यद् दानं गुणैर् एभिर् विनाकृतम्। उमा। अत्यल्पफलनिर्योगम् अफलं वा भवेद् धि तत्। एवं गुणयुतं दानं दत्तं त्व् अफलतां व्रजेत्। महेश्वरः। तद् अस्ति चेन् महादेव तन् मे शंसितुम् अर्हसि। तद् अप्य् अस्ति महाभागे नराणां भवदोषतः। कृत्वा तु धर्मं विधिवत् पश्चात्तापं करोति चेत्। श्लाघया वा यदि ब्रूयाद् वृथा संसदि यत् कृतम्। प्रकल्पयेच् च मनसा तत्फलं प्रेत्यभावतः। धर्मकार्यं कृतं यच् च सततं फलकाङ्क्षया। एवं कृतं वा दत्तं वा परत्र विफलं भवेत्। एते दोषा विवर्ज्याश् च दातृभिः पुण्यकाङ्क्षिभिः। सनातनम् इदं वृत्तं सद्भिर् आचरितं तथा। अनुग्रहः परेषां तु गृहस्थानाम् ऋणं हि तत्। इत्य् एवं मन आवेश्य दातव्यं सततं बुधैः। एवम् एव कृतं नित्यं सुकृतं तद् भवेन् महत्। उमा। सर्वसाधारणं द्रव्यम् एवं दत्त्वा महत् फलम्। भगवन् कानि देयानि धर्मम् उद्दिश्य मानवैः। महेश्वरः। तान्य् अहं श्रोतुम् इच्छामि तन् मे शंसितुम् अर्हसि। अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये। अन्नं प्रतिश्रयो दीपः पानीयं तृणम् इन्धनम्। स्नेहो गन्धश् च भैषज्यं तिलाश् च लवणं तथा। एवमादि तथान्यच् च दानम् आजस्रम् उच्यते। अजस्रदानात् सततम् आजस्रम् इति निश्चितम्। सामान्यं सर्ववर्णानां दानं शृणु समाहिता। अन्नं प्राणा मनुष्याणाम् अन्नदः प्राणदो भवेत्। तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः। ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् ईप्सितम्। निदधाति निधिं श्रेष्ठं सो ऽनन्तं पारलौकिकम्। श्रान्तम् अध्वपरिश्रान्तम् अतिथिं गृहम् आगतम्। अर्चयीत प्रयत्नेन स हि यज्ञो वरः स्मृतः। कृत्वा तु पापकं कर्म यो दद्याद् अन्नम् अर्थिनाम्। ब्राह्मणानां विशेषेण सो ऽपहन्ति स्वकं तमः। पितरस् तस्य नन्दन्ति सुवृष्ट्या कर्षका इव। पुत्रो वा यस्य पौत्रो वा श्रोत्रियान् भोजयिष्यति। अपि चण्डालशूद्राणाम् अन्नदानान् न गर्ह्यते। तस्मात् सर्वप्रयत्नेन दद्याद् अन्नम् अमत्सरः। कलत्रं पीडयित्वापि पोषयेद् अतिथीन् सदा। जन्मापि मानुषे लोके तदर्थं हि विधीयते। अन्नदानाच् च ये लोकास् तान् प्रवक्ष्याम्य् अनिन्दिते। भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्। अनेकशतभौमानि सान्तर्जलवनानि च। वैडूर्यार्चिःप्रकाशानि रुक्मरूप्यनिभानि च। नानासंस्थानरूपाणि नानारत्नमयानि च। चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। तरुणादित्यवर्णानि स्थावराणि चराणि च। यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च। सर्वकामफलाश् चात्र वृक्षा भवनसंस्थिताः। वाप्यो बह्व्यश् च कूपाश् च दीर्घिकाश् च सहस्रशः। अरुजानि विशोकानि नित्यानि विविधानि च। भवनानि विविक्तानि प्राणदानां त्रिविष्टपे। विवस्वतश् च सोमस्य ब्रह्मणश् च प्रजापतेः। विशन्ति लोकांस् ते नित्यं जगत्य् अन्नोदकप्रदाः। तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः। जायन्ते मानुषे लोके सर्वकल्याणसंयुताः। बलसंहननोपेता नीरोगाश् चिरजीविनः। कुलीना मतिमन्तश् च भवन्त्य् अन्नप्रदा नराः। तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता। सर्वकालं च सर्वस्य सर्वत्र च सदैव च। सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत्। तस्मात् तद् वर्णयिष्यामि यथावद् अनुपूर्वशः। अपि पापं कृतं क्रूरं दत्तं रुक्मं प्रणाशयेत्। सुवर्णं ये प्रयच्छन्ति श्रोत्रियेभ्यः सुचेतसः। देवतास् ते तर्पयन्ति समस्ता इति वैदिकम्। अग्निर् हि देवताः सर्वाः सुवर्णं चाग्निर् उच्यते। तस्मात् सुवर्णदानेन दत्ताः स्युः सर्वदेवताः। अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम्। तस्मात् सुवर्णदातारः सर्वान् कामान् अवाप्नुयुः। आदित्यस्य हुताशस्य लोकान् नानाविधाञ् शुभान्। काञ्चनं संप्रदायाशु प्रविशन्ति न संशयः। अलंकारकृतं चापि केवलात् प्रविशिष्यते। सौवर्णैर् ब्राह्मणान् काले तैर् अलंकृत्य भोजयेत्। एतत् परमकं दानं दत्त्वासौ वर्णम् अद्भुतम्। द्युतिं मेधां वपुः कीर्तिं पुनर् जाते लभेद् ध्रुवम्। तस्मात् स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः। न ह्य् एतस्मात् परं लोकेष्व् अन्यत् पावनम् उच्यते। अत ऊर्ध्वं प्रवक्ष्यामि गवां दानम् अनिन्दिते। न हि गोभ्यः परं दानं विद्यते जगति प्रिये। लोकान् सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा। वृत्त्यर्थं सर्वभूतानां तस्मात् ता मातरः स्मृताः। लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता। मय्य् आयत्ताः सोमविष्यन्दभूताः। सौम्याः पुण्याः कामदाः प्राणदाश् च। तस्मात् पूज्याः पुण्यकामैर् मनुष्यैः। धेनुं हि दत्त्वा निभृताम् अरोगां। कल्याणवत्सां च पयस्विनीं च। यावन्ति लोमानि भवन्ति तस्यास्। तावत् समाः स्वर्गफलानि भुङ्क्ते। प्रयच्छते यः कपिलां सचेलां। कांस्योपदोहां कनकाग्रशृङ्गीम्। पुत्रांश् च पौत्रांश् च कुलं च सर्वम्। आसप्तमं तारयते परत्र। अन्तर्जाताः क्रीतका द्यूतलब्धाः। प्राणक्रीताः सोदकाश् चौजसा वा। कृच्छ्रोत्सृष्टाः पोषणार्थागताश् च। द्वारैर् एतैस् ताः प्रलब्धाः प्रदद्यात्। कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये। प्रदाय नीरुजां धेनुं लोकान् प्राप्नोत्य् अनुत्तमान्। नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः। हव्यकव्यव्यपेतस्य न दद्याद् गाः कथं चन। समानवत्सां यो दद्याद् धेनुं विप्रे पयस्विनीम्। सुवस्त्रां वस्त्रसंदानां सोमलोके महीयते। समानवत्सां यो धेनुं कृष्णां दद्यात् पयस्विनीम्। सुवृत्तां वस्त्रसंदानां लोकान् प्राप्नोत्य् अपां पतेः। समानवत्सां यो धेनुं दद्याद् गौरीं पयस्विनीम्। सुवृत्तां वस्त्रसंदानाम् अग्निलोके महीयते। हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंदानां याति कौबेरसद्म सः। वायुरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंदानां वायुलोके महीयते। युवानं बलिनं श्यामं शतेन सह यूथपम्। गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम्। ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम्। ऐश्वर्यम् अभिजायन्ते जायमानाः पुनः पुनः। गवां मूत्रपुरीषाणि नोद्विजेत कदा चन। न चासां मांसम् अश्नीयाद् गोषु भक्तः सदा भवेत्। ग्रासमुष्टिं परगवे दद्यात् संवत्सरं शुचिः। अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकामिकम्। गवाम् उभयतःकाले नित्यं स्वस्त्ययनं वदेत्। न चासां चिन्तयेत् पापम् इति धर्मविदो विदुः। गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः। कथं चिन् नावमन्तव्या गावो लोकस्य मातरः। तस्माद् एव गवां दानं विशिष्टम् इति कथ्यते। गोषु पूजा च भक्तिश् च नरस्यायुष्यम् आवहेत्। अतः परं प्रवक्ष्यामि भूमिदानं महाफलम्। भूमिदानसमं दानं न किलास्तीति निश्चयः। गृहयुक् क्षेत्रयुग् वापि भूमिभागः प्रदीयते। सुखभोग्यं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च। ग्रहीतारम् अलंकृत्य वस्त्रपुष्पानुलेपनैः। सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः। यो दद्याद् दक्षिणाकाले त्रिर् अद्भिर् गृह्यताम् इति। एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः। यावत् तिष्ठति सा भूमिस् तावत् तस्य फलं विदुः। भूमिदः स्वर्गम् आरुह्य रमते शाश्वतीः समाः। अचला ह्य् अक्षया भूमिः सर्वान् कामान् दुधुक्षति। यद् यच् च कुरुते पापं पुरुषो वृत्तिकर्शितः। अपि गोकर्णमात्रेण भूमिदानेन मुच्यते। सुवर्णरजतं वस्त्रं मणिमुक्तावसूनि च। सर्वम् एतन् महाप्राज्ञे भूमिदाने प्रतिष्ठितम्। भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः। ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम्। हलकृष्टां महीं दद्याद् यः सबीजफलान्विताम्। सकूपशरणां वापि सा भवेत् सर्वकामदा। निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम्। विमुक्तः कलुषैः सर्वैः शक्रलोकं स गच्छति। यथा जनित्री क्षीरेण स्वपुत्रम् अभिवर्धयेत्। एवं सर्वफलैर् भूमिर् दातारम् अभिवर्धयेत्। ब्राह्मणं वृत्तसंपन्नम् आहिताग्निं शुचिव्रतम्। ग्राहयित्वा निजां भूमिं न याति यमसादनम्। यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि दृश्यते। तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते। यथा बीजानि रोहन्ति प्रकीर्णानि महीतले। तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः। पितरः पितृलोकस्था देवताश् च दिवि स्थिताः। संतर्पयन्ति भोगैस् तं यो ददाति वसुंधराम्। दीर्घायुष्ट्वम् अरोगत्वं स्फीतां च श्रियम् उत्तमाम्। परत्र लभते मर्त्यः संप्रदाय वसुंधराम्। एतत् सर्वं मयोद्दिष्टं भूमिदानस्य यत् फलम्। श्रद्दधानैर् नरैर् नित्यं श्राव्यम् एतत् सनातनम्। अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि। कन्या देया तथा देवि परेषाम् आत्मनो ऽपि वा। कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम्। यस्मै दित्सति पात्राय तेनापि भृशकामिताम्। प्रथमं तत् समाकल्प्य बन्धुभिः कृतनिश्चयम्। कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः। गृहोपकरणं चैव शुद्धधान्येन संयुतम्। दारार्थिने तदर्हाय कन्यां तां समलंकृताम्। सविवाहं यथान्यायं प्रयच्छेद् अग्निसाक्षिकम्। वृत्त्यायतिं तथा कृत्वा सद्गृहे तौ निवेशयेत्। एवं कृत्वा वधूदानं तस्य दानस्य गौरवात्। प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम्। पुनर्जातौ च सौभाग्यं कुलवृद्धिं तथाप्नुयात्। विद्यादानं तथा देवि पात्रभूताय वै ददत्। प्रेत्यभावे लभेन् मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्। अनुरूपाय शिष्याय स्वां विद्यां यः प्रयच्छति। यथोक्तम् अस्य दानस्य फलम् आनन्त्यम् उच्यते। दापनं त्व् अथ विद्यानां दरिद्रेभ्यो ऽर्थवेतनैः। स्वयंदत्तेन तुल्यं स्याद् इति विद्धि शुभानने। एवं ते कथितान्य् एव महादानानि भामिनि। त्वत्प्रियार्थं महादेवि भूयः श्रोतुं किम् इच्छसि। उमा। भगवन् देवदेवेश कथं देयं तिलान्वितम्। महेश्वरः। तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च। तिलकल्पविधिं देवि त्वं मे शृणु समाहिता। समृद्धैर् असमृद्धैर् वा तिला देया विशेषतः। तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः। न्यायतस् तु तिलाञ् शुद्धान् संभृत्याथ स्वशक्तितः। तिलराशिं पुनः कुर्यात् पर्वताभं सरत्नकम्। महान्तं यदि वा स्तोकं नानाद्रव्यसमायुतम्। सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः। अलंकृत्य यथायोगं सपताकं सवेदिकम्। सभूषणं सवस्त्रं च शयनासनसंयुतम्। प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः। भोजयित्वा च विधिवद् ब्राह्मणान् अर्हतो बहून्। स्वयं कृत्वोपवासं च वृत्तशौचसमन्वितः। दद्यात् प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम्। एकस्य वा बहूनां वा दातव्यं भूतिम् इच्छता। तस्य दानफलं देवि अग्निष्टोमेन संमितम्। केवलं वा तिलैर् एव भूमौ कृत्वा गवाकृतिम्। सरत्नकं सवस्त्रं च पुंसा गोदानकाङ्क्षिणा। तद् अर्हाय प्रदातव्यं तस्य गोदानवत् फलम्। शरावांस् तिलसंपूर्णान् सहिरण्यान् सचम्पकान्। जलैर् ददद् ब्राह्मणाय स पुण्यफलभाग् भवेत्। एवं तिलमयं देयं नरेण हितम् इच्छता। नानादानफलं भूयः शृणु देवि समाहिता। बलम् आयुष्यम् आरोग्यम् अन्नदानाल् लभेन् नरः। पानीयदस् तु सौभाग्यं रसज्ञानं लभेन् नरः। वस्त्रदानाद् वपुःशोभाम् अलंकारं लभेन् नरः। दीपदो बुद्धिवैमल्यं द्युतिं शोभां लभेत् पुनः। राजपीडाविमोक्षं तच् छत्रदो लभते फलम्। दासीदासप्रदानात् तु भवेत् कर्मान्तभाङ् नरः। दासीदासं च विविधं लभेत् प्रेत्य गुणान्वितम्। यानानि वाहनं चैव तदर्हाय ददन् नरः। पादरोगपरिक्लेशान् मुक्तश् चोत्साहवान् भवेत्। विचित्रं रमणीयं च लभते यानवाहनम्। प्रतिश्रयप्रदानाच् च तदर्हाय तद् इच्छते। वर्षकाले तु रात्रौ च लभेत् पक्षबलं शुभम्। सेतुकूपतटाकानां कर्ता तु लभते नरः। दीर्घायुष्ट्वं च सौभाग्यं तथा प्रेत्यायतीं शुभाम्। वृक्षपङ्क्तिकरो यस् तु च्छायापुष्पफलप्रदः। प्रेत्यभावे लभेत् पुण्यम् अभिगम्यो भवेन् नरः। यस् तु संक्रमकृल् लोके नदीषु जलतारिणाम्। लभेत् पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम्। मार्गकृत् सततं मर्त्यो भवेत् संतानवान् पुनः। कायदोषविमुक्तस् तु तीर्थकृत् सततं भवेत्। औषधानां प्रदाता च सततं कृपयान्वितः। भवेद् व्याधिविहीनश् च दीर्घायुश् च विशेषतः। अनाथान् पोषयेद् यस् तु कृपणान्धकपङ्गुकान्। स तु पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम्। देवगोष्ठान् सभाः शाला भिक्षूणां च प्रतिश्रयम्। यः कुर्याल् लभते नित्यं नरः प्रेत्य फलं शुभम्। प्रासादवासं विविधं पक्षशोभां लभेन् नरः। विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम्। रम्यं सदैव गोवाटं यः कुर्याल् लभते नरः। प्रेत्यभावे शुभां जातिं व्याधिमोक्षं तथैव च। उमा। एवं नानाविधं द्रव्यं दाता कर्ता लभेत् फलम्। कृतं दत्तं यथा यावत् तस्य यल् लभते फलम्। महेश्वरः। एतन् मे वद देवेश तत्र कौतूहलं महत्। प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च। दानं वा षड्गुणयुतं तदर्हाय यथाविधि। यथाविभवतो दानं दातव्यम् इति मानवैः। बुद्धिम् आयुष्यम् आरोग्यं कुलं भाग्यं तथागमम्। रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्। इदं दत्तम् इदं मे स्याद् इत्य् एवं फलकाङ्क्षया। यद् दत्तं तत् तद् एव स्यान् न तु किं चन लभ्यते। ध्रुवं देव्य् उत्तमे दाने मध्यमे त्व् अधमे फलम्। उमा। भगवन् देवदेवेश विशिष्टं यज्ञम् उच्यते। महेश्वरः। लौकिकं वैदिकं चैव तन् मे शंसितुम् अर्हसि। देवतानां च संपूजा यज्ञेष्व् एव समाहिता। यज्ञा वेदेष्व् अधीनाश् च वेदा ब्राह्मणसंयुताः। इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये। यज्ञार्थं विद्धि तत् सृष्टं लोकानां हितकाम्यया। एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः। प्रेत्यभावे लभेल् लोकान् ब्रह्मकर्मसमाधिना। ब्राह्मणेष्व् अपि तद् ब्रह्म नित्यं देवि समाहितम्। तस्माद् विप्रैर् यथाशास्त्रं विधिदृष्टेन कर्मणा। यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत्। ब्राह्मणाः क्षत्रियाश् चैव यज्ञार्हाः प्रायशः स्मृताः। अग्निष्टोमादिभिर् यज्ञैर् वेदेषु परिकल्पितैः। सुशुद्धैर् यजमानैश् च ऋत्विग्भिश् च यथाविधि। शुद्धैर् द्रव्योपकरणैर् यष्टव्यम् इति निश्चयः। तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत्। तुष्टेषु देवसंघेषु यज्वा यज्ञफलं लभेत्। देवाः संतोषिता यज्ञैर् लोकान् संवर्धयन्त्य् उत। उभयोर् लोकयोर् भूतिर् देवि यज्ञैः प्रदृश्यते। तस्माद् यज्वा दिवं गत्वा अमरैः सह मोदते। नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः। सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः। एषा यज्ञकृता पूजा लौकिकीम् अपरां शृणु। देवसत्कारम् उद्दिश्य क्रियन्ते लौकिकोत्सवाः। देवगोष्ठान् हि संस्कृत्य चोत्सवं यः करोति वै। यागान् देवोपहारांश् च शुचिर् भूत्वा यथाविधि। देवान् संतोषयित्वा स देवि धर्मम् अवाप्नुयात्। गन्धमाल्यैश् च विविधैः परमान्नेन धूपनैः। बहुभिः स्तुतिभिश् चैव स्तुवन्तः प्रयता नराः। नृत्तैर् वाद्यैश् च गान्धर्वैर् अन्यैर् दृष्टिविलोभनैः। देवसत्कारम् उद्दिश्य कुर्वते ये नरा भुवि। तेषां भक्तिकृतेनैव सत्कारेणाभिपूजिताः। तथैव तोषं संयान्ति देवि देवास् त्रिविष्टपे। मानुषैर् अपरैर् वापि शुचिभिस् तत्परायणैः। ब्रह्मचर्यपरैर् एतत् कृतं धर्मफलं भवेत्। केवलैः स्तुतिभिर् देवि गन्धमाल्यसमायुतैः। प्रयतैः शुद्धगात्रैस् तु शुद्धदेशे सुपूजिताः। संतोषं यान्ति वै देवा भक्तैः संपूजितास् तथा। उमा। देवान् संतोषयित्वैव देवि धर्मम् अवाप्नुयात्। त्रिविष्टपस्था वै देवा भूमौ मानुषचेष्टितम्। महेश्वरः। कथं ज्ञास्यन्ति विविधं तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि यथा तैर् विद्यते प्रिये। प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः। आत्मानं परमं देवम् इति विद्धि शुभेक्षणे। आत्मा मनोव्यवस्थानात् सर्वं वेत्ति शुभाशुभम्। आत्मैव देवास् तद् विद्युर् अव्यग्रमनसः कृतम्। सतां मनोव्यवस्थानाच् छुभं भवति वै नृणाम्। तस्माद् देवाभिसंपूजा पितृपूजा तथैव च। यज्ञाश् च धर्मकार्याणि गुरुपूजाश् च शोभने। शुद्धगात्रैर् वृत्तयुक्तैस् तन्मयैस् तत्परायणैः। एवं व्यवस्थितैर् नित्यं कर्तव्यम् इति निश्चयः। एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते। अन्यथा मन आवेश्य कृतं न फलति प्रिये। उमा। ऋते ऽपि तु मनो देवि अशुभं फलति ध्रुवम्। पितृमेधः कथं देव तन् मे शंसितुम् अर्हसि। सर्वेषां पितरः पूज्याः सर्वसंपत्प्रदायिनः। महेश्वरः। पितृमेधं प्रवक्ष्यामि यथावत् तन्मनाः शृणु। देशकालौ विधानं च तत्क्रियायाः शुभाशुभम्। लोकेषु पितरः पूज्या देवतानां च देवताः। शुचयो निर्मलाः पुण्या दक्षिणां दिशम् आश्रिताः। यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः। पितरश् च तथा लोके पितृमेधं शुभेक्षणे। तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती। प्रभासं पुष्करं चेति तेषु दत्तं महाफलम्। तीर्थानि सरितः पुण्या विविक्तानि वनानि च। नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः। मघाप्रौष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ। पक्षयोः कृष्णपक्षश् च पूर्वपक्षात् प्रशस्यते। अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च। तिथिष्व् एतासु तुष्यन्ति दत्तेनेह पितामहाः। पूर्वाह्णे शुक्लपक्षे वा रात्रौ जन्मदिनेषु वा। युग्मेष्व् अहःसु च श्राद्धं न च कुर्वीत पण्डितः। एष कालो मया प्रोक्तः पितृमेधस्य पूजितः। यस्मिन् वा ब्राह्मणं पात्रं पश्येत् कालः स च स्मृतः। अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास् ते पङ्क्तिपावनाः। पूजयेद् यदि पापिष्ठाञ् श्राद्धेषु नरकं व्रजेत्। वृत्तश्रुतकुलोपेतान् सकलत्रान् गुणान्वितान्। तदर्हाञ् श्रोत्रियान् विद्धि ब्राह्मणान् अयुजः शुभे। एतान् निमन्त्रयेद् विद्वान् पूर्वेद्युः प्रातर् एव वा। तत्र श्राद्धक्रियां पश्चाद् आरभेत यथाविधि। त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः। त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम्। कुतपस्य च लोमानि कुशा दर्भास् तिला मधु। नीलशाकं गजच्छाया पवित्रं श्राद्धकर्मसु। तिलान् अवकिरेत् तत्र नानावर्णान् समन्ततः। अशुद्धं पितृयज्ञेषु तिलैः शुध्यति शोभने। नीलकाषायवस्त्रं च भिन्नकर्णं नवव्रणम्। हीनाङ्गम् अशुचिं वापि वर्जयेत् तत्र दूरतः। कुक्कुटांश् च वराहांश् च नग्नं क्लीबं रजस्वलाम्। आयसं त्रपु सीसं च श्राद्धकर्मणि वर्जयेत्। मांसैः प्रीणन्ति पितरो मुद्गमाषयवैर् इह। शशरौरवमांसेन षण्मासं तृप्तिर् इष्यते। संवत्सरं च गव्येन हविषा पायसेन च। वार्ध्राणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी। आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये। पायसं सतिलं क्षौद्रं खड्गमांसेन संमितम्। महाशफरिणो मत्स्याश् छागो वा सर्वलोहितः। कालशाककम् इत्य् एव तदानन्त्यं प्रकीर्तितम्। सापूपं सामिषं स्निग्धम् आहारम् उपकल्पयेत्। उपकल्प्य तदाहारं ब्राह्मणान् अर्चयेत् ततः। श्मश्रुकर्मशिरःस्नातान् समारोप्यासनं क्रमात्। सुगन्धमाल्याभरणैः स्रग्भिर् एतान् विभूषयेत्। अलंकृतोपविष्टांस् तान् पिण्डावापं निवेदयेत्। ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखः। तत्समीपे ऽग्निभिद्ध्वा च स्वधां च जुहुयात् ततः। समीपे त्व् अग्नीषोमाभ्यां पितृभ्यो जुहुयात् तथा। ततो दर्भेषु पिण्डांस् त्रीन् निवपेद् दक्षिणामुखम्। अपसव्यम् अपाङ्गुष्ठं नामधेयपुरस्कृतम्। एतेन विधिना दत्तं पितॄणाम् अक्षयं भवेत्। ततो विप्रान् यथाकामं पूजयेन् नियतः शुचिः। सदक्षिणं ससंभारं यथा तुष्यन्ति ते द्विजाः। यत्र तत् क्रियते कर्म पैतृके ब्राह्मणान् प्रति। तत् सर्वम् अखिलं कुर्याद् वैश्वदेवस्य पूर्वकम्। अश्रून् न पातयेत् तत्र न जल्पेन् न जपेन् मिथः। नियम्य वाचं देहं च श्राद्धकर्म समारभेत्। ततो निर्वपणे वृत्ते तान् पिण्डांस् तदन्तरम्। ब्राह्मणो ऽग्निरजो गौर् वा भक्षयेद् अप्सु वा क्षिपेत्। पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत्। आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्। तृप्तान् उत्थाप्य तान् विप्रान् अन्नशेषं निवेदयेत्। तच्छेषं बहुभिः पश्चात् सभृत्यो भक्षयेन् नरः। एष प्रोक्तः समासेन पितृयज्ञः सनातनः। पितरस् तेन तुष्यन्ति कर्ता च फलम् आप्नुयात्। अहन्य् अहनि वा कुर्यान् मासे मासे ऽथ वा पुनः। संवत्सरस्य द्विः कुर्याच् चतुर् वापि च शक्तितः। दीर्घायुश् च भवेत् स्वस्थः पितृमेधेन मानवः। सपुत्रो बहुभृत्यश् च प्रभूतधनधान्यवान्। श्राद्धदः स्वर्गम् आप्नोति निर्मलं विविधाद्भुतम्। अप्सरोगणसंघुष्टं विरजस्कम् अनन्तकम्। श्राद्धानि पुष्टिकामा ये प्रकुर्वन्ति च पण्डिताः। तेषां पुष्टिं प्रजाश् चैव दास्यन्ति पितरः सदा। धन्यं यशस्यम् आयुष्यं स्वर्ग्यं शत्रुविनाशनम्। उमा। कुलसंधारणं चेति श्राद्धम् आहुर् मनीषिणः। भगवन् देवदेवेश मृतास् ते भुवि जन्तवः। नानाजातिषु जायन्ते शीघ्रं कर्मवशात् पुनः। पितरस् त्व् इति ते तत्र कथं तिष्ठन्ति देववत्। पितॄणां कतमो देशः पिण्डान् अश्नन्ति ते कथम्। अन्ने दत्ते मृतानां तु कथम् आप्यायनं भवेत्। नारदः। एवं मया संशयितं भगवञ् छेत्तुम् अर्हसि। एतद् विरुद्धं रुद्राण्यां पृच्छन्त्यां परिषद् भृशम्। महेश्वरः। बभूव सर्वा मुदिता श्रोतुं परमकं हि तत्। स्थाने संशयितं देवि शृणु कल्याणि तत्त्वतः। गुह्यानां परमं गुह्यं खिलानां परमं खिलम्। यथा देवगणा देवि तथा पितृगणाः प्रिये। दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः। प्रेतान् उद्दिश्य या पूजा क्रियते मानुषैर् इह। तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः। उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः। दक्षिणस्यां तथा ते च तुष्यन्ति विविधैर् मखैः। द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम्। तयोर् हव्यक्रिया देवान् कव्यम् आप्याययेत् पितॄन्। प्रसव्यं मङ्गलैर् द्रव्यैर् हव्यकर्म विधीयते। अपसव्यम् अमङ्गल्यैः कव्यं चापि विधीयते। सदेवासुरगन्धर्वाः पितॄन् अभ्यर्चयन्ति च। आप्यायिताश् च ते श्राद्धैः पुनर् आप्याययन्ति तान्। अनिष्ट्वा च पितॄन् पूर्वं यः क्रियां प्रकरोति चेत्। रक्षांसि च पिशाचाश् च फलं भोक्ष्यन्ति तस्य तत्। हव्यकव्यक्रिया तस्मात् कर्तव्या भुवि मानवैः। कर्मक्षेत्रं हि मानुष्यं तद् अन्यत्र न विद्यते। कव्येन संततिर् दृष्टा हव्ये भूतिः पृथग्विधा। उमा। इति ते कथितं देवि देवगुह्यं सनातनम्। एवं कृतस्य धर्मस्य श्रोतुम् इच्छाम्य् अहं प्रभो। महेश्वरः। प्रमाणं फलमानानां तन् मे शंसितुम् अर्हसि। प्रमाणकल्पनां देवि दानस्य शृणु भामिनि। यत्सारस् तु नरो लोके तद् दानं चोत्तमं स्मृतम्। सर्वदानविधिं प्राहुस् तद् एव भुवि शोभने। प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च। प्रस्थसारस् तु तत् प्रस्थं ददन् महद् अवाप्नुयात्। कोटिसारस् तु तां कोटिं ददन् महद् अवाप्नुयात्। उभयं तन् महत् तच् च फलेनैव समं स्मृतम्। धर्मार्थकामभोगेषु शक्यभावं तु मध्यमम्। स्वद्रव्याद् अतिहीनं तु तद् दानम् अधमं स्मृतम्। शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनम्। आनन्त्यं च महच् चैव समं हीनं च पातकम्। तेषां विशेषान् वक्ष्यामि शृणु देवि समाहिता। दुस्त्यजस्य च वै दानं पात्र आनन्त्यम् उच्यते। दानं षड्गुणयुक्तं तु महद् इत्य् अभिधीयते। यथाश्रद्धं तु वै दानं यथार्हं समम् उच्यते। गुणतस् तु तथा हीनं दानं हीनम् इति स्मृतम्। दानं पातकम् इत्य् आहुः षड्गुणानां विपर्यये। देवलोके महत् कालम् आनन्त्यस्य फलं विदुः। महतस् तु तथा दानं स्वर्गलोके तु पूज्यते। समस्य तु तथा दानं मानुषं भोगम् आवहेत्। दानं निष्फलम् इत्य् आहुर् विहीनं क्रियया शुभे। अथ वा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत्। उमा। नरकं प्रेत्य तिर्यक्षु गच्छेद् अशुभदानतः। महेश्वरः। अशुभस्यापि दानस्य शुभं स्याच् च फलं कथम्। मनसा तत्त्वतः शुद्धम् अनृशंसपुरःसरम्। प्रीत्या तु सर्वदानानि दत्त्वा फलम् अवाप्नुयात्। रहस्यं सर्वदानानाम् एतद् विद्धि शुभेक्षणे। अन्यानि सर्वकार्याणि शृणु सद्भिः कृतानि च। आरामं देवगोष्ठानि संक्रमाः कूप एव च। गोवाटं च तटाकं च सभाः शालाश् च सर्वशः। भिक्षुकावसथाश् चैव पानीयं गोतृणानि च। व्याधितानां च भैषज्यम् अनाथानां च भोजनम्। अनाथशवसंस्कारस् तीर्थमार्गविशोधनम्। व्यसनाभ्यवपत्तिश् च सर्वेषां च स्वशक्तितः। एतत् सर्वं समासेन धर्मकार्यम् इति स्मृतम्। तत् कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे। प्रेत्यभावे लभेत् पुण्यं नास्ति तत्र विचारणा। रूपं सौभाग्यम् आरोग्यं बलं सौख्यं लभेन् नरः। उमा। स्वर्गे वा मानुषे वापि तैस् तैर् आप्यायते हि सः। भगवंल् लोकपालेश धर्मस् तु कतिभेदकः। दृश्यते चरितः सद्भिस् तन् मे शंसितुम् अर्हसि। महेश्वरः। शृणु देवि समुद्देशान् नानात्वं धर्मसंकटे। धर्मा बहुविधा लोके श्रुता वेदमुखोद्भवाः। स्मृतिधर्मश् च बहुधा सद्भिर् आचार इष्यते। देशधर्माश् च दृश्यन्ते कुलधर्मास् तथैव च। जातिधर्माश् च वै धर्मा गणधर्माश् च शोभने। शरीरकालवैषम्याद् आपद्धर्मश् च दृश्यते। एतद् धर्मस्य नानात्वं क्रियते लोकवासिभिः। कारणात् तत्र तत्रैव फलं धर्मस्य चेष्यते। तत्कारणसमायोगे लभेत् कुर्वन् फलं नरः। अन्यथा न लभेत् पुण्यम् अतदर्हः समादिशन्। एवं धर्मस्य नानात्वं फलं कुर्वंल् लभेन् नरः। श्रौतः स्मार्तस् तु धर्माणां प्राकृतो धर्म उच्यते। उमा। इति ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि। भगवन् सर्वभूतेश त्रिपुरार्दन शंकर। श्रुतं पापकृतं दुःखं यमलोके वरप्रद। श्रोतुम् इच्छाम्य् अहं देव नृणां सुकृतकर्मणाम्। कथं ते भुञ्जते लोकान् स्वर्गलोके महेश्वर। कथिताः कीदृशा लोका नृणां सुकृतकारिणाम्। महेश्वरः। एतन् मे वद देवेश श्रोतुं कौतूहलं हि मे। शृणु कल्याणि तत् सर्वं यत् त्वम् इच्छसि भामिनि। विविधाः पुण्यलोकास् ते कर्माकर्मण्यतां गताः। मेरुं हि कनकात्मानं परितः सर्वतोदिशम्। भद्राश्वः केतुमालश् च उत्तराः कुरवस् तथा। जम्बूवनादयः स्वर्गा इत्य् एते कर्मवर्जिताः। तेषु भोगाः स्वयंभूताः प्रदृश्यन्ते यतस् ततः। योजनानां सहस्रं तु एकैकं मानमात्रया। नित्यपुष्पफलोपेतास् तत्र वृक्षाः समन्ततः। आसक्तवस्त्राभरणाः सर्वे कनकसंनिभाः। द्विरेफाश् चाण्डजास् तत्र प्रवालमणिसंनिभाः। विचित्राश् च मनोज्ञाश् च कूजितैः शोभयन्ति तान्। कुशेशयवनैश् छन्ना नलिन्यश् च मनोरमाः। तत्र वान्त्य् अनिला नित्यं दिव्यगन्धाः सुखावहाः। सर्वे चाम्लानमाल्याश् च विरजोम्बरसंवृताः। एवं बहुविधा देवि दिवि भोगाः सुखावहाः। स्त्रियश् च पुरुषाश् चैव सर्वे सुकृतकारिणः। रमन्ते तत्र चान्योन्यं कामरागसमन्विताः। दिव्यभूषणसंयुक्ता दिव्यगन्धसमन्विताः। मनोरमा महाभागाः सर्वे ललितकुण्डलाः। एवं तत्रगता मर्त्याः प्रमदाः प्रियदर्शनाः। नानाभावसमायुक्ता यौवनस्थाः सदैव तु। कमनीयाः कामयुताः कामज्ञा ललितास् तथा। मनोनुकूला मधुरा भोगिनाम् उपकल्पिताः। प्रमदाश् चोद्भवन्त्य् एव स्वर्गलोके यथा तथा। एवंविधाः स्त्रियश् चात्र पुरुषाश् च परस्परम्। रमन्ते चेन्द्रियैः स्वस्थैः शरीरैर् भोगसंस्कृतैः। कामहर्षौ गुणाव् आस्तां नान्ये क्रोधादयः प्रिये। क्षुत् पिपासा न चास्त्य् अत्र गात्रक्लेशाश् च शोभने। सर्वतो रमणीयश् च सर्वर्तुकुसुमान्वितम्। यावत् पुण्यफलं तावद् रमन्ते तत्र संगताः। निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः। तत्र भोगान् यथायोगं भुक्त्वा पुण्यक्षयात् पुनः। नश्यन्ति जायमानास् ते शरीरैः सहसा प्रिये। स्वर्गलोकात् परिभ्रष्टा जायन्ते मानुषे पुनः। पूर्वपुण्यावशेषेण विशिष्टाः संभवन्ति ते। एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास् तव भामिनि। अत ऊर्ध्वं पदान्य् अष्टौ कर्मण्यानि शृणु प्रिये। भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम्। विद्याधराः किंपुरुषा यक्षगन्धर्वकिंनराः। अप्सरो दानवा देवा यथाक्रमम् उदाहृताः। तेषु स्थानेषु जायन्ते प्राणिनः पुण्यकर्मिणः। तेषाम् अपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः। स्वर्गवत् तत्र ते भोगान् भुञ्जते च रमन्ति च। रूपसत्त्वबलोपेताः सर्वे दीर्घायुषस् तथा। तेषां सर्वक्रियारम्भो मानुषेष्व् एव दृश्यते। अतिमानुषम् आश्चर्यम् अस्त्रमायाबलात्कृतम्। जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते। गुणदोषाश् च सन्त्य् अत्र आकाशगमनं तथा। अन्तर्धानं बलं सर्वम् आयुश् च चिरजीवनम्। तपोविशेषाज् जायन्ते तेषां कर्माणि भामिनि। देवलोकप्रवृत्तिस् तु तेषाम् एव विधीयते। न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः। तत्र भोगम् अनिर्देश्यम् अमृतत्वं च विद्यते। विमानगमनं नित्यम् अप्सरोगणसेवितम्। एवम् अन्यच् च तत् कर्म दैवतेभ्यो विशिष्यते। प्रत्यक्षं तव तत् सर्वं देवलोकप्रवर्तनम्। तस्मान् न वर्णये देवि विदितं हि त्वया शुभे। उमा। तत् सर्वं सुकृतेनैव प्राप्यते चोत्तमं पदम्। मानुषेष्व् एव जीवत्सु गतिर् विज्ञायते न वा। अयं शुभगतिर् जीवन्न् असौ त्व् अशुभभाग् इति। महेश्वरः। एतद् इच्छाम्य् अहं श्रोतुं तन् मे शंसितुम् अर्हसि। तद् अहं ते प्रवक्ष्यामि जीवतां विद्यते यथा। द्विविधाः प्राणिनो लोके दैवासुरसमाश्रिताः। मनसा कर्मणा वाचा प्रतिकूला भवन्ति ये। तादृशान् आसुरान् विद्धि मर्त्यास् ते नरकालयाः। रागद्वेषयुता ये तु निर्लज्जा निरपत्रपाः। दर्पाहंकारसंयुक्ता नरा नरकगामिनः। नास्तिकाश् च शठा घोराः परेषाम् उपतापिनः। यथेष्टवृत्तयश् चैव नरा नरकगामिनः। दुष्प्रतीतमना यस् तु चलचित्तो निराकृतिः। शिश्नोदररतिर् मूढो निरयं याति सो ऽधमः। मांसपानप्रिया नित्यं कठोरा नीचवृत्तयः। तादृशान् आसुरान् विद्धि सर्वे ते नरकालयाः। हिंसाविहारा ये नित्यं निर्दयाः प्राणिनाशने। स्वधर्मविमुखाश् चैव परस्वेष्व् अभिकाङ्क्षिणः। युद्धमात्सर्यसंयुक्ता ग्राम्यभोगपरायणाः। तादृशान् आसुरान् विद्धि नरान् नरकगामिनः। दर्पोत्सेकसमायुक्ता मूर्खास् तत्त्वबहिष्कृताः। श्रुतिविद्वेषिणो नित्यं ते नरा नरकालयाः। नित्यं वदन्ति ये मोहाद् अनृतं कटुकं वचः। कृतघ्नाः पिशुना घोरा भवन्ति नरकालयाः। हिंस्राश् चोराश् च धूर्ताश् च परदाराभिमर्शिनः। नीचकर्मकरा ये च शौचमङ्गलवर्जिताः। श्रुतिविद्वेषिणः पापा लोकचारित्रदूषकाः। एवंयुक्तसमाचारा जीवन्तो नरकालयाः। लोकोद्वेगकराश् चान्ये पशवश् च सरीसृपाः। वृक्षाः कण्टकिनो रूक्षास् तादृशान् विद्धि चासुरान्। अपरान् देवपक्षांस् तु शृणु देवि समाहिता। मनोवाक्कर्मभिर् नित्यम् अनुकूला भवन्ति ये। तादृशान् अमरान् विद्धि ते नराः स्वर्गगामिनः। शौचार्जवपराधीनाः परार्थं न हरन्ति ये। ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः। भयाद् वा वृत्तिहेतोर् वा अनृतं न ब्रुवन्ति ये। सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः। धार्मिकाः शौचसंपन्नाः शुक्ला मधुरभाषिणः। नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः। दरिद्रा अपि ये के चिद् याचिताः प्रीतिपूर्वकम्। ददत्य् एव च यत् किं चित् ते नराः स्वर्गगामिनः। आस्तिका मङ्गलपराः सततं वृद्धसेविनः। पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः। स्वदुःखम् इव मन्यन्ते परेषां दुःखवेदनाम्। शक्त्या चाभ्यवपद्यन्ते ते नराः स्वर्गगामिनः। व्रतिनो दानशीलाश् च सुखशीलाश् च मानवाः। ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः। गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः। कृतज्ञाः कृतविद्याश् च ते नराः स्वर्गगामिनः। जितेन्द्रिया जितक्रोधा जितमानमदस्पृहाः। लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः। निर्ममा निरहंकाराः स्वानुक्रोशाः स्वबन्धुषु। दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः। ऐहिकेन तु वृत्तेन पारत्रम् अनुमीयते। एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः। यद् अन्यच् च शुभं लोके प्रजानुग्रहकारि च। पशवश् चैव वृक्षाश् च प्रजानां हितकारिणः। तादृशान् देवपक्षस्थान् इति विद्धि शुभानने। शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम्। उमा। दैवं शुभम् इति प्राहुर् आसुरं ह्य् अशुभं प्रिये। भगवन् मानुषाः के चित् कालधर्मम् उपस्थिताः। प्राणमोक्षं कथं कृत्वा परत्र हितम् आप्नुयुः। महेश्वरः। हन्त ते कथयिष्यामि शृणु देवि समाहिता। द्विविधं मरणं लोके स्वभावाद् यत्नतस् तथा। तयोः स्वभावं नोपायं यत्नजं कारणोद्भवम्। एतयोर् उभयोर् देवि विधानं शृणु शोभने। कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम्। यत्नजं नाम मरणम् आत्मत्यागो मुमूर्षया। तत्राकल्यशरीरस्य जरा व्याधिश् च कारणम्। महाप्रस्थानगमनं तथा प्रायोपवेशनम्। जलावगाहनं चैव अग्निचित्याप्रवेशनम्। एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम्। एतेषां क्रमयोगेन विधानं शृणु शोभने। स्वधर्मयुक्तं गार्हस्थ्यं चिरम् ऊढ्वा विधानतः। तत्रानृण्यं च संप्राप्य वृद्धो वा व्याधितो ऽपि वा। दर्शयित्वा स्वदौर्बल्यं सर्वान् एवानुमान्य च। संविधाय स्वबन्धूंश् च कर्मणां भरणं तथा। दानानि विधिवत् कृत्वा धर्मकार्यार्थम् आत्मनः। अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन्। अहतं वस्त्रम् आच्छाद्य बद्ध्वा तत् कुशरज्जुना। उपस्पृश्य प्रतिज्ञाय व्यवसायपुरःसरम्। परित्यज्य ततो ग्रामं पश्चात् कुर्याद् यथेप्सितम्। महाप्रस्थानम् इच्छेच् चेत् प्रतिष्ठेतोत्तरां दिशम्। भूत्वा तावन् निराहारो यावत् प्राणविमोक्षणम्। चेष्टाहानौ शयित्वापि तन्मनाः प्राणम् उत्सृजेत्। एवं पुण्यकृतां लोकान् अमलान् प्रतिपद्यते। प्रायोपवेशनं चेच्छेत् तेनैव विधिना नरः। देशे पुण्यतमे श्रेष्ठे निराहारस् तु संविशेत्। आप्राणान्तं शुचिर् भूत्वा कुर्वन् दानं स्वशक्तितः। हरिं स्मरंस् त्यजेत् प्राणान् एष धर्मः सनातनः। एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते। अग्निप्रवेशनं चेच्छेत् तेनैव विधिना शुभे। कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा। दैवतेभ्यो नमस्कृत्य कृत्वा चाग्निं प्रदक्षिणम्। भूत्वा शुचिर् व्यवसितः प्रविशेद् अग्निसंस्तरम्। सो ऽपि लोकान् यथान्यायं प्राप्नुयात् पुण्यकर्मणाम्। जलावगाहनं चेच्छेत् तेनैव विधिना शुभे। ख्याते पुण्यतमे तीर्थे निमज्जेत् स्वकृतं स्मरन्। सो ऽपि पुण्यकृतां लोकान् निसर्गात् प्रतिपद्यते। ततः कल्यशरीरस्य संत्यागं शृणु तत्त्वतः। रक्षार्थं क्षत्रियस्येष्टः प्रजापालनकारणात्। योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम्। गोब्राह्मणार्थं ग्रामार्थं सर्वेषां च विधीयते। स्वराष्ट्ररक्षणार्थं वा कुनृपैः पीडिताः प्रजाः। मोक्तुकामस् त्यजेत् प्राणान् युद्धमार्गे यथाविधि। सुसंनद्धो व्यवसितः संप्रविश्यापराङ्मुखः। एवं राजा मृतः सद्यः स्वर्गलोके महीयते। तादृशी सुगतिर् नास्ति क्षत्रियस्य विशेषतः। भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्य् उपस्थिते। कुर्वंस् तत्र तु साहाय्यम् आत्मप्राणानपेक्षया। स्वाम्यर्थं संत्यजेत् प्राणान् पुण्यांल् लोकान् स गच्छति। स्पृहणीयः सुरगणैस् तत्र नास्ति विचारणा। एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत् तनुम्। सो ऽपि पुण्यम् अवाप्नोति आनृशंस्यव्यपेक्षया। इत्य् एते जीवितत्यागे मार्गास् ते समुदाहृताः। कामात् क्रोधाद् भयान् मोहाद् यदि चेत् संत्यजेत् तनुम्। सो ऽनन्तं नरकं याति आत्महन्तृत्वकारणात्। स्वभावमरणं नाम न तु चात्मेच्छया भवेत्। तथा मृतानां यत् कार्यं तन् मे शृणु यथाविधि। तत्रापि बोधसंत्यागान् मूढत्यागो विशिष्यते। भूमौ संवेशयेद् देहं नरस्य विनशिष्यतः। निर्जीवं वृणुयात् सद्यो वाससा तु कलेवरम्। माल्यगन्धैर् अलंकृत्य सुवर्णेन च भामिनि। श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन् मृतम्। अथ वा निक्षिपेद् भूमौ शरीरं जीववर्जितम्। दिवा च शुक्लपक्षश् च उत्तरायणम् एव च। मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम्। औदकं चाष्टकाश्राद्धं बहुभिर् बहुशः कृतम्। आप्यायनं मृतानां तत् परलोके भवेच् छुभम्। एतत् सर्वं मया प्रोक्तं मानुषाणां हिताय च। उमा। देवदेव नमस् ते ऽस्तु कालसूदन शंकर। लोकेषु विविधा धर्मास् त्वत्प्रसादान् मया श्रुताः। विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवम् अव्ययम्। श्रोतुम् इच्छाम्य् अहं धर्मं तत्र मुह्यति मे मनः। के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः। वानप्रस्थं पुनः के चिद् गार्हस्थ्यं के चिद् आश्रमम्। राजधर्माश्रयं के चित् के चित् स्वाध्यायम् एव च। ब्रह्मचर्याश्रमं के चित् के चिद् वाक्संयमाश्रयम्। मातरं पितरं के चित् सेवमाना दिवं गताः। अहिंसयापरः स्वर्गे सत्येन च महीयते। आहवे ऽभिमुखाः के चिन् निहतास् त्रिदिवं गताः। के चिद् उञ्छव्रते सिद्धाः स्वर्गमार्गं समाश्रिताः। आर्जवेनापरे युक्ता हताश् चानार्जवैर् जनैः। ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः। एवं बहुविधैर् लोके धर्मद्वारैः सुसंवृतैः। ममापि मतिर् आविद्धा मेघलेखेव वायुना। एतस्मिन् संशयस्थाने संशयच्छेदकारि यत्। नारदः। वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम्। एवं पृष्टः स्वयं देव्या महादेवः पिनाकधृक्। प्रोवाच मधुरं वाक्यं सूक्ष्मम् अध्यात्मसंज्ञितम्। महेश्वरः। न्यायतस् त्वं महाभागे श्रोतुकामासि निश्चयम्। एतद् एव विशिष्टं ते यत् त्वं पृच्छसि मां प्रिये। सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः। बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया। यस्मिन् यस्मिंश् च विषये यो यो याति विनिश्चयम्। तं तम् एवाभिजानाति नान्यं धर्मं शुचिस्मिते। शृणु देवि समासेन मोक्षज्ञानम् अनुत्तमम्। एतद् धि सर्वधर्माणां विशिष्टं गुह्यम् अव्ययम्। नास्ति मोक्षात् परं देवि मोक्ष एव परा गतिः। सुखम् आत्यन्तिकं श्रेष्ठम् अनिवर्ति च तद् विदुः। नात्र देवि जरामृत्यू शोको वा दुःखम् एव वा। अनुत्तमम् अचिन्त्यं च तद् देवि परमं सुखम्। ज्ञानानाम् उत्तमं ज्ञानं मोक्षज्ञानं विदुर् बुधाः। ऋषिभिर् देवसंघैश् च प्रोच्यते परमं पदम्। नित्यम् अक्षरम् अक्षोभ्यम् अजरं शाश्वतं शिवम्। उशन्ति तत् पदं प्राज्ञाः स्पृहणीयं सुरासुरैः। दुःखादि च दुरन्तं च संक्षयं च विरोधि च। मिथः सततकार्यं च त्रिवर्गं सुखम् उच्यते। तस्मान् मोक्षः प्रधानस् तु त्रिवर्गाच् च विशेषतः। मोक्षस्य तस्य मार्गो ऽयं श्रूयतां शुभलक्षणे। ब्रह्मादिस्थावरान्तश् च संसारो ऽयं प्रवर्तते। शोकव्याधिजरादोषैर् मरणेन च संयुतः। यथा ज्योतिर्गणा व्योम्नि निवर्तन्ते पुनः पुनः। संसारे प्राणिनः सर्वे निवर्तन्ते तथा पुनः। तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते। अध्यात्मतत्त्वविज्ञानं ज्ञानम् इत्य् अभिधीयते। ज्ञानस्य ग्रहणोपायम् आचारं ज्ञानिनस् तथा। यथावत् संप्रवक्ष्यामि तत्त्वम् एकमनाः शृणु। ब्राह्मणः क्षत्रियो वापि भूत्वा पूर्वं गृहे स्थितः। आनृण्यं सर्वतः प्राप्य ततस् तान् संत्यजेद् गृहान्। ततः संत्यज्य गार्हस्थ्यं निश्चितो वनम् आश्रयेत्। वने गुरुसमाज्ञातो दीक्षेत विधिपूर्वकम्। दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत्। गृह्णीयाद् अप्य् उपाध्यायान् मोक्षज्ञानम् अतन्द्रितः। द्विविधश् च पुनर् मोक्षः सांख्यो योग इति स्मृतः। पञ्चविंशतिविज्ञानं सांख्यम् इत्य् अभिधीयते। ऐश्वर्यं देवसायुज्यं योगशास्त्रस्य निर्णये। तयोर् अन्यतरं ज्ञानं शृणुयाच् छिष्यतां गतः। नामुण्डो नाप्य् अकाषायी नाप्य् असंवत्सरोषितः। सांख्ययोगौ न च श्राव्यौ गुरुणा स्नेहपूर्वकम्। समः शीतोष्णहर्षादीन् विषहेत सदा मुनिः। अधृष्यः क्षुत्पिपासाभ्यां भवेज् ज्ञानसमाधिना। न कुर्वीतान्यम् आरम्भम् अनिवेद्य स्वकं गुरुम्। छायाभूतो ऽपरित्यागी नित्यम् एव भवेद् गुरौ। इन्द्रियाणीन्द्रियार्थेभ्य उचितेभ्यो निवर्तयेत्। त्यजेत् संकल्पजान् ग्रन्थीन् सदा ध्यानपरो भवेत्। कुण्डिकां चर्म संशिक्यं छत्रं यष्टिम् उपानहौ। चैलम् इत्य् एव नैतेषु स्थापयेत् स्वाम्यम् आत्मनः। गुरोः पूर्वं समुत्तिष्ठेज् जघन्यं तस्य संविशेत्। नाननुज्ञाप्य भर्तारम् आवश्यकम् अपि व्रजेत्। द्विर् अह्नः स्नानशाटेन संध्ययोर् अभिषेचनम्। एककालाशनं चास्य विहितं यतिभिः पुरा। भैक्षं सर्वत्र गृह्णीयाच् चिन्तयेत् सततं निशि। कारणे चापि संप्राप्ते न कुप्येत कदा चन। ब्रह्मचर्यं वने वासः शौचम् इन्द्रियसंयमः। दया च सर्वभूतेषु तस्य धर्मः सनातनः। विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः। आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम्। यदा भावं न कुरुते सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा। अनीर्ष्युर् अनहंकारो विमुक्तः सर्वबन्धनैः। ब्राह्मं पदम् अवाप्नोति यत् प्राप्य न निवर्तते। उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये। प्रियाप्रिये परित्यज्य ब्रह्मभूयाय कल्पते। निर्ममो निरहंकारो निर्द्वंद्वो वीतमत्सरः। वीतशोकभयाबाधः पदं प्राप्नोत्य् अनुत्तमम्। तुल्यनिन्दास्तुतिर् मौनी समलोष्टाश्मकाञ्चनः। समः शत्रौ च मित्रे च निर्वाणम् अधिगच्छति। एवंयुक्तसमाचारस् तत्परो ऽध्यात्मचिन्तकः। महेश्वरः। ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम्। अनुद्विग्नमतेर् जन्तोर् अस्मिन् संसारमण्डले। शोकव्याधिजरादुःखे निर्वाणं नोपपद्यते। तस्माद् उद्वेगजननं मनोवस्थापनं तथा। ज्ञानं ते संप्रवक्ष्यामि तन्मूलम् अमृतं हि वै। शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्। नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। अहो दुःखम् इति ध्यायञ् शोकस्य पदम् आव्रजेत्। द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत्। तान् अनाद्रियमाणस्य शोकबन्धः प्रणश्यति। संप्रयोगाद् अनिष्टस्य विप्रयोगात् प्रियस्य च। मानुषा मानसैर् दुःखैः संयुज्यन्ते ऽल्पबुद्धयः। मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति। संतापेन च युज्येत तच् चास्य न निवर्तते। उत्पन्ने त्व् इह मानुष्ये गर्भप्रभृति मानवम्। विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च। तयोर् एकतरो मार्गो यद्य् एनम् अभिसंनमेत्। सुखं प्राप्य न संहृष्येद् दुःखं प्राप्य न संज्वरेत्। दोषदर्शी भवेत् तत्र यत्र स्नेहः प्रवर्तते। अनिष्टेनान्वितं पश्येद् यथा क्षिप्रं विरज्यते। यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वज् ज्ञातिसमागमः। अदर्शनाद् आपतिताः पुनश् चादर्शनं गताः। स्नेहस् तत्र न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम्। कुटुम्बं पुत्रदारं च शरीरं धनसंचयः। पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृते। पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः। सरःपङ्कार्णवे मग्ना जीर्णा इव महागजाः। मातापितृसहस्राणि पुत्रदारशतानि च। असंख्येयान्य् अतीतानि तथैवानागतानि च। न तेषां च मया कार्यं न कार्यं मम तैर् अपि। अतीतम् अनतीतं तद् इति पश्यन् न मुह्यति। दुःखोपघाते शारीरे मानसे वा समुत्थिते। यस्मिन् न शक्यते कर्तुं यत्नात् तन् नानुचिन्तयेत्। यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा। आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत्। अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्वर्यं स्वस्थता चेति न मुह्येत् तत्र पण्डितः। सुखम् एकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे। तत्रापि सुमहद् दुःखं सुखम् अल्पतरं भवेत्। न नित्यं लभते दुःखं न नित्यं लभते सुखम्। सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्। उच्छ्रयान् विनिपातांश् च दृष्ट्वा प्रत्यक्षतः स्वयम्। अनित्यम् असुखं चेति व्यवस्येत् सर्वम् एव च। अर्थानाम् आर्जने दुःखम् आर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं धिग् अर्थं दुःखभाजनम्। अर्थवन्तं नरं नित्यं पञ्च निघ्नन्ति शत्रवः। राजतस्करदायादा भूतानि क्षय एव च। अर्थ एव ह्य् अनर्थस्य मूलम् इत्य् अवधारय। न ह्य् अनर्थाः प्रबाधन्ते नरम् अर्थविवर्जितम्। अर्थप्राप्तिर् महद् दुःखम् आकिंचन्यं परं सुखम्। उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्। धनलाभेन तृष्णाया न तृप्तिर् उपलभ्यते। लब्ध्वा भूयो विवर्धेत समिद्भिर् इव पावकः। जित्वापि पृथिवीं कृत्स्नां चतुःसागरमेखलाम्। सागराणां पुनः पारं जेतुम् इच्छत्य् असंशयम्। अलं परिग्रहेणेह दोषवान् हि परिग्रहः। कोशकारः कृमिर् देवि बध्यते हि परिग्रहात्। य एकां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति च। एकस्मिन्न् एव राष्ट्रे तु स चापि निवसेन् नृपः। तस्मिन् राष्ट्रे ऽपि नगरम् एकम् एवाधितिष्ठति। नगरे ऽपि गृहं चैकं भवेत् तस्य निवेशनम्। एक एव प्रतिष्ठा स्याद् आवासं तद्गृहे ऽपि च। आवासे शयनं चैकं निशि यत्र प्रलीयते। शयनस्यार्धम् एवास्य स्त्रियास् त्व् अर्धं विधीयते। तद् अनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते। सर्वं ममेति संमूढो जनः पश्यति बालिशः। एवं सर्वोपभोगेषु स्वल्पम् अस्य प्रयोजनम्। तण्डुलप्रस्थमात्रेण यात्रा स्यात् सर्वदेहिनाम्। ततो भूयस्तरो भागो दुःखाय पतनाय च। नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम्। सर्वान् कामान् परित्यज्य ब्रह्मभूयाय कल्पते। या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः। यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्। न जातु कामः कामानाम् उपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते। अलाभेनेह कामानां कामांस् त्यजति पण्डितः। आयासविकटस् तीव्रः कामाग्निस् तर्षणारणिः। इन्द्रियार्थेषु संमोहात् पचत्य् अकुशलं जनम्। यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालम् एकस्य पर्याप्तम् इति पश्यन् न मुह्यति। यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्। इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत्। मनःषष्ठानि संयम्य नित्यम् आत्मनि योजयेत्। इन्द्रियाणां विसर्गेण दोषम् ऋच्छत्य् असंशयम्। संनियम्य तु तान्य् एव ततः सिद्धिम् अवाप्नुयात्। षण्णाम् आत्मनि युक्तानाम् ऐश्वर्यं यो ऽधिगच्छति। न स पापैर् न चानर्थैः संयुज्येत विचक्षणः। अप्रमत्तः सदा रक्षेद् इन्द्रियाणि विचक्षणः। अरक्षितेषु तेष्व् आशु नरो नरकम् एति हि। हृदि काममयश् चित्रो मोहसंचयसंभवः। अज्ञानरूढमूलस् तु विधित्सापरिषेचनः। रोषलोभमहास्कन्धः पुरादुष्कृतसारवान्। आयासविटपस् तीव्रः शोकपुष्पो भयाङ्कुरः। नानासंकल्पपत्राढ्यः प्रमादपरिवर्धितः। महतीभिः पिपासाभिः समन्तात् परिवर्धितः। संरोहत्य् अकृतप्रज्ञः पादपः कामसंभवः। नैव रोहति तत्त्वज्ञे रूढो वा छिद्यते पुनः। कृच्छ्रोपायेष्व् अनित्येषु निःसारेषु चलेषु च। दुःखादिषु दुरन्तेषु कामभोगेषु का रतिः। येन संवत्सरो दृष्टः सकृत् कामश् च सेवितः। तेन सर्वम् इदं दृष्टं पुनरावर्तकं जगत्। भोगा भुक्ता मनुष्येण स्वप्ना इव भवन्ति ते। स्वप्नोपभोगतुल्येषु कामभोगेषु का रतिः। इन्द्रियेषु च जीर्यत्सु छिद्यमाने तथायुषि। पुरस्ताच् च स्थिते मृत्यौ किं सुखं पश्यतः शुभे। व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः। नरस्याकृतकृत्यस्य किं सुखं भवति प्रिये। संचिन्वानकम् एवार्थं कामानाम् अवितृप्तकम्। व्याघ्रः पशुम् इवारण्ये मृत्युर् आदाय गच्छति। जन्ममृत्युजरादुःखैः सततं समभिद्रुतः। उमा। संसारे पच्यमानस् तु पापान् नोद्विजते जनः। केनोपायेन मर्त्यानां निवर्तेते जरान्तकौ। यद्य् अस्ति भगवन् मह्यम् एतद् आचक्ष्व माचिरम्। तपसा वा सुमहता कर्मणा वा श्रुतेन वा। महेश्वरः। रसायनप्रयोगैर् वा केनात्येति जरान्तकौ। नैतद् अस्ति महाभागे जरामृत्युनिवर्तनम्। सर्वलोकेषु जानीहि मोक्षाद् अन्यत्र भामिनि। न धनेन न राज्येन नोग्रेण तपसापि वा। मरणं नातिवर्तन्ते विना मुक्त्या शरीरिणः। अश्वमेधसहस्रेण वाजपेयशतेन च। न तरन्ति जरामृत्यू निर्वाणाधिगमाद् विना। ऐश्वर्यं धनधान्यं च विद्या लाभस् तपस् तथा। रसायनप्रयोगश् च न तरन्ति जरान्तकौ। दानयज्ञतपःशीला रसायनविदो ऽपि वा। स्वाध्यायनिरता वापि न तरन्ति जरान्तकौ। देवदानवगन्धर्वकिंनरोरगराक्षसान्। स्ववशे कुरुते कालो न कालस्यास्त्य् अगोचरः। न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः। सो ऽयं प्रपद्यते ऽध्वानम् अजस्रं ध्रुवम् अव्ययम्। स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव। आयुर् आदाय मर्त्यानाम् अहोरात्राणि संततम्। जीवितं सर्वभूतानाम् अक्षयः क्षपयन्न् असौ। आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च। यस्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं भवेत्। गाधोदके मत्स्य इव किं नु तस्य कुमारता। मरणं हि शरीरस्य नियतं ध्रुवम् एव च। तिष्ठन्न् एव क्षणं सर्वः कालस्यैति वशं पुनः। न म्रियेरन् न जीर्येरन् यदि स्युः सर्वदेहिनः। न चानिष्टं प्रवर्तेत शोको वा प्राणिनां क्व चित्। अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति। अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते। श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्। को हि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः। वर्षास्व् इदं करिष्यामि इदं ग्रीष्मवसन्तयोः। इति बालश् चिन्तयति अन्तरायं न बुध्यते। इदं मे स्याद् इदं मे स्याद् इत्य् एवंमनसो नराः। अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति। कालपाशेन बद्धानाम् अहन्य् अहनि जीर्यताम्। का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा। युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम्। फलानाम् इव पक्वानां सदा हि पतनाद् भयम्। मर्त्यस्य किम् उ तैर् दारैः पुत्रैर् भोगैः प्रियैर् अपि। एकाह्ना सर्वम् उत्सृज्य मृत्योर् हि वशम् एयिवान्। जायमानांश् च संप्रेक्ष्य म्रियमाणांस् तथैव च। न संवेगो ऽस्ति चेत् पुंसः काष्ठलोष्टसमो हि सः। विनाशिनो ह्य् अध्रुवजीवितस्य। किं बन्धुभिर् मित्रपरिग्रहैश् च। विहाय यद् गच्छति सर्वम् एव। क्षणेन गत्वा न निवर्तते च। एवं चिन्तयतो नित्यं सर्वार्थानाम् अनित्यताम्। उद्वेगो जायते नित्यं निर्वाणस्य पुरःसरः। तेनोद्वेगेन चाप्य् अस्य विमर्शो जायते पुनः। विमर्शेनाथ वैराग्यं सर्वत्रास्योपजायते। वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे। मोक्षस्योपनिषद् देवि वैराग्यम् इति कीर्तितम्। एतत् ते कथितं देवि वैराग्योत्पादनं वचः। महेश्वरः। एतत् सर्वं हि संचिन्त्य मुच्यन्ते हि मुमुक्षवः। सांख्यज्ञानं प्रवक्ष्यामि यथावत् ते शुचिस्मिते। यज् ज्ञात्वा न पुनर् मर्त्यः संसारेषु प्रवर्तते। ज्ञानेनैव विमुक्तास् ते सांख्याः संन्यासकोविदाः। शारीरं तु तपो घोरं सांख्याः प्राहुर् निरर्थकम्। पञ्चविंशतिकं ज्ञानं तेषां ज्ञानम् इति स्मृतम्। मूलप्रकृतिर् अव्यक्तम् अव्यक्ताज् जायते महान्। महतो ऽभूद् अहंकारस् तस्मात् तन्मात्रपञ्चकम्। इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्य् उत। तेभ्यो भूतानि पञ्च स्युर् इति क्षेत्रसमुच्चयः। अस्य क्षेत्रस्य संक्षेपश् चतुर्विंशतिर् इष्यते। पञ्चविंशतिर् इत्य् आहुः पुरुषेणेह संख्यया। सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः। तैः सृजत्य् अखिलं लोकं प्रकृतिः स्वात्मजैर् गुणैः। इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः। विकाराः प्रकृतेश् चैते वेदितव्या मनीषिभिः। लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक्। विस्तरेण प्रवक्ष्यामि तस्य व्याख्याम् इमां शृणु। नित्यम् एकम् अणु व्यापि क्रियाहीनम् अहेतुकम्। अग्राह्यम् इन्द्रियैः सर्वैर् एतद् अव्यक्तलक्षणम्। अव्यक्तं प्रकृतिर् मूलं प्रधानं योनिर् अव्ययम्। अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः। तत् सूक्ष्मत्वाद् अनिर्देश्यं तत् सद् इत्य् अभिधीयते। तन्मूलं च जगत् सर्वं तन्मूला सृष्टिर् इष्यते। सत्त्वादयः प्रकृतिजा गुणास् तान् प्रब्रवीम्य् अहम्। सुखं तुष्टिः प्रकाशश् च त्रयस् ते सात्त्विका गुणाः। रागद्वेषौ सुखं दुःखं स्तम्भश् च रजसो गुणाः। अप्रकाशो भयं मोहस् तन्द्री च तमसो गुणाः। श्रद्धा प्रहर्षो विज्ञानम् असंमोहो दया धृतिः। सत्त्वे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः। कामः क्रोधो मनस्तापो द्रोहो लोभस् तथा तृषा। प्रवृद्धे परिवर्धन्ते रजस्य् एतानि नित्यशः। विषादः संशयो मोहस् तन्द्री निद्रा भयं तथा। तमस्य् एतानि वर्धन्ते प्रवृद्धे हेत्वहेतुभिः। एवम् अन्योन्यम् एतानि वर्धन्ते च पुनः पुनः। हीयन्ते च तथा नित्यम् अभिभूतानि भूरिभिः। तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्य् उपेक्षेत तत् तथा। यदा संतापसंयुक्तं चित्तक्षोभकरं भवेत्। वर्तते रज इत्य् एवं तदा तद् अभिचिन्तयेत्। यदा संमोहसंयुक्तं यद् विषादकरं भवेत्। अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्। समासात् सात्त्विको धर्मः समासाद् राजसं धनम्। समासात् तामसः कामस् त्रिवर्गे त्रिगुणक्रमात्। ब्रह्मादिदेवसृष्टिर् या सात्त्विकीति प्रकीर्त्यते। राजसी मानुषी सृष्टिस् तिर्यग्योनिस् तु तामसी। ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः। देवमानुषतिर्यक्षु यद् भूतं सचराचरम्। आदिप्रभृति संयुक्तं व्याप्तम् एभिस् त्रिभिर् गुणैः। अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः। विज्ञानं च विवेकश् च महतो लक्षणं भवेत्। महान् बुद्धिर् मतिः प्रज्ञा नामानि महतो विदुः। महदादिक्रियायोगे महत्त्वं चोपजायते। अभिमानः पुनस् तत्र महतो वैकृताद् भवेत्। अहंकारः स विज्ञेयो लक्षणेन समासतः। अहंकारेण भूतानां सर्वेषां प्रभवाप्ययौ। अहंकारनिवृत्तिर् हि निर्वाणायोपपद्यते। खं वायुर् अग्निः सलिलं पृथिवी चेति पञ्चमी। महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ। शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम्। स्पर्शस् त्वक् प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः। रूपं पाको ऽक्षिणी ज्योतिश् चत्वारस् तेजसो गुणाः। रसः स्नेहस् तथा जिह्वा शैत्यं च जलजा गुणाः। गन्धो घ्राणं शरीरं च पृथिव्यास् ते गुणास् त्रयः। इति सर्वगुणा देवि व्याख्याताः पाञ्चभौतिकाः। गुणान् पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तराणि तु। तस्मान् नैकगुणाश् चेह दृश्यन्ते भूतसृष्टयः। उपलभ्याप्सु ये गन्धं के चिद् ब्रूयुर् अनैपुणाः। अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे। तद् गन्धत्वम् अपां नास्ति पृथिव्या एव तद्गुणः। भूमेर् गन्धो रसे स्नेहो ज्योतिश् चक्षुषि संस्थितम्। प्राणापानाश्रयो वायुः खेष्व् आकाशः शरीरिणाम्। केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च। पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम्। यत् किं चिद् अपि काये ऽस्मिन् धातुदोषमलाश्रितम्। तत् सर्वं भौतिकं विद्धि देहे नैवास्त्य् अभौतिकम्। बुद्धीन्द्रियाणि कर्णस् त्वग् अक्षि जिह्वाथ नासिका। कर्मेन्द्रियाणि वाक् पाणिः पादो मेढ्रं गुदं तथा। शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः। बुद्धीन्द्रियार्थाञ् जानीयाद् भूतेभ्यस् त्व् अभिनिःसृतान्। वाक्यं क्रिया गतिः प्रीतिर् उत्सर्गश् चेति पञ्चधा। कर्मेन्द्रियार्थाञ् जानीयात् ते च भूतोद्भवा मताः। इन्द्रियाणां तु सर्वेषाम् ईश्वरं मन उच्यते। प्रार्थनालक्षणं तच् च इन्द्रियं तु मनः स्मृतम्। नियुङ्क्ते च सदा तानि भूतात्मा मनसा सह। नियमे च विसर्गे च मनसः कारणं प्रभुः। इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना धृतिः। भूताभूतविकारश् च शरीरम् इति संज्ञितम्। शरीराच् च परो देही शरीरं च व्यपाश्रितः। शरीरिणः शरीरस्य यो ऽन्तरं वेत्ति वै मुनिः। अरसस्पर्शगन्धं च रूपशब्दविवर्जितम्। अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम्। अव्यक्तं सर्वदेहेषु मर्त्येष्व् अमरम् आश्रितम्। यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते। नैवायं चक्षुषा ग्राह्यो नापरैर् इन्द्रियैर् अपि। मनसैष प्रदीपेन महान् आत्मा प्रदृश्यते। स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च। वसत्य् एको महावीर्यो नानाभावसमन्वितः। नैव चोर्ध्वं न तिर्यक् च नाधस्तान् न कुतश् चन। इन्द्रियैर् इह बुद्ध्या वा न दृश्येत कदा चन। नवद्वारं पुरं गत्वा हंसो ऽसौ नीयते वशम्। ईश्वरः सर्वभूतेषु स्थावरस्य चरस्य च। तम् एवाहुर् अणुभ्यो ऽणुं तं महद्भ्यो महत्तरम्। बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतः। क्षेत्रज्ञम् एकतः कृत्वा सर्वं क्षेत्रम् अथैकतः। एवं संविमृशेज् ज्ञानी संयतः सततं हृदा। पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम्। कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते। अजरो ऽयम् अचिन्त्यो ऽयम् अव्यक्तो ऽयं सनातनः। देहे तेजोमयो देही तिष्ठतीत्य् अपरे विदुः। ज्ञानम् ऊष्मा च वायुश् च शरीरे जीवसंज्ञितः। इत्य् एके निश्चिता बुद्ध्या तत्र ये बुद्धिचिन्तकाः। अपरे सर्वलोकांश् च व्याप्य तिष्ठन्तम् ईश्वरम्। ब्रुवते के चिद् अत्रैव तिले तैलवद् आस्थितम्। अपरे नास्तिका मूढा हीनत्वात् सूक्ष्मलक्षणैः। नास्त्य् आत्मेति विनिश्चित्य प्राहुस् ते निरयालयाः। एवं नानाविधानेन विमृशन्ति महेश्वरम्। ऊहवान् ब्राह्मणो लोके नित्यम् अव्ययम् अक्षरम्। अस्त्य् आत्मा सर्वदेहेषु हेतुस् तत्र सुदुर्गमः। ऋषिभिश् चापि देवैश् च व्यक्तम् एष तु दृश्यते। दृष्ट्वाततं महात्मानं पुनस् तन् न निवर्तते। तस्मात् तद्दर्शनाद् एव विन्दते परमां गतिम्। इति ते कथितो देवि सांख्यधर्मः सनातनः। महेश्वरः। कपिलादिभिर् आचार्यैः सेवितः परमर्षिभिः। सांख्यज्ञानेन युक्तानां तद् एतत् कीर्तितं मया। योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि मे शृणु। स च योगो द्विधा भिन्नो ब्रह्मदेवर्षिसेवितः। समानम् उभयत्रापि वृत्तं शास्त्रप्रचोदितम्। स चाष्टगुणम् ऐश्वर्यम् अधिकृत्य विधीयते। सायुज्यं सर्वदेवानां योगधर्मः परः स्मृतः। ज्ञानं सर्वस्य योगस्य मूलम् इत्य् अवधारय। व्रतोपवासनियमैस् तैस् तैस् तत् परिबृंहयेत्। ऐकात्म्यं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः। आत्मन्य् अव्ययिनि प्राज्ञे ज्ञानम् एतत् तु योगिनाम्। अर्चयेद् ब्राह्मणान् अग्नीन् देवतायतनानि च। वर्जयेद् अशिवां वाचं भवेत् सत्त्वम् उपाश्रितः। दानम् अध्ययनं श्रद्धा व्रतानि नियमास् तथा। सम्यग् आहारशुद्धिश् च शौचम् इन्द्रियनिग्रहः। एतैस् तु वर्धते तेजः पापं चाप्य् अवधूयते। धूतपाप्मा च तेजस्वी लघ्वाहारो जितेन्द्रियः। निःशोको निर्मलो दान्तः पश्चाद् योगं समाचरेत्। अवदध्यान् मनः पूर्वं मत्स्यघात इवामिषम्। एकान्ते विजने देशे सर्वतः संवृते शुचौ। कल्पयेद् आसनं तत्र स्वास्तीर्णं मृदुभिः कुशैः। उपविश्यासने तस्मिन्न् ऋजुकायशिरोधरः। अव्यग्रः सुखम् आसीनः स्वाङ्गानि न विकम्पयेत्। संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन्। भ्रुवोर् मध्ये मनः कृत्वा चिन्तयित्वा शरीरिणम्। यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम्। ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत्। मनोवस्थापनं देवि योगस्योपनिषद् भवेत्। तस्मात् सर्वप्रयत्नेन मनो ऽवस्थापयेत् सदा। त्वक् श्रोत्रं च ततो जिह्वां घ्राणं चक्षुश् च संहरेत्। पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् बुधः। सर्वं चापोह्य संकल्पम् आत्मनि स्थापयेन् मनः। यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि। प्राणापानौ तदा तस्य युगपत् तिष्ठतो वशे। प्राणे हि वशम् आपन्ने योगसिद्धिर् ध्रुवा भवेत्। शरीरं चिन्तयेत् सर्वं विपाट्य च समीपतः। अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत्। ततो मूर्धानम् अग्निं च शारीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते। स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। मनो बुद्धिर् अहंकारो भूतानि विषयांश् च सः। बस्तिमूलं गुदं चैव पावकं च समाश्रितः। वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते। अधःप्रवृत्तिर् देहेषु कर्मापानस्य तन् मतम्। उदीरयन् सर्वधातून् अत ऊर्ध्वं प्रवर्तते। उदान इति तं विद्युर् अध्यात्मकुशला जनाः। संधौ संधौ संनिविष्टः सर्वचेष्टाप्रवर्तकः। शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते। धातुष्व् अग्नौ च विततः समानो ऽग्निः समीरणः। स एव सर्वचेष्टानाम् अन्तकाले निवर्तकः। प्राणानां संनिपातेषु संसर्गाद् यः प्रजायते। ऊष्मा सो ऽग्निर् इति ज्ञेयः सो ऽन्नं पचति देहिनाम्। अपानप्राणयोर् मध्ये प्राणापानसमाहितः। समन्वितः समानेन सम्यक् पचति पावकः। अधस् त्व् अग्निर् अपानेन प्राणेन परिपाल्यते। पृष्ठतस् तु समानेन स्वां स्वां गतिम् उपाश्रितः। शरीरमध्ये नाभिः स्यान् नाभ्याम् अग्निः प्रतिष्ठितः। अग्नौ प्राणाश् च संसक्ताः प्राणेष्व् आत्मा व्यवस्थितः। पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्मृतः। नाभिर् मध्ये शरीरस्य सर्वप्राणास् तम् आश्रिताः। स्थिताः प्राणादयः सर्वे तिर्यग् ऊर्ध्वम् अधश्चराः। वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः। योगिनाम् एष मार्गस् तु पञ्चस्व् एतेषु तिष्ठति। जितश्रमः समासीनो मूर्धन्य् आत्मानम् आदधेत्। मूर्धन्य् आत्मानम् आधाय भ्रुवोर् मध्ये मनस् तथा। संनिरुध्य ततः प्राणान् आत्मानं चिन्तयेत् परम्। प्राणे त्व् अपानं युञ्जीत प्राणांश् चापानकर्मणि। प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत्। एवम् अन्तः प्रयुञ्जीत पञ्च प्राणान् परस्परम्। विजने संमिताहारो मुनिस् तूष्णीं निरुच्छ्वसन्। अश्रान्तश् चिन्तयेद् योगम् उत्थाय च पुनः पुनः। तिष्ठन् गच्छन् स्वपन् वापि युञ्जीतैवम् अतन्द्रितः। एवं नियुञ्जतस् तस्य योगिनो युक्तचेतसः। प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परः। विधूम इव दीप्तो ऽग्निर् आदित्य इव रश्मिमान्। वैद्युतो ऽग्निर् इवाकाशे दृश्यते पुरुषो ऽव्ययः। दृष्ट्वा तद् आत्मानो ज्योतिर् ऐश्वर्याष्टगुणैर् युतम्। प्राप्नोति परमं स्थानं स्पृहणीयं सुरैर् अपि। इमान् योगस्य दोषांश् च दशैव परिचक्षते। दोषैर् विघ्नो वरारोहे योगिनां कविभिः स्मृतः। कामं क्रोधं भयं स्वप्नं स्नेहम् अत्यशनं तथा। वैचित्यं व्याधिम् आलस्यं लोभं च दशमं स्मृतम्। एतैस् तेषां भवेद् विघ्नो दशभिर् देवकारितैः। तस्माद् एतान् अपास्यादौ युञ्जीत चपलं मनः। इमान् अपि गुणान् अष्टौ योगस्य परिचक्षते। गुणैस् तैर् अष्टभिर् द्रव्यम् ऐश्वर्यम् अधिगम्यते। अणिमा महिमा चैव प्राप्तिः प्राकाश्यलाघवे। ईशित्वं च वशित्वं च यत्रकामावसायिता। एतान् अष्टौ गुणान् प्राप्य कथं चिद् योगिनां वराः। ईशाः सर्वस्य लोकस्य देवान् अप्य् अतिशेरते। योगो ऽस्ति नैवात्यशिनो न चैकान्तम् अनश्नतः। न चातिस्वप्नशीलस्य नातिजागरतस् तथा। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा। अनेनैव विधानेन सायुज्ये ऽपि प्रकल्पते। सायुज्यं देवसात्कृत्य प्रयुञ्जीतात्मभक्तितः। अनन्यमनसा देवि नित्यं तद्गतचेतसा। सायुज्यं प्राप्यते देवैर् यत्नेन महता चिरात्। हविभिर् अर्चनैर् होमैः प्रणामैर् नित्यचिन्तया। अर्चयित्वा यथाशक्ति स्वकं देवं विशन्ति ते। सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा। मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने। इति ते कथितो देवि योगधर्मः सनातनः। उमा। न शक्यं प्रष्टुम् अप्य् अन्यैर् योगधर्मस् त्वया विना। त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप। त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर। दक्षयज्ञप्रमथन शूलपाणे ऽरिसूदन। नमस् ते लोकपालेश लोकपाल वरप्रद। नैकशाखम् अपर्यन्तम् अध्यात्मज्ञानम् उत्तमम्। अप्रतर्क्यम् अनिर्देश्यं सांख्ययोगसमन्वितम्। भवता परितुष्टेन शृण्वन्त्या मम भाषितम्। इदानीं श्रोतुम् इच्छामि सायुज्यं त्वद्गतं विभो। कथं परिचरन्त्य् एते भक्तास् त्वां परमेष्ठिनम्। आचारः कीदृशस् तेषां केन तुष्टो भवेद् भवान्। महेश्वरः। वर्ण्यमानं त्वया साक्षात् प्रीणयत्य् अधिकं हि माम्। हन्त ते कथयिष्यामि मम सायुज्यम् अद्भुतम्। येन तेन निवर्तन्ते युक्ताः परमयोगिनः। अव्यक्तो ऽहम् अचिन्त्यो ऽहं पूर्वैर् अपि महर्षिभिः। सांख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम्। अर्चनीयो ऽहम् ईशो ऽहम् अव्ययो ऽहं सनातनः। अहं प्रसन्नो भक्तानां ददाम्य् अमरताम् अपि। न मां विदुः सुरगणा मुनयश् च तपोधनाः। त्वत्प्रियार्थम् अहं देवि मद्विभूतिं ब्रवीमि ते। आश्रमेभ्यश् चतुर्भ्यो ऽहं चतुरो ब्राह्मणाञ् शुभे। मद्भक्तान् निर्मलान् पुण्यान् समानीय तपस्विनः। व्याचख्ये ऽहं तदा देवि योगं पाशुपतं महत्। गृहीतं तच् च तैः सर्वं मुखाच् च मम दक्षिणात्। श्रुत्वा च त्रिषु लोकेषु स्थापितं चापि तैः पुनः। इदानीं च त्वया पृष्टस् त्वत्प्रियार्थम् अनिन्दिते। तत् सर्वं कथयिष्यामि तत् त्वम् एकमनाः शृणु। अहं पशुपतिर् नाम मद्भक्ता ये च मानवाः। सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः। रक्षार्थं मङ्गलार्थं च पवित्रार्थं च भामिनि। लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा। तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः। जटिला मुण्डिता वापि नानाकृतशिखण्डिनः। विकृताः पिङ्गलाभाश् च नग्ना नानाप्रहारिणः। भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः। कपालहस्ता मद्भक्ता मन्निवेशितबुद्धयः। चरन्तो निखिलं लोकं मम हर्षविवर्धनाः। मम पाशुपतं दिव्यं योगशास्त्रम् अनुत्तमम्। सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश् चरन्ति ते। एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम्। उपायं चिन्तयाम्य् आशु येन माम् उपयान्ति ते। स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया प्रिये। नमस्कारेण वा तस्य मुच्यते सर्वकिल्बिषैः। इष्टं दत्तम् अधीतं च यज्ञाश् च सहदक्षिणाः। शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम्। अर्चया शिवलिङ्गस्य परितुष्याम्य् अहं प्रिये। शिवलिङ्गार्चनायां तु विधानम् अपि मे शृणु। गोक्षीरनवनीताभ्याम् अर्चयेद् यः शिवं मम। इष्टस्य हयमेधस्य यत् फलं तस्य तद् भवेत्। घृतमण्डेन यो नित्यम् अर्चयेद् धि शिवं मम। स फलं प्राप्नुयान् मर्त्यो ब्राह्मणस्याग्निहोत्रिणः। केवलेनापि तोयेन स्नापयेद् यः शिवं मम। स चापि लभते पुण्यं मत्प्रियश् च भवेन् नरः। सघृतं गुग्गुलुं सम्यग् धूपयेद् यः शिवान्तिके। गोसवस्य तु यज्ञस्य यत् फलं तस्य तद् भवेत्। यस् तु गुग्गुलुपिण्डेन केवलेनापि धूपयेत्। तस्य रुक्मप्रदानस्य यत् फलं तस्य तद् भवेत्। यस् तु नानाविधैः पुष्पैर् मम लिङ्गं समर्चयेत्। स हि धेनुसहस्रस्य दत्तस्य फलम् आप्नुयात्। यस् तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत्। तस्मात् सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः। एवं नानाविधैर् द्रव्यैः शिवलिङ्गं समर्चयेत्। मत्प्रसादान् मनुष्येषु न पुनर् जायते नरः। अर्चनाभिर् नमस्कारैर् उपहारैः स्तवैर् अपि। भक्तो माम् अर्चयेन् नित्यं शिवलिङ्गेष्व् अतन्द्रितः। पलाशबिल्वपत्राणि राजवृक्षस्रजस् तथा। अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः। फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम्। दत्तं संप्रीणयेद् देवि भक्तैर् मद्गतमानसैः। ममाभिपरितुष्टस्य नास्ति लोके सुदुर्लभम्। तस्मात् ते सततं भक्ता माम् एवाभ्यर्चयन्त्य् उत। मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः। मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः। मद्द्वेषिणश् च ये मर्त्या मद्भक्तद्वेषिणस् तथा। यान्ति ते नरकं क्षिप्रम् इष्ट्वा क्रतुशतैर् अपि। एतत् ते सर्वम् आख्यातं योगं पाशुपतं मम। मद्भक्तैर् मनुजैर् देवि श्राव्यम् एतद् दिने दिने। शृणुयाद् यः पठेद् वापि ममैतं धर्मनिश्चयम्। नारदः। स्वर्गं कीर्तिं धनं धान्यं लभेत स नरोत्तमः। एवम् उक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः। महेश्वरः। अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत। परावरज्ञे धर्माणां तपोवननिवासिनाम्। दीक्षादमशमोपेते सततं व्रतचारिणि। पृच्छामि त्वा वरारोहे पृष्टा वद ममेप्सितम्। सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा। लक्ष्मीर् विष्णोः प्रियतमा धृतिर् भार्या यमस्य तु। मार्कण्डेयस्य धूमोर्णा ऋद्धिर् वैश्रवणस्य तु। वरुणस्य तथा गौरी सवितुश् च सुवर्चला। रोहिणी शशिनो भार्या स्वाहा वह्नेर् अनिन्दिता। कश्यपस्यादितिश् चैव वसिष्ठस्याप्य् अरुन्धती। एताश् चान्याश् च देव्यस् तु सर्वास् ताः पतिदेवताः। श्रूयन्ते लोकविख्यातास् त्वया चैव सहोषिताः। ताभिश् च पूजिता सा त्वम् अनुवृत्त्यानुभाषणैः। तस्मात् त्वां परिपृच्छामि धर्मज्ञे लोकसंमते। स्त्रीधर्मं श्रोतुम् इच्छामि त्वयैव समुदाहृतम्। सधर्मचारिणी मे त्वं समानव्रतचारिणी। समानसारा वीर्येण मयैव त्वं शुभानने। ममैवार्धाच् छरीरस्य निर्मितासि पुरा शुभे। सुरकार्यं करोषि त्वं लोकसंधारणी तथा। अयं हि स्त्रीगणस् त्वां तु अनुयाति न मुञ्चति। त्वत्प्रसादाद् धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणे। त्वया चोक्तं विशेषेण गुरुभूतं हि तिष्ठति। स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये। शश्वद् गौर् गोषु गच्छेत नान्यत्र रमते मनः। एवं लोकगतिर् देवि आदिप्रभृति वर्तते। प्रमदोक्तं तु यत् किं चित् तत् स्त्रीषु बहु मन्यते। न तथा मन्यते स्त्रीषु पुरुषोक्तम् अनिन्दिते। त्वयैव विदितो ह्य् अर्थः स्त्रीणां धर्मः सनातनः। तस्मात् त्वा परिपृच्छामि पृष्टा वद ममेप्सितम्। नारदः। एवम् उक्ता तदा देवी महादेवेन शोभना। सोद्वेगा च सलज्जा च नावदत् तत्र किं चन। पुनः पुनस् तदा देवो देवीं किम् इति चाब्रवीत्। बहुशश् चोदिता देवी सव्रीडा चेदम् अब्रवीत्। उमा। भगवन् देवदेवेश सुरासुरनमस्कृत। महेश्वरः। त्वदन्तिके मया वक्तुं स्त्रीणां धर्मं कथं भवेत्। मन्नियोगाद् अवश्यं तु वक्तव्यं हि मम प्रिये। उमा। इमा नद्यो महादेव सर्वतीर्थोदकान्विताः। उपस्पर्शनहेतोस् त्वां न त्यजन्ति समीपतः। एताभिः सह संमन्त्र्य प्रवक्ष्यामि तवेप्सितम्। अयुक्तं सत्सु तज्ज्ञेषु तान् अतिक्रम्य भाषितुम्। नारदः। मया संमानिताश् चैव भविष्यन्ति सरिद्वराः। इति मत्वा महादेवी नदीर् देवीः समाह्वयत्। विपाशां च वितस्तां च चन्द्रभागां सरस्वतीम्। शतद्रुं देविकां सिन्धुं गोमतीं कौशिकीं तथा। यमुनां नर्मदां चैव कावेरीम् अथ निम्नगाम्। तथा देवनदीं गङ्गां प्राप्तां त्रिपथगां शुभाम्। सर्वतीर्थोदकवहां सर्वपापविनाशनीम्। उमा। एता नदीः समाहूय समुद्वीक्ष्येदम् अब्रवीत्। हे हे पुण्याः सरिच्छ्रेष्ठाः सर्वपापविनोदकाः। ज्ञानविज्ञानसंपन्नाः शृणुध्वं वचनं मम। अयं भगवता प्रश्न उक्तः स्त्रीधर्मम् आश्रितः। न चैकया मया साध्यस् तस्माद् वस् त्व् आनयाम्य् अहम्। युष्माभिस् तद् विचार्यैव वक्तुम् इच्छामि शोभनाः। नारदः। तत् कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः। इति पृष्टास् तया देव्या देवनद्यश् चकम्पिरे। तासां श्रेष्ठतमा गङ्गा वचनं चेदम् अब्रवीत्। धन्याश् चानुगृहीताः स्म अनेन वचनेन ते। या त्वं सुरासुरैर् मान्या नदीर् मानयसे ऽनघे। तवैवार्हन्ति कल्याणि एवं सान्त्वप्रसादनम्। अशक्यम् अपि ये मूर्खाः स्वात्मसंभावनायुताः। वाक्यं वदन्ति संसत्सु स्वयम् एव यथेष्टतः। यः शक्तश् चानहंवादी सुदुर्लभतमो मतः। त्वं हि शक्ता सती देवी वक्तुं प्रश्नम् अशेषतः। व्याहर्तुं नेच्छसि स्त्रीत्वात् संपूजयसि नस् तथा। त्वं हि देवसमा देवि ऊहापोहविशारदा। दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनेधिता। त्वम् एवार्हसि तद् वक्तुं स्त्रीणां धर्मं शुभाशुभम्। याचामहे वयं श्रोतुम् अमृतं त्वन्मुखोद्गतम्। कुरु देवि प्रियं देवि वद स्त्रीधर्मम् उत्तमम्। नारदः। एवं प्रसादिता देवी गङ्गया लोकपूजिता। उमा। प्राह सर्वम् अशेषेण स्त्रीधर्मं सुरसुन्दरी। भगवन् देवदेवेश सुरेश्वर महेश्वर। त्वत्प्रसादात् सुरश्रेष्ठ तवैव प्रियकाम्यया। नारदः। तम् अहं कीर्तयिष्यामि यथावच् छ्रोतुम् अर्हसि। एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात्। ऋषिगन्धर्वयक्षाणां योषितश् चाप्सरोगणाः। नागभूतस्त्रियश् चैव नद्यश् चैव समागताः। श्रोतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे। उमा देवी मुदा युक्ता पूज्यमानाङ्गनागणैः। आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति। स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया। उमा। वक्तुं वचनम् आरेभे स्त्रीणां धर्माश्रितं हितम्। भगवन् सर्वधर्मज्ञ श्रूयतां वचनं मम। ऋतुप्राप्ता सुशुद्धा या कन्या सेत्य् अभिधीयते। तां तु कन्यां पिता माता भ्राता मातुल एव वा। पितृव्यश् चेति पञ्चैते दातुं प्रभवतां गताः। विवाहाश् च तथा पञ्च तासां धर्मार्थकारणात्। कामतश् च मिथो दानं भयाच् च प्रसभात् तथा। दत्ता यस्य भवेद् भार्या एतेषां येन केन चित्। दातारः संविमृश्यैव दातुम् अर्हन्ति नान्यथा। उत्तमानां तु वर्णानां मन्त्रवत्पाणिसंग्रहः। विवाहकरणं चाहुः शूद्राणां संप्रयोगतः। यदा दत्ता भवेत् कन्या तस्मै भार्यार्थिने स्वकैः। तदाप्रभृति सा नारी दशरात्रं विवर्ज्य च। मनसा कर्मणा वाचा ह्य् अनुकूला च सा भवेत्। इति भर्तृव्रतं कुर्यात् पतिम् उद्दिश्य शोभना। तदाप्रभृति सा नारी तत् तत् कुर्यात् पतिप्रियम्। यद् यद् इच्छति वै भर्ता धर्मकामार्थकारणात्। तदैवानुप्रिया भूत्वा तथैवोपचरेत् पतिम्। पतिव्रतात्वं नारीणाम् एतद् एव समासतः। तादृशा सा भवेन् नित्यं यादृशस् तु भवेत् पतिः। शुभाशुभसमाचारे एतद् वृत्तं समासतः। दैवतं सततं साध्वी भर्तारं यानुपश्यति। दैवम् एव भवेत् तस्याः पतिर् इत्य् अवगम्यते। एतस्मिन् कारणे देव पौराणी श्रूयते श्रुतिः। कथयामि प्रसादात् ते शृणु देव समाहितः। कस्य चित् त्व् अथ विप्रस्य भार्ये हि द्वे बभूवतुः। तयोर् एका धर्मकामा देवान् उद्दिश्य भक्तितः। भर्तारम् अवमत्यैव देवतासु समाहिता। चकार विपुलं धर्मं पूजनार्चनयान्वितम्। अपरा धर्मकामा च पतिम् उद्दिश्य शोभना। भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम्। एवं संवर्तमाने तु युगपन् मरणे ऽध्वनि। गते किल महादेव तत्रैका या पतिव्रता। देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा। देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता। तां यमो लोकपालस् तु बभाषे पुष्कलं वचः। मा शोचीस् त्वं निवर्तस्व न लोकाः सन्ति ते शुभे। स्वधर्मविमुखासि त्वं तस्माल् लोका न सन्ति ते। दैवतं हि पतिर् नार्याः स्थापितं सर्वदैवतैः। अवमत्य शुभे तं त्वं कथं लोकान् गमिष्यसि। मोहेन त्वं वरारोहे न जानीषे स्वदैवतम्। पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पितस् त्व् इति। तस्मात् त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम्। तदा गन्तासि लोकांस् तान् यान् गच्छन्ति पतिव्रताः। नान्यथा शक्यते प्राप्तुं पत्नीनां लोक उत्तमः। यमेनैवंविधं चोक्त्वा निवृत्य पुनर् एव सा। बभूव पतिम् आलम्ब्य पतिप्रियपरायणा। एवम् एतन् महादेव दैवतं हि पतिः स्त्रियः। उमा। तस्मात् पतिपरा भूत्वा पतिं परिचरेद् इति। पतिमत्या दिवारात्रं वृत्तान्तः श्रूयतां शुभः। पत्युः पूर्वं समुत्थाय प्रातःकर्म समादिशेत्। पत्युर् भावं विदित्वा तु पश्चात् संबोधयेत् पतिम्। ततः पौर्वाह्णिकं कार्यं स्वयं कुर्याद् यथाविधि। निवेद्य च तथाहारं यथा संपद्यताम् इति। तथैव कुर्यात् तत् सर्वं यथा पत्युः प्रियं भवेत्। यथा पत्युस् तथा भर्तुर् गुरूणां प्रतिपद्यते। शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया। भर्तुर् निष्क्रमणे कार्यं संस्मरेद् अप्रमादतः। आगतं तु पतिं दृष्ट्वा सहसा परिचारकैः। स्वयं कुर्वीत संप्रीत्या कायश्रमहरं परम्। पाद्यासनाभ्यां शयनैर् वाक्यैश् च हृदयप्रियैः। अतिथीनाम् आगमने प्रीतियुक्ता सदा भवेत्। कर्मणा वचनेनापि तोषयेद् अतिथीन् सदा। मङ्गल्यं गृहशौचं च सर्वोपकरणानि च। सर्वकालम् अवेक्षेत कारयन्ती च कुर्वती। धर्मकार्ये तु संप्राप्ते तद्वद् धर्मपरा भवेत्। अर्थकार्ये पुनर् भर्तुः प्रमादालस्यवर्जिता। सा यत्नं परमं कुर्यात् तस्य साहाय्यकारणात्। युगंधरा भवेत् साध्वी पत्युर् धर्मार्थयोः सदा। विहारकाले वै भर्तुर् ज्ञात्वा भावं हृदि स्थितम्। अलंकृत्य यथायोगं हावभावसमन्विता। वाक्यैर् मधुरसंयुक्तैः स्मयन्ती तोषयेत् पतिम्। येन येन यथा तुष्येत् तथा सा तोषयेत् पतिम्। कठोराणि न वाच्यानि अन्यदा प्रमदान्तरे। यस्यां कामी भवेद् भर्ता तस्याः प्रीतिकरा भवेत्। अप्रमादं पुरस्कृत्य मनसा जोषयेत् पतिम्। अनन्तरं तथान्येषां भोजनावेक्षणं चरेत्। दासीदासबलीवर्दांश् चण्डालांश् च शुनस् तथा। अनाथान् कृपणांश् चैव भिक्षुकांश् च तथैव च। पूजयेद् बलिभैक्षेण पत्युर् धर्मविवृद्धये। कुपितं वार्थहीनं वा श्रान्तं वोपचरेत् पतिम्। यथा स तुष्टः स्वस्थश् च भवेत् संतोषयेत् पतिम्। तथा कुटुम्बचिन्तायां विवादे चार्थसंशये। आहूता च सहायार्थं तदा प्रियहितं वदेत्। अप्रियं वा हितं ब्रूयात् तस्य कामार्थकाङ्क्षया। एकान्तचर्याकथनं कलहं वर्जयेत् परैः। बहिर् आलोकनं चैव मोहं व्रीडां च पैशुनम्। बह्वाशित्वं दिवास्वप्नम् एवमादीनि वर्जयेत्। रहस्य् एकासनं साध्वी न कुर्याद् आत्मजैर् अपि। यद् यद् दद्यान् निधत्स्वेति न्यासवत् परिपालयेत्। विस्मृतं वा पतिद्रव्यं प्रतिदद्यात् स्वशौचतः। यत् किं चित् पतिना दत्तं तल् लब्ध्वा सुमुखी भवेत्। अतियाच्ञाम् अतीर्ष्यां च दूरतः परिवर्जयेत्। बालवद् वृद्धवन् नार्याः सदैवातुरवत् पतिः। भार्यया व्रतम् इत्य् एव भर्तव्यः सततं विभो। एतत् पतिव्रतावृत्तम् उक्तं देव समासतः। न च भोगे न चैश्वर्ये न धने न सुखे तथा। स्पृहा यस्या यथा पत्यौ सा नारीणां पतिव्रता। पतिर् हि दैवतं स्त्रीणां पतिर् बन्धुः पतिर् गतिः। नान्यां गतिम् अहं पश्ये प्रमदानां यथा पतिः। जातिष्व् अपि च वै स्त्रीत्वं विशिष्टम् इति मे मतिः। कायक्लेशेन महता पुरुषः प्राप्नुयात् फलम्। तत् सर्वं लभते नारी सेवन्तीन्द्रियगोचरान्। यथासुखं पतिमती सर्वं पत्यनुकूलतः। ईदृशं धर्मसौकर्यं पश्यध्वं प्रमदाः प्रति। एतद् विस्मृत्य वर्तन्ते कुस्त्रियः पापमोहिताः। तपश्चर्या च दानं च पतौ तस्याः समर्पितौ। रूपं कुलं यशः स्वर्गः सर्वं तस्मिन् प्रतिष्ठितम्। एवंवृत्तसमाचारा स्ववृत्तेनैव शोभना। पतिना च समं गच्छेत् पुण्यलोकान् स्वकर्मणा। वृद्धो विरूपो बीभत्सुर् धनवान् निर्धनो ऽपि वा। एवंभूतो ऽपि भर्ता वै स्त्रीणां भूषणम् उत्तमम्। आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम्। या पतिं तोषयेत् साध्वी सा नारीणां पतिव्रता। दरिद्रांश् च विरूपांश् च प्रमूढान् कुष्ठसंयुतान्। एवंविधान् पतीन् देव तोषयित्वा पतिव्रता। उपर्य् उपरि तांल् लोकान् पत्यैव सह गच्छति। एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत्। तदानुमरणं गच्छेत् पुनर् धर्मं चरेत वा। उमा। एतद् एवं मया प्रोक्तं स्त्रीणां धर्माश्रितं हितम्। एवम् एतन् मया प्रोक्तं स्त्रियस् तु बहुधा स्मृताः। देवतानागगन्धर्वमनुष्या इति नैकधा। सौम्यशीलाः शुभाचाराः सर्वास् ताः संभवन्ति हि। अथाशुभं प्रवक्ष्यामि स्त्रीणां वृत्तं महेश्वर। आसुर्यश् चैव पैशाच्यो राक्षस्यश् च भवन्ति याः। तासां वृत्तम् अशेषेण श्रूयतां लोककारणात्। न्यायतो वान्यथा प्रोक्ता भावदोषसमन्विताः। भर्तॄन् अपचरन्त्य् एव रागद्वेषबलात्कृताः। स्वधर्मविमुखा भूत्वा प्रदुष्यन्ति यतस् ततः। प्रवृद्धविषया नित्यं प्रतिकूलं वदन्ति च। अर्थान् विनाशयन्त्य् एव न गृह्णन्ति हितं क्व चित्। स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा। गुणवत्यः क्व चिद् भूत्वा पतिधर्मपरा इव। पुनर् भवन्ति पापिष्ठा विषमं वृत्तम् आश्रिताः। अनवस्थितमर्यादा बहुवेषा व्ययप्रियाः। असंतुष्टाश् च लुब्धाश् च ईर्ष्याक्रोधयुता भृशम्। भोगप्रिया हितद्वेष्याः कामभोगपरायणाः। पतीन् परिभवन्त्य् एव प्रतिकूलपरायणाः। प्रायशो ऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः। एवंयुक्तसमाचारा आसुरं भावम् आश्रिताः। अपराः पापकारिण्यः सततं कलहप्रियाः। परुषा रूक्षवचना निर्घृणा निरपत्रपाः। निःस्नेहाः कोपनाश् चैव भर्तृपुत्रस्वबन्धुषु। घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च। पतीन् व्यभिचरन्त्य् एवम् उन्मार्गेण यथा तथा। बन्धुभिर् भर्त्सिता भूत्वा गृहकार्याणि कुर्वते। अथ वा भर्त्सिता देव नीचवृत्ताः स्वबन्धुषु। तथैवात्मवधं घोरं व्यवस्येयुर् न संशयः। निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपनाः। धर्मार्थरहिता घोराः सततं कुर्वते क्रियाः। अनर्थनिपुणाः पापाः परप्राणेषु निर्दयाः। एवंयुक्तसमाचाराः स्त्रियः पैशाच्यम् आश्रिताः। अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः। अशुद्धा मलदिग्धाङ्गाः पानमांसरता भृशम्। वदन्त्य् अनृतवाक्यानि हसन्ति विलपन्ति च। दुष्प्रसादा महाक्रोधाः स्वप्नशीला निरन्तरम्। तामस्यो नष्टतत्त्वार्था मन्दशीला महोदराः। भुञ्जन्ति विविधं सिद्धं भोजनं तीव्रसंभ्रमाः। गुणरूपवयोयुक्तं पतिं कामुकम् उत्तमम्। हित्वान्यान् एव गच्छन्ति सर्वथा भृशपापिकाः। निर्लज्जा धर्मसंदिग्धाः प्रतिकूलाः समन्ततः। एवंयुक्तसमाचाराः स्त्रियो राक्षस्यम् आश्रिताः। एवंविधानां सर्वासां न परत्रेह वा सुखम्। एतासाम् एव कुस्त्रीणां मृतानां च महेश्वर। असंशयं चिरं कालं नरके वास इष्यते। नरकाद् धि विमुक्तानां कथं चित् कालपर्ययात्। इष्यते जन्म मानुष्यं कष्टं तत्रापि भुञ्जते। तासां दुष्कृतसंयोगाद् दुःखं जन्मान्तरेष्व् अपि। दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः। विधवा दुर्भगा वापि लभन्ते दुःखम् ईदृशम्। शतवर्षसहस्रान्तम् आत्मानं व्यभिचारिणी। नयेज् जारं च निरयं पतिं पापेन योजयेत्। एतद् यदि तु विज्ञाय पुनश् चेद् धितम् आत्मनः। कुर्युर् भर्तारम् आश्रित्य तथा धर्मम् अवाप्नुयुः। अभिसंयान्ति ता लोकान् पुण्यान् परमशोभनान्। अवमत्य तु याः पूर्वं पतिं दुष्टेन चेतसा। वर्तमानाश् च सततं भर्तॄणां प्रतिकूलताम्। भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः। कामात् क्रोधाद् भयान् मोहाद् अपहास्या भवन्ति ताः। आदिप्रभृति कुस्त्रीणां तथानुमरणं वृथा। आदिप्रभृति या साध्वी भर्तुः प्रियपरायणा। ऊर्ध्वं गच्छति सा तत्र भर्त्रानुमरणं गता। एवं मृताया वै लोकान् अहं पश्यामि चक्षुषा। स्पृहणीयान् सुरगणैर् यान् गच्छन्ति पतिव्रताः। अथ वा भर्तरि मृते वैधव्यं धर्मम् आश्रिता। मृतं च पतिम् उद्दिश्य कुर्याच् चैवंविधं तपः। एवं गच्छति सा नारी पतीनां लोकम् उत्तमम्। रमणीयम् अनिर्देश्यं दुष्प्रापं देवमानुषैः। प्राप्नुयात् तादृशं लोकं केवलं या पतिव्रता। इति ते कथितं देव स्त्रीणां धर्मम् अनुत्तमम्। तवैव प्रियकामिन्या यन् मयोक्तं तवाग्रतः। नारदः। चापल्यान् मम देवेश तद् भवान् क्षन्तुम् अर्हति। एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम्। तोषयाम् आस देवेशो वाचा संपूजयन् प्रियाम्। ऋषयो देवगन्धर्वाः सासुराः साप्सरोगणाः। दैवतप्रमदाश् चापि देवनद्यश् च संगताः। प्रणम्य शिरसा देवीं स्तुतिभिश् चापि तुष्टुवुः। पूजयाम् आसुर् अपरे देवदेवं मुदा युताः। अपरे विस्मयान् नोचुस् तम् अर्थम् अभिचिन्त्य वै। संप्रहृष्टमनाः शर्वः संवादं चिन्तयन् मुहुः। तत्र तस्मिन् क्षणे देवीं देवो वचनम् अब्रवीत्। शृणु कल्याणि मद्वाक्यं यद् इदं तु त्वया मया। कृतं संवादम् अभवत् तत् त्रिलोकं गमिष्यति। पुण्यं पवित्रम् आख्यानं भविता तन् न संशयः। य इदं श्रावयेद् विद्वान् संवादं त्व् आवयोः प्रिये। शुचिर् भूत्वा नरान् युक्तान् स यज्ञफलम् आप्नुयात्। ये त्व् एनं शृणुयुर् नित्यं धर्म्यं तद्गतमानसाः। श्रवणाद् एव तेषां तु महद् धर्मफलं भवेत्। कथयेच् छृणुयाद् वापि यः कश् चिन् नित्यम् आह्निकम्। स भवेन् मत्प्रियो देवि तं स्मरामि दिने दिने। य इमं पठते नित्यं संवादं चावयोः शुभम्। कीर्तिम् आयुष्यम् आरोग्यं परत्रेह स विन्दति। नारदः। श्रुत्वा चेमं प्रयोक्ता तु कथं स न भवेन् महान्। इत्य् उक्त्वा स महादेवस् तत्रैवान्तरधीयत। देवीं देवं वयं तत्र नापश्याम प्रभावतः। एवं पुरा मयाश्चर्यं दृष्टं हैमवते वने। चरता तीर्थयात्रार्थं पुरा केशिनिषूदन। भीष्मः। तद् अद्य कथितं सर्वं तव केशव शृण्वतः। एतावद् उक्त्वा देवर्षिर् नारदो विरराम ह। वैशंपायनः। तद् अद्य निखिलेनैव कथितं ते युधिष्ठिर। धर्मराजस् तु तच् छ्रुत्वा भ्रातृभिर् मुदितो ऽभवत्। तत् सर्वं निखिलं प्रोक्तं तवेह जनमेजय। ऋषयः। पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत। महेश्वरः। माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शंकर। पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः। कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः। दशबाहुर् महातेजा देवतारिनिषूदनः। श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः। ब्रह्मा तस्योदरशयस् तथाहं च शिरोभवः। शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः। ऋषयो देहसंभूतास् तस्य लोकाश् च शाश्वताः। पितामहगृहं साक्षात् सर्वदेवगृहं च सः। सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः। संहर्ता चैव भूतानां स्थावरस्य चरस्य च। स देवरिपुजित् साक्षाद् देवनाथः परंतपः। सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः। परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः। न तस्मात् परमं भूतं त्रिषु लोकेषु किं चन। सुरकार्यार्थम् उत्पन्नो मानुषं वपुर् आस्थितः। न हि देवगणाः शक्तास् त्रिविक्रमविनाकृताः। भुवने देवकार्याणि कर्तुं नायकवर्जिताः। नायकः सर्वदेवानां सर्वभूतनमस्कृतः। एतस्य देवनाथस्य देवकार्यपरस्य च। ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च। ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः। सर्वाः सुखस्थिताश् चैव शरीरे तस्य देवताः। स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः। शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः। उत्तमेन च शौचेन शीलेन च दमेन च। पराक्रमेण वीर्येण वपुषा दर्शनेन च। आरोहेण प्रमाणेन धैर्येणार्जवसंपदा। आनृशंस्येन रूपेण बलेन च समन्वितः। अस्त्रैः समुदितः सर्वैर् दिव्यैश् चाद्भुतदर्शनैः। योगमायः सहस्राक्षो निरवद्यो महामनाः। धीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः। क्षमावान् अनहंवादी ब्रह्मण्यो ब्रह्मनायकः। भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः। शरण्यः सर्वभूतानां दीनानां पालने रतः। श्रुतवान् अर्थसंपन्नः सर्वभूतनमस्कृतः। समाश्रितानाम् उपकृच् छत्रूणाम् अपि धर्मवित्। मतिमान् नीतिसंपन्नो ब्रह्मचारी जितेन्द्रियः। भवार्थम् इह देवानां बुद्ध्या परमया युतः। प्राजापत्ये शुभे मार्गे मानवे धर्मसंहिते। समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः। अङ्गनामा मनोः पुत्रस् त्व् अन्तर्धामा ततः परः। अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः। प्राचीनबर्हिर् भविता हविर्धामसुतो महान्। तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः। प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः। दाक्षायिण्यास् तथादित्यो मनुर् आदित्यतस् तथा। मनोश् च वंशज इडा सुद्युम्नश् च भविष्यति। बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति। नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः। यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति। क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति। वृजिनीवतो हि भविता उषद्गुर् अपराजितः। उषद्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा। तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति। तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम्। यज्विनां सुविशुद्धानां वंशे ब्राह्मणसंमते। स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः। स्ववंशविस्तरकरं जनयिष्यति मानदः। वसुदेव इति ख्यातं पुत्रम् आनकदुंदुभिम्। तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति। दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः। राज्ञः सर्वांश् च रुद्धान् स मोक्षयिष्यति मानदः। जरासंधं च राजानं निर्जित्य गिरिगह्वरे। सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान्। पृथिव्याम् अप्रतिहतो वीर्येण च भविष्यति। विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः। शूरसेनेषु संभूतो द्वारकायां वसन् प्रभुः। पालयिष्यति गां देवीं विजित्य नयवत् सदा। तं भवन्तः समासाद्य वाङ्माल्यैर् अर्हणैर् वरैः। अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम्। यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम्। द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान्। दृष्टे तस्मिन्न् अहं दृष्टो न मे ऽत्रास्ति विचारणा। पितामहो वा देवेश इति वित्त तपोधनाः। स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति। तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति। यश् च तं मानवो लोके संश्रयिष्यति केशवम्। तस्य कीर्तिर् जयश् चैव स्वर्गश् चैव भविष्यति। धर्माणां देशिकः साक्षात् स भविष्यति धर्मभाक्। धर्मविद्भिः स देवेशो नमस्कार्यः सदोद्यतैः। धर्म एव परो हि स्यात् तस्मिन्न् अभ्यर्चिते विभौ। स हि देवो महातेजाः प्रजाहितचिकीर्षया। धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह। ताः सृष्टास् तेन विभुना पर्वते गन्धमादने। सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः। तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः। वन्दितो हि स वन्देत मानितो मानयेत च। अर्चितश् चार्चयेन् नित्यं पूजितः प्रतिपूजयेत्। दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत्। अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः। एतत् तस्यानवद्यस्य विष्णोर् वै परमं व्रतम्। आदिदेवस्य महतः सज्जनाचरितं सदा। भुवने ऽभ्यर्चितो नित्यं देवैर् अपि सनातनः। उभयेनानुरूपेण यजन्ते तम् अनुव्रताः। कर्मणा मनसा वाचा नमस्यः स द्विजैः सदा। यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः। एष वो ऽभिहितो मार्गो मया वै मुनिसत्तमाः। तं दृष्ट्वा सर्वशो देवा दृष्टाः स्युर् मुनिसत्तमाः। महावराहं तं देवं सर्वलोकपितामहम्। अहं चैव नमस्यामि नित्यम् एव जगत्पतिम्। तत्र वस् त्रितयं दृष्टं भविष्यति न संशयः। समस्ता हि वयं देवास् तस्य देहे वसामहे। तस्य चैवाग्रजो भ्राता सिताभ्रनिचयप्रभः। हली बल इति ख्यातो भविष्यति धराधरः। त्रिशिरास् तस्य देवस्य शातकौम्भमयो द्रुमः। ध्वजस् तृणेन्द्रो देवस्य भविष्यति रथाश्रितः। शिरो नागैर् महाभोगैः परिकीर्णं महात्मनः। भविष्यति महाबाहोः सर्वलोकेश्वरस्य हि। चिन्तितानि समेष्यन्ति शस्त्राण्य् अस्त्राणि चैव ह। अनन्तश् च स एवोक्तो भगवान् हरिर् अव्ययः। समादिष्टः स विबुधैर् दर्शयन्तम् इति प्रभो। सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली। अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः। स च शेषे विचरते परया वै मुदा युतः। अन्तर् वसति भोगेन परिरभ्य वसुंधराम्। स एष विष्णुः सो ऽनन्तो भगवान् वसुधाधरः। यो रामः स हृषीकेशो यो ऽच्युतः स धराधरः। ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यवपुर्धरौ। द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ। एष यो ऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः। नारदः। यं भवन्तो द्विजश्रेष्ठाः पूजयेयुः प्रयत्नतः। अथ व्योम्नि महाञ् शब्दः सविद्युत् स्तनयित्नुमान्। मेघैश् च गगनं नीलैः संरुद्धम् अभवद् घनैः। प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः। नभश् चैवाभवद् घोरं दिशश् च न चकाशिरे। ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने। न शर्वं भूतसंघं वा ददृशुर् मुनयस् तदा। व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत। तीर्थयात्रां ततो विप्रा जग्मुश् चान्ये यथागतम्। तद् अद्भुतम् अचिन्त्यं च दृष्ट्वा ते विस्मिताभवन्। शंकरस्योमया सार्धं संवादं तत्कथाश्रयम्। भगवान् पुरुषव्याघ्रो ब्रह्मभूतः सनातनः। यदर्थम् अनुशिष्टाः स्मो गिरिपृष्ठे महात्मना। द्वितीयम् अद्भुतम् इदं त्वत्तेजःकृतम् अद्य वै। दृष्ट्वातिविस्मिताः कृष्ण सा च नः स्मृतिर् आगता। एतत् ते देवदेवस्य माहात्म्यं कथितं विभो। कपर्दिनो गिरीशस्य महाबाहो जनार्दन। इत्य् उक्तः स तदा कृष्णस् तपोवननिवासिभिः। मानयाम् आस तान् सर्वान् ऋषीन् देवकिनन्दनः। अथर्षयः संप्रहृष्टाः पुनस् ते कृष्णम् अब्रुवन्। पुनः संदर्शयस्वास्मान् सदैव मधुसूदन। न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो। तादृशं च महाबाहो यथाह भगवान् भवः। एतत् ते सर्वम् आख्यातं रहस्यम् अरिकर्शन। त्वम् एव ह्य् अर्थतत्त्वज्ञः पृष्टो ऽस्मान् पृच्छसे सदा। तद् अस्माभिर् इदं गुह्यं त्वत्प्रियार्थम् उदाहृतम्। न च ते ऽविदितं किं चित् त्रिषु लोकेषु विद्यते। जन्म चैव प्रसूतिश् च यच् चान्यत् कारणं भुवि। वयं तु बटुचापल्याद् अशक्ता गुह्यधारणे। ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे। न हि किं चित् तद् आश्चर्यं यन् न वेत्ति भवान् इह। दिवि वा भुवि वा देव सर्वं हि विदितं तव। साधयाम वयं देव वृद्धिं पुष्टिम् अवाप्नुहि। पुत्रस् ते सदृशस् तात विशिष्टो वा भविष्यति। भीष्मः। महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभो। ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्। प्रदक्षिणम् उपावृत्य प्रजग्मुस् ते महर्षयः। सो ऽयं नारायणः श्रीमान् दीप्त्या परमया युतः। व्रतं यथावत् तच् चीर्त्वा द्वारकां पुनर् आगमत्। पूर्णे च दशमे मासि पुत्रो ऽस्य परमाद्भुतः। रुक्मिण्यां संमतो जज्ञे शूरो वंशधरः प्रभो। स कामः सर्वजन्तूनां सर्वभागवतो नृप। सुराणाम् असुराणां च चरत्य् अन्तर्गतः सदा। सो ऽयं पुरुषशार्दूलो मेघवर्णश् चतुर्भुजः। संश्रितः पाण्डवान् प्रेम्णा भवन्तश् चैनम् आश्रिताः। कीर्तिर् लक्ष्मीर् धृतिश् चैव स्वर्गमार्गस् तथैव च। यत्रैष संस्थितस् तत्र देवो विष्णुस् त्रिविक्रमः। सेन्द्रा देवास् त्रयस्त्रिंशत् स्थिता नात्र विचारणा। आदिदेवो महादेवो भूतानां च प्रतिश्रयः। अनादिनिधनो ऽव्यक्तो महात्मा मधुसूदनः। स्वयंजातो महातेजाः सुराणाम् अर्थसिद्धये। सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः। तव पार्थ जयः कृत्स्नस् तव कीर्तिस् तथातुला। तवेयं पृथिवी कृत्स्ना नारायणसमाश्रयात्। अयं नाथस् तवाचिन्त्यो यस्य नारायणो हृदि। स भवान् भूमिपाध्वर्यू रणाग्नौ हुतवान् नृपान्। कृष्णः स्रुवेण महता युगान्ताग्निसमेन वै। दुर्योधनस् तु शोच्यो ऽसौ सपुत्रभ्रातृबान्धवः। कृतवान् यो ऽबुधः कोपाद् धरिगाण्डीवविग्रहम्। दैतेया दानवेन्द्राश् च महाकाया महाबलाः। चक्राग्नौ क्षयम् आपन्ना दावाग्नौ शलभा इव। प्रतियोद्धुं न शक्यो हि मानुषैर् एष संयुगे। निहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः। जयो यो ऽयं युगान्ताभः सव्यसाची रणाग्रगः। तेजसा हतवान् सर्वं सुयोधनबलं नृप। यत् तु वै वृषभाङ्केन मुनिभ्यः समुदाहृतम्। पुराणं हिमवत्पृष्ठे तन् मे निगदतः शृणु। यावद् अस्योद्भवस् तुष्टिस् तेजो वीर्यं पराक्रमः। प्रभावः सन्नतिर् जन्म कृष्णे तत् त्रितयं विभो। न शक्यम् अन्यथा कर्तुं तद् यदि स्यात् तथाप्य् अणु। यत्र कृष्णो हि भगवांस् तत्र तुष्टिर् अनुत्तमा। वयं हि बालमतयः परनेत्राः सुविक्लवाः। ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानम् उत्तमम्। भवांश् चाप्य् आर्जवपरः सर्वं कृत्वा प्रतिश्रयम्। राजवृत्तान् न चलते प्रतिज्ञापालने रतः। अप्य् एवात्मवधं लोके राजंस् त्वं बहु मन्यसे। न हि प्रतिज्ञया दत्तं तं प्रहातुम् अरिंदम। कालेनायं जनः सर्वो निहतो रणमूर्धनि। वयं च कालेन हताः कालो हि परमेश्वरः। न हि कालेन कालज्ञ स्पृष्टः शोचितुम् अर्हति। कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः। तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुम् अर्हसि। व्यपेतमन्युर् नित्यं त्वं भव कौरवनन्दन। माधवस्य च माहात्म्यं श्रुतं यत् कथितं मया। तद् एव तव पर्याप्तं सज्जनस्य निदर्शनम्। व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः। स्वयं चैव महाराज कृष्णस्यार्हत्तमस्य वै। प्रभावश् चर्षिपूगस्य कथितः सुमहान् मया। महेश्वरस्य संवादः शैलपुत्र्याश् च भारत। धारयिष्यति यश् चेमं महापुरुषसंभवम्। शृणुयात् कथयेद् वा यः स वै श्रेयो लभेत् परम्। भवितारश् च तस्याथ सर्वे कामा यथेप्सिताः। प्रेत्य माहेश्वरं लोकं लभते नात्र संशयः। नायं श्रेयोभिकामेन प्रतिपत्तुं जनार्दने। एष वै चाक्षयो विप्रैः स्मृतो राजञ् जनार्दनः। महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः। ते त्वया मनसा धार्याः कुरुराज दिवानिशम्। एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च। प्रजापालनदक्षस्य स्वर्गलोको भविष्यति। धर्मेण हि सदा राजा प्रजा रक्षितुम् अर्हति। यस् तस्य विपुलो दण्डः सम्यग् धर्मः स कीर्त्यते। स एष कथितो राजन् मया सज्जनसंनिधौ। शंकरस्योमया सार्धं संवादो धर्मसंहितः। श्रुत्वा वा श्रोतुकामो वाप्य् अर्चयेद् वृषभध्वजम्। विशुद्धेन हि भावेन य इच्छेद् भूतिम् आत्मनः। एष तस्यानवद्यस्य नारदस्य महात्मनः। संदेशो देवपूजार्थं तं तथा कुरु पाण्डव। एतद् अत्यद्भुतं वृत्तं पुण्यं हैमवते गिरौ। वासुदेवस्य कौन्तेय स्थाणोश् चैव स्वभावजम्। दश वर्षसहस्राणि बदर्याम् एष सात्वतः। तपश् चचार विपुलं सह गाण्डीवधन्वना। त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ। विदितौ नारदाद् एतौ मम व्यासाच् च पार्थिव। बाल एव महाबाहुश् चकार कदनं महत्। कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात्। कर्मणाम् अस्य कौन्तेय नान्तं संख्यातुम् उत्सहे। शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर। ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्। यस्य ते पुरुषव्याघ्रः सहायो ऽयं जनार्दनः। दुर्योधनं तु शोचामि प्रेत्यलोके ऽतिदुर्मतिम्। यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा। दुर्योधनापराधेन कर्णस्य शकुनेस् तथा। वैशंपायनः। दुःशासनचतुर्थानां कुरवो निधनं गताः। एवं प्रभाषमाणे तु गाङ्गेये पुरुषर्षभे। तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम्। तच् छ्रुत्वा विस्मयं जग्मुर् धृतराष्ट्रादयो नृपाः। संपूज्य मनसा कृष्णं सर्वे प्राञ्जलयो ऽभवन्। ऋषयश् चापि ते सर्वे नारदप्रमुखास् तथा। प्रतिगृह्याभ्यनन्दन्त तद् वाक्यं प्रतिपूज्य च। इत्य् एतद् अखिलं सर्वं पाण्डवो भ्रातृभिः सह। श्रुतवान् सुमहच् चित्रं पुण्यं भीष्मानुशासनम्। युधिष्ठिरस् तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम्। पुनर् एव महाबुद्धिः पर्यपृच्छन् महीपतिः। युधिष्ठिरः। क उपायो वरप्राप्तौ सर्वेषां पापकर्मणाम्। भीष्मः। ज्ञानस्य च परस्येह तन् मे ब्रूहि पितामह। उपायो ऽयं वरप्राप्तौ परमः परिकीर्तितः। नारायणस्य तु ध्यानम् अर्चनं यजनं स्तुतिः। श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा। विद्वच्छुश्रूषणप्रीतिर् उपदेशानुपालनम्। संध्यानेन जपेनाशु मुच्यते प्राकृतो ऽपि च। जपश् चतुर्विधः प्रोक्तो वैदिकस् तान्त्रिको ऽपि च। पौराणिको ऽथ विद्वद्भिः कथितः स्मार्त एव च। द्विजशुश्रूषया ज्ञानं विद्वत्संरक्षणेन वा। नासाध्यं ज्ञानिनां किं चित् तस्माद् रक्ष्या द्विजास् त्वया। सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु। आसीद् आश्वासिता विद्वत्संरक्षणफलात् किल। विप्रस्य मरणे हेतुस् तत्पत्नी पितृशोकदा। वैश्या त्वम् अभिलाषेयं विप्रकन्येति सांप्रतम्। इत्य् उक्ताश्वासितापृच्छत् केनैवं पापसंयुता। यमः। जाता विप्रकुले सम्यक् श्रेयश् चापि ब्रवीहि मे। अन्यजन्मनि विद्वांसं प्रहारैर् अभिपीडितम्। चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका। इत्य् उक्ताष्टाक्षरध्यानजपादिश्रेयसा तु सा। यमेनानुगृहीताभूत् पुण्यलोकनिवासिनी। तन् नित्यं विदुषां रक्षातत्परो भव भूपते। तेषां संरक्षणात् तुष्टः सर्वपापैः प्रमुच्यते।
tato yayur bhūtagaṇāḥ saritaś ca yathāgatam. gandharvāpsarasaś caiva praṇamya śirasā bhavam. vaiśaṃpāyanaḥ. anuśāsya śubhair vākyair bhīṣmas tv āha mahāmatim. janamejayaḥ. prītyā punaḥ sa śuśrūṣur vacanaṃ yad yudhiṣṭhire. pitāmaho me viprarṣe bhīṣmaṃ kālavaśaṃ gatam. kim apṛcchat tadā rājā sarvasāmāsikaṃ hitam. ubhayor lokayor yuktaṃ puruṣārtham anuttamam. vaiśaṃpāyanaḥ. tan me vada mahāprājña śrotuṃ kautūhalaṃ hi me. bhūya eva mahārāja śṛṇu dharmasamuccayam. yad apṛcchat tadā rājā kuntīputro yudhiṣṭhiraḥ. śaratalpagataṃ bhīṣmaṃ sarvapārthivasaṃnidhau. yudhiṣṭhiraḥ. ajātaśatruḥ prītātmā punar evābhyabhāṣata. pitāmaha mahāprājña sarvaśāstraviśārada. śrūyatāṃ me hi vacanam arthitvāt prabravīmy aham. parāvarajño bhūtānāṃ dayāvān sarvajantuṣu. āgamair bahubhiḥ sphīto bhavān naḥ paramaḥ kule. tvādṛśo durlabho loke sāṃprataṃ jñānadarśanaḥ. bhavatā guruṇā caiva dhanyā bata vayaṃ prabho. ayaṃ sa kālaḥ saṃprāpto durlabho jñātibāndhavaiḥ. śāstā nu nāsti naḥ kaś cit tvad ṛte puruṣarṣabha. tasmād dharmārthasaṃyuktam āyatyāṃ ca hitodayam. āścaryaṃ paramaṃ vākyaṃ śrotum icchāmi bhārata. ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃnidhau. bhavantaṃ bahumānāc ca praṇayāc copasevate. asyaiva tu samakṣaṃ naḥ pārthivānāṃ tathaiva ca. itivṛttaṃ purāṇaṃ ca śrotṝṇāṃ paramaṃ hitam. yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha. vaiśaṃpāyanaḥ. matpriyārthaṃ tu kauravya snehād bhāṣitum arhasi. tasya tad vacanaṃ śrutvā snehād āgataviklavaḥ. prapibann iva taṃ dṛṣṭvā bhīṣmo vacanam abravīt. śṛṇu rājan purā vṛttam itihāsaṃ purātanam. etāvad uktvā gāṅgeyaḥ praṇamya śirasā harim. dharmarājaṃ samīkṣyedaṃ punar vaktuṃ samārabhat. ayaṃ nārāyaṇaḥ śrīmān putrārthaṃ vratakāṅkṣayā. dīkṣito 'bhūn mahābāhuḥ purā dvādaśavārṣikam. dīkṣitaṃ keśavaṃ draṣṭum abhijagmur maharṣayaḥ. sevituṃ ca mahātmānaḥ prīyamāṇā janārdanam. nāradaḥ parvataś caiva kṛṣṇadvaipāyanas tathā. devalaḥ kāśyapaś caiva hastikāśyapa eva ca. jamadagniś ca rājendra dhaumyo vālmīkir eva ca. apare 'pi tapaḥsiddhāḥ satyavrataparāyaṇāḥ. śiṣyair anugatāḥ sarve brahmavidbhir akalmaṣaiḥ. keśavas tān abhigatān prītyā saṃpratigṛhya ca. teṣām atithisatkāraṃ pūjanārthaṃ kulocitam. devakītanayo hṛṣṭo devatulyam akalpayat. upaviṣṭeṣu sarveṣu viṣṭareṣu tadānagha. viśvasteṣu hi tuṣṭeṣu keśavārcanayā punaḥ. parasparaṃ kathā divyāḥ prāvartanta manoramāḥ. viṣṇor nārāyaṇasyaiva prasādāt kathayāmi tāḥ. tasyaiva vratacaryāyāṃ munibhir vismitaḥ purā. yaś ca govṛṣabhāṅkasya prabhāvo 'bhūn mahātmanaḥ. yatra devī mahādevam apṛcchat saṃśayān purā. kathayām āsa śarvas tān devyāḥ priyacikīrṣayā. umāpatyoś ca saṃvādaṃ śṛṇu tāta manoramam. varṇāśramāṇāṃ dharmaś ca tatra tāta samāhitaḥ. ṛṣidharmaś ca nikhilo rājadharmaś ca puṣkalaḥ. gṛhasthadharmaś ca śubhaḥ karmapākaphalāni ca. devaguhyaṃ ca vividhaṃ dānadharmavidhis tadā. vidhānam atra saṃproktaṃ yamasya niyamasya ca. yamalokavidhānaṃ ca svargalokavidhis tathā. prāṇamokṣavidhiś caiva tīrthacaryā ca puṣkalā. mokṣadharmavidhānaṃ ca sāṃkhyayogasamanvitam. strīdharmaś ca svayaṃ devyā devadevāya bhāṣitaḥ. evamādi śubhaṃ sarvaṃ tatra tāta samāhitam. rudrāṇyāḥ saṃśayapraśno yatra tāta pravartate. dhanyaṃ yaśasyam āyuṣyaṃ dharmyaṃ ca paramaṃ hitam. puṣṭiyogam idaṃ divyaṃ kathyamānaṃ mayā śṛṇu. itihāsam imaṃ divyaṃ pavitraṃ paramaṃ śubham. sāyaṃ prātaḥ sadā samyak śrotavyaṃ ca bubhūṣatā. tato nārāyaṇo devaḥ saṃkliṣṭo vratacaryayā. vahnir viniḥsṛto vaktrāt kṛṣṇasyādbhutadarśanaḥ. agninā tena mahatā niḥsṛtena mukhād vibhoḥ. paśyatām eva sarveṣāṃ dagdha eva nagottamaḥ. mṛgapakṣisamākīrṇaḥ śvāpadair abhisaṃkulaḥ. vṛkṣagulmalatākīrṇo mathito dīnadarśanaḥ. punaḥ sa dṛṣṭamātreṇa hariṇā saumyacetasā. sa babhūva giriḥ kṣipraṃ praphulladrumakānanaḥ. siddhacāraṇasaṃghaiś ca prasannair upaśobhitaḥ. mattavāraṇasaṃyukto nānāpakṣigaṇair yutaḥ. tad adbhutam acintyaṃ ca sarveṣām abhavad bhṛśam. taṃ dṛṣṭvā hṛṣṭaromāṇaḥ sarve munigaṇās tadā. vismitāḥ paramāyastāḥ sādhvasākulalocanāḥ. na kiṃ cid abruvaṃs tatra śubhaṃ vā yadi vetarat. tato nārāyaṇo devo munisaṃghe suvismite. tān samīkṣyaiva madhuraṃ babhāṣe puṣkarekṣaṇaḥ. kimarthaṃ munisaṃghasya vismayo 'yam anuttamaḥ. etaṃ me saṃśayaṃ sarve yāthātathyam aninditāḥ. ṛṣayo vaktum arhanti niścayenārthakovidāḥ. keśavasya vacaḥ śrutvā tuṣṭuvur munipuṃgavāḥ. bhavān sṛjati vai lokān bhavān saṃharati prajāḥ. bhavāñ śītaṃ bhavān uṣṇaṃ bhavān satyaṃ bhavān kratuḥ. bhavān ādir bhavān anto bhavato 'nyan na vidyate. sthāvaraṃ jaṃgamaṃ sarvaṃ tvam eva puruṣottama. tvattaḥ sarvam idaṃ tāta lokacakraṃ pravartate. tvam evārhasi tad vaktuṃ mukhād agnivinirgamam. etan no vismayakaraṃ babhūva madhusūdana. tato 'dhigatasaṃtrāsā bhavāma puruṣottama. bhagavān. yad icchet tatra vaktavyaṃ kuto 'smākaṃ niyogataḥ. nityaṃ hitārthaṃ lokānāṃ bhavadbhiḥ kriyate tapaḥ. tasmāl lokahitaṃ guhyaṃ śrūyatāṃ kathayāmi vaḥ. asuraḥ sāṃprataṃ kaś cid ahito lokanāśanaḥ. māyāstrakuśalaś caiva baladarpasamanvitaḥ. babhūva sa mayā vadhyo lokānāṃ hitakāmyayā. putreṇa me vadho dṛṣṭas tasya vai munipuṃgavāḥ. tadarthaṃ putram evāhaṃ sisṛkṣur vanam āgataḥ. ātmanaḥ sadṛśaṃ putram ahaṃ janayituṃ vrataiḥ. evaṃ vrataparītasya tapastīvratayā mama. athātmā mama dehasthaḥ so 'gnir bhūtvā viniḥsṛtaḥ. viniḥsṛtya gato draṣṭuṃ kṣaṇena ca pitāmaham. brahmaṇā manmatho 'naṅgaḥ putratve me prakalpitaḥ. anujñātaś ca tenaiva punar āyān mamāntikam. etan me vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam. tattejasā nirmathitaḥ purato 'yaṃ giriḥ sthitaḥ. dṛṣṭvā nāśaṃ gires tasya saumyabhāvatayā mama. punaḥ sa dṛṣṭamātreṇa girir āsīd yathāpuram. etad guhyaṃ mayā tathyaṃ kathitaṃ vaḥ samāsataḥ. bhavanto vyathitā yena vismitāś ca tapodhanāḥ. bhagavān. ṛṣīṇām evam uktvā tu tān punaḥ pratyabhāṣata. bhavatāṃ darśanād eva prītir abhyadhikā mama. bhavantas tu tapaḥsiddhā bhavanto devadarśanāḥ. sarvatra gatimantaś ca jñānavijñānabhāvitāḥ. gatāgatajñā lokānāṃ sarve nirdhūtakalmaṣāḥ. tasmād bhavadbhir yat kiṃ cid dṛṣṭaṃ vāpy atha vā śrutam. āścaryabhūtaṃ lokeṣu tad bhavanto bruvantu me. yuṣmābhiḥ kathitaṃ yat syāt tapasā bhāvitātmabhiḥ. tat syād amṛtasaṃkāśaṃ vāṅmadhuśravaṇe spṛhā. rāgadveṣaviyuktānāṃ satataṃ satyavādinām. śraddheyaṃ śravaṇīyaṃ ca vacanaṃ hi satāṃ bhavet. tatsaṃyogaṃ hi tan me 'stu na vṛthā kartum arhatha. bhavatāṃ darśanaṃ tasmāt saphalaṃ tu bhaven mama. tad ahaṃ sajjanamukhān niḥsṛtaṃ janasaṃsadi. kathayiṣyāmy aharaho buddhidīpakaraṃ nṛṇām. tad anye vardhayiṣyanti pūjayiṣyanti vāpare. vākśalyavigatāś cānye praśaṃsanti purātanam. bhīṣmaḥ. evaṃ bruvati govinde śravaṇārthaṃ maharṣayaḥ. vāgbhiḥ sāñjalimālābhir idam ūcur janārdanam. ayuktam asmān evaṃ tvaṃ vācā varada bhāṣitum. tvacchāsanamukhāḥ sarve tvadadhīnapariśramāḥ. evaṃ pūjayituṃ cāsmān na caivārhasi keśava. tad vastv anyan na paśyāmo yal loke te na vidyate. divi vā bhuvi vā kiṃ cit tat sarvaṃ hi tvayā tatam. na vidmahe vayaṃ deva kathyamānaṃ tavāntike. evam ukto hṛṣīkeśaḥ sasmitaṃ cedam abravīt. ahaṃ mānuṣayonisthaḥ sāṃprataṃ munipuṃgavāḥ. tasmān mānuṣavad vīryaṃ mama jānīta suvratāḥ. bhīṣmaḥ. bhavadbhiḥ kathyamānaṃ ca apūrvam iva tad bhavet. evaṃ saṃcoditāḥ sarve keśavena mahātmanā. ṛṣayaś cānuvartante vāsudevasya śāsanam. tatas tv ṛṣigaṇāḥ sarve nāradaṃ devadarśanam. amanyanta budhā buddhyā samarthaṃ tannibodhane. ṛṣir ugratapāś cāyaṃ keśavasya priyo 'dhikam. purāṇajñaś ca vāgmī ca kāraṇais taṃ ca menire. sarve tadarhaṇaṃ kṛtvā nāradaṃ vākyam abruvan. bhavatā tīrthayātrārthaṃ caratā himavadgirau. dṛṣṭaṃ vai yat tad āścaryaṃ śrotṝṇāṃ paramaṃ priyam. tattvaṃ tvam aviśeṣeṇa hitārthaṃ sarvam āditaḥ. bhīṣmaḥ. priyārthaṃ keśavasyāsya sa bhavān vaktum arhati. tadā saṃcoditaḥ sarvair ṛṣibhir nāradas tathā. praṇamya śirasā viṣṇuṃ sarvalokahite ratam. samudvīkṣya hṛṣīkeśaṃ vaktum evopacakrame. tato nārāyaṇasuhṛn nārado vadatāṃ varaḥ. nāradaḥ. śaṃkarasyomayā sārdhaṃ saṃvādam anvabhāṣata. bhagavaṃs tīrthayātrārthaṃ tathaiva caratā mayā. divyam adbhutasaṃkāśaṃ dṛṣṭaṃ haimavataṃ vanam. nānāvṛkṣalatāyuktaṃ nānāpakṣigaṇair yutam. nānāratnasamākīrṇaṃ nānābhāvasamanvitam. divyacandanasaṃyuktaṃ divyadhūpena dhūpitam. divyapuṣpasamākīrṇaṃ divyagandhena mūrchitam. siddhacāraṇasaṃvāsaṃ bhūtasaṃghair niṣevitam. variṣṭhāpsarasākīrṇaṃ nānāgandharvasaṃkulam. mṛdaṅgamurajodghuṣṭaṃ śaṅkhavīṇābhināditam. nṛtyadbhir bhūtasaṃghaiś ca sarvatas tv abhiśobhitam. nānārūpair virūpaiś ca bhīmarūpair bhayānakaiḥ. vyāghrasiṃhoragamukhair biḍālavadanais tathā. kharoṣṭradvīpivadanair gajavaktrais tathaiva ca. ulūkaśyenavadanaiḥ kākagṛdhramukhais tathā. evaṃ bahuvidhākārair bhūtasaṃghair bhṛśākulam. nānadyamānaṃ bahudhā harapāriṣadair bhṛśam. ghorarūpaṃ sudurdarśaṃ rakṣogaṇaśatair vṛtam. samājaṃ tadvane dṛṣṭaṃ mayā bhūtapateḥ purā. pranṛttāpsarasaṃ divyaṃ devagandharvanāditam. ṣaṭpadair upagītaṃ ca prathame māsi mādhave. utkrośatkrauñcakuraraiḥ sārasair jīvajīvakaiḥ. mattābhiḥ parapuṣṭābhiḥ kūjantībhiḥ samākulam. uttamotsavasaṃkāśaṃ bhīmarūpataraṃ tataḥ. draṣṭuṃ bhavati sarvasya dharmabhāgijanasya ca. ye cordhvaretasaḥ siddhās tatra tatra samāgatāḥ. mārtāṇḍaraśmisaṃcārā viśvedevagaṇās tathā. tathā nāgās tathādityā lokapālā hutāśanāḥ. vātāś ca sarve vāyanti divyapuṣpasamākulāḥ. kirantaḥ sarvapuṣpāṇi kiranto 'dbhutadarśanāḥ. oṣadhyaḥ prajvalantyaś ca dyotayantyo diśo daśa. vihagāś ca mudā yuktā nṛtyanti ca nadanti ca. giraḥ sumadhurās tatra divyā divyajanapriyāḥ. tatra devo giritaṭe hemadhātuvibhūṣite. paryaṅka iva babhrāja upaviṣṭo mahādyutiḥ. vyāghracarmaparīdhāno gajacarmottaracchadaḥ. vyālayajñopavītaś ca lohitāntravibhūṣitaḥ. hariśmaśrujaṭo bhīmo bhayakartā suradviṣām. bhayaghnaḥ sarvabhūtānāṃ bhaktānām abhayaṃkaraḥ. kiṃnarair devagandharvaiḥ stūyamānaḥ samantataḥ. ṛṣibhiś cāpsarobhiś ca sarvataś cāpi śobhitaḥ. tatra bhūtapateḥ sthānaṃ devadānavasaṃkulam. sarvatejomayaṃ bhūmnā lokapālaniṣevitam. mahoragasamākīrṇaṃ sarveṣāṃ lomaharṣaṇam. bhīmarūpam anirdeśyam apradhṛṣyatamaṃ vibho. tatra bhūtapatiṃ devam āsīnaṃ śikharottame. ṛṣayo bhūtasaṃghāś ca praṇamya śirasā haram. gīrbhiḥ paramaśuddhābhis tuṣṭuvuś ca maheśvaram. vimuktāś caiva pāpebhyo babhūvur vigatajvarāḥ. ṛṣayo vālakhilyāś ca tathā viprarṣayaś ca ye. ayonijā yonijāś ca tapaḥsiddhā maharṣayaḥ. tatrasthaṃ devadeveśaṃ bhagavantam upāsate. tatas tasmin kṣaṇe devī bhūtastrīgaṇasevitā. haratulyāmbaradharā samānavratacāriṇī. kāñcanaṃ kalaśaṃ gṛhya sarvatīrthāmbupūritam. puṣpavṛṣṭyābhivarṣantī divyagandhasamāyutā. saridvarābhiḥ sarvābhiḥ pṛṣṭhato 'nugatā varā. sevituṃ bhagavatpārśvam ājagāma śucismitā. āgamya tu gireḥ putrī devadevasya cāntikam. manaḥpriyaṃ cikīrṣantī krīḍārthaṃ śaṃkarāntike. manoharābhyāṃ pāṇibhyāṃ haranetre pidhāya tu. avekṣya hṛṣṭā svagaṇān smayantī pṛṣṭhataḥ sthitā. devyā cāndhīkṛte deve kaśmalaṃ samapadyata. nimīlite bhūtapatau naṣṭacandrārkatārakam. niḥsvādhyāyavaṣaṭkāraṃ tamasā cābhisaṃvṛtam. viṣaṇṇaṃ bhayasaṃtrastaṃ jagad āsīd bhayākulam. hāhākāras tv ṛṣīṇāṃ ca lokānām abhavat tadā. tamobhibhūte saṃbhrānte loke jīvitaśaṅkite. tṛtīyaṃ cāsya saṃbhūtaṃ lalāṭe netram āyatam. dvādaśādityasaṃkāśaṃ lokān bhāsāv abhāsayat. tatra netrāgninā tena yugāntāgninibhena vai. adahyata giriḥ sarvo himavān agrataḥ sthitaḥ. dahyamāne girau tasmin mṛgapakṣisamākule. savidyādharagandharve divyauṣadhasamāyute. tato girisutā cāpi vismayotphullalocanā. babhūva ca jagat sarvaṃ tathā vismayasaṃyutam. paśyatām eva sarveṣāṃ devadānavarakṣasām. netrajenāgninā tena dagdha eva nagottamaḥ. taṃ dṛṣṭvā mathitaṃ śailaṃ śailaputrī saviklavā. pituḥ śamanam icchantī papāta bhuvi pādayoḥ. tad dṛṣṭvā devadeveśo devyā duḥkham anuttamam. haimavatyāḥ priyārthaṃ ca giriṃ punar avaikṣata. dṛṣṭamātro bhagavatā saumyayuktena cetasā. kṣaṇena himavāñ śailaḥ prakṛtistho 'bhavat punaḥ. hṛṣṭapuṣṭavihaṃgaś ca praphulladrumakānanaḥ. siddhacāraṇasaṃghaiś ca prītiyuktaiḥ samākulaḥ. pitaraṃ prakṛtisthaṃ tu dṛṣṭvā haimavatī bhṛśam. abhavat prītisaṃyuktā muditā ca pinākinam. devī vismayasaṃyuktā praṣṭukāmā maheśvaram. hitārthaṃ sarvalokānāṃ prajānāṃ hitakāmyayā. devadevaṃ mahādevī babhāṣedaṃ vaco 'rthavat. bhagavan devadeveśa śūlapāṇe mahādyute. vismayo me mahāñ jātas tasmin netrāgnisaṃplute. kimarthaṃ devadeveśa lalāṭe 'smin prakāśate. atisūryāgnisaṃkāśaṃ tṛtīyaṃ netram āyatam. netrāgninā tu mahatā nirdagdho himavān asau. punaḥ sa dṛṣṭamātras tu prakṛtisthaḥ pitā mama. eṣa me saṃśayo deva hṛdi saṃprati vartate. devadeva namas tubhyaṃ tan me śaṃsitum arhasi. nāradaḥ. evam uktas tayā devyā prīyamāṇo 'bravīd bhavaḥ. sthāne saṃśayituṃ devi dharmajñe priyabhāṣiṇi. tvad ṛte māṃ hi vai praṣṭuṃ na śakyaṃ kena cit priye. prakāśaṃ yadi vā guhyaṃ tvatpriyārthaṃ bravīmy aham. śṛṇu tat sarvam akhilam asyāṃ saṃsadi bhāmini. sarveṣām eva lokānāṃ kūṭasthaṃ viddhi māṃ priye. madadhīnās trayo lokā yathā viṣṇau tathā mayi. sraṣṭā viṣṇur ahaṃ goptā iti tad viddhi bhāmini. tasmād yadā māṃ spṛśati śubhaṃ vā yadi vetarat. tathaivedaṃ jagat sarvaṃ tat tad bhavati śobhane. etad guhyam ajānantyā tvayā bālyād anindite. netre me pihite devi krīḍanārthaṃ dṛḍhavrate. tvatkṛte naṣṭacandrārkaṃ jagad āsīd bhṛśākulam. naṣṭāditye tamobhūte loke girisute priye. tṛtīyaṃ locanaṃ sṛṣṭaṃ lokān saṃrakṣituṃ mayā. asyaiva tejasākṣṇo me mathito 'yaṃ giriḥ śubhe. vṛkṣagulmalatākīrṇo vyālādhyuṣitakaṃdaraḥ. tvatpriyārthaṃ kṛto devi prakṛtisthaḥ punar mayā. nāradaḥ. kathitaṃ saṃśayasthānaṃ nirviśaṅkā bhava priye. kṣaṇajñā devadevasya śrotukāmā priyaṃ hitam. umā devī mahādevam apṛcchat punar eva tu. bhagavan devadeveśa sarvadevanamaskṛta. caturmukho vai bhagavān abhavat kena hetunā. bhagavan kena vai vaktram aindram adbhutadarśanam. uttaraṃ cāpi bhagavan paścimaṃ śubhadarśanam. dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ jaṭilāvṛtam. yathādiśaṃ mahādeva śrotum icchāmi kāraṇam. maheśvaraḥ. eṣa me saṃśayo deva tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi yat tvaṃ pṛcchasi bhāmini. purāsurau mahāghorau lokodvegakarau bhṛśam. ++++. sundopasundanāmānāv āsatur bahugarvitau. aśastravadhyau balinau parasparahitaiṣiṇau. tayor eva vināśāya nirmitā viśvakarmaṇā. mṛgapakṣigaṇānāṃ ca sthāvarāṇāṃ tathaiva ca. sarvataḥ sāram uddhṛtya tilaśo lokapūjitā. tilottameti vikhyātā apsarāḥ sā babhūva ha. devakāryaṃ kariṣyantī hāvabhāvasamanvitā. sā tu paryantam āgamya rūpeṇāpratimā bhuvi. mayā bahumatā ceyaṃ devakāryaṃ kariṣyati. iti matvā tadā cāhaṃ kurvantīṃ māṃ pradakṣiṇam. tathaiva tāṃ didṛkṣuś ca caturvaktro 'bhavaṃ priye. aindraṃ mukham idaṃ pūrvaṃ tapaścaryāparaṃ sadā. dakṣiṇaṃ me mukhaṃ divyaṃ raudraṃ saṃharati prajāḥ. lokakāryaparaṃ nityaṃ paścimaṃ me mukhaṃ priye. vedān adhīte satatam adbhutaṃ cottaraṃ mukham. umā. etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi. bhagavañ śrotum icchāmi śūlapāṇe varaprada. maheśvaraḥ. kimarthaṃ nīlatā kaṇṭhe bhāti barhanibhā tava. hanta te kathayiṣyāmi śṛṇu devi samāhitā. purā yugāntare yatnād amṛtārthaṃ surāsuraiḥ. balavadbhir vimathitaś cirakālaṃ mahodadhiḥ. rajjunā nāgarājena mathyamāne mahodadhau. viṣaṃ tatra samudbhūtaṃ sarvalokavināśanam. tad dṛṣṭvā vibudhāḥ sarve tadā vimanaso 'bhavan. grastaṃ hi tan mayā devi lokānāṃ hitakāraṇāt. tatkṛtā nīlatā cāsīt kaṇṭhe barhinibhā śubhe. tadāprabhṛti caivāhaṃ nīlakaṇṭha iti smṛtaḥ. umā. etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi. nīlakaṇṭha namas te 'stu sarvalokasukhāvaha. bahūnām āyudhānāṃ tvaṃ pinākaṃ dhartum icchasi. maheśvaraḥ. kimarthaṃ devadeveśa tan me śaṃsitum arhasi. śastrāgamaṃ te vakṣyāmi śṛṇu dharmyaṃ śucismite. yugāntare mahādevi kaṇvo nāma mahāmuniḥ. sa hi divyāṃ tapaścaryāṃ kartum evopacakrame. tathā tasya tapo ghoraṃ carataḥ kālaparyayāt. valmīkaṃ punar udbhūtaṃ tasyaiva śirasi priye. veṇur valmīkasaṃyogān mūrdhni tasya babhūva ha. dharamāṇaś ca tat sarvaṃ tapaścaryām athākarot. tasmai brahmā varaṃ dātuṃ jagāma tapasārcitaḥ. dattvā tasmai varaṃ devo veṇuṃ dṛṣṭvā tv acintayat. lokakāryaṃ samuddiśya veṇunānena bhāmini. cintayitvā tam ādāya kārmukārthe nyayojayat. viṣṇor mama ca sāmarthyaṃ jñātvā lokapitāmahaḥ. dhanuṣī dve tadā prādād viṣṇave ca mamaiva ca. pinākaṃ nāma me cāpaṃ śārṅgaṃ nāma harer dhanuḥ. tṛtīyam avaśeṣeṇa gāṇḍīvam abhavad dhanuḥ. tac ca somāya nirdiśya brahmalokaṃ gataḥ punaḥ. umā. etat te sarvam ākhyātaṃ śastrāgamam anindite. bhagavan sarvabhūteśa pinākaparaśupriya. vāhaneṣu tathānyeṣu satsu bhūtapate tava. ayaṃ tu vṛṣabhaḥ kasmād vāhanatvam upāgamat. maheśvaraḥ. eṣa me saṃśayo deva taṃ me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi vāhanaṃ sa yathābhavat. ādisarge purā gāvaḥ śvetavarṇāḥ śucismite. balasaṃhananopetā darpayuktāś caranti tāḥ. ahaṃ tu tapa ātiṣṭhe tasmin kāle śubhānane. ekapādaś cordhvabāhur lokārthaṃ himavadgirau. gāvo me pārśvam āviśya darpotsiktāḥ samantataḥ. sthānabhraṃśaṃ tu me devi cakrire bahuśas tathā. apacāreṇa caitāsāṃ manaḥkṣobho 'bhavan mama. tasmād dagdhā mayā gāvo roṣāviṣṭena cetasā. tasmiṃs tu vyasane ghore vartamāne paśūn prati. anena vṛṣabheṇāhaṃ śamitaḥ saṃprasādanaiḥ. tadāprabhṛti śāntāś ca varṇabhedatvam āgatāḥ. śveto 'yaṃ vṛṣabho devi pūrvasaṃskārasaṃyutaḥ. vāhanatve dhvajatve me tadāprabhṛti yojitaḥ. tasmān me gopatitvaṃ ca devair gobhiś ca kalpitam. umā. prasannaś cābhavaṃ devi tadā gopatitāṃ gataḥ. bhagavan sarvabhūteśa śūlapāṇe vṛṣadhvaja. āvāseṣu vicitreṣu ramyeṣu ca śubheṣu ca. satsu cānyeṣu deśeṣu śmaśāne ramase katham. keśāsthikalile bhīme kapālaśatasaṃkule. sṛgālagṛdhrasaṃpūrṇe śavadhūmasamākule. citāgniviṣame ghore gahane ca bhayānake. evaṃ kalevarakṣetre durdarśe ramase katham. maheśvaraḥ. eṣa me saṃśayo deva tan me śaṃsitum arhasi. hanta te kathayiṣyāmi śṛṇu devi samāhitā. āvāsārthaṃ purā devi śuddhānveṣī śucismite. nādhyagacchaṃ ciraṃ kālaṃ deśaṃ śucitamaṃ śubhe. eṣa me 'bhiniveśo 'bhūt tasmin kāle prajāḥ prati. ākulaṃ sumahad ghoraṃ prādurāsīt samantataḥ. saṃbhūtā bhūtasṛṣṭiś ca ghorā lokabhayāvahā. nānāvarṇavirūpāś ca tīkṣṇadaṃṣṭrāḥ prahāriṇaḥ. piśācarakṣovadanāḥ prāṇināṃ prāṇahāriṇaḥ. yatas tataś caranti sma nighnantaḥ prāṇino bhṛśam. evaṃ loke kṣayaṃ yāte prāṇihīne pitāmahaḥ. cintayaṃs tatpratīkāraṃ māṃ ca śaktaṃ hi nigrahe. evaṃ jñātvā tadā brahmā tasmin karmaṇy ayojayat. tac ca prāṇidayārthaṃ tu mayāpy anumataṃ priye. tasmāt saṃrakṣitā devi bhūtebhyaḥ prāṇino bhayāt. asmāc chmaśānān medhyaṃ tu nāsti kiṃ cid anindite. niḥsaṃpātaṃ manuṣyāṇāṃ tasmāc chucitamaṃ smṛtam. bhūtasṛṣṭiṃ tu tāṃ cāhaṃ śmaśāne saṃnyaveśayam. tatrasthaḥ sarvalokānāṃ vinihanmi priye bhayam. na ca bhūtagaṇenāhaṃ vinā vasitum utsahe. tasmān me saṃnivāsāya śmaśāne rocate manaḥ. medhyakāmair dvijair nityaṃ medhyam ity abhidhīyate. ācaradbhir vrataṃ raudraṃ mokṣakāmaiś ca sevyate. sthānaṃ me tatra vihitaṃ vīrasthānam iti priye. kapālaśatasaṃpūrṇaṃ bhīmarūpaṃ bhayānakam. madhyāhne saṃdhyayos tatra nakṣatre rudradaivate. āyuṣkāmair aśuddhair vā na gantavyam iti sthitiḥ. mad anyena na śakyaṃ hi nihantuṃ bhūtajaṃ bhayam. tatrastho 'haṃ prajāḥ sarvāḥ pālayāmi dine dine. manniyogād bhūtasaṃghā na ca ghnantīha kiṃ cana. tasmāl lokahitārthāya śmaśāne ramayāmy aham. umā. etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa trinetra vṛṣabhadhvaja. piṅgalaṃ vikṛtaṃ bhāti rūpaṃ te subhayānakam. bhasmadigdhaṃ virūpākṣaṃ tīkṣṇadaṃṣṭraṃ jaṭākulam. vyāghroragatvaksaṃvītaṃ kapilaśmaśrusaṃtatam. raudraṃ bhayānakaṃ ghoraṃ śūlapaṭṭasasaṃyutam. maheśvaraḥ. kimartham īdṛśaṃ rūpaṃ tan me śaṃsitum arhasi. tad ahaṃ kathayiṣyāmi śṛṇu tattvaṃ samāhitā. dvividho laukiko bhāvaḥ śītam uṣṇam iti priye. tayor vigrathitaṃ sarvaṃ saumyāgneyam idaṃ jagat. saumyatvaṃ satataṃ viṣṇau mayy āgneyaṃ pratiṣṭhitam. anena vapuṣā nityaṃ sarvalokān bibharmy aham. raudrākṛti virūpākṣaṃ śūlapaṭṭasasaṃyutam. āgneyam iti me rūpaṃ devi lokahite ratam. yady ahaṃ viparītaḥ syām etat tyaktvā śubhānane. tadaiva sarvalokānāṃ viparītaṃ pravartate. tasmān mayedaṃ dhriyate rūpaṃ lokahitaiṣiṇā. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa śūlapāṇe vṛṣadhvaja. kimarthaṃ candrarekhā te śirobhāge virocate. maheśvaraḥ. śrotum icchāmy ahaṃ deva tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. purāhaṃ kāraṇād devi kopayuktaḥ śucismite. dakṣayajñavadhārthāya bhūtasaṃghasamāvṛtaḥ. tasmin kratuvadhe ghore yajñabhāganimittataḥ. devā vibhraṃśitās te vai yeṣāṃ bhāgaḥ kratau kṛtaḥ. somas tatra mayā devi kupitena bhṛśārditaḥ. paśyaṃś cānaparādhī san pādāṅguṣṭhena pīḍitaḥ. tathā vinikṛtenāhaṃ sāmapūrvaṃ prasāditaḥ. tan me cintayataś cāsīt paścāttāpaḥ punaḥ priye. tadāprabhṛti somaṃ hi śirasā dhārayāmy aham. evaṃ me pāpahānis tu bhaved iti matir mama. tadāprabhṛti vai somo mūrdhni saṃdṛśyate sadā. nāradaḥ. evaṃ bruvati deveśe vismitāḥ paramarṣayaḥ. vāgbhiḥ sāñjalimālābhir abhituṣṭuvur īśvaram. namaḥ śaṃkara deveśa namaḥ sarvajagadguro. namo devādidevāya namaḥ śaśikalādhara. namo ghoratarād ghora namo rudra bhayaṃkara. namaḥ śāntatarāc chānta namaś candrasya pālaka. namaḥ somāya devāya namas tubhyaṃ caturmukha. namo bhūtapate śaṃbho jahnukanyāmbuśekhara. namas triśūlahastāya pannagābharaṇāya ca. namo 'stu viṣamākṣāya dakṣayajñapradāhaka. namo 'stu bahunetrāya lokarakṣaṇatatpara. aho devasya māhātmyaṃ mahādevasya vai kṛpā. evaṃ dharmaparatvaṃ ca devadevasya cārhati. evaṃ bruvatsu muniṣu vaco devy abravīd dharam. prītyarthaṃ ca munīnāṃ sā kṣaṇajñā paramaṃ hitam. bhagavan devadeveśa sarvalokanamaskṛta. asya vai ṛṣisaṃghasya mama ca priyakāmyayā. varṇāśramagataṃ dharmaṃ vaktum arhasy aśeṣataḥ. na tṛptir asti deveśa śravaṇīyaṃ hi te vacaḥ. sadharmacāriṇī ceyaṃ bhaktā ceyam iti prabho. vaktum arhasi deveśa lokānāṃ hitakāmyayā. maheśvaraḥ. yāthātathyena tat sarvaṃ vaktum arhasi śaṃkara. hanta te kathayiṣyāmi yat te devi manaḥpriyam. śṛṇu tat sarvam akhilaṃ dharmaṃ varṇāśramāśritam. brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ceti caturvidhāḥ. brahmaṇā vihitāḥ pūrvaṃ lokatantram abhīpsatā. karmāṇi ca tadarhāṇi śāstreṣu vihitāni vai. yadi cedekavarṇaṃ syāj jagat sarvaṃ vinaśyati. sahaiva devair varṇāni catvāri vihitāny uta. mukhato brāhmaṇāḥ sṛṣṭās tasmāt te vāgviśāradāḥ. bāhubhyāṃ kṣatriyāḥ sṛṣṭās tasmād bāhubalānvitāḥ. udarād udgatā vaiśyās tasmād vārtopajīvinaḥ. śūdrāś ca pādataḥ sṛṣṭās tasmāt te paricārakāḥ. teṣāṃ dharmāṃś ca karmāṇi śṛṇu devi samāhitā. viprāḥ kṛtā bhūmidevā lokānāṃ dhāraṇe kṛtāḥ. te kaiś cin nāvamantavyā brāhmaṇā hitam icchubhiḥ. yadi te brāhmaṇā na syur dānayogavahāḥ sadā. ubhayor lokayor devi sthitir na syāt samāsataḥ. lokeṣu durlabhaṃ kiṃ tu brāhmaṇatvam iti smṛtam. abudho vā daridro vā pūjanīyaḥ sadaiva saḥ. brāhmaṇaṃ yo 'vamanyeta nindayet krośayec ca vā. prahareta hared vāpi dhanaṃ teṣāṃ narādhamaḥ. kārayed dhīnakarmāṇi kāmalobhavimohanāt. sa ca mām avamanyeta māṃ krośati ca nindati. mām eva praharen mūḍho maddhanasyāpahārakaḥ. mamaiva prekṣaṇaṃ kṛtvā nandate mūḍhacetanaḥ. svādhyāyo yajanaṃ dānaṃ tasya dharma iti sthitiḥ. karmāṇy adhyāpanaṃ caiva yājanaṃ ca pratigrahaḥ. satyaṃ śāntis tapaḥ śaucaṃ tasya dharmaḥ sanātanaḥ. vikrayo rasadhānyānāṃ brāhmaṇasya vigarhitaḥ. anāpadi ca śūdrānnaṃ vṛṣalīsaṃgrahas tathā. tapa eva sadā dharmo brāhmaṇasya na saṃśayaḥ. sa tu dharmārtham utpannaḥ pūrvaṃ dhātrā tapobalāt. tasyopanayanaṃ dharmo nityaṃ codakadhāraṇam. rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam. agnikāryaṃ paro dharmo nityaṃ yajñopavītitā. śūdrānnavarjanaṃ dharmo dharmaḥ satpathasevanam. dharmo nityopavāsitvaṃ brahmacaryaṃ paraṃ tathā. amṛtāśyaṃ paraṃ dharmo gṛhapuṣpabalis tathā. gṛhasaṃmārjanaṃ dharma ālepanavidhis tathā. atithivratatā dharmo dharmas tretāgnidhāraṇam. iṣṭayaḥ paśubandhāś ca vidhipūrvaṃ paraṃ tapaḥ. daṃpatyoḥ samaśīlatvaṃ dharmo vai gṛhamedhinām. eṣa dvijanmano dharmo gārhasthye dharmadhāraṇam. yas tu kṣatragato dharmas tvayā devi pracoditaḥ. tam ahaṃ te pravakṣyāmi śṛṇu devi samāhitā. kṣatriyās tu tathā devi prajānāṃ pālane smṛtāḥ. yadi na kṣatriyo loke jagat syād adharottaram. rakṣaṇāt kṣatriyair eva jagad bhavati śāśvatam. tasyāpy adhyayanaṃ dānaṃ yajanaṃ dharmataḥ smṛtam. bhītānāṃ rakṣaṇaṃ caiva pāpānām anuśāsanam. satāṃ saṃpoṣaṇaṃ caiva karaṣaḍbhāgajīvanam. utsāhaḥ śastrajīvitvaṃ tasya dharmāḥ sanātanāḥ. bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇy amoghatā. samyag raṇadhṛto dharmo dharmaḥ paurahitakriyā. vyavahārasthitir nityaṃ guṇam etan mahīpateḥ. ārtahastaprado rājā dharmaṃ prāpnoty anuttamam. evaṃ te vihitāḥ pūrvair dharmāḥ karmavidhānataḥ. tathaiva devi vaiśyāś ca lokayātrāhitāḥ smṛtāḥ. anye tān upajīvanti pratyakṣaphaladā hi te. yadi na syus tathā vaiśyā na bhaveyus tathā pare. teṣām adhyayanaṃ dānaṃ yajanaṃ dharma iṣyate. vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā. agnihotraparispandās trayo varṇā dvijātayaḥ. vāṇijyaṃ satpathe sthānam ātitheyaṃ sadā bhavet. viprāṇāṃ svāgataṃ nyāyo vaiśyadharmaḥ sanātanaḥ. tilagandharasāś caiva na vikreyāḥ kathaṃ cana. vaṇikpatham upāsadbhir vaiśyair vaiśyapathi sthitaiḥ. sarvātithyaṃ trivargasya yathāśakti divāniśam. evaṃ te vihitā devi lokayātrā svayaṃbhuvā. tathaiva śūdrā vihitāḥ sarvadharmaprasādhakāḥ. śūdrāś ca yadi te na syuḥ karmakartā na vidyate. trayaḥ pūrve śūdramūlās tasmāt karmakarāḥ smṛtāḥ. brāhmaṇādiṣu śuśrūṣā dāsadharma iti smṛtaḥ. vārtā ca kārukarmāṇi śilpaṃ nāṭyaṃ tathaiva ca. ahiṃsakaḥ śubhācāro daivatadvijavandakaḥ. śūdro dharmaphalair iṣṭaiḥ svadharmeṇopayujyate. evamādi tathānyac ca śūdrakarma iti smṛtam. te 'py evaṃ vihitā loke karmayogāḥ śubhānane. evaṃ caturṇāṃ varṇānāṃ puṇyalokāḥ paratra ca. vihitāś ca tathā dṛṣṭā yathāvad dharmacāriṇām. eṣa varṇāśrayo dharmaḥ karma caiva tadarpaṇam. umā. kathitaṃ śrotukāmāyāḥ kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa namas te vṛṣabhadhvaja. maheśvaraḥ. śrotum icchāmy ahaṃ deva dharmam āśramiṇāṃ vibho. athāśramagataṃ dharmaṃ śṛṇu devi samāhitā. āśramāṇāṃ tu yo dharmaḥ kriyate brahmavādibhiḥ. gṛhasthaḥ pravaras teṣāṃ gārhasthyavratam āśritaḥ. pañcayajñakriyā śaucaṃ dāratuṣṭir atandritā. ṛtukālābhigamanaṃ dānayajñatapāṃsi ca. avipravāsas tasyeṣṭaṃ svādhyāyaś cāgnipūjanam. atithīnām ābhimukhyaṃ śaktyā ceṣṭanimantraṇam. anugrahaś ca sarveṣāṃ manovākkāyakarmabhiḥ. evamādi śubhaṃ cānyat kuryāt tadvṛttavān gṛhī. evaṃ saṃcaratas tasya puṇyalokā na saṃśayaḥ. tathaiva vānaprasthasya dharmāḥ proktāḥ sanātanāḥ. gṛhavāsaṃ samutsṛjya niścityaikamanāḥ śubhaiḥ. vanyair eva sadāhārair vartayed iti ca sthitiḥ. bhūmiśayyā jaṭāḥ śmaśrucarmavalkaladhāraṇam. devatātithisatkāro mahākṛcchrābhipūjanam. agnihotraṃ triṣavaṇaṃ nityaṃ tasya vidhīyate. brahmacaryaṃ kṣamā śaucaṃ tasya dharmāḥ sanātanāḥ. evaṃ sa vigate prāṇe devaloke mahīyate. yatidharmās tathā devi saṅgāṃs tyaktvā yatas tataḥ. ākiṃcanyam anārambhaḥ sarvataḥ śaucam ārjavam. sarvatra bhaikṣacaryā ca sarvatraiva vivāsanam. sadā dhyānaparatvaṃ ca doṣaśuddhiḥ kṣamā dayā. tattvānugatabuddhitvaṃ tasya dharmavidhir bhavet. brahmacārī ca yo devi janmaprabhṛti dīkṣitaḥ. brahmacaryaparo bhūtvā saṃśrayed gurum ātmanaḥ. sarvakāleṣu sarvatra gurupūjāṃ samācaret. bhaikṣacaryāgnikāryaṃ ca sadā jalaniṣevaṇam. svādhyāyaḥ satataṃ devi tasya dharmaḥ sanātanaḥ. tasya ceṣṭā tu gurvartham āprāṇāntam iti sthitiḥ. guror abhāve tatputre guruvad vṛttim ācaret. evaṃ so 'py amalāṃl lokān brāhmaṇaḥ pratipadyate. eṣa te kathito devi dharmaś cāśramavāsinām. cāturvarṇyāśrame yukto loka ity eva vidyate. umā. kathitaṃ te samāsena kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa tripurāntaka śaṃkara. ayaṃ tv ṛṣigaṇo deva tapas tepa iti prabho. tapasā karśitā nityaṃ taporjanaparāyaṇāḥ. asya kiṃlakṣaṇo dharmaḥ kīdṛśaś cāgamas tathā. etad icchāmy ahaṃ śrotuṃ tan me vada varaprada. nāradaḥ. evaṃ vadantyāṃ rudrāṇyām ṛṣayaḥ sādhu sādhv iti. abruvan hṛṣṭamanasaḥ sarve tadgatamānasāḥ. śṛṇvantīm ṛṣidharmāṃs tu ṛṣayaś cābhyapūjayan. tvatprasādād vayaṃ devi śroṣyāmaḥ paramaṃ hitam. dhanyāḥ khalu vayaṃ sarve pādamūlaṃ tavāśritāḥ. maheśvaraḥ. iti sarve tadā devīṃ vācā samabhipūjayan. nyāyatas tvaṃ mahābhāge śrotukāmā manasvini. hanta te kathayiṣyāmi munidharmaṃ śucismite. vānaprasthaṃ samāśritya kriyate bahudhā naraiḥ. bahuśākho bahuvidha ṛṣidharmaḥ sanātanaḥ. prāyaśaḥ svargabhogārtham ṛṣibhiḥ kriyate tapaḥ. tathā saṃcaratāṃ teṣāṃ devi dharmavidhiṃ śṛṇu. bhūtvā pūrvaṃ gṛhasthas tu putrānṛṇyam avāpya ca. kalatrakāryaṃ saṃsthāpya kāraṇāt saṃtyajed gṛham. avasthāpya mano dhṛtyā vyavasāyapuraḥsaraḥ. nirdvaṃdvo vā sadāro vā vanavāsāya saṃvrajet. deśāḥ paramapuṇyā ye nadīvanasamanvitāḥ. ābādhamuktāḥ prāyeṇa tīrthāyatanasaṃyutāḥ. tatra gatvā vidhiṃ jñātvā dīkṣāṃ kuryād yathākramam. dīkṣitvaikamanā bhūtvā paricaryāṃ samācaret. kālyotthānaṃ ca śaucaṃ ca sarvadevapraṇāmanam. śakṛdālepanaṃ kāye tyaktadoṣāpramāditā. sāyaṃ prātaś cābhiṣekam agnihotraṃ yathāvidhi. kāyaśaucaṃ ca kāryaṃ ca jaṭāvalkaladhāraṇam. satataṃ vanacaryā ca samitkusumakāraṇāt. nīvāragrahaṇaṃ kāle śākamūlopacāyanam. sadāyatanaśaucaṃ ca tasya dharmāya ceṣyate. atithīnām ābhimukhyaṃ tatparatvaṃ ca sarvaśaḥ. pādyāsanābhyāṃ saṃpūjā tathāhāranimantraṇam. agrāmyapacanaṃ kāle pitṛdevārcanaṃ tathā. paścād atithisatkāras tasya dharmāḥ sanātanāḥ. śiṣṭair dharmāsane caiva dharmārthasahitāḥ kathāḥ. pratiśrayavibhāgaś ca bhūmiśayyā śilāsu vā. vratopavāsayogaś ca kṣamā cendriyanigrahaḥ. divā rātrau yathāyogaṃ śaucaṃ dharmārthacintanā. evaṃ dharmāḥ purā dṛṣṭāḥ sāmānyā vanavāsinām. evaṃ vai yatamānasya kāladharmo yadā bhavet. tadaiva so 'bhijāyeta svargalokaṃ śucismite. tatra saṃvihitā bhogāḥ svargastrībhir anindite. paribhraṣṭo yadā svargād viśiṣṭas tu bhaven nṛpa. evaṃ dharmaḥ sadā devi sarveṣāṃ vanavāsinām. umā. etat te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa ṛṣīṇāṃ caritaṃ śubham. maheśvaraḥ. viśeṣadharmān icchāmi śrotuṃ kautūhalaṃ hi me. tad ahaṃ te pravakṣyāmi śṛṇu devi samāhitā. vananityair vanaratair vānaprasthair maharṣibhiḥ. vanaṃ gurum ivālambya vastavyam iti niścayaḥ. vīraśayyām upāsadbhir vīrasthānopasevibhiḥ. vratopavāsair bahubhir grīṣme pañcatapais tathā. pañcayajñaparair nityaṃ paurṇamāsyaparāyaṇaiḥ. maṇḍūkaśāyair hemante śaivālāṅkurabhojanaiḥ. cīravalkalasaṃvītair mṛgājinadharais tathā. cāturmāsyaparaiḥ kaiś cid devadharmaparāyaṇaiḥ. evaṃvidhair vanagatais tapyate sumahat tapaḥ. evaṃ kṛtvā śubhaṃ karma paścād yāti triviṣṭapam. tatrāpi sumahat kālaṃ sa vihṛtya yathāsukham. jāyate mānuṣe loke dānabhogasamanvitaḥ. umā. tapoviśeṣasaṃyuktāḥ kathitās te śucismite. bhagavan sarvabhūteśa teṣu ye dārasaṃyutāḥ. maheśvaraḥ. kīdṛśaṃ caritaṃ teṣāṃ tan me śaṃsitum arhasi. ya ekapatnīdharmāṇaś caranti vipulaṃ tapaḥ. vindhyapādeṣu ye ke cid ye ca naimiṣavāsinaḥ. puṣkareṣu ca ye cānye nadīvanasamāśritāḥ. sarve te vidhidṛṣṭena caranti vipulaṃ tapaḥ. hiṃsādrohavimuktāś ca sarvabhūtānukampinaḥ. śāntā dāntā jitakrodhāḥ sarvātithyaparāyaṇāḥ. prāṇiṣv ātmopamā nityam ṛtukālābhigāminaḥ. svadārasahitā devi caranti vratam uttamam. vasanti sukham avyagrāḥ putradārasamanvitāḥ. teṣāṃ paricchadārambhāḥ kṛtyopakaraṇāni ca. gṛhasthavad vidhīyante yathāyogaṃ pramāṇataḥ. poṣaṇārthaṃ ca dārāṇām agnikāryārtham eva ca. gāvaś ca karṣaṇaṃ caiva sarvam etad vidhīyate. evaṃ vanagatair devi kartavyaṃ dārasaṃyutaiḥ. te svadāraiḥ samāyānti puṇyāṃl lokān dṛḍhavratāḥ. patibhiḥ saha ye dārāś caranti vipulaṃ tapaḥ. avyagrabhāvād aikātmyāt te ca gacchanti vai divam. etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. umā. bhagavan devadeveśa teṣāṃ karmaphalaṃ vibho. maheśvaraḥ. śrotum icchāmy ahaṃ deva prasādāt te varaprada. vānaprasthagataṃ sarvaṃ phalapākaṃ śṛṇu priye. agniyogaṃ vrajan grīṣme naro dvādaśavārṣikam. rudraloke hi jāyeta vidhidṛṣṭena karmaṇā. udavāsavrataṃ kurvan varṣakāle dṛḍhavrataḥ. somaloke 'bhijāyeta naro dvādaśavārṣikam. kāṣṭhavan maunam āsthāya naro dvādaśavārṣikam. marutāṃ lokam āsthāya tatra bhogaiś ca yujyate. kaṇṭaśarkarasaṃyukte sthaṇḍile saṃviśen muniḥ. yakṣaloke 'bhijāyeta sahasrāṇi caturdaśa. varṣāṇāṃ bhogasaṃyukto naro dvādaśavārṣikam. vīrāsanagato yas tu kaṇṭakāphalakāśritaḥ. gandharveṣv abhijāyeta naro dvādaśavārṣikam. vīrasthāyī cordhvabāhur naro dvādaśavārṣikam. devaloke 'bhijāyeta divyabhogasamanvitaḥ. pādāṅguṣṭhena yas tiṣṭhed ūrdhvabāhur jitendriyaḥ. indraloke 'bhijāyeta sahasrāṇi caturdaśa. āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam. nāgaloke 'bhijāyeta saṃvatsaragaṇān bahūn. evaṃ dṛḍhavratā devi vānaprasthāś ca karmabhiḥ. sthāneṣu teṣu tiṣṭhanti tadvad bhogasamanvitāḥ. tebhyo bhraṣṭāḥ punar devi jāyante nṛṣu bhoginaḥ. varṇottamakuleṣv eva dhanadhānyasamanvitāḥ. etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. umā. eṣāṃ yāyāvarāṇāṃ tu dharmam icchāmi mānada. maheśvaraḥ. kṛpayā parayāviṣṭas taṃ me brūhi maheśvara. dharmaṃ yāyāvarāṇāṃ tu śṛṇu bhāmini tatparā. vratopavāsaśuddhāṅgās tīrthasnānaparāyaṇāḥ. dhṛtimantaḥ kṣamāyuktāḥ satyavrataparāyaṇāḥ. pakṣamāsopavāsaiś ca karśitā dharmadarśinaḥ. varṣaśītātapair eva kurvantaḥ paramaṃ tapaḥ. kālayogena gacchanti śakralokaṃ śucismite. tatra te bhogasaṃyuktā divyagandhasamanvitāḥ. divyabhūṣaṇasaṃyuktā vimānavaram āsthitāḥ. vicaranti yathākāmaṃ divyastrīgaṇasaṃyutāḥ. umā. etat te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. maheśvaraḥ. teṣāṃ cakracarāṇāṃ tu dharmam icchāmi vai prabho. hanta te kathayiṣyāmi śṛṇu śākaṭikaṃ śubhe. saṃvahanto dhuraṃ dāraiḥ śākaṭānāṃ tu sarvadā. prārthayante yathā grāmyāḥ śakaṭair bhaikṣacaryayā. taporjanaparādhīnās tapasā kṣīṇakalmaṣāḥ. paryaṭanto diśaḥ sarvāḥ kāmakrodhavivarjitāḥ. svavaśād eva te mṛtyum abhikāṅkṣanti nityaśaḥ. indraloke tathā teṣāṃ nirmitā bhogasaṃcayāḥ. amaraiḥ saha te yānti devavad bhogasaṃyutāḥ. varāpsarobhiḥ saṃyuktāś cirakālam anindite. tenaiva kālayogena tridivaṃ yānti śobhane. tatra pramuditā bhogair vicaranti yathāsukham. umā. etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. maheśvaraḥ. vaikhānasānāṃ vai dharmaṃ śrotum icchāmy ahaṃ prabho. teṣu vaikhānasā nāma vānaprasthāḥ śubhekṣaṇe. tīvreṇa tapasā yuktā dīptimantaḥ svatejasā. satyavrataparādhīnās teṣāṃ niṣkalmaṣaṃ tapaḥ. aśmakuṭṭās tathānye ca dantolūkhalinas tathā. śīrṇaparṇāśinaś cānye uñchayanti tathāpare. kapotavratinaś cānye kāpotīṃ vṛttim āsthitāḥ. paśupracāraniratāḥ phenapāś ca tathāpare. mṛgavan mṛgacaryāyāṃ saṃcaranti tathāpare. abbhakṣā vāyubhakṣāś ca nirāhārās tathaiva ca. saṃcaranti tapo ghoraṃ vyādhimṛtyuvivarjitāḥ. svavaśād eva te mṛtyum abhikāṅkṣanti nityaśaḥ. indraloke tathā teṣāṃ nirmitā bhogasaṃcayāḥ. amaraiḥ saha te yānti devavad bhogasaṃyutāḥ. varāpsarobhiḥ saṃyuktāś cirakālam anindite. umā. etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. maheśvaraḥ. bhagavañ śrotum icchāmi vālakhilyāṃs tapodhanān. dharmacaryāṃ tathā devi vālakhilyagatāṃ śṛṇu. mṛganirmokavasanā nirdvaṃdvās te tapodhanāḥ. aṅguṣṭhamātrāḥ suśroṇi sveṣv evāṅgeṣu saṃyutāḥ. te mṛtyuviṣayātītās tapaḥsiddhās tapobalāḥ. jitāhārā jitakrodhāḥ sarvabhogeṣu niḥspṛhāḥ. tapaścaraṇam icchanto lokārthaṃ paramodyatāḥ. udyantaṃ satataṃ sūryaṃ stuvanto vividhaiḥ stavaiḥ. bhāskarasyaiva kiraṇaiḥ saha saṃyānti nityadā. dyotayante diśaḥ sarvā dharmajñāḥ satyavādinaḥ. teṣv eva nirmalaṃ satyaṃ lokārthaṃ tu pratiṣṭhitam. loko 'yaṃ dhāryate devi teṣām eva tapobalāt. mahātmanāṃ tu tapasā satyena ca śucismite. kṣamayā ca mahābhāge bhūtānāṃ saṃsthitiṃ viduḥ. prajārtham api lokārthaṃ mahadbhiḥ kriyate tapaḥ. tapasā prāpyate sarvaṃ tapasā prāpyate phalam. duṣprāpam api yal loke tapasā prāpyate hi tat. pañcabhūtasthitiś caiva lokasṛṣṭivivardhanam. etat sarvaṃ samāsena tapoyogād vinirmitam. tasmād ayaṃ ṛṣigaṇas tapas tepa iti priye. dharmānveṣī tapaḥ kartuṃ yatate satataṃ priye. amaratvaṃ vaśitvaṃ ca tapasā prārthayet sadā. etat te kathitaṃ sarvaṃ śṛṇvantyās te śrutaṃ priye. priyārtham ṛṣisaṃghasya lokānāṃ hitakāmyayā. nāradaḥ. iti bruvantaṃ deveśam ṛṣayaś cāpi tuṣṭuvuḥ. umā. bhūyaḥ paramakaṃ yatnaṃ tadāprabhṛti cakrire. uktas tvayā trivargasya dharmaḥ paramakaḥ śubhaḥ. maheśvaraḥ. sarvavyāpī tu yo dharmo bhagavaṃs tad bravīhi me. brāhmaṇā lokasaṃsāre sṛṣṭā dhātrā guṇārthinā. lokāṃs tārayituṃ yuktā martyeṣu kṣitidevatāḥ. teṣu tāvat pravakṣyāmi dharmaṃ śubhaphalodayam. brāhmaṇeṣv abhayo dharmaḥ paramaḥ śubhalakṣaṇaḥ. ime hi dharmā lokārthaṃ pūrvaṃ sṛṣṭāḥ svayaṃbhuvā. pṛthivyāṃ sajjanair nityaṃ kīrtyamānaṃ nibodha me. svadāraniratir dharmo nityaṃ japyaṃ tathaiva ca. sarvātithyaṃ trivargasya yathāśakti divāniśam. śūdro dharmaparo nityaṃ śuśrūṣābhimanā bhavet. traividyo brāhmaṇo vṛddho na cādhyayanajīvakaḥ. trivargaṃ tu vyatikrāntas tasya dharmaḥ sanātanaḥ. ṣaṭ karmāṇi ca proktāni sṛṣṭāni brahmaṇā purā. dharmiṣṭhāni variṣṭhāni yāni tāni śṛṇūttame. yajanaṃ yājanaṃ caiva dānaṃ pātre pratigrahaḥ. adhyāpanam adhyayanaṃ ṣaṭkarmā dharmabhāg ṛjuḥ. nityasvādhyāyato dharmo nityayajñaḥ sanātanaḥ. dānaṃ praśasyate nityaṃ brāhmaṇeṣu trikarmasu. ayaṃ paramako dharmaḥ saṃvṛttaḥ satsu vidyate. garbhasthāne viśuddhānāṃ dharmasya niyamo mahān. pañcayajñaviśuddhātmā kratunityo 'nasūyakaḥ. dānto brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ. cakṣurdo manado jihvāsnigdhavarṇapradaḥ sadā. atithyabhyāgatarataḥ śeṣānnakṛtabhojanaḥ. pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā. dīpaṃ pratiśrayaṃ caiva yo dadāti sa dhārmikaḥ. prātar utthāya vai paścād bhojanena nimantrayet. satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ. pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate. tad ahaṃ kīrtayiṣyāmi trivargeṣu ca yad yathā. ekenāṃśena dharmo 'rthaḥ kartavyo hitam icchatā. ekenāṃśena kāmārtham ekam aṃśaṃ vivardhayet. nivṛttilakṣaṇaḥ puṇyo dharmo mokṣe vidhīyate. tasya vṛttiṃ pravakṣyāmi tāṃ śṛṇuṣva samāhitā. sarvabhūtadayā dharmo nivṛttiparamaḥ sadā. bubhukṣitaṃ pipāsārtam atithiṃ śrāntam āgatam. arcayanti varārohe teṣām api phalaṃ mahat. pātram ity eva dātavyaṃ sarvasmai dharmakāṅkṣibhiḥ. āgamiṣyati yat pātraṃ tat pātraṃ tārayiṣyati. kāle saṃprāptam atithiṃ bhoktukāmam upasthitam. cittaṃ saṃbhāvayet tatra vyāso 'yaṃ samupasthitaḥ. tasya pūjāṃ yathāśakti saumyacittaḥ prayojayet. cittamūlo bhaved dharmo dharmamūlaṃ bhaved yaśaḥ. tasmāt saumyena cittena dātavyaṃ devi sarvadā. saumyacittas tu yo dadyāt tad dhi dānam anuttamam. yathāmbubindubhiḥ sūkṣmaiḥ patadbhir medinītale. kedārāś ca taṭākāni sarāṃsi saritas tathā. toyapūrṇāni dṛśyante apratarkyāṇi śobhane. alpam alpam api hy etad dīyamānaṃ vivardhate. pīḍayāpi ca bhṛtyānāṃ dānam eva viśiṣyate. putradārā dhanaṃ dhānyaṃ na mṛtān anugacchati. śreyo dānaṃ ca bhogaś ca dhanaṃ prāpya yaśasvini. dānena hi mahābhāgā bhavanti manujādhipāḥ. nāsti bhūmisamaṃ dānaṃ nāsti dānasamo nidhiḥ. nāsti satyāt paro dharmo nānṛtāt pātakaṃ param. āśrame yas tu tapyeta tapomūlaphalāśanaḥ. ādityābhimukho bhūtvā jaṭāvalkalasaṃvṛtaḥ. maṇḍūkaśāyī hemante grīṣme pañcatapā bhavet. samyak tapaś carantīha śraddadhānā vanāśrame. gṛhāśramasya te devi kalāṃ nārhanti ṣoḍaśīm. umā. gṛhāśramasya yā caryā vratāni niyamāś ca ye. yathā ca devatāḥ pūjyāḥ satataṃ gṛhamedhinā. yad yac ca parihartavyaṃ gṛhiṇā tithiparvasu. maheśvaraḥ. tat sarvaṃ śrotum icchāmi kathyamānaṃ tvayā prabho. gṛhāśramasya yan mūlaṃ phalaṃ dharmo 'yam uttamaḥ. pādaiś caturbhiḥ satataṃ dharmo yatra pratiṣṭhitaḥ. sārabhūtaṃ varārohe dadhno ghṛtam ivoddhṛtam. tad ahaṃ te pravakṣyāmi śrūyatāṃ dharmacāriṇi. śuśrūṣate yaḥ pitaraḥ mātaraṃ ca gṛhāśrame. bhartāraṃ caiva yā nārī agnihotraṃ ca ye dvijāḥ. teṣu teṣu ca prīṇanti devā indrapurogamāḥ. umā. pitaraḥ pitṛlokasthāḥ svadharmeṇa sa rajyate. mātāpitṛviyuktānāṃ kā caryā gṛhamedhinām. vidhavānāṃ ca nārīṇāṃ bhavān etad bravītu me. maheśvaraḥ. devatātithiśuśrūṣā guruvṛddhābhivādanam. ahiṃsā sarvabhūtānām alobhaḥ satyasaṃdhatā. brahmacaryaṃ śaraṇyatvaṃ śaucaṃ pūrvābhibhāṣaṇam. kṛtajñatvam apaiśunyaṃ satataṃ dharmaśīlatā. dine dvir abhiṣekaṃ ca pitṛdaivatapūjanam. gavāhnikapradānaṃ ca saṃvibhāgo 'tithiṣv api. dīpaṃ pratiśrayaṃ caiva dadyāt pādyāsanaṃ tathā. pañcame 'hani ṣaṣṭhe vā dvādaśe vāpy athāṣṭame. caturdaśe pañcadaśe brahmacārī sadā bhavet. śmaśrukarma śirobhyaṅgam añjanaṃ dantadhāvanam. naiteṣv ahaḥsu kurvīta teṣv alakṣmīḥ pratiṣṭhitā. vratopavāsaniyamas tapo dānaṃ ca śaktitaḥ. bharaṇaṃ bhṛtyavargasya dīnānām anukampanam. paradāranivṛttiś ca svadāreṣu ratiḥ sadā. śarīram ekaṃ daṃpatyor vidhātrā pūrvanirmitam. tasmāt svadāranirato brahmacārī vidhīyate. śīlavṛttavinītasya nigṛhītendriyasya ca. ārjave vartamānasya sarvabhūtahitaiṣiṇaḥ. priyātitheś ca kṣāntasya dharmārjitadhanasya ca. gṛhāśramapadasthasya kim anyaiḥ kṛtyam āśramaiḥ. yathā mātaram āśritya sarve jīvanti jantavaḥ. tathā gṛhāśramaṃ prāpya sarve jīvanti cāśramāḥ. rājānaḥ sarvapāṣaṇḍāḥ sarve raṅgopajīvinaḥ. vyālagrāhāś ca dambhāś ca corā rājabhaṭās tathā. savidyāḥ sarvaśilpajñāḥ sarve caiva cikitsakāḥ. dūrādhvānaṃ prapannāś ca kṣīṇapathyodanā narāḥ. ete cānye ca bahavas tarkayanti gṛhāśramam. mārjārā mūṣikāḥ śvānaḥ sūkarāś ca śukās tathā. kapotakākacaṭakāḥ sarīsṛpaniṣeviṇaḥ. araṇyavāsinaś cānye saṃghā ye mṛgapakṣiṇām. evaṃ bahuvidhā devi loke 'smin sacarācarāḥ. gṛhe kṣetre bile caiva śataśo 'tha sahasraśaḥ. gṛhasthena kṛtaṃ karma sarvais tair upabhujyate. upayuktaṃ ca yat teṣāṃ matimān nānuśocati. dharma ity eva saṃkalpya yat tu tasya phalaṃ śṛṇu. sarvayatnapraṇītasya hayamedhasya yat phalam. varṣe sa dvādaśe devi phalenaitena yujyate. āśāpāśavimokṣaś ca viddhi dharmam anuttamam. vṛkṣamūlacaro nityaṃ śūnyāgāraniveśanam. nadīpulinaśāyī ca nadītīram anuvrajan. vimuktaḥ sarvasaṅgebhyaḥ snehabandhena vai dvijaḥ. ātmany evātmano bhāvaṃ samāyojyeha te vane. ātmabhūto yatāhāro mokṣadṛṣṭena karmaṇā. pavitranityo yuktaś ca tasya dharmaḥ sanātanaḥ. naikatra ramate sakto na caikagrāmagocaraḥ. yukto 'py aṭati yo 'yukto na caikapulineśayaḥ. umā. eṣa mokṣavidāṃ dharmo vedoktaḥ satpathe sthitaḥ. devadeva namas tubhyaṃ triyakṣa vṛṣabhadhvaja. śrutaṃ me bhagavan sarvaṃ tvatprasādān maheśvara. saṃgṛhītaṃ mayā tac ca tava vākyam anuttamam. idānīm asti saṃdeho mānuṣeṣv eva kaś cana. tulyapāṇiśiraḥkāyo rājāyam iti dṛśyate. kena karmavipākena sarvaprādhānyam arhati. sa cāpi daṇḍayan martyān bhartsayan vidhamann api. pretyabhāve kathaṃ lokāṃl labhate puṇyakarmaṇām. maheśvaraḥ. rājavṛttam ahaṃ tasmāc chrotum icchāmi mānada. tad ahaṃ te pravakṣyāmi rājadharmaṃ śubhānane. rājāyattaṃ hi tat sarvaṃ lokavṛttaṃ śubhāśubham. mahatas tapaso devi phalaṃ rājyam iti smṛtam. tapodānamayaṃ rājyaṃ paraṃ sthānaṃ vidhīyate. tasmād rājñaḥ sadā martyāḥ praṇamanti yatas tataḥ. nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini. tasmāt tasyaiva caritaṃ jagatpathyaṃ śṛṇu priye. arājake purā tv āsīt prajānāṃ saṃkulaṃ mahat. tad dṛṣṭvā saṃkulaṃ brahmā manuṃ rājye nyaveśayat. tadāprabhṛti saṃdṛṣṭaṃ rājñāṃ vṛttaṃ śubhāśubham. tan me śṛṇu varārohe tasya pathyaṃ jagaddhitam. yathā pretya labhet svargaṃ yathā vīryaṃ yaśas tathā. pitryaṃ vā bhūtapūrvaṃ vā svayam utpādya vā punaḥ. rājadharmam anuṣṭhāya vidhivad bhoktum arhati. ātmānam eva prathamaṃ vinayair upapādayet. anu bhṛtyān prajāḥ paścād ity eṣa vinayakramaḥ. svāminaṃ copamāṃ kṛtvā prajās tadvṛttakāṅkṣayā. svayaṃ vinayasaṃpannā bhavantīha śubhekṣaṇe. tasmāt pūrvataraṃ rājā ātmānaṃ vinaye nayet. yo vinītaḥ svayaṃ rājā vinayaty eva vai prajāḥ. apahāsyo bhavet tādṛk svadoṣasyānavekṣaṇāt. vidyābhyāsair vṛddhayogair ātmānaṃ vinayaṃ nayet. vidyā dharmārthaphalinī tadvido vṛddhasaṃjñitāḥ. indriyāṇāṃ jayo devi ata ūrdhvam udāhṛtam. ajaye sumahān doṣo rājānaṃ vinipātayet. pañcaiva svavaśān kṛtvā tadarthān pañca śoṣayet. ṣaḍ utsṛjya yathāyogaṃ jñānena vinayena ca. śāstracakṣur nayaparo bhūtvā bhṛtyān samāharet. vṛttaśrutakulopetān upadhābhiḥ parīkṣitān. amātyān upadhātītān sāpasarpāñ jitendriyān. yojayeta yathāyogaṃ yathārhaṃ sveṣu karmasu. amātyā buddhisaṃpannā rāṣṭraṃ bahujanapriyam. durādharṣaṃ puraśreṣṭhaṃ kośaḥ kṛcchrasahaḥ smṛtaḥ. anuraktaṃ balaṃ sāram advaidhaṃ mitram eva ca. etāḥ prakṛtayaḥ ṣaṭ ca svāmī ca nayatattvavit. prajānāṃ rakṣaṇārthāya sarvam etad vinirmitam. ābhiḥ karaṇabhūtābhiḥ kuryāl lokahitaṃ nṛpaḥ. ātmarakṣā nṛpendrasya prajārakṣārtham iṣyate. tasmāt satatam ātmānaṃ saṃrakṣed apramādavān. bhojanācchādanāt snānād bahir niṣkramaṇād api. nityaṃ strīgaṇasaṃyogād rakṣed ātmānam ātmavān. svebhyaś caiva parebhyaś ca śastrād api viṣād api. satataṃ putradārebhyo rakṣed ātmānam ātmavān. sarvebhya eva sthānebhyo rakṣed ātmānam ātmavān. prajānāṃ rakṣaṇārthāya prajāhitakaro bhavet. prajākāryaṃ tu tatkāryaṃ prajāsaukhyaṃ tu tatsukham. prajāpriyaṃ priyaṃ tasya svahitaṃ hi prajāhitam. prajārthaṃ tasya sarvasvam ātmārthaṃ na vidhīyate. prakṛtīnāṃ vivādārthaṃ rāgadveṣau vyudasya ca. ubhayoḥ pakṣayor vādaṃ śrutvā caiva yathātatham. tam arthaṃ vimṛśed buddhyā svayam ā tattvadarśanāt. tadvidbhir bahubhir vṛddhaiḥ sahāsīno narottamaiḥ. kartāram aparādhaṃ ca deśakālau nayānayau. jñātvā samyag yathāśāstraṃ tato daṇḍaṃ nayen nṛṣu. evaṃ kurvaṃl labhed dharmaṃ pakṣapātavivarjanāt. pratyakṣāptopadeśābhyām anumānena vā punaḥ. boddhavyaṃ satataṃ rājñā deśavṛttaṃ śubhāśubham. cāraiḥ karmapravṛttyā ca tad vijñāya vicārayan. aśubhaṃ nirharet sadyo joṣayec chubham ātmanaḥ. garhyān vigarhayed eva pūjyān saṃpūjayet tathā. daṇḍyāṃś ca daṇḍayed devi nātra kāryā vicāraṇā. pañcāpekṣaṃ sadā mantraṃ kuryād buddhiyutair naraiḥ. kulavṛttaśrutopetair nityaṃ mantraparo bhavet. kāmarāgeṇa vai mūrkhair naiva mantramanā bhavet. rājā rāṣṭrahitāpekṣaḥ satyadharmāṇi kārayet. sarvodyogaṃ svayaṃ kuryād durgādiṣu sadā nṛpaḥ. deśavṛddhikarān bhṛtyān apramādena kārayet. deśakṣayakarān sarvān saṃpriyān api varjayet. ahany ahani saṃpaśyed anujīvigaṇaṃ svayam. sumukhaḥ supriyo bhūtvā samyag vṛttaṃ samādiśet. adharmyaṃ paruṣaṃ tīkṣṇaṃ vākyaṃ vaktuṃ na cārhati. nare nare guṇān doṣān samyag veditum arhati. sveṅgitaṃ vṛṇuyād dhairyān na kuryāt kṣudrasaṃvidam. pareṅgitajño lokajño bhūtvā saṃsargam ācaret. svataś ca parataś caiva parasparabhayād api. amānuṣabhayebhyaś ca svāḥ prajāḥ pālayen nṛpaḥ. lubdhāḥ kaṭhorāś cādhyakṣā mānavā dasyuvṛttayaḥ. nigrāhyā eva te rājñā saṃgṛhītā yatas tataḥ. kumārān vinayair eva janmaprabhṛti yojayet. teṣām ātmaguṇopetaṃ yauvarājye niyojayet. prakṛtīnāṃ yathā na syād rājyabhraṃśodbhavaṃ bhayam. etat saṃcintayan nityaṃ tadvidhānaṃ tathārhati. arājakaṃ kṣaṇam api rāṣṭraṃ na syād dhi śobhane. ātmano 'nuvidhānāya yauvarājyaṃ sadeṣyate. kulajānāṃ ca vaidyānāṃ śrotriyāṇāṃ tapasvinām. anyeṣāṃ vṛttayuktānāṃ viśeṣaṃ kartum arhati. ātmārthaṃ rājyatantrārthaṃ kośasaṃcayam ārabhet. durgād rāṣṭrāt samudrāc ca vaṇigbhyaḥ puruṣātyayāt. parātmaguṇasārābhyāṃ bhṛtyapoṣaṇam ācaret. vāhanānāṃ vidhāyāgre poṣaṇaṃ yaudhakarmasu. sādaraḥ satataṃ bhūtvā apekṣāvratam ācaret. caturdhā vibhajet kośaṃ dharmabhṛtyātmakāraṇāt. āpadarthaṃ ca nītijño deśakālavaśena tu. anāthān vyādhitān vṛddhān svadeśe poṣayen nṛpaḥ. saṃdhiṃ ca vigrahaṃ caiva tadviśeṣāṃs tathāparān. yathāvat saṃvimṛśyaiva buddhipūrvaṃ samācaret. sarveṣāṃ sa priyo bhūtvā maṇḍalaṃ satataṃ caret. śubheṣv api ca kāryeṣu na caiko 'ntaḥ samācaret. svataś ca parataś caiva vyasanāni vimṛśya tu. pareṇa dhārmikān nyāyān nātīyād dveṣalobhataḥ. rakṣyatvaṃ vai prajādharmaḥ kṣatradharmas tu rakṣaṇam. kunṛpaiḥ pīḍitās tasmāt prajāḥ sarvatra pālayet. yātrākālam avekṣyaiva paścāt kopaḥ phalodayam. tadyuktāś cāpadaś caiva prāg yānād iti cintayet. vyasanebhyo balaṃ rakṣen nayato vyayato 'pi vā. prāyaśo varjayed yuddhaṃ prāṇarakṣaṇakāraṇāt. kāraṇād eva yoddhavyaṃ nātmanaḥ paradoṣataḥ. suyuddhe prāṇamokṣaś ca tasya dharmāya iṣyate. abhiyukto balavatā kuryād āpadvidhiṃ nṛpaḥ. anunīya tathā sarvān prajānāṃ hitakāraṇāt. anyaprakṛtiyuktānāṃ rājñāṃ vṛttavicāriṇām. anyāṃś cāpatprapannānāṃ na tān saṃyoktum arhati. śubhāśubhaṃ yadā devi vṛttaṃ tūbhayataḥ smṛtam. ātmaiva tac chubhaṃ kuryād aśubhaṃ yojayet parān. evam uddeśataḥ proktam alepatvaṃ yathā bhavet. etad evaṃ samāsena rājadharmaḥ prakīrtitaḥ. evaṃ saṃvartamānas tu daṇḍayan bhartsayan prajāḥ. na kilbiṣam avāpnoti padmapatram ivāmbhasā. evaṃ saṃvartamānasya kāladharmo yadā bhavet. svargaloke tadā rājā tridaśaiḥ saha toṣyate. dvividhaṃ rājavṛttaṃ ca nyāyabhāgyasamanvitam. evaṃ nyāyānugaṃ vṛttaṃ kathitaṃ te śubhekṣaṇe. rājyaṃ nyāyānugaṃ nāma buddhiśāstrānugaṃ bhavet. dharmyaṃ pathyaṃ yaśasyaṃ ca svargyaṃ caiva tathā bhavet. daivapakṣye sati nṛpe rājyaṃ nyāyānugaṃ bhavet. kriyante yatra karmāṇi śāstrayuktiṃ vimṛśya vai. kartā dveṣaviyuktaś ca tatra nyāyānugaṃ bhavet. rājyaṃ bhogānugaṃ nāma ayathāvat pradṛśyate. tat tu śāstravinirmuktaṃ satāṃ kopakaraṃ bhavet. adharmyam ayaśasyaṃ ca durantaṃ ca bhaved dhruvam. yatra svacchandataḥ sarvaṃ kriyate karma rājabhiḥ. yatra bhāgyavaśād bhṛtyā labhante na viśeṣataḥ. yatra daṇḍyā na daṇḍyante pūjyante vā narādhamāḥ. yatra santo vihanyante tatra bhāgyānugaṃ bhavet. śubhāśubhaṃ yadā yatra viparītaṃ pradṛśyate. rājñi vāsurapakṣe tu tatra bhāgyānugaṃ bhavet. bhāgyānuge tu rājāno vartamānā yathātathā. prāpyākīrtim anarthaṃ ca ihaloke śubhekṣaṇe. paratra sumahāghoraṃ tamaḥ prāpya duratyayam. tiṣṭhanti narake devi pralayāntād iti sthitiḥ. mokṣaṇaṃ duṣkṛtīnāṃ tu vidyate kālaparyayāt. nāsty eva mokṣaṇaṃ devi rājñāṃ duṣkṛtakāriṇām. etat sarvaṃ samāsena rājavṛttaṃ śubhāśubham. umā. kathitaṃ te mahābhāge bhūyaḥ śrotuṃ kim icchasi. devadeva mahādeva sarvadevanamaskṛta. maheśvaraḥ. yāni dharmarahasyāni śrotum icchāmi tāny aham. rahasyaṃ śrūyatāṃ devi mānuṣāṇāṃ sukhāvaham. napuṃsakeṣu vandhyāsu viyonau pṛthivītale. utsargo retasas teṣu na kāryo dharmakāṅkṣibhiḥ. eteṣu bījaṃ prakṣiptaṃ na virohati vai priye. yatra vā tatra vā bījaṃ dharmārthī notsṛjet punaḥ. naro bījavināśena lipyate bhrūṇahatyayā. ahiṃsā paramo dharmaḥ ahiṃsā paramaṃ sukham. ahiṃsā dharmaśāstreṣu sarveṣu paramaṃ padam. devatātithiśuśrūṣā satataṃ dharmaśīlatā. vedādhyayanayajñāś ca tapo dānaṃ damas tathā. ācāryaguruśuśrūṣā tīrthābhigamanaṃ tathā. ahiṃsāyā varārohe kalāṃ nārhanti ṣoḍaśīm. umā. etat te paramaṃ guhyam ākhyātaṃ paramārcitam. yadi dharmas tv ahiṃsāyāṃ kimartham amarottama. yajñeṣu paśubandheṣu hanyante paśavo dvijaiḥ. kathaṃ ca bhagavan bhūyo hiṃsamānā narādhipāḥ. svargaṃ sudurgamaṃ yānti sadā sma ripusūdana. yasyaiva gosahasrāṇi viṃśatiḥ sādhikāni tu. ahany ahani hanyante dvijānāṃ māṃsakāraṇāt. samāṃsaṃ tu sa dattvānnaṃ rantidevo narādhipaḥ. kathaṃ svargam anuprāptaḥ paraṃ kautūhalaṃ hi me. kiṃ nu dharmaṃ na śṛṇvanti na śraddadhati vā śrutam. mṛgayāyai vinirgatya mṛgān ghnanti narādhipāḥ. etat sarvaṃ viśeṣeṇa vistareṇa vṛṣadhvaja. maheśvaraḥ. śrotum icchāmi bhagavaṃs tattvam etan mamocyatām. bahumānyam idaṃ devi nāsti kaś cid ahiṃsakaḥ. śrūyatāṃ kāraṇaṃ cātra yathānekavidhaṃ bhavet. dṛśyate cāpi loke 'smin na kaś cid avihiṃsakaḥ. dharaṇīsaṃśritāñ jīvān susūkṣmāṃś caiva madhyamān. saṃcaraṃś caraṇābhyāṃ ca hanti jīvān anekaśaḥ. ajñānāj jñānato vāpi ye jīvāḥ śayanāsane. upāviśañ śayānaś ca hanti jīvān anekaśaḥ. śirovastreṣu ye jīvā narāṇāṃ svedasaṃbhavāḥ. tāṃś ca hiṃsanti satataṃ daṃśāṃś ca maśakān api. jale jīvās tathākāśe pṛthivī jīvamālinī. evaṃ jīvākule loke ko 'sau syād yas tv ahiṃsakaḥ. sthūlamadhyamasūkṣmaiś ca svedavātamahīruhaiḥ. dṛśyarūpair adṛśyaiś ca nānārūpaiś ca bhāmini. jīvais tatam idaṃ sarvam ākāśaṃ pṛthivī tathā. anyonyaṃ te ca hiṃsanti durbalān balavattarāḥ. matsyā matsyān grasantīha khagāṃś caiva khagās tathā. sarīsṛpaiś ca jīvanti kapotādyā vihaṃgamāḥ. bhūcarāḥ khecarāś cānye kravyādā māṃsagṛddhinaḥ. samṛddhāḥ paramāṃsais tu bhakṣeran ye 'pi cāparaiḥ. sattvaiḥ sattvāni jīvanti śataśo 'tha sahasraśaḥ. apīḍayitvā naivānyaṃ jīvā jīvanti sundari. sthūlakāyasya sattvasya kharasya mahiṣasya vā. jīvasyaikasya māṃsena payasā rudhireṇa vā. tṛpyante bahavo jīvāḥ kravyādā māṃsabhojinaḥ. eko jīvasahasrāṇi sadā khādati mānavaḥ. annādyalpopabhogena dhānyasaṃjñāni yāni tu. māṃsadhānyaiḥ sabījaiś ca bhojanaṃ parivarjayet. trirātraṃ pañcarātraṃ vā saptarātram athāpi vā. dhānyāni yo na hiṃsetāhiṃsakaḥ parikīrtitaḥ. nāśnāti yāvato jīvāṃs tāvat puṇyena yujyate. āhārasya viyogena śarīraṃ paritapyate. tapyamāne śarīre tu śarīraṃ cendriyāṇy api. vaśe tiṣṭhanti suśroṇi nṛpāṇām iva kiṃkarāḥ. niruṇaddhīndriyāṇy eva sa sukhī sa vicakṣaṇaḥ. indriyāṇāṃ nirodhena dānena ca damena ca. naraḥ sarvam avāpnoti manasā yad yad icchati. etan mūlam ahiṃsāyā upavāsaḥ prakīrtitaḥ. āhāraṃ kurute yas tu bhūmim ākramate ca yaḥ. sarve te hiṃsakā devi yathā dharmeṣu dṛśyate. yathehāhiṃsako devi tattvajño jñāyate naraḥ. tathā te 'haṃ pravakṣyāmi śrūyatāṃ dharmacāriṇi. phalāni jīrṇaparṇāni bhasma vā yo 'pi bhakṣayet. ālekhyam iva niśceṣṭaṃ taṃ manye 'ham ahiṃsakam. ārambhā hiṃsayā yuktā dhūmenāgnir ivāvṛtāḥ. tasmād yas tu nirāhāras taṃ manye 'ham ahiṃsakam. yas tu sarvaṃ samutsṛjya dīkṣito niyataḥ śuciḥ. kṛtvā maṇḍalamaryādāṃ saṃkalpaṃ kurute naraḥ. yāvajjīvam anāśitvā kālākāṅkṣī dṛḍhavrataḥ. dhyānena tapasā yuktas taṃ manye 'ham ahiṃsakam. anyathā hi na paśyāmi naro yaḥ syād ahiṃsakaḥ. bahu cintyam idaṃ devi nāsti kaś cid ahiṃsakaḥ. yato yato mahābhāge hiṃsā syān mahatī tataḥ. nivṛttau madhumāṃsābhyāṃ hiṃsā tv alpatarā bhavet. nivṛttiḥ paramo dharmo nivṛttiḥ paramaṃ sukham. manasā vinivṛttānāṃ dharmasya nicayo mahān. manaḥpūrvaṃgamā dharmā adharmāś ca na saṃśayaḥ. manasā badhyate cāpi mucyate cāpi mānavaḥ. nigṛhīte bhavet svargo visṛṣṭe narako dhruvaḥ. ghātakaḥ śastram udyamya manasā cintayed yadi. āyuḥkṣayaṃ gate 'dyaiṣāṃ mṛte tu praharāmy aham. iti yo ghātako hanyān na sa pāpena lipyate. vidhinā nihataḥ pūrvaṃ nimittaṃ sa tu ghātakaḥ. vidhir hi balavān devi dustyajaṃ vai purākṛtam. jīvāḥ purākṛtenaiva tiryagyonisarīsṛpāḥ. nānāyoniṣu jāyante svakarmapariveṣṭitāḥ. nānāvidhavicitrāṅgā nānāvīryaparākramāḥ. nānābhūmipradeśeṣu nānāhārāś ca jantavaḥ. jāyamānasya jīvasya mṛtyuḥ pūrvaṃ prajāyate. sukhaṃ vā yadi vā duḥkhaṃ yathā pūrvaṃ kṛtaṃ tathā. prāpnuvanti narā mṛtyuṃ yadā yatra ca yena ca. nātikrāntuṃ hi śakyaṃ syān nideśaḥ pūrvakarmaṇaḥ. apramattaḥ pramatteṣu vidhir jāgarti jantuṣu. na hi tasya priyaḥ kaś cin na dveṣyo na ca madhyamaḥ. samaḥ sarveṣu bhūteṣu kālaḥ kālaṃ nirīkṣate. gatāyuṣo hy ākṣipati jīvaṃ sarvasya dehinaḥ. yathā yena ca martavyaṃ tathā yujyeta mṛtyunā. avaśo nīyate tatra martavyaṃ yatra yena tu. araṇye svagṛhe vāpi rātrau vāhani vā tathā. yathā yena hi martavyaṃ nānyathā mriyate hi saḥ. dṛśyate na ca loke 'smin bhūto bhavyo 'pi vā punaḥ. vijñānair vikramair vāpi nānāmantrauṣadhair api. yo hi vañcayituṃ śakto vidhes tu niyatāṃ gatim. maheśvaraḥ. eṣa te 'bhihito devi jīvahiṃsāvidhikramaḥ. śrūyatāṃ kāraṇaṃ devi yathā hi duratikramaḥ. vidhiḥ sarveṣu bhūteṣu martavye samupasthite. āyuḥkṣayeṇopahatāḥ samāgamya varānane. kīṭāḥ pataṃgā bahavaḥ sthūlāḥ sūkṣmāś ca madhyamāḥ. prajvalatsu pradīpeṣu svayam eva patanti te. bahūnāṃ mṛgayūthānāṃ nānāvananiṣeviṇām. yas tu kālahatas teṣāṃ sa vai kālena vadhyate. sūnārthaṃ devi baddhānāṃ kṣīṇāyur yo nibadhyate. avaśo ghātakasyātha hastaṃ tad ahar eti saḥ. yathā pakṣigaṇāḥ kṣipraṃ vistīrṇākāśagāminaḥ. kṣīṇāyuṣo nibadhyante śaktā api palāyitum. yathā vāricarā mīnā bahavo bahujātayaḥ. jālaṃ samadhirohanti svayam eva vidher vaśāt. śalyakasya ca jihvāgraṃ svayam āruhya śobhane. āyuḥkṣayeṇopahatā nipadyante sarīsṛpāḥ. kṛṣatāṃ karṣakāṇāṃ ca nāsti buddhir vihiṃsane. athaiṣāṃ lāṅgalāgrādyair hanyante jantavo 'kṣayāḥ. pādāgreṇaiva caikena yāṃ hiṃsāṃ kurute naraḥ. mātaṃgo 'pi na tāṃ kuryāt krūro janmaśatair api. mriyante yair hi martavyaṃ na tān hanti kṛṣīvalaḥ. kṛṣāmīti matis tasya nāsti cintā vihiṃsane. tasmāj jīvasahasrāṇi hatvāpi na sa lipyate. vidhinā vihitaḥ pūrvaṃ paścāt prāṇī vipadyate. evaṃ sarveṣu bhūteṣu vidhir hi duratikramaḥ. gatāyuṣā na śakyaṃ hi muhūrtam api jīvitum. jīvitavye na martavyaṃ na bhūtaṃ na bhaviṣyati. śubhāśubhaṃ karmaphalaṃ na śakyam ativartitum. tathā tābhiś ca martavyaṃ bhoktavyāś caiva tās tathā. rantidevasya gāvo vai vidher hi vaśam āgatāḥ. svayam āyānti gāvo vai hanyante yatra sundari. gavāṃ vai hanyamānānāṃ rudhiraprabhavā nadī. carmaṇvatīti vikhyātā khuraśṛṅgāsthidurgamā. rudhiraṃ tāṃ nadīṃ prāpya toyaṃ bhavati śobhane. medhyaṃ puṇyaṃ pavitraṃ ca gandhavarṇarasair yutam. tatrābhiṣekaṃ kurvanti kṛtajapyāḥ kṛtāhnikāḥ. dvijā devagaṇāś cāpi lokapālā maheśvarāḥ. tasya rājñaḥ sadā satre svayam āgamya sundari. vidhinā pūrvadṛṣṭena tanmāṃsam upakalpitam. mantravat pratigṛhṇanti yathānyāyaṃ yathāvidhi. samāṃsaṃ ca sadā hy annaṃ śataśo 'tha sahasraśaḥ. bhuñjānānāṃ dvijātīnām astam eti divākaraḥ. gāvo yās tatra hanyante rājñas tasya kratūttame. paṭhyamāneṣu mantreṣu yathānyāyaṃ yathāvidhi. tāś ca svargaṃ gatā gāvo rantidevaś ca pārthivaḥ. sadā satravidhānena siddhiṃ prāpto nareśvaraḥ. atha yas tu sahāyārtham uktaḥ syāt pārthivair naraḥ. bhogānāṃ saṃvibhāgena vastrābharaṇabhūṣaṇaiḥ. sahabhojanasaṃbandhaiḥ satkārair vividhair api. sahāyakāle saṃprāpte saṃgrāme śastram uddharet. vyūḍhānīke yathā śastraṃ senayor ubhayor api. hastyaśvarathasaṃpūrṇe padātibalasaṃkule. cāmaracchatraśabale dhvajacarmāyudhojjvale. śaktitomarakuntāsiśūlapaṭṭasadhāribhiḥ. kūṭamudgaracāpeṣubhusuṇḍhījuṣṭamuṣṭibhiḥ. bhindipālagadācakraprāsakarpaṇadhāribhiḥ. nānāpraharaṇair yodhaiḥ senayor ubhayor api. yuddhaśauṇḍaiḥ pragarjadbhir vṛṣeṣu vṛṣabhair iva. śaṅkhaduṃdubhinādena nānātūryaraveṇa ca. hayaheṣitaśabdena kuñjarāṇāṃ ca bṛṃhitaiḥ. yodhānāṃ siṃhanādaiś ca ghaṇṭānāṃ śiñjitasvanaiḥ. diśaś ca vidiśaś caiva samantād badhirīkṛtāḥ. grīṣmānteṣu vigarjadbhir nabhasīva balāhakaiḥ. rathanemikhuroddhūtair aruṇai raṇareṇubhiḥ. kapilābhir ivākāśe chādyamāne samantataḥ. pravṛtte śastrasaṃpāte yodhānāṃ tatra senayoḥ. teṣāṃ prahārakṣatajaṃ raktacandanasaprabham. te sravantaḥ svagātrebhyas tarante raṇamūrdhani. palāśāśokapuṣpāṇāṃ jaṃgamā iva rāśayaḥ. raṇe samabhivartanta udyatāyudhapāṇayaḥ. śobhamānā raṇe śūrā āhvayantaḥ parasparam. hanyamāneṣv abhighnatsu śūreṣu raṇasaṃkaṭe. pṛṣṭhaṃ dattvātha ye tatra nāyakasya narādhamāḥ. anāhatā nivartante nāyake vāpy abhīpsati. te duṣkṛtaṃ prapadyante nāyakasyākhilaṃ narāḥ. yac cāsti sukṛtaṃ teṣāṃ yujyate tena nāyakaḥ. ahiṃsā paramo dharma iti ye 'pi narā viduḥ. saṃgrāmeṣu na yudhyante bhṛtāś caivānurūpataḥ. narakaṃ yānti te ghoraṃ bhartṛpiṇḍāpahāriṇaḥ. yas tu prāṇān parityajya praviśed udyatāyudhaḥ. saṃgrāmam agnipratimaṃ pataṃgā iva nirbhayam. sattvam āviśate tatra jñātvā yodhasya niścayam. āviṣṭaś caiva sattvena nirghṛṇo jāyate naraḥ. prahārair nandayed devi sattvenādhiṣṭhito hi saḥ. prahāravyathitaś caiva na vaiklavyam upaiti saḥ. yas tu svaṃ nāyakaṃ rakṣann atighore raṇāṅgaṇe. tāpayann arisainyāni siṃho mṛgagaṇān iva. āditya iva madhyāhne durnirīkṣyo raṇājire. nirdayo yas tu saṃgrāme praharaty udyatāyudhaḥ. yajate sa tu pūtātmā saṃgrāmeṇa mahākratum. varma kṛṣṇājinaṃ tasya daṇḍakāṣṭhaṃ dhanuḥ smṛtam. ratho vedī dhvajo yūpaḥ kuśāś ca ratharaśmayaḥ. māno darpas tv ahaṃkāras trayas tretāgnayaḥ smṛtāḥ. pratodaś ca sruvas tasya upādhyāyo 'sya sārathiḥ. srug bhāṇḍaṃ cāpi yat kiṃ cid yajñopakaraṇāni ca. āyudhāny asya tat sarvaṃ samidhaḥ sāyakāḥ smṛtāḥ. svedasrāvaś ca gātrebhyaḥ kṣaudraṃ tasya yaśasvinaḥ. puroḍāśā nṛśīrṣāṇi rudhiraṃ cāhutiḥ smṛtam. tūṇaś caiva carur jñeyo vasor dhārā vasā smṛtā. kravyādā bhūtasaṃghāś ca tasmin yajñe dvijātayaḥ. teṣāṃ bhakṣānnapānāni hatā nṛgajavājinaḥ. bhuñjate te yathākāmaṃ yathā yajñe kim icchake. nihatānāṃ tu yodhānāṃ vastrābharaṇabhūṣaṇam. hiraṇyaṃ ca suvarṇaṃ ca yad vai yajñasya dakṣiṇā. yas tatra hanyate devi gajaskandhagato naraḥ. brahmalokam avāpnoti raṇeṣv abhimukho hataḥ. rathamadhyagato vāpi hayapṛṣṭhagato 'pi vā. hanyate yas tu saṃgrāme śakraloke mahīyate. svarge hantā pūjyate tair hatas tatraiva pūjyate. dvāv etau sukham edhete hantā yaś caiva hanyate. tasmāt saṃgrāmam āsādya prahartavyam abhītavat. nirbhayo yas tu saṃgrāme prahared udyatāyudhaḥ. rājño vallabhatām eti kulaṃ bhāvayate svakam. yathā nadīsahasrāṇi praviṣṭāni mahodadhim. tathā sarve na saṃdeho dharmo dharmabhṛtāṃ vare. praviṣṭā rājadharmeṇa ācāryavinayas tathā. vedoktāś caiva ye dharmāḥ pāṣaṇḍeṣu ca kīrtitāḥ. tathaiva mānavā dharmā dharmāś cānye tathāpare. deśajātikulānāṃ ca grāmadharmās tathaiva ca. ye dharmāḥ pārvatīyeṣu ye dharmāḥ pattanādiṣu. teṣāṃ pūrvapravṛttānāṃ kartavyaṃ parirakṣaṇam. dharma eva hato hanti dharmo rakṣati rakṣitaḥ. tasmād dharmo na hantavyaḥ pārthivena viśeṣataḥ. prajāḥ pālayate yatra dharmeṇa vasudhādhipaḥ. ṣaṭkarmaniratā viprāḥ pūjyante pitṛdevatāḥ. naiva tasminn anāvṛṣṭir na rogā nāpy upadravāḥ. dharmaśīlāḥ prajāḥ sarvāḥ svadharmanirate nṛpe. eṣṭavyaḥ satataṃ devi yuktācāro narādhipaḥ. chidrajñaś caiva śatrūṇām apramattaḥ pratāpavān. śūdrāḥ pṛthivyāṃ bahavo rājñāṃ bahuvināśakāḥ. tasmāt pramādaṃ suśroṇi na kuryāt paṇḍito nṛpaḥ. teṣu mitreṣu tyakteṣu tathā martyeṣu hastiṣu. visrambho nopagantavyaḥ snānapāneṣu nityaśaḥ. rājño vallabhatām eti kulaṃ bhāvayate svakam. yas tu rāṣṭrahitārthāya gobrāhmaṇakṛte tathā. bandigrāhāya mitrārthe prāṇāṃs tyajati dustyajān. sarvakāmadughāṃ dhenuṃ dharaṇīṃ lokadhāriṇīm. samudrāntāṃ varārohe saśailavanakānanām. dadyād devi dvijātibhyo vasupūrṇāṃ vasuṃdharām. na tatsamaṃ varārohe prāṇatyāgī viśiṣyate. sahasram api yajñānāṃ yajate yadi carddhimān. yajñais tasya kim āścaryaṃ prāṇatyāgaḥ suduṣkaraḥ. tasmāt sarveṣu yajñeṣu śastrayajño viśiṣyate. maheśvaraḥ. evaṃ saṃgrāmayajñās te yathātattvam udāhṛtāḥ. mṛgayātrāṃ tu vakṣyāmi śṛṇu tāṃ dharmacāriṇi. mṛgān hatvā mahīpālo yathā pāpair na lipyate. nirmānuṣām imāṃ sarve mṛgā icchanti medinīm. bhakṣayanti ca sasyāni śāsitavyā nṛpeṇa te. duṣṭānāṃ śāsanaṃ dharmaḥ śiṣṭānāṃ paripālanam. kartavyaṃ bhūmipālena nityaṃ kāryeṣu cārjavam. svargaṃ mṛgāś ca gacchanti svayaṃ nṛpatinā hatāḥ. yathā gāvo hy agopālās tathā rāṣṭram anāyakam. tasmād aṃśās tu devānāṃ gandharvoragarakṣasām. rājye niyuktā rāṣṭreṣu prajāpālanakāraṇāt. aśiṣṭaśāsane caiva śiṣṭānāṃ paripālane. teṣāṃ caryāṃ pravakṣyāmi śrūyatām anupūrvaśaḥ. yathā pracaratāṃ teṣāṃ pārthivānāṃ yaśasvini. rāṣṭraṃ dharmo dhanaṃ caiva yaśaḥ kīrtiś ca vardhate. nṛpāṇāṃ pūrvam evāyaṃ dharmo dharmabhṛtāṃ vare. sabhāprapātaṭākāni devatāyatanāni ca. brāhmaṇāvasathāś caiva kartavyā nṛpasattamaiḥ. brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ. kulam utsādayeyus te krodhāviṣṭā dvijātayaḥ. dhmāyamāno yathā hy agnir nirdahet sarvam indhanam. tathā krodhāgninā viprā daheyuḥ pṛthivīm imām. na hi vipreṣu kruddheṣu rājyaṃ bhuñjanti bhūmipāḥ. paribhūya dvijān mohād vātāpinahuṣādayaḥ. sabandhumitrā naṣṭās te dagdhā brāhmaṇamanyubhiḥ. śarīraṃ cāpi śakrasya kṛtaṃ bhaganirantaram. tato devagaṇāḥ sarve indrasyārthe mahāmatim. prasādaṃ kārayām āsuḥ praṇāmastutivandanaiḥ. tena prītena suśroṇi gautamena mahātmanā. tac charīraṃ tu śakrasya sahasrabhagacihnitam. kṛtaṃ netrasahasreṇa kṣaṇenaiva nirantaram. chittvā meṣasya vṛṣaṇau gautamenābhimantritau. indrasya vṛṣaṇau bhūtvā kṣipraṃ vai śleṣam āgatau. evaṃ vipreṣu kruddheṣu devarājaḥ śatakratuḥ. aśaktaḥ śāsituṃ rājyaṃ kiṃ punar mānuṣo bhuvi. krodhāviṣṭo dahed vipraḥ śuṣkendhanam ivānalaḥ. bhasmīkṛtya jagat sarvaṃ sṛjed anyaj jagat punaḥ. adevān api devān sa kuryād devān adevatāḥ. tasmān notpādayen manyuṃ manyupraharaṇā dvijāḥ. mahatsv apy aparādheṣu śāsanaṃ nārhati dvijaḥ. na ca śastranipātāni na ca prāṇair viyojanam. dṛśyate triṣu lokeṣu brāhmaṇānām anindite. krodhāś ca vipulā ghorāḥ prasādāś cāpy anuttamāḥ. tasmān notpādayet krodhaṃ nityaṃ pūjyā dvijātayaḥ. dṛśyate na sa loke 'smin bhūto vātha bhaviṣyati. kruddheṣu yo vai vipreṣu rājyaṃ bhuṅkte narādhipaḥ. na caivopahased viprān na caivopālabhec ca tān. kālam āsādya kupyec ca kāle kuryād anugraham. saṃprahāsaś ca bhṛtyeṣu na kartavyo narādhipaiḥ. laghutvaṃ caiva prāpnoti ājñā cāsya nivartate. bhṛtyānāṃ saṃprahāsena pārthivaḥ paribhūyate. ayācyāni ca yācanti avaktavyaṃ bruvanti ca. pūrvam apy ucitair lābhaiḥ paritoṣaṃ na yānti te. tasmād bhṛtyeṣu nṛpatiḥ saṃprahāsaṃ vivarjayet. na viśvased aviśvaste viśvaste ca na viśvaset. sagotreṣu viśeṣeṇa sarvopāyair na viśvaset. viśvāsād bhayam utpannaṃ hanyād vṛkṣam ivāśaniḥ. pramādād dhanyate rājā lobhena ca vaśīkṛtaḥ. tasmāt pramādaṃ lobhaṃ ca na kuryān na ca viśvaset. bhayārtānāṃ paritrātā dīnānugrahakārakaḥ. tasmāt kṛtyaviśeṣajño nityaṃ rāṣṭrahite rataḥ. satyasaṃdhaḥ sthito rājye prajāpālanatatparaḥ. alubdho nyāyavādī ca ṣaḍbhāgaṃ copajīvati. kāryākāryaviśeṣajñaḥ sarvaṃ dharmeṇa paśyati. svarāṣṭreṣu dayāṃ kuryād akāryaṃ na pravartate. ye caivainaṃ praśaṃsanti ye ca nindanti mānavāḥ. śatruṃ ca mitravat paśyed aparādhavivarjitam. aparādhānurūpeṇa duṣṭaṃ daṇḍena śāsayet. dharmaḥ pravartate tatra yatra daṇḍarucir nṛpaḥ. nādharmo vidyate tatra yatra rājā kṣamānvitaḥ. aśiṣṭaśāsanaṃ dharmaḥ śiṣṭānāṃ paripālanam. vadhyāṃś ca ghātayed yas tu avadhyān parirakṣati. avadhyā brāhmaṇā gāvo dūtaś caiva pitā tathā. vidyāṃ grāhayate yaś ca ye ca pūrvopakāriṇaḥ. striyaś caiva na hantavyā yaś ca sarvātithir naraḥ. dharaṇīṃ gāṃ hiraṇyaṃ ca siddhānnaṃ ca tilān ghṛtam. dadan nityaṃ dvijātibhyo mucyate rājakilbiṣāt. evaṃ carati yo nityaṃ rājā rāṣṭrahite rataḥ. tasya rāṣṭraṃ dhanaṃ dharmo yaśaḥ kīrtiś ca vardhate. na ca pāpair na cānarthair yujyate sa narādhipaḥ. ṣaḍbhāgam upayuñjan yaḥ prajā rājā na rakṣati. svacakraparacakrābhyāṃ dhanair vā vikrameṇa vā. nirudyogo nṛpo yaś ca pararāṣṭranighātane. svarāṣṭraṃ niṣpratāpasya paracakreṇa hanyate. yat pāpaṃ paracakrasya paracakrābhighātane. tat pāpaṃ sakalaṃ rājā hatarāṣṭraḥ prapadyate. mātulaṃ bhāgineyaṃ vā mātaraṃ śvaśuraṃ gurum. pitaraṃ varjayitvaikaṃ hanyād ghātakam āgatam. svasya rāṣṭrasya rakṣārthaṃ yudhyamānas tu yo hataḥ. saṃgrāme paracakreṇa śrūyatāṃ tasya yā gatiḥ. vimāne tu varārohe apsarogaṇasevite. śakralokam ito yāti saṃgrāme nihato nṛpaḥ. yāvanto lomakūpāḥ syus tasya gātreṣu sundari. tāvad varṣasahasrāṇi śakraloke mahīyate. yadi vai mānuṣe loke kadā cid upapadyate. rājā vā rājamātro vā bhūyo bhavati vīryavān. tasmād yatno 'nukartavyaḥ svarāṣṭraparipālane. vyavahāraś ca cāraś ca satataṃ satyasaṃdhatā. apramādaḥ pramodaś ca vyavasāye 'py acaṇḍatā. bharaṇaṃ caiva bhṛtyānāṃ vāhanānāṃ ca poṣaṇam. yodhānāṃ caiva satkāraḥ kṛte karmaṇy amoghatā. maheśvaraḥ. śreya eva narendrāṇām iha caiva paratra ca. paśavaḥ paśubandheṣu ye hanyante 'dhvareṣu ca. yūpe nibaddhā mantraiś ca yathānyāyaṃ yathāvidhi. mantrāhutivipūtās te svargaṃ yānti yaśasvini. tarpitā yajñabhāgeṣu teṣāṃ māṃsair varānane. agnayas tridaśāś caiva lokapālāḥ saheśvarāḥ. teṣu tuṣṭeṣu jāyeta tasya yajñasya yat phalam. tena saṃyujyate devi yajamāno na saṃśayaḥ. sapatnīkaḥ saputraḥ sa sa pitṛbhrātṛbhiḥ saha. ye tatra dīkṣitā devi sarve svargaṃ prayānti te. umā. etat te sarvam ākhyātaṃ bhūyaḥ śrotuṃ kim icchasi. bhagavan sarvabhūteśa śūlapāṇe mahādyute. śrotum icchāmy ahaṃ vṛttaṃ sarveṣāṃ gṛhamedhinām. kīdṛśaṃ caritaṃ teṣāṃ trivargasahitaṃ prabho. pratyāyatiḥ kathaṃ teṣāṃ jīvanārtham udāhṛtam. vartamānāḥ kathaṃ sarve prāpnuvanty uttamāṃ gatim. maheśvaraḥ. etat sarvaṃ samāsena vaktum arhasi mānada. nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini. prāyaśo lokasadvṛttam iṣyate gṛhavāsinām. teṣāṃ saṃrakṣaṇārthāya rājānaḥ saṃsmṛtā bhuvi. sarveṣām atha martyānāṃ vṛttiṃ sāmānyataḥ śṛṇu. vidyā vārttā ca sevā ca kārutvaṃ nāṭyatā tathā. ity ete jīvanārthāya martyānāṃ vihitāḥ priye. api janmaphalaṃ tāvan mānuṣāṇāṃ viśeṣataḥ. vihitaṃ tat svavṛttena tan me nigadataḥ śṛṇu. karmakṣetraṃ hi mānuṣyaṃ bhogaduḥkhayutāḥ pare. sarveṣāṃ prāṇināṃ tasmān mānuṣye vṛttam iṣyate. vidyāyogas tu sarveṣāṃ pūrvam eva vidhīyate. kāryākāryaṃ vijānāti vidyayā devi nānyathā. vidyayā sphīyate jñānaṃ jñānāt tattvavidarśanam. dṛṣṭatattvo vinītātmā sarvārthasya ca bhājanam. śakyaṃ vidyāvinītena loke saṃjīvanaṃ sukham. ātmānaṃ vidyayā tasmāt pūrvaṃ kṛtvā tu bhājanam. vaśyendriyo jitakrodho bhūtvātmānaṃ tu bhāvayet. bhāvayitvā tathātmānaṃ pūjanīyaḥ satām api. kulānuvṛttaṃ vṛttaṃ vā pūrvam eva samāśrayet. iṣyate gṛhavāsāya dārakarma yathāpuram. yadi ced vidyayā caiva vṛttiṃ kāṅkṣed athātmanaḥ. rājavidyāṃ tu vāde 'pi lokavidyām athāpi vā. tīrthataś cāpi gṛhṇīyāc chuśrūṣādiguṇair yutaḥ. granthataś cārthataś caiva dṛḍhīkuryāt prayatnataḥ. evaṃ vidyāphalaṃ devi prāpnuyān nānyathā naraḥ. nyāyād vidyāphalaṃ cecched adharmaṃ tatra varjayet. yadi ced vārttayā vṛttiṃ kāṅkṣeta vidhipūrvakam. kṣetre jalopapanne ca tad yogyāṃ kṛṣim ācaret. vāṇijyaṃ vā yathākālaṃ kuryāt taddeśayogataḥ. mūlyam arthaṃ prayāsaṃ ca vicāryaiva phalodayau. paśusaṃjīvakaś caiva deśe gāḥ poṣayed dhruvam. bahuprakārā bahavaḥ paśavas tasya sādhakāḥ. yaḥ kaś cit sevayā vṛttiṃ kāṅkṣeta matimān naraḥ. yatātmā śravaṇīyānāṃ bhaved vai saṃprayojakaḥ. buddhyā vā karmayogād vā yodhanād vā samāśrayet. mārgatas tu samāśritya tadā tatsaṃpriyo bhavet. yathā yathā sa tuṣyeta tathā saṃtoṣayeta tam. anujīviguṇopetaḥ kuryād ātmārtham āśritaḥ. vipriyaṃ nācaret tasya eṣā sevā samāsataḥ. viprayogāt purā tena gatim anyāṃ na lakṣayet. kārukarma ca nāṭyaṃ ca prāyaśo nīcayoniṣu. tayor api yathāyogaṃ nyāyataḥ karmavetanam. ājīvebhyo 'pi sarvebhyaś cārjavād vetanaṃ haret. anārjavād āharatas tat tu pāpāya kalpate. sarveṣāṃ pūrvam ārambhāṃś cintayen nayapūrvakam. ātmaśaktim upāyāṃś ca deśakālau ca śaktitaḥ. kāraṇāni pravāsaṃ ca prakṣepaṃ ca phalodayam. evamādīni saṃcintya dṛṣṭvā daivānukūlatām. ataḥparaṃ samārambhed yatrātmahitam āhitam. vṛttim evaṃ samāsādya tāṃ sadā paripālayet. daivamānuṣavighnebhyo na punar bhraśyate yathā. pālayan vardhayan bhuñjaṃs tāṃ prāpya na vināśayet. kṣīyate girisaṃkāśam aśnato hy anapekṣayā. ājīvebhyo dhanaṃ prāpya caturdhā vibhajed budhaḥ. dharmāyārthāya kāmāya āpatpraśamanāya ca. caturṣv api vibhāgeṣu vidhānaṃ śṛṇu śobhane. yajñārthaṃ cānnadānārthaṃ dīnānugrahakāraṇāt. devabrāhmaṇapūjārthaṃ pitṛpūjārtham eva ca. kulārthaṃ saṃnivāsārthaṃ kriyānityaiś ca dhārmikaiḥ. evamādiṣu cānyeṣu dharmārthaṃ saṃtyajed dhanam. dharmakārye dhanaṃ dadyād anavekṣya phalodayam. aiśvaryasthānalābhārthaṃ rājavāllabhyakāraṇāt. vārttāyāṃ ca samārambhe bhṛtyamitraparigrahe. āvāhe ca vivāhe ca putrāṇāṃ vṛttikāraṇāt. arthodayasamāvāptāv anarthasya vighātane. evamādiṣu cānyeṣu arthārthaṃ vibhajed dhanam. anubandhaṃ phalaṃ hetuṃ dṛṣṭvā vittaṃ parityajet. anarthaṃ bādhate hy artho arthaṃ caiva phalāny uta. nādhanāḥ prāpnuvanty arthān narā yatnaśatair api. tasmād dhanaṃ rakṣitavyaṃ dātavyaṃ ca vidhānataḥ. śarīrapoṣaṇārthāya āhārasya viśeṣaṇe. naṭagāndharvasaṃyoge kāmayātrāvihārayoḥ. manaḥpriyāṇāṃ saṃyoge prītidāne tathaiva ca. evamādiṣu cānyeṣu kāmārthaṃ visṛjed dhanam. vicārya guṇadoṣau tu mātrayā tatra saṃtyajet. caturthaṃ saṃnidadhyāc ca āpadarthaṃ śucismite. rājyabhraṃśavināśārthaṃ durbhikṣārthaṃ ca śobhane. mahāvyādhivimokṣārthaṃ vārddhakasyaiva kāraṇāt. śatrūṇāṃ pratikārāya sāhasaiś cāpy amarṣaṇāt. prasthāne cānyadeśārtham āpadāṃ vipramokṣaṇe. evamādi samuddiśya saṃnidadhyāt svakaṃ dhanam. sukham arthavatāṃ loke kṛcchrāṇāṃ vipramokṣaṇam. yasya nāsti dhanaṃ kiṃ cit tasya lokadvayaṃ na ca. aśanād indriyāṇīva sarvam arthāt pravartate. nidhānaṃ mātrayā kuryād anyathā vilayaṃ vrajet. evaṃ devi manuṣyāṇāṃ loke tv ājīvanaṃ prati. evaṃ yuktasya lokasya laukyaṃ vṛttaṃ punaḥ śṛṇu. dhanyaṃ yaśasyam āyuṣyaṃ svargīyaṃ paramaṃ vacaḥ. trivarge ca yathā yuktaṃ sarveṣāṃ saṃvidhīyate. tathā saṃvartamānās tu lokayor hitam āpnuyuḥ. kālyotthānaṃ ca śaucaṃ ca devabrāhmaṇabhaktatā. gurūṇām eva śuśrūṣā brāhmaṇeṣv abhivādanam. pratyutthānaṃ ca vṛddhānāṃ devasthānapraṇāmanam. ābhimukhyaṃ puraskṛtya atithīnāṃ ca bhojanam. vṛddhopadeśakaraṇaṃ śravaṇaṃ hitapathyayoḥ. poṣaṇaṃ bhṛtyavargasya sāntvadānaparigrahaiḥ. nyāyataḥ karmakaraṇam anyāyāhitavarjanam. samyag vṛttaṃ svadāreṣu doṣāṇāṃ pratiṣedhanam. putrāṇāṃ vinayaṃ kuryāt tattatkārye niyojayet. varjanaṃ cāśubhārthānāṃ śubhānāṃ joṣaṇaṃ tathā. kulocitānāṃ dharmāṇāṃ yathāvat paripālanam. varjanaṃ kalahādīnāṃ bhaktyā saṃśamanaṃ tathā. satāṃ vyasanasaṃyoge svaśaktyābhyavapattitā. dīnānāṃ saṃgrahaṃ caiva nānṛśaṃsyavyapekṣayā. abaddhānṛtaghorāṇāṃ vacanānāṃ vivarjanam. kulasaṃdhāraṇaṃ caiva pauruṣeṇaiva sarvaśaḥ. evamādi śubhaṃ sarvaṃ tasya vṛttam iti smṛtam. vṛddhasevī bhaven nityaṃ hitārthaṃ jñānakāṅkṣayā. parārthaṃ nāhared dravyam anāmantrya tu sarvadā. na yāceta parān dhīraḥ svabāhubalam āśrayet. svaśarīraṃ sadā rakṣed āhārācārayor api. hitaṃ pathyaṃ sadāhāraṃ jīrṇaṃ bhuñjīta mātrayā. devatātithisatkāraṃ kṛtvā sarvaṃ yathāvidhi. śeṣaṃ bhuñjec chucir bhūtvā na ca bhāṣeta vipriyam. pratiśrayaṃ ca pānīyaṃ baliṃ bhikṣāṃ ca sarvaśaḥ. gṛhasthaḥ pravahed dadyād gāś ca vatsāṃś ca poṣayet. bahir niṣkramaṇaṃ caiva kuryāt kāraṇato divā. madhyāhne vārdharātre vā gamanaṃ naiva rocayet. viṣamān nāvagāheta svaśaktyā samam ācaret. yathāyavyayatā loke gṛhasthānāṃ prapūjitā. ayaśaskaram arthaghnaṃ karma yat parapīḍanam. bhayād vā yadi vā lobhān na kurvīta kadā cana. buddhipūrvaṃ samālokya dūrato guṇadoṣataḥ. ārabheta tadā karma śubhaṃ vā yadi vetarat. ātmā sākṣī bhaven nityam ātmanas tu śubhāśubhe. umā. manasā karmaṇā vācā na ca kāṅkṣeta pātakam. bhagavan bhaganetraghna kālasūdana śaṃkara. ime tu varṇāś catvāro vihitāḥ svit svabhāvataḥ. utāho kriyayā varṇāḥ saṃbhavanti maheśvara. maheśvaraḥ. eṣa me saṃśayapraśnas taṃ me chettuṃ tvam arhasi. svabhāvād eva vidyante catvāro brāhmaṇādayaḥ. ekajātyāḥ suduṣprāpam anyavarṇatvam āgatam. tac ca karma viśeṣeṇa punarjanmani jāyate. tasmāt te saṃpravakṣyāmi tat sarvaṃ karma pākataḥ. brāhmaṇas tu naro bhūtvā svajātim anupālayet. dṛḍhaṃ brāhmaṇakarmāṇi vedoktāni samācaret. satyārjavaparo bhūtvā dānayajñaparas tathā. tasyāṃ jātyāṃ samudito jātidharmān na hāpayet. evaṃ saṃvartamānas tu kāladharmaṃ gataḥ punaḥ. svarloke cābhijāyeta svargabhogāya bhāmini. tatkṣaye brāhmaṇo bhūtvā tathaiva nṛṣu jāyate. evaṃ svakarmaṇā martyaḥ svajātiṃ labhate punaḥ. aparas tu tathā kaś cid brahmayonisamudbhavaḥ. avamatyaiva tāṃ jātim ajñānatamasāvṛtaḥ. anyathā vartamānas tu jātikarmāṇi varjayet. śūdravad vicarel loke śūdrakarmābhilāṣayā. śūdraiḥ saha caran nityaṃ śaucamaṅgalavarjitaḥ. sa cāpi kāladharmastho yamalokeṣu daṇḍitaḥ. yadi jāyeta martyeṣu śūdra evābhijāyate. śūdra eva bhaved devi brāhmaṇo 'pi svakarmaṇā. tathaiva śūdras tv aparaḥ śūdrakarmāṇi varjayan. satyārjavaparo bhūtvā dānadharmaparas tathā. mantrabrāhmaṇasatkartā manasā brāhmaṇapriyaḥ. evaṃyuktasamācāraḥ śūdro 'pi maraṇaṃ gataḥ. svargaloke 'bhijāyeta tatkṣaye nṛṣu jāyate. brāhmaṇānāṃ kule mukhye vedasvādhyāyasaṃyute. evam eva sadā loke śūdro brāhmaṇyam āpnuyāt. evaṃ kṣatriyavaiśyāś ca jātidharmeṇa saṃyutāḥ. svakarmaṇaiva jāyante viśiṣṭeṣv adhameṣu ca. evaṃ jātiviparyāsaḥ pretyabhāve bhaven nṛṇām. anyathā tu na śakyante lokasaṃsthitikāraṇāt. tasmāj jātiṃ viśiṣṭāṃ tu kathaṃ cit prāpya paṇḍitaḥ. sarvathā tāṃ tato rakṣen na punar bhraśyate yathā. umā. iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. janmaprabhṛti kaiḥ śuddho labhej janmaphalaṃ naraḥ. maheśvaraḥ. śobhanāśobhanaṃ sarvam adhikāravaśāt svayam. karma kurvan na lipyeta ārjavena samācaran. ātmaiva tac chubhaṃ kuryād aśubhe naiva yojayet. śaṭheṣu śaṭhavat kuryād āryeṣv ṛjuvad ācaret. āpatsu nāvasīdec ca ghorān saṃkrāmayet parān. sāmnaiva sarvakāryāṇi kartuṃ pūrvaṃ samārabhet. anarthādharmaśokāṃs tu yathā na prāpnuyāt svayam. prayateta tathā kartum etad vṛttaṃ samāsataḥ. etad vṛttaṃ samāsādya gṛham āśritya mānavāḥ. nirābādhā nirudvegāḥ prāpnuvanty uttamāṃ gatim. etaj janmaphalaṃ nityaṃ sarveṣāṃ gṛhavāsinām. evaṃ gṛhagatair nityaṃ vartitavyam iti sthitiḥ. etat sarvaṃ mayā proktaṃ kiṃ bhūyaḥ śrotum icchasi. umā. surāsurapate deva varada prītivardhana. mānuṣeṣv eva ye ke cid āḍhyāḥ kleśavivarjitāḥ. bhuñjānā vividhān bhogān dṛśyante nirupadravāḥ. apare kleśasaṃyuktā daridrā bhogavarjitāḥ. kimarthaṃ mānuṣe loke na samatvena kalpitāḥ. maheśvaraḥ. etac chrotuṃ mahādeva kautūhalam atīva me. nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini. śṛṇu tat sarvam akhilaṃ mānuṣāṇāṃ hitaṃ vacaḥ. ādisarge purā brahmā samatvenāsṛjat prajāḥ. nityaṃ na bhavato hy asya rāgadveṣau prajāpateḥ. tadā tasmāt samāḥ sarve babhūvuḥ sarvato narāḥ. evaṃ saṃvartamāne tu yuge kālaviparyayāt. ke cit prapedire tatra viṣamaṃ buddhimohitāḥ. teṣāṃ hāniṃ tato dṛṣṭvā tulyānām eva bhāmini. brahmāṇaṃ te samājagmus tatkāraṇanivedakāḥ. kartuṃ nārhasi deveśa pakṣapātaṃ tvam īdṛśam. putrabhāve same deva kimarthaṃ no bhavet kaliḥ. ity evaṃ tair upālabdho brahmā vacanam abravīt. yūyaṃ mā kārṣṭa me roṣaṃ svakṛtaṃ smarata prajāḥ. yuṣmābhir eva yuṣmākaṃ grathitaṃ hi śubhāśubham. yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute. svakṛtasya phalaṃ bhuṅkte nānyas tad bhoktum arhati. evaṃ saṃbodhitās tena lokakartrā svayaṃbhuvā. punar nivṛtya karmāṇi śubhāny eva prapedire. evaṃ vijñātatattvās te dānadharmaparāyaṇāḥ. śubhāni vidhivat kṛtvā kāladharmagatāḥ punaḥ. tāni dānaphalāny eva bhuñjate sukhabhoginaḥ. svakṛtaṃ tu naras tasmāt svayam eva prapadyate. apare dharmakāryebhyo nivṛttās tu śubhekṣaṇe. kadaryā niranukrośāḥ prāyeṇātmaparāyaṇāḥ. tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane. umā. daridrāḥ kleśasaṃyuktā bhavanty eva na saṃśayaḥ. mānuṣeṣv eva ye ke cid dhanadhānyasamanvitāḥ. bhogahīnāḥ pradṛśyante sarvabhogeṣu satsv api. maheśvaraḥ. na bhuñjate kimarthaṃ te tan me śaṃsitum arhasi. paraiḥ saṃcoditā dharmaṃ kurvate na svakāmataḥ. svayaṃ śraddhāṃ bahiṣkṛtya kurvanti ca rudanti ca. tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane. phalāni tāni saṃprāpya bhuñjate na kadā cana. umā. rakṣanto vardhayantaś ca āsate nidhipālavat. ke cid dhanaviyuktāś ca bhogayuktā maheśvara. maheśvaraḥ. mānuṣāḥ saṃpradṛśyante tan me śaṃsitum arhasi. ānṛśaṃsyaparā ye tu dharmakāmāś ca durgatāḥ. paropakāraṃ kurvanti dīnānugrahakāraṇāt. pratidadyuḥ paradhanaṃ naṣṭaṃ vānyair hṛtaṃ dhanam. nityaṃ ye dātumanaso narā vitteṣv asatsv api. kāladharmavaśaṃ prāptāḥ punarjanmani te narāḥ. ete dhanaviyuktāś ca bhogayuktā bhavanty uta. dharmadānopadeśaṃ vā kartavyam iti niścayaḥ. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa triyakṣa vṛṣabhadhvaja. mānuṣās trividhā deva dṛśyante satataṃ vibho. āsīnā eva bhuñjante sthānaiśvaryaparigrahaiḥ. apare yatnapūrvaṃ tu labhante bhogasaṃgraham. apare yatamānās tu labhante na tu kiṃ cana. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini. ye loke mānuṣā devi dānadharmaparāyaṇāḥ. pātrāṇi vidhivaj jñātvā dūrato hy anumānataḥ. abhigamya svayaṃ tatra grāhayanti prasādya ca. dānāni ceṅgitair eva tair avijñātam eva vā. punarjanmani deveśi tādṛśāḥ śobhanā narāḥ. ayatnatas tu tāny eva phalāni prāpnuvanty uta. āsīnā eva bhuñjante bhogān sukṛtabhoginaḥ. apare ye ca dānāni dadaty eva prayācitāḥ. yathā yathā te dīnatvāt punar dāsyanti yācitāḥ. tāvat kālaṃ tathā devi punarjanmani te narāḥ. yatnataḥ śramasaṃyuktāḥ punas tāny āpnuvanty uta. yācitā api ye ke cin na dadaty eva kiṃ cana. abhyasūyāparā martyā lobhopahatacetasaḥ. te punarjanmani śubhe yatante bahudhā narāḥ. na prāpnuvanti manujā mārgantas te 'pi kiṃ cana. nānuptaṃ rohate sasyaṃ tadvad dānaphalaṃ viduḥ. yad yad dadāti puruṣas tat tat prāpnoti kevalam. iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. umā. bhagavan bhaganetraghna ke cid vārddhakasaṃyutāḥ. abhogayogyakāle tu bhogāṃś caiva dhanāni ca. labhante sthavirā bhūtvā bhogaiśvaryaṃ yatas tataḥ. yena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. hanta te kathayiṣyāmi śṛṇu tat tvaṃ samāhitā. dharmakāryaṃ ciraṃ kālaṃ vismṛtya dhanasaṃyutāḥ. prāṇāntakāle saṃprāpte vyādhibhiś ca nipīḍitāḥ. ārabhante punar dharmaṃ dātuṃ dānāni vā narāḥ. te punarjanmani śubhe bhūtvā duḥkhapariplutāḥ. atītayauvane kāle sthaviratvam upāgatāḥ. labhante pūrvadattānāṃ phalāni śubhalakṣaṇe. evaṃ karmaphalaṃ devi kālayogād bhavaty uta. umā. bhogayuktā mahādeva ke cid vyādhipariplutāḥ. maheśvaraḥ. asamarthāś ca tān bhoktuṃ bhavanti kim u kāraṇam. vyādhiyogaparikliṣṭā ye nirāśāḥ svajīvite. ārabhante tadā kartuṃ dānāni śubhalakṣaṇe. te punarjanmani śubhe prāpya tāni phalāny uta. umā. asamarthāś ca tān bhoktuṃ vyādhitās te bhavanty uta. bhagavan devadeveśa mānuṣeṣv eva ke cana. rūpayuktāḥ pradṛśyante śubhāṅgā priyadarśanāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. hanta te kathayiṣyāmi śṛṇu tat tvaṃ samāhitā. ye purā manujā devi lajjāyuktāḥ priyaṃvadāḥ. śaktāḥ sumadhurā nityaṃ bhūtvā caiva svabhāvataḥ. amāṃsabhojinaś caiva sadā prāṇidayāyutāḥ. pratikarmapradā vāpi vastradā dharmakāraṇāt. bhūmiśuddhikarā vāpi kāraṇād agnipūjakāḥ. evaṃyuktasamācārāḥ punarjanmani te narāḥ. umā. rūpeṇa spṛhaṇīyās tu bhavanty eva na saṃśayaḥ. virūpāś ca pradṛśyante mānuṣeṣv eva ke cana. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. rūpayogāt purā martyā darpāhaṃkārasaṃyutāḥ. virūpahāsakāś caiva stutinindādibhir bhṛśam. paropatāpinaś caiva māṃsādāś ca tathaiva ca. abhyasūyāparāś caiva aśuddhāś ca tathaiva ca. evaṃyuktasamācārā yamaloke sudaṇḍitāḥ. kathaṃ cit prāpya mānuṣyaṃ tatra te rūpavarjitāḥ. virūpāḥ saṃbhavanty eva nāsti tatra vicāraṇā. umā. bhagavan devadeveśa ke cit saubhāgyasaṃyutāḥ. rūpabhogavihīnāś ca dṛśyante pramadāpriyāḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi saumyaśīlāḥ priyaṃvadāḥ. svadārair eva saṃtuṣṭā dāreṣu samavṛttayaḥ. dākṣiṇyenaiva vartante pramadāsv apriyāsv api. na tu pratyādiśanty eva strīdoṣān guhyasaṃśritān. annapānīyadāḥ kāle nṛṇāṃ svādupradāś ca ye. svadāravartinaś caiva dhṛtimanto niratyayāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. mānuṣās te bhavanty eva satataṃ subhagā bhṛśam. arthād ṛte 'pi te devi bhavanti pramadāpriyāḥ. umā. durbhagāḥ saṃpradṛśyante āḍhyā bhogayutā api. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā. ye purā manujā devi svadāreṣv anapekṣayā. yatheṣṭavṛttayaś caiva nirlajjā vītasaṃbhramāḥ. pareṣāṃ vipriyakarā vāṅmanaḥkāyakarmabhiḥ. nirāśrayā nirannādyāḥ strīṇāṃ hṛdayakopanāḥ. evaṃyuktasamācārāḥ punarjanmani te narāḥ. durbhagāḥ saṃbhavanty eva strīṇāṃ hṛdayavipriyāḥ. umā. nāsti teṣāṃ ratisukhaṃ svadāreṣv api kiṃ cana. bhagavan devadeveśa mānuṣeṣv eva ke cana. jñānavijñānasaṃpannā buddhimanto vicakṣaṇāḥ. durgatās tu pradṛśyante yatamānā yathāvidhi. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. ye purā manujā devi śrutavanto 'pi kevalam. nirāśrayā nirannādyā bhṛśam ātmaparāyaṇāḥ. te punarjanmani śubhe jñānabuddhiyutā api. niṣkiṃcanā bhavanty eva anuptaṃ na hi rohati. umā. mūrkhā loke pradṛśyante dṛḍhaṃ mūḍhā vicetasaḥ. jñānavijñānarahitāḥ samṛddhāś ca samantataḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi bāliśā api sarvataḥ. samācaranti dānāni dīnānugrahakāraṇāt. abuddhipūrvaṃ vadatāṃ dadaty eva yatas tataḥ. te punarjanmani śubhe prāpnuvanty eva tat tathā. paṇḍito 'paṇḍito vāpi bhuṅkte dānaphalaṃ naraḥ. umā. buddhyānapekṣitaṃ dānaṃ sarvathā tat phalaty uta. bhagavan devadeveśa mānuṣeṣv eva ke cana. medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi guruśuśrūṣakā bhṛśam. jñānārthaṃ te tu saṃgṛhya tīrthato vidhipūrvakam. vidhinaiva parāṃś caiva grāhayanti na cānyathā. aślāghamānā jñānena praśāntā yatavācakāḥ. vidyāsthānāni ye loke sthāpayanti ca yatnataḥ. tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane. umā. medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ. apare mānuṣā deva yatnato 'pi yatas tataḥ. bahiṣkṛtāḥ pradṛśyante śrutavijñānabuddhibhiḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi jñānadarpasamanvitāḥ. ślāghamānāś ca tat prāpya jñānāhaṃkāramohitāḥ. tapanti ye parān nityaṃ jñānādhikyena darpitāḥ. jñānād asūyāṃ kurvanti na sahanty eva cāparān. tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane. mānuṣyaṃ suciraṃ prāpya tatra bodhavivarjitāḥ. umā. bhavanti satataṃ devi yatanto hīnamedhasaḥ. bhagavan mānuṣāḥ ke cit sarvakalyāṇasaṃyutāḥ. putrair dārair guṇayutair dāsīdāsaparicchadaiḥ. paraspararddhisaṃyuktāḥ sthānaiśvaryaparigrahaiḥ. vyādhihīnā nirābādhā rūpārogyabalair yutāḥ. dhanadhānyena saṃpannāḥ prāsādair yānavāhanaiḥ. sarvopabhogasaṃyuktā nānācitrair manoharaiḥ. jñātibhiḥ saha modante avighnaṃ tu dine dine. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā. ye purā manujā devi āḍhyā vā itare 'pi vā. śrutavṛttasamāyuktā dānakāmāḥ śrutapriyāḥ. pareṅgitaparā nityaṃ dātavyam iti niścitāḥ. satyasaṃdhāḥ kṣamāśīlā lobhamohavivarjitāḥ. dātāraḥ pātrato dānaṃ vratair niyamasaṃyutāḥ. svaduḥkham iva saṃsmṛtya paraduḥkhaṃ mahātmanaḥ. saumyaśīlāḥ śubhācārā devabrāhmaṇapūjakāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. divi vā bhuvi vā devi jāyante karmabhoginaḥ. mānuṣeṣv api ye jātās tādṛśāḥ saṃbhavanti te. yādṛśās tu tvayā proktāḥ sarve kalyāṇasaṃyutāḥ. rūpaṃ dravyaṃ balaṃ cāyur bhogaiśvaryaṃ kulaṃ śrutam. ity etat sarvasādguṇyaṃ dānād bhavati nānyathā. umā. tapodānamayaṃ sarvam iti viddhi śubhānane. atha ke cit pradṛśyante mānuṣeṣv eva mānuṣāḥ. durgatāḥ kleśabhūyiṣṭhā dānabhogavivarjitāḥ. bhayais tribhiḥ sadā juṣṭā vyādhikṣudbhayapīḍitāḥ. duṣkalatrābhibhūtāś ca satataṃ vighnadarśakāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi āsuraṃ bhāvam āśritāḥ. krodhalobharatā nityaṃ nirannādyāś ca niṣkriyāḥ. nāstikāś caiva dhūrtāś ca mūrkhāś cātmaparāyaṇāḥ. paropatāpino devi prāyaśaḥ prāṇinirdayāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. kathaṃ cit prāpya mānuṣyaṃ tatra te duḥkhapīḍitāḥ. sarvataḥ saṃbhavanty eva pūrvam ātmapramādataḥ. yathā te pūrvakathitaṃ tathā te saṃbhavanty uta. śubhāśubhaṃ kṛtaṃ karma sukhaduḥkhaphalodayam. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa mama prītivivardhana. jātyandhāś caiva dṛśyante jātā vā naṣṭacakṣuṣaḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. hanta te kathayiṣyāmi śṛṇu kalyāṇi kāraṇam. ye purā kāmarāgeṇa paraveśmasu lolupāḥ. parastriyo 'bhivīkṣante duṣṭenaiva svacakṣuṣā. andhīkurvanti ye martyān krodhalobhasamanvitāḥ. lakṣaṇajñāś ca rūpeṣu ayathāvat pradarśakāḥ. evaṃyuktasamācārāḥ kāladharmagatās tu te. daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye. yadi cen mānuṣaṃ janma labheraṃs tādṛśā narāḥ. svabhāvato vā jātā vā andhā eva bhavanti te. akṣirogayutā vāpi nāsti tatra vicāraṇā. umā. mukharogayutāḥ ke cit kliśyante satataṃ narāḥ. dantakarṇakapolasthair vyādhibhir bahupīḍitāḥ. ādiprabhṛti martyā vā jātā vāpy atha kāraṇāt. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. hanta te kathayiṣyāmi śṛṇu devi samāhitā. kuvaktāras tu ye devi jihvayā kaṭukaṃ bhṛśam. asatyaṃ paruṣaṃ ghoraṃ gurūn prati parān prati. jihvābādhāṃ tathānyeṣāṃ kurvate kopakāraṇāt. prāyaśo 'nṛtabhūyiṣṭhā narāḥ kāryavaśena vā. teṣāṃ jihvāpradeśasthā vyādhayaḥ saṃbhavanti te. kuśrotāras tu ye cārthaṃ pareṣāṃ karṇanāśakāḥ. karṇarogān bahuvidhāṃl labhante te punarbhave. dantarogaśirorogakarṇarogās tathaiva ca. umā. anye mukhāśritā doṣāḥ sarve cātmakṛtaṃ phalam. pīḍyante satataṃ deva mānuṣeṣv eva ke cana. kukṣipakṣāśritair doṣair vyādhibhiś codarāśritaiḥ. tīkṣṇaśūlaiś ca pīḍyante narā duḥkhapariplutāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi kāmakrodhayutā bhṛśam. ātmārtham eva cāhāraṃ bhuñjate nirapekṣakāḥ. abhakṣyāhāradāś caiva viśvastānāṃ viṣapradāḥ. abhakṣyabhakṣyadāś caiva śaucamaṅgalavarjitāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. kathaṃ cit prāpya mānuṣyaṃ tatra te vyādhipīḍitāḥ. tais tair bahuvidhākārair vyādhibhir duḥkhapīḍitāḥ. umā. bhavanty eva tathā devi yathā yena kṛtaṃ purā. dṛśyante satataṃ deva vyādhibhir mehanāśritaiḥ. pīḍyamānās tathā martyā aśmarīśarkarādibhiḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi paradārapradharṣakāḥ. tiryagyoniṣu dhūrtā vai maithunārthaṃ caranti ca. kāmadoṣeṇa ye dhūrtāḥ kanyāsu vidhavāsu ca. balātkāreṇa gacchanti rūpadarpadhanānvitāḥ. tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane. yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ. umā. tatra mehanajair ghoraiḥ pīḍyante vyādhibhiḥ priye. bhagavan mānuṣāḥ ke cid dṛśyante śoṣiṇaḥ kṛśāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi māṃsalubdhāḥ sulolupāḥ. ātmārthaṃ svādugṛddhāś ca parabhogopatāpinaḥ. abhyasūyāparāś caiva parabhogeṣu ye narāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. śoṣavyādhiyutās tatra narā dhamanisaṃtatāḥ. umā. bhavanty eva narā devi pāpakarmopabhoginaḥ. bhagavan mānuṣāḥ ke cit kliśyante kuṣṭharogiṇaḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi pareṣāṃ rūpanāśakāḥ. āghātavadhabandhaiś ca vṛthādaṇḍena mohitāḥ. iṣṭanāśakarā ye tu apathyāhāradā narāḥ. cikitsakā vā duṣṭāś ca lobhamohasamanvitāḥ. nirdayāḥ prāṇihiṃsāyāṃ maladāś cittanāśakāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. yadi vai mānuṣaṃ janma labheraṃs te suduḥkhitāḥ. atra te kleśasaṃyuktāḥ kuṣṭharogasamanvitāḥ. ke cit tvagdoṣasaṃyuktā vraṇakuṣṭhaiś ca saṃyutāḥ. śvitrakuṣṭhayutā vāpi bahudhā kuṣṭhasaṃyutāḥ. umā. bhavanty eva narā devi yathā yena kṛtaṃ phalam. bhagavan mānuṣāḥ ke cid aṅgahīnāś ca paṅgavaḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi lobhamohasamāvṛtāḥ. prāṇināṃ prāṇahiṃsārtham aṅgahīnaṃ prakurvate. śastreṇotkṛtya vā devi prāṇināṃ ceṣṭanāśakāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. tadaṅgahīnā vai pretya bhavanty eva na saṃśayaḥ. umā. svabhāvato vā jātā vā paṅgavas tu bhavanti te. bhagavan mānuṣāḥ ke cid granthibhiḥ piṭakais tathā. maheśvaraḥ. kliśyamānāḥ pradṛśyante tan me śaṃsitum arhasi. ye purā manujā devi granthibhedakarā nṛṇām. muṣṭiprahāraparuṣā nṛśaṃsāḥ pāpakāriṇaḥ. pāṭakās todakāś caiva śūlatunnās tathaiva ca. evaṃyuktasamācārāḥ punarjanmani śobhane. umā. granthibhiḥ piṭakaiś caiva kliśyante bhṛśaduḥkhitāḥ. bhagavan mānuṣāḥ ke cit pādarogasamanvitāḥ. maheśvaraḥ. dṛśyante satataṃ deva tan me śaṃsitum arhasi. ye purā manujā devi krodhalobhasamanvitāḥ. manujā devatāsthānaṃ svapādair bhraṃśayanty uta. jānubhiḥ pārṣṇibhiś caiva prāṇihiṃsāṃ prakurvate. evaṃyuktasamācārāḥ punarjanmani śobhane. umā. pādarogair bahuvidhair bādhyante ślīpadādibhiḥ. bhagavan mānuṣāḥ ke cid dṛśyante bahavo bhuvi. vātajaiḥ pittajai rogair yugapat sāṃnipātikaiḥ. rogair bahuvidhair deva kliśyamānāḥ suduḥkhitāḥ. asamastaiḥ samastaiś ca āḍhyā vā durgatās tathā. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. ye purā manujā devi āsuraṃ bhāvam āśritāḥ. svavaśāḥ kopanaparā guruvidveṣiṇas tathā. pareṣāṃ duḥkhajanakā manovākkāyakarmabhiḥ. chindan bhindaṃs tudann eva nityaṃ prāṇiṣu nirdayāḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. yadi vai mānuṣaṃ janma labheraṃs te tathāvidhāḥ. tatra te bahubhir ghorais tapyante vyādhibhiḥ priye. ke cic chlīpadasaṃyuktāḥ ke cit kāsasamanvitāḥ. jvarātisāratṛṣṇābhiḥ pīḍyamānās tathāpare. vātagulmaiś ca bahubhiḥ śophodarasamanvitāḥ. pādarogaiś ca vividhair vraṇakuṣṭhabhagaṃdaraiḥ. āḍhyā vā durgatā vāpi dṛśyante vyādhipīḍitāḥ. evam ātmakṛtaṃ karma bhuñjate tatra tatra vai. gūhituṃ na ca śakyaṃ vai kena cit svakṛtaṃ phalam. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa bhūtapāla namo 'stu te. hrasvāṅgāś caiva vakrāṅgāḥ kubjā vāmanakās tathā. apare mānuṣā deva dṛśyante kuṇibāhavaḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi lobhamohasamanvitāḥ. dhānyamānān vikurvanti krayavikrayakāraṇāt. tulādoṣaṃ tathā devi dhṛtamāneṣu nityaśaḥ. arghāpakaraṇaṃ caiva sarveṣāṃ krayavikraye. aṅgadoṣakarā ye tu pareṣāṃ kopakāraṇāt. māṃsādāś caiva ye mūrkhā ayathāvad vṛthā sadā. evaṃyuktasamācārāḥ punarjanmani śobhane. umā. hrasvāṅgā vāmanāś caiva kubjāś caiva bhavanti te. bhagavan mānuṣāḥ ke cid dṛśyante mānuṣeṣu vai. unmattāś ca piśācāś ca paryaṭanto yatas tataḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi darpāhaṃkārasaṃyutāḥ. bahudhā pralapanty eva prahasanti parān bhṛśam. mohayanti parān bhogair madanair lobhakāraṇāt. vṛddhān gurūṃś ca ye mūrkhā vṛthaivāpahasanti ca. śauṇḍā vidagdhāḥ śāstreṣu tathaivānṛtavādinaḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. unmattāś ca piśācāś ca bhavanty eva na saṃśayaḥ. umā. bhagavan mānuṣāḥ ke cin nirapatyāḥ suduḥkhitāḥ. yatanto na labhanty eva apatyāni yatas tataḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi sarvaprāṇiṣu nirdayāḥ. ghnanti bālāṃś ca bhuñjante mṛgāṇāṃ pakṣiṇām api. guruvidveṣiṇaś caiva paraputrābhyasūyakāḥ. pitṛpūjāṃ na kurvanti yathoktaṃ cāṣṭakādibhiḥ. evaṃyuktasamācārāḥ punarjanmani śobhane. mānuṣyaṃ sucirāt prāpya nirapatyā bhavanti te. umā. putraśokayutā vāpi nāsti tatra vicāraṇā. bhagavan mānuṣāḥ ke cit pradṛśyante suduḥkhitāḥ. udvegavāsaniratāḥ sodvegāś ca yatas tataḥ. nityaśokasamāviṣṭā durgatāś ca tathaiva ca. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā nityam utkocanaparāyaṇāḥ. bhīṣayanti parān nityaṃ vikurvanti tathaiva ca. ṛṇair vṛddhiṃ ca ye kṛtvā daridrebhyo yatheṣṭataḥ. ṛṇārtham abhigacchanti satataṃ vṛddhirūpakāḥ. udvijante hi tān dṛṣṭvā dhārakās tv atha kāraṇāt. ativṛddhir na kartavyā daridrebhyaś ca dharmataḥ. ye śvabhiḥ krīḍamānāś ca trāsayanti vane mṛgān. prāṇihiṃsāṃ tathā devi kurvanti ca yatas tataḥ. yeṣāṃ gṛheṣu vai śvānas trāsayanti vṛthā narān. evaṃyuktasamācārāḥ kāladharmagatāḥ punaḥ. pīḍitā yamadaṇḍena nirayasthāś ciraṃ priye. kathaṃ cit prāpya mānuṣyaṃ tatra te duḥkhasaṃyutāḥ. kudeśe duḥkhabhūyiṣṭhe vyāghātaśatasaṃkule. umā. jāyante tatra śocantaḥ sodvegāś ca yatas tataḥ. bhagavan mānuṣāḥ ke cid aiśvaryasthānasaṃyutāḥ. mlecchabhūmiṣu dṛśyante mlecchaiśvaryasamanvitāḥ. kena karmavipākena tan me śaṃsitum arhasi. maheśvaraḥ. ye purā manujā devi dhanadhānyasamanvitāḥ. ayathāvat prayacchanti śraddhāvarjitam eva vā. apātrebhyaś ca ye dānaṃ śaucamaṅgalavarjitāḥ. dadaty eva ca ye mūrkhāḥ ślāghayāvajñayāpi vā. evaṃyuktasamācārāḥ punarjanmani śobhane. kudeśe mlecchabhūyiṣṭhe durgame vanasaṃkaṭe. umā. mlecchādhipatyaṃ saṃprāpya jāyante tatra tatra vai. bhagavan bhaganetraghna mānuṣeṣv eva ke cana. klībā napuṃsakāś caiva dṛśyante paṇḍakās tathā. nīcakarmaratā nīcā nīcasaukhyās tathā bhuvi. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. ye purā manujā bhūtvā ghorakarmaratās tathā. paśupuṃstvopaghātena jīvanti ca ramanti ca. puṃstvopaghātinaś caiva narāṇāṃ kopakāraṇāt. ye dhūrtāḥ strīṣu gacchanti ayathāvad yatheṣṭataḥ. kāmavighnakarā ye tu dveṣapaiśunyakāraṇāt. evaṃyuktasamācārāḥ punarjanmani śobhane. daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye. yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ. klībā varṣavarāś caiva paṇḍakāś ca bhavanti te. nīcakarmaratā loke nirlajjā vītasaṃbhramāḥ. paranindāṃ puraskṛtya te bhavanti svakarmaṇā. yadi cet saṃvimṛśyeraṃs te mucyante hi kilbiṣāt. tatrāpi te pramādyeyuḥ patanti narakālaye. strīṇām api tathā devi yathā puṃsāṃ tu karmajam. umā. iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. bhagavan devadeveśa śūlapāṇe vṛṣadhvaja. puṃścalya iti yāḥ strīṣu nīcavṛttaratāḥ smṛtāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. yāḥ purā pramadā devi buddhimohasamanvitāḥ. kāmarāgasamāyuktāḥ patīn apacaranti vai. pratikūlaparā yās tu patīn prati yathā tathā. śaucaṃ lajjāṃ tu vismṛtya yatheṣṭaparicārakāḥ. evaṃyuktasamācārā yamaloke sudaṇḍitāḥ. yadi cen mānuṣaṃ janma labheraṃs tās tathāvidhāḥ. bahusādhāraṇā evaṃ puṃścalyaś ca bhavanti tāḥ. pauṃścalyaṃ yat tu tad vṛttaṃ strīṇāṃ kaṣṭatamaṃ smṛtam. tataḥprabhṛti tā devi patanty eva na saṃśayaḥ. umā. śocanti cet tu tad vṛttaṃ manasā hitam āpnuyuḥ. bhagavan devadeveśa pramadā vidhavā bhṛśam. dṛśyante mānuṣe loke sarvakalyāṇavarjitāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. yā purā pramadā devi buddhimohasamanvitāḥ. kuṭumbaṃ tatra vai patyur nāśayanti vṛthā tathā. viṣadāś cāgnidāś caiva patīn prati sunirdayāḥ. anyāsāṃ hi patīn yānti svapatidveṣakāraṇāt. evaṃyuktasamācārā yamaloke sudaṇḍitāḥ. nirayasthāś ciraṃ kālaṃ kathaṃ cit prāpya mānuṣam. umā. tatra tā bhogarahitā vidhavās tu bhavanti vai. bhagavan pramadās tv anyāḥ patau jñātiṣu satsv api. liṅginyaḥ saṃpradṛśyante pāṣaṇḍaṃ dharmam āśritāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. yāḥ purā bhāvadoṣeṇa lobhamohasamanvitāḥ. paradravyaparā lobhāt pareṣāṃ dravyahārakāḥ. abhyasūyāparā yās tu sapatnīnāṃ pradūṣakāḥ. īrṣyāparāḥ kopanāś ca bandhūnāṃ viphalāḥ sadā. evaṃyuktasamācārāḥ punarjanmani tāḥ priye. apalakṣaṇasaṃpannāḥ pāṣaṇḍaṃ dharmam āśritāḥ. umā. striyaḥ pravrājaśīlāś ca bhavanty eva na saṃśayaḥ. bhagavan mānuṣāḥ ke cit kāruvṛttiṃ samāśritāḥ. pradṛśyante manuṣyeṣu nīcakarmaratā janāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi stabdhā mānayutā bhṛśam. darpāhaṃkārasaṃyuktāḥ kevalātmaparāyaṇāḥ. tādṛśā manujā devi punarjanmani śobhane. kāravo naṭagandharvāḥ saṃbhavanti yathā tathā. nāpitā bandinaś caiva tathā vaitālikāḥ priye. evaṃbhūtās tv adhovṛttiṃ jīvanty āśritya mānavāḥ. paraprasādanakarās te paraiḥ kṛtavetanāḥ. umā. parāvamānasya phalaṃ bhuñjate paurvadehikam. bhagavan devadeveśa mānuṣeṣv eva ke cana. dāsabhūtāḥ pradṛśyante sarvakarmakarā bhṛśam. āghātabhartsanasahāḥ pīḍyamānāś ca sarvaśaḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. ye purā manujā devi pareṣāṃ vittahārakāḥ. ṛṇavṛddhikaraṃ kuryān nyāsadattaṃ tathaiva ca. nikṣepakāraṇād dattaṃ pareṣāṃ dravyahāriṇaḥ. pramādād vismṛtaṃ naṣṭaṃ pareṣāṃ dhanahārakāḥ. vadhabandhaparikleśair dāsatve kurvate 'parān. tādṛśā maraṇaṃ prāptā daṇḍitā yamaśāsanaiḥ. kathaṃ cit prāpya mānuṣyaṃ tatra te devi sarvathā. dāsabhūtā bhavanty eva janmaprabhṛti mānavāḥ. teṣāṃ karmāṇi kurvanti yeṣāṃ te dhanahārakāḥ. ā samāpteḥ svapāpasya kurvantīti viniścayaḥ. paśubhūtās tathā cānye bhavanti dhanahārakāḥ. tat tathā kṣīyate karma teṣāṃ pūrvāparādhajam. ato 'nyathā na tac chakyaṃ karma hātuṃ surāsuraiḥ. kiṃ tu mokṣavidhis teṣāṃ sarvathā tatprasādanam. ayathāvan mokṣakāmaḥ punarjanmani ceṣyate. mokṣakāmī yathānyāyaṃ kurvan karmāṇi sarvaśaḥ. bhartuḥ prasādam ākāṅkṣed āghātān sarvadā sahan. prītipūrvaṃ tu yo bhartrā mukto muktaḥ svapāpataḥ. tathābhūtān karmakarān sadā saṃpoṣayet patiḥ. yathārhaṃ kārayet karma daṇḍaṃ kāraṇataḥ kṣipet. vṛddhān bālāṃs tathā kṣīṇān pālayan dharmam āpnuyāt. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan mānuṣeṣv eva mānuṣāḥ samadarśanāḥ. caṇḍālā iva dṛśyante sparśamātreṇa dūṣakāḥ. nīcakarmakarā deva sarveṣāṃ malahārakāḥ. durgatāḥ kleśabhūyiṣṭhā virūpā duṣṭacetasaḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi tvam ekāgramanāḥ śṛṇu. ye purā manujā ghorā atimānayutā bhṛśam. ātmasaṃbhāvanāyuktāḥ stabdhā darpasamanvitāḥ. praṇāmaṃ na tu kurvanti gurūṇām api pāpakāḥ. ye svadharmārpaṇaṃ kāryam atimānān na kurvate. parān saṃnāmayanty eva ājñayātmani ye balāt. ṛddhiyogāt parān nityam avamanyanti mānavān. pānapāḥ sarvabhakṣāś ca paruṣāḥ kaṭukā narāḥ. evaṃyuktasamācārā daṇḍitā yamaśāsanaiḥ. kathaṃ cit prāpya mānuṣyaṃ caṇḍālāḥ saṃbhavanti te. nīcakarmaratāś caiva sarveṣāṃ malahārakāḥ. pareṣāṃ vandanaparās te bhavanty avamānitāḥ. virūpāḥ pāpayonisthāḥ sparśanād api varjitāḥ. kuvṛttim upajīvanti bhūtvā te rajakādayaḥ. purātimānadoṣāt tu bhuñjate svakṛtaṃ phalam. tān apy avasthākṛpaṇāṃś caṇḍālān api buddhimān. na ca ninden nātikupyed bhuñjate svakṛtaṃ phalam. umā. caṇḍālā api tāṃ jātiṃ śocantaḥ śuddhim āpnuyuḥ. bhagavan mānuṣāḥ ke cid āśāpāśaśatair vṛtāḥ. pareṣāṃ dvāri tiṣṭhanti pratiṣiddhāḥ praveśane. draṣṭuṃ jñāpayituṃ caiva na labhante ca yatnataḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi aiśvaryasthānasaṃyutāḥ. saṃvidaṃ tu na kurvanti parair aiśvaryamohitāḥ. dvārāṇi na dadaty eva dveṣalobhādibhir vṛtāḥ. avasthāmohasaṃyuktāḥ svārthamātraparāyaṇāḥ. lubdhā bhogayutā vāpi sarveṣāṃ niṣphalā bhṛśam. api śaktā na kuryur ye parānugrahakāraṇāt. nirdayāś caiva nirdvārā bhogaiśvaryagatiṃ prati. evaṃyuktasamācārāḥ punarjanmani śobhane. yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ. durgatā duravasthāś ca karmavyākṣepasaṃyutāḥ. abhidhāvanti te sarve tam artham abhivedinaḥ. rājñāṃ vā rājamātrāṇāṃ dvāri tiṣṭhanti vāritāḥ. karma vijñāpituṃ bhadre na labhante kathaṃ cana. umā. praveṣṭum api te dvāri bahis tiṣṭhanti kāṅkṣayā. bhagavan mānuṣe loke mānuṣeṣu bahuṣv api. sahasā naṣṭasarvasvā bhraṣṭakośaparigrahāḥ. dṛśyante mānuṣāḥ ke cid rājacorodakādibhiḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi āsuraṃ bhāvam āśritāḥ. pareṣāṃ vṛttināśaṃ tu kurvate dveṣalobhataḥ. utkocanaparāś caiva piśunāś ca tathāvidhāḥ. paradravyaharā ghorāś cauryād vānyena karmaṇā. nirdayā niranukrośāḥ pareṣāṃ vṛttināśakāḥ. nāstikānṛtabhūyiṣṭhāḥ paradravyāpahāriṇaḥ. evaṃyuktasamācārā daṇḍitā yamaśāsanaiḥ. nirayasthāś ciraṃ kālaṃ tatra duḥkhasamanvitāḥ. yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ. tatrasthāḥ prāpnuvanty eva sahasā dravyanāśanam. kaṣṭaṃ ca prāpnuvanty eva kāraṇākāraṇād api. umā. nāśaṃ vināśaṃ dravyāṇām upaghātāṃś ca sarvaśaḥ. bhagavan mānuṣāḥ ke cid bāndhavaiḥ sahasā pṛthak. kāraṇākāraṇād eva sahasā prāṇanāśanam. śastreṇa vānyathā vāpi prāpnuvanti vadhaṃ narāḥ. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi ghorakarmaratā narāḥ. āsurāḥ prāyaśo mūrkhāḥ prāṇihiṃsāpriyā bhṛśam. nirdayāḥ prāṇihiṃsāyāṃ tathā prāṇavighātakāḥ. viśvastaghātakāś caiva tathā suptavighātakāḥ. prāyaśo 'nṛtabhūyiṣṭhā nāstikā māṃsabhojinaḥ. evaṃyuktasamācārāḥ prāṇidharmagatāḥ punaḥ. daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye. tiryagyoniṃ punaḥ prāpya tatra duḥkhaparikṣayāt. yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ. tatra te prāpnuvanty eva vadhabandhān yathā tathā. āḍhyā vā durgatā vāpi bhuñjate svakṛtaṃ phalam. suptā mattāś ca viśvastās tathā te prāpnuvanty uta. prāṇābādhakṛtaṃ duḥkhaṃ bāndhavaiḥ sahasā pṛthak. umā. putradāravināśaṃ vā śastreṇānyena vā vadham. bhagavan mānuṣāḥ ke cid rājabhir nītikovidaiḥ. daṇḍyante mānuṣe loke mānuṣāḥ satataṃ bhuvi. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi manujāṃś cetarāṃś ca vā. kliṣṭaghātena nighnanti prāṇān prāṇiṣu nirdayāḥ. asurā ghorakarmāṇaḥ krūradaṇḍavadhapriyāḥ. ye daṇḍayanty adaṇḍyāṃs tu rājānaḥ kopamohitāḥ. hiṃsāvihārāḥ puruṣā māṃsādā nāstikāḥ śubhe. ke cit strīpuruṣaghnāś ca gurughnāś ca tathā priye. evaṃyuktasamācārāḥ prāṇidharmagatāḥ punaḥ. daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye. pūrvadehakṛtaṃ karma bhuñjate tad iha prajāḥ. ihaiva yat kṛtaṃ karma tat paratra phalaty uta. eṣā vyavasthitir devi mānuṣeṣv eva dṛśyate. na ṛṣīṇāṃ na devānām amaratvāt tapobalāt. tair ekena śarīreṇa bhujyate karmaṇaḥ phalam. umā. na tathā mānuṣāṇāṃ syād antardhāya bhaved dhi tam. kimarthaṃ mānuṣā loke daṇḍyante pṛthivīśvaraiḥ. kṛtāparādham uddiśya hantā hartāyam ity uta. putrārthī putrakāmeṣṭyā ihaiva labhate sutān. tenaiva hi śarīreṇa bhuñjānāḥ karmaṇāṃ phalam. dṛśyante mānuṣe loke tad bhavān anumanyate. maheśvaraḥ. etan me saṃśayasthānaṃ tat tvaṃ śaṃsitum arhasi. sthāne saṃśayitaṃ devi tat tvaṃ śṛṇu samāhitā. karma karmaphalaṃ ceti yugapad bhuvi neṣyate. yat tvayābhihitaṃ devi hantā hartāyam ity api. teṣāṃ tatpūrvakaṃ karma daṇḍyate yatra rājabhiḥ. daihikaṃ duṣkṛtaṃ teṣāṃ hetur bhavati śāsane. aparādhāpadeśena rājā daṇḍayati prajāḥ. ihaloke vyavasthārthaṃ rājabhir daṇḍanaṃ smṛtam. udvejanārthaṃ śeṣāṇām aparādhaṃ tam uddiśan. purākṛtaphalaṃ daṇḍo daṇḍyamānasya tad dhruvam. umā. prāg eva ca mayā proktaṃ tatra niḥsaṃśayā bhava. bhagavan bhuvi martyānāṃ daṇḍitānāṃ nareśvaraiḥ. daṇḍenaiva tu teneha pāpanāśo bhaven na vā. maheśvaraḥ. etan mayā saṃśayitaṃ tad bhavāṃś chettum arhati. sthāne saṃśayitaṃ devi śṛṇu tat tvaṃ samāhitā. ye nṛpair daṇḍitā bhūmāv aparādhāpadeśataḥ. yamaloke na daṇḍyante tatra te yamadaṇḍanaiḥ. adaṇḍitā vā ye mithyā martyā vā daṇḍitā bhuvi. tān yamo daṇḍayaty eva sa hi veda kṛtākṛtam. nātikramed yamaṃ kaś cit karma kṛtveha mānuṣaḥ. rājā yamaś ca kurvāte daṇḍamātraṃ tu śobhane. ubhābhyāṃ yamarājabhyāṃ daṇḍito 'daṇḍito 'pi vā. paścāt karmaphalaṃ bhuṅkte narake mānuṣeṣu vā. nāsti karmaphalacchettā kaś cil lokatraye 'pi ca. umā. iti te kathitaṃ sarvaṃ nirviśaṅkā bhava priye. kimarthaṃ duṣkṛtaṃ kṛtvā mānuṣā bhuvi nityaśaḥ. punas tatkarmanāśāya prāyaścittāni kurvate. sarvapāpaharaṃ ceti hayamedhaṃ vadanti ca. prāyaścittāni cānyāni pāpanāśāya kurvate. maheśvaraḥ. tasmān me saṃśayo jātas tvaṃ taṃ chettum ihārhasi. sthāne saṃśayitaṃ devi śṛṇu tat tvaṃ samāhitā. saṃśayo hi mahān eṣa pūrveṣāṃ ca manīṣiṇām. dvidhā tu kriyate pāpaṃ sadbhiś cāsadbhir eva ca. abhisaṃdhāya vā nityam anyathā vā yadṛcchayā. kevalaṃ cābhisaṃdhāya saṃrambhāc ca karoti yat. karmaṇas tasya nāśas tu na kathaṃ cana vidyate. abhisaṃdhikṛtasyeha naiva nāśo 'sti karmaṇaḥ. aśvamedhasahasrair vā prāyaścittaśatair api. anyathā yat kṛtaṃ pāpaṃ pramādād vā yadṛcchayā. prāyaścittāśvamedhābhyāṃ śodhanāt tu praṇaśyati. lokasaṃvyavahārārthaṃ prāyaścittādir iṣyate. viddhy evaṃ pāpake kārye nirviśaṅkā bhava priye. umā. iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi. bhagavan devadeveśa mānuṣāś cetarā api. mriyante bahudhā loke kāraṇākāraṇād api. maheśvaraḥ. kena karmavipākena tan me śaṃsitum arhasi. ye purā manujā devi kāraṇākāraṇād api. yathāsubhir viyojyante prāṇinaḥ prāṇinirdayaiḥ. tathaiva te prāpnuvanti yathaivātmakṛtaṃ phalam. viṣadas tu viṣeṇaiva śastraiḥ śastreṇa ghātakaḥ. evam eva yathā loke mānuṣā ghnanti mānuṣān. kāraṇair eva te tena tathā svaprāṇanāśanam. prāpnuvanti punar devi nāsti tatra vicāraṇā. iti te kathitaṃ sarvaṃ pāpakarmaphalaṃ priye. bhūyas tava samāsena kathayiṣyāmi tac chṛṇu. satyapramāṇakaraṇaṃ nityam avyabhicāri ca. yaiḥ purā manujair devi yasmin kāle yathā kṛtam. yenaiva kāraṇenāpi karma yat tu śubhāśubham. tasmin kāle tathā devi tenaiva karaṇena te. prāpnuvanti narāḥ pretya niḥsaṃdehaṃ śubhāśubham. iti satyaṃ vijānīhi lokatantravidhiṃ prati. karma kṛtvā naro bhoktā sa nāsti divi vā bhuvi. na śakyaṃ karma cābhoktuṃ sadevāsuramānuṣaiḥ. karmaṇā grathito loka ādiprabhṛti vartate. etad uddeśataḥ proktaṃ karmapākaphalaṃ priye. yad anyac ca mayā noktaṃ yasmiṃs te karmasaṃgrahe. buddhitarkeṇa tat sarvaṃ tathā veditum arhasi. umā. kathitaṃ śrotukāmāyāḥ kiṃ bhūyaḥ śrotum icchasi. bhagavan sarvalokeśa lokapālanamaskṛta. prasādāt te mahādeva śrutā me karmaṇāṃ gatiḥ. saṃgṛhītaṃ ca tat sarvaṃ tattvato 'mṛtasaṃnibham. karmaṇā grathitaṃ sarvam iti vedmi śubhāśubham. govatsavac ca jananīṃ nimnaṃ salilavat tathā. kartāraṃ svakṛtaṃ karma nityaṃ tam anudhāvati. kṛtasya karmaṇaś ceha na nāśo 'stīti niścayaḥ. aśubhasya śubhasyāpi tad apy avagataṃ mayā. bhūya eva mahādeva varada prītivardhana. karmaṇāṃ gatim āśritya saṃśayān moktum arhasi. maheśvaraḥ. yat te vivakṣitaṃ devi guhyam apy asitekṣaṇe. umā. tat sarvaṃ nirviśaṅkā tvaṃ pṛccha māṃ śubhalakṣaṇe. evaṃ vyavasthite loke karmaṇā vṛṣabhadhvaja. kṛtvā tat puruṣaḥ karma śubhaṃ vā yadi vetarat. karmaṇaḥ svakṛtasyeha kadā bhuṅkte phalaṃ punaḥ. maheśvaraḥ. iha vā pretya vā deva tan me śaṃsitum arhasi. sthāne saṃśayitaṃ devi tad dhi guhyatamaṃ śṛṇu. tvatpriyārthaṃ pravakṣyāmi devaguhyaṃ śubhānane. pūrvadehakṛtaṃ karma bhuñjate tad iha prajāḥ. ihaiva yat kṛtaṃ puṃsāṃ tat paratra phaliṣyati. eṣā vyavasthitir devi mānuṣeṣv eva dṛśyate. devānām asurāṇāṃ ca amaratvāt tapobalāt. ekenaiva śarīreṇa bhujyate karmaṇāṃ phalam. umā. mānuṣair na tathā devi antaraṃ tv etad iṣyate. bhagavan bhaganetraghna mānuṣāṇāṃ viceṣṭitam. sarvam ātmakṛtaṃ ceti śrutaṃ me bhagavanmatam. loke grahakṛtaṃ sarvaṃ matvā karma śubhāśubham. sadaiva grahanakṣatraṃ prāyaśaḥ paryupāsate. maheśvaraḥ. etaṃ me saṃśayaṃ deva tadgataṃ chettum arhasi. sthāne saṃśayitaṃ devi śṛṇu tattvaviniścayam. nakṣatrāṇi grahāś caiva śubhāśubhanivedakāḥ. mānavānāṃ mahābhāge na tu karmakarāḥ svayam. prajānāṃ tu hitārthāya śubhāśubhavidhiṃ prati. anāgatam atikrāntaṃ jyotiścakreṇa bodhyate. kiṃ tu tatra śubhaṃ karma sugrahais tan nivedyate. duṣkṛtasyāśubhair eva samavāyo bhaved iti. tasmād dhi grahavaiṣamye vaiṣamyaṃ kurute janaḥ. grahasāmye śubhaṃ kuryāj jātyāṃ jātyāṃ purākṛtam. kevalaṃ grahanakṣatraṃ na karoti śubhāśubham. sarvam ātmakṛtaṃ karma lokavādo grahā iti. pṛthag grahāḥ pṛthak kartā kartrā svaṃ bhujyate phalam. umā. iti te kathitaṃ sarvaṃ viśaṅkāṃ jahi śobhane. bhagavan vividhaṃ karma kṛtvā jantuḥ śubhāśubham. kiṃ tayoḥ pūrvakataraṃ bhuṅkte janmāntare punaḥ. maheśvaraḥ. eṣa me saṃśayo deva taṃ me chettum ihārhasi. sthāne saṃśayitaṃ devi tat te vakṣyāmi tattvataḥ. aśubhaṃ pūrvam ity āhur apare śubham ity api. mithyā tad ubhayaṃ proktaṃ kevalaṃ tad bravīmi te. mānuṣe tu pade karma yugapad bhujyate sadā. yathākṛtaṃ yathāyogam ubhayaṃ bhujyate kramāt. bhuñjānāś caiva dṛśyante kramaśo bhuvi mānavāḥ. ṛddhiṃ hāniṃ sukhaṃ duḥkham abhayaṃ bhayam eva ca. duḥkhāny anubhavanty āḍhyā daridrāś ca sukhāni ca. yaugapadyāc ca bhuñjānā dṛśyante lokasākṣikam. narake svargaloke ca na tathā saṃsthitiḥ priye. nityaṃ duḥkhaṃ hi narake svarge nityaṃ sukhaṃ tathā. śubhāśubhānām ādhikyāt karmaṇā tatra sevyate. nirantaraṃ sukhaṃ duḥkhaṃ svarge ca narake bhavet. tatrāpi sumahat kṛtvā pūrvam alpaṃ punaḥ śubhe. umā. etat te sarvam ākhyātaṃ bhūyaḥ śrotuṃ kim icchasi. bhagavan prāṇino loke mriyante kena hetunā. jātā jātā na tiṣṭhanti tan me śaṃsitum arhasi. maheśvaraḥ. tad ahaṃ te pravakṣyāmi śṛṇu tattvaṃ samāhitā. ātmakarmakṣayād dehaṃ yathā muñcanti tac chṛṇu. śarīrātmasamāhāro jantur ity abhidhīyate. tatrātmānaṃ nityam āhur anityaṃ kṣetram ucyate. tat tu kālavaśāl loke jīrṇaṃ bhavati śobhane. kālaś chinatti cāyūṃṣi dinamāsartuhāyanaiḥ. kālaḥ pacati bhūtāni kālenākulitaṃ jagat. kālaṃ nātikrameran hi sadevāsuramānavāḥ. yathākāśe na tiṣṭheta dravyaṃ kiṃ cid acetanam. tathā dhāvati kālo 'yaṃ kṣaṇaṃ kiṃ cin na tiṣṭhati. evaṃ kālena saṃkrāntaṃ śarīraṃ jarjarīkṛtam. akarmayogyaṃ saṃśīrṇaṃ tyaktvā dehī tato vrajet. nityasyānityasaṃtyāgāl loke tan maraṇaṃ viduḥ. na ca nityasya jīvasya vināśo vidyate śubhe. sa punar jāyate 'nyatra śarīraṃ navam āviśan. umā. evaṃ lokagatir nityam ādiprabhṛti vartate. bhagavan prāṇināṃ bālā dṛśyante maraṇaṃ gatāḥ. ativṛddhāś ca jīvanto dṛśyante cirajīvinaḥ. kevalaṃ kālamaraṇaṃ na pramāṇaṃ maheśvara. maheśvaraḥ. tasmān me saṃśayaṃ brūhi prāṇināṃ jīvakāraṇam. śṛṇu tatkāraṇaṃ devi nirṇayas tv eka eva saḥ. jīrṇatvamātraṃ kurute kālo dehaṃ na pātayet. jīrṇe karmaṇi saṃghātaḥ svayam eva viśīryate. pūrvakarmapramāṇena jīvitaṃ mṛtyur eva vā. yāvat pūrvakṛtaṃ karma tāvaj jīvati mānavaḥ. tadvat kālavaśād bālā mriyante bhogasaṃkṣayāt. jīvanti ciravṛddhāś ca tathā karmapramāṇataḥ. umā. iti te kathitaṃ devi nirviśaṅkā bhava priye. bhagavan kena vṛttena bhavanti cirajīvinaḥ. maheśvaraḥ. alpāyuṣo narāḥ kena tan me śaṃsitum arhasi. śṛṇu tat sarvam akhilaṃ guhyaṃ pathyataraṃ nṛṇām. ye narā vṛttasaṃpannā bhavanti cirajīvinaḥ. ahiṃsā satyavacanam akrodhaḥ kṣāntir ārjavam. gurūṇāṃ nityaśuśrūṣā vṛddhānām api pūjanam. śaucaṃ cākāryasaṃtyāgaḥ sadā pathyasya bhojanam. evamādi śubhaṃ vṛttaṃ narāṇāṃ dīrghajīvinām. tapasā brahmacaryeṇa rasāyananiṣevaṇāt. udagrasattvā balino bhavanti cirajīvinaḥ. svarge vā mānuṣe vāpi ciraṃ tiṣṭhanti dhārmikāḥ. apare pāpakarmāṇaḥ prāyaśo 'nṛtavādinaḥ. hiṃsāpriyā gurudviṣṭā niṣkriyāḥ śaucavarjitāḥ. nāstikā ghorakarmāṇaḥ satataṃ māṃsapānapāḥ. pāpācārā gurudveṣāḥ kopanāḥ kalahapriyāḥ. evam evāśubhācārās tiṣṭhanti niraye ciram. tiryagyonau tathātyantam alpaṃ tiṣṭhanti mānuṣe. tasmād alpāyuṣo martyās tādṛśāḥ saṃbhavanti te. agamyadeśagamanād apathyānāṃ ca bhojanāt. āyuḥkṣayo bhaven nṝṇām āyuḥkṣayakarā hi te. bhavanty alpāyuṣas tais tair anyathā cirajīvinaḥ. umā. etat te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi. bhagavan devadeveśa śrutaṃ me paramaṃ hitam. ātmano jātisaṃbandhaṃ brūhi strīpuruṣāntare. strīprāṇaḥ puruṣaprāṇa ekaḥ sa pṛthag eva vā. maheśvaraḥ. eṣa me saṃśayo deva taṃ me chettuṃ tvam arhasi. tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā. puṃstvaṃ strītvam iti prāṇe sthitir nāsti śubhekṣaṇe. nirvikārī sadaivātmā strītvaṃ puṃstvaṃ na cātmani. karmaprakāreṇa tathā jātyāṃ jātyāṃ prajāyate. akartā cāvikārī ca nityaś ca puruṣaḥ smṛtaḥ. strīśarīrakṛtaṃ karma strībhāvenopabhujyate. puruṣeṇa kṛtaṃ karma puruṣeṇaiva bhujyate. evaṃ prasajyate loke bhāvaikatvena bhūyaśaḥ. śarīraṃ karmanānātvād dṛśyate viparītavat. kṛtvā tu pauruṣaṃ karma strī pumān api jāyate. umā. strībhāvayuk pumān kṛtvā karmaṇā pramadā bhavet. bhagavan sarvalokeśa karmātmā na karoti cet. maheśvaraḥ. ko 'nyaḥ karmakaras tatra dehe tad vaktum arhasi. śṛṇu bhāmini kartāram ātmā hi na ca karmakṛt. prakṛtyā guṇayuktena kriyate karma nityaśaḥ. śarīraṃ prāṇināṃ loke yathā pittakaphānilaiḥ. vyāptam eva tribhir doṣais tathā vyāptaṃ guṇais tribhiḥ. sattvaṃ rajas tama iti guṇās tv ete śarīriṇaḥ. prakāśātmakam eteṣāṃ sattvaṃ satatam iṣyate. rajo duḥkhātmakaṃ tatra tamo mohātmakaṃ smṛtam. tribhir etair guṇaiḥ sarvaṃ loke karma pravartate. satyaṃ prāṇidayā śaucaṃ śreyaḥ prītiḥ kṣamā damaḥ. evamādi tathānyac ca karma sāttvikam iṣyate. dākṣyaṃ karmaparatvaṃ ca lobho bhogavidhiṃ prati. kalatrasaṅgo mādhuryaṃ nityam aiśvaryalubdhatā. rajasaś codbhavaṃ caitat karma nānāvidhaṃ sadā. anṛtaṃ caiva pāruṣyaṃ śrutividveṣatā bhṛśam. hiṃsāparatvaṃ nāstikyaṃ nidrālasyabhayāni ca. tamasaś codbhavaṃ caitat karma pāpayutaṃ sadā. tasmād guṇamayaḥ sarvaḥ kāryārambhaḥ śubhāśubhaḥ. tasmād ātmānam avyagraṃ viddhy akartāram avyayam. sāttvikāḥ puṇyalokeṣu rājasā mānuṣe pade. umā. tiryagyonau ca narake tiṣṭheyus tāmasā narāḥ. kimartham ātmā bhedyaḥ sandehe śastreṇa vā hate. maheśvaraḥ. svayaṃ praṇaśyate dehī tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam. etan naiyāyikaiś cāpi muhyate sūkṣmabuddhibhiḥ. karmakṣaye tu saṃprāpte prāṇināṃ dehadhāriṇām. upadravo bhaved dehe yena kenāpi hetunā. tannimittaṃ śarīrī tu śarīraṃ prāptasaṃkṣayam. apayāti parityajya tataḥ karmavaśena saḥ. dehakṣate 'pi naivātmā vedanābhir na cālyate. tiṣṭhet karmaphalaṃ yāvad vrajet karmakṣaye punaḥ. ādiprabhṛti loke 'sminn evam ātmagatiḥ sadā. umā. etat te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. bhagavan devadeveśa karmaṇaiva śubhāśubham. yathāyogaṃ phalaṃ jantuḥ prāpnotīti viniścayaḥ. pareṣāṃ vipriyaṃ kurvan yathā saṃprāpnuyāc chubham. maheśvaraḥ. yady etad asti ced deva tan me śaṃsitum arhasi. tad apy asti mahābhāge abhisaṃdhiphalaṃ nṛṇām. hitārthaṃ duḥkham anyeṣāṃ kṛtvāśubham avāpnuyāt. daṇḍayan bhartsayan rājā prajāḥ puṇyam avāpnuyāt. guruḥ saṃtarjayañ śiṣyān bhartā bhṛtyajanaṃ svakam. unmārgapratipannāṃś ca śāstā dharmaphalaṃ labhet. cikitsakaś ca duḥkhāni janayan hitam āpnuyāt. yajñārthaṃ paśuhiṃsāṃ ca kurvann api na hiṃsakaḥ. evam anye sumanaso hiṃsakāḥ svargam āpnuyuḥ. ekasmin nihate 'bhadre bahavaḥ sukham āpnuyuḥ. tasmin hate bhaved dharmaḥ kuta eva tu pāpakam. abhisaṃdher ajihmatvāc chuddhe dharmasya gauravāt. umā. etat kṛtvā tu pāpiṣṭhān doṣān na prāpnuyāt kva cit. bhagavan sarvamartyānāṃ jñānī bhavati sattamaḥ. kim avekṣya tad utpannaṃ jñānaṃ tasya phalaṃ ca yat. nāradaḥ. kṛtrimaṃ tat svabhāvaṃ vā tan me śaṃsitum arhasi. maheśvaraḥ. etac chrutvā mahādevo jagau jñānasya saṃbhavam. sthāvaraṃ jaṃgamaṃ ceti jagad dvividham ucyate. catasro jātayas tatra prajānāṃ kramaśo yathā. teṣām udbhedajā vṛkṣā latā vallyaś ca vīrudhaḥ. daṃśayūkādayaś cānye svedajāḥ kṛmijātayaḥ. pakṣiṇaś chidrakarṇāś ca prāṇinas tv aṇḍajāḥ smṛtāḥ. mṛgavyālamanuṣyāṃś ca viddhi teṣāṃ jarāyujān. evaṃ caturvidhāṃ jātim ātmā saṃśritya tiṣṭhati. sparśenaikendriyeṇātmā tiṣṭhaty udbhedajeṣu vai. śarīrasparśarūpābhyāṃ kledajeṣv api tiṣṭhati. pañcabhiś cendriyadvārair jīvanty aṇḍajarāyujāḥ. tathā bhūmyambusaṃyogād bhavanty udbhedajāḥ priye. śītoṣṇayos tu saṃyogāj jāyante kledajāḥ priye. aṇḍajāś cāpi saṃyogāj jāyante kṣetrabījayoḥ. śuklaśoṇitasaṃyogāt saṃbhavanti jarāyujāḥ. jarāyujānāṃ sarveṣāṃ mānuṣaṃ padam uttamam. sakalair indriyair martyāḥ saṃyuktā jalpinas tathā. bhayaṃ ratiś ca cittaṃ tad vidyate mṛgapakṣiṣu. dharmādharmau ca vijñānaṃ naiva pakṣimṛgādiṣu. buddhiḥ sattvaṃ dhṛtir lajjā jñānaṃ vijñānam eva ca. ūhāpohau ca martyeṣu guṇā nānāvidhāḥ smṛtāḥ. mānuṣaṃ hi padaṃ tasmād viśiṣṭam iha lakṣyate. mahatā dharmakāryeṇa prāpyate janma mānuṣam. ataḥ paraṃ tamotpattiṃ śṛṇu devi samāhitā. dvividhaṃ hi tamo loke śārvaraṃ dehajaṃ tathā. jyotirbhiś cāgninā loke nāśaṃ gacchati śārvaram. dehajaṃ tu tamo ghoraṃ taiḥ samastair na śāmyati. tamasas tasya nāśārthaṃ nopāyam adhijagmivān. tapaś cakāra vipulaṃ lokakartā pitāmahaḥ. caturas tu samudbhūtā vedāḥ sāṅgāḥ sahottarāḥ. tāṃl labdhvā mumude brahmā lokānāṃ hitakāraṇāt. dehajaṃ tat tamo ghoram abhūt tenaiva nāśitam. kāryākāryam idaṃ ceti vācyāvācyam idaṃ tv iti. yadi cen na bhavel loke śrutaṃ cāritradeśikam. paśubhir nirviśeṣaṃ tu ceṣṭante mānuṣās tv iti. yajñādīnāṃ samārambhaḥ śrutenaiva vidhīyate. yajñasya phalayogena devalokaḥ samṛdhyate. prītiyuktāḥ punar devā mānuṣāṇāṃ phalanty uta. evaṃ nityaṃ pravardhete rodasī ca parasparam. lokasaṃdhāraṇaṃ tasmāc chrutam ity avadhāraya. jñānād viśiṣṭaṃ jantūnāṃ nāsti lokatraye 'pi ca. sahajaṃ tat pradhānaṃ syād aparaṃ kṛtrimaṃ śrutam. ubhayaṃ yatra saṃpannaṃ bhavet tatra tu śobhanam. saṃpragṛhya śrutaṃ sarvaṃ kṛtakṛtyā bhavanty uta. uparīva ca martyānāṃ devavat saṃprakāśate. kāmaṃ krodhaṃ bhayaṃ darpam ajñānaṃ caiva buddhijam. tac chrutaṃ nudati kṣipraṃ yathā vāyur balāhakān. alpamātraṃ kṛto dharmo bhavej jñānavatāṃ mahān. mahān api kṛto dharmo hy ajñānān niṣphalo bhavet. parāvarajño bhūtānāṃ jñānavāṃs tattvavid bhavet. umā. evaṃ śrutaphalaṃ sarvaṃ kathitaṃ te śubhekṣaṇe. bhagavan mānuṣāḥ ke cij jātismaraṇasaṃyutāḥ. kimarthaṃ te 'bhijāyante jānantaḥ paurvadehikam. maheśvaraḥ. etan me tattvato deva mānuṣeṣu vadasva bhoḥ. tad ahaṃ te pravakṣyāmi kāraṇaṃ śṛṇu śobhane. ye mṛtāḥ sahasā martyā jāyante sahasā punaḥ. teṣāṃ paurāṇiko 'bhyāsaḥ kaṃ cit kālaṃ sa tiṣṭhati. tasmāj jātismarā loke jāyante bodhasaṃyutāḥ. teṣāṃ vivardhatāṃ saṃjñā svapnavat sā praṇaśyati. umā. paralokasya cāstitve mūḍhānāṃ kāraṇaṃ ca tat. bhagavan mānuṣāḥ ke cin mṛtā bhūtvā hi saṃprati. nivartamānā dṛśyante deheṣv eva punar narāḥ. maheśvaraḥ. tad ahaṃ te pravakṣyāmi kāraṇaṃ śṛṇu śobhane. prāṇair viyojyamānānāṃ bahutvāt prāṇināṃ kṣaye. tathaiva nāmasāmānyād yamadūtā nṛṇāṃ bhuvi. vahanti te kva cin mohād anyāṃs ta iti yāmikāḥ. nirvikāraṃ hi tat sarvaṃ yamo veda kṛtākṛtam. tasmāt saṃyaminīṃ prāpya yamenaite vimokṣitāḥ. punar eva nivartante śeṣaṃ bhoktuṃ svakarmaṇaḥ. umā. svakarmaṇy asamāpte tu na mriyante hi mānavāḥ. bhagavan suptamātrāṇāṃ martyānāṃ svapnadarśanam. maheśvaraḥ. kiṃ tat svabhāvam anyad vā tan me śaṃsitum arhasi. suptānāṃ tu punaś ceṣṭā svapna ity abhidhīyate. anāgatam atikrāntaṃ paśyate saṃcaran manaḥ. nimittaṃ ca bhavet tasmāt prāṇināṃ svapnadarśanam. umā. evaṃ te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi. bhagavan sarvabhūteśa loke karmakriyāpathe. daivāt pravartate sarvam iti ke cid vyavasthitāḥ. apare ceṣṭayā ceti dṛṣṭvā pratyakṣataḥ kriyām. pakṣabhede dvidhā cāsmin saṃśayasthaṃ mano mama. tattvaṃ vada mahādeva śrotuṃ kautūhalaṃ hi me. maheśvaraḥ. tad ahaṃ te pravakṣyāmi śṛṇu tat tvaṃ samāhitā. na daivaṃ kurute karma loke devi śubhāśubham. lakṣyate dvividhaṃ karma mānuṣāṇāṃ śubhānane. purākṛtaṃ tayor ekam aihikaṃ ca paraṃ tathā. adṛṣṭaṃ paurvikaṃ karma tad daivam iti lakṣyate. aihikaṃ dṛṣṭakaraṇaṃ tan mānuṣam iti smṛtam. mānuṣaṃ ca kriyāmātraṃ daivāt saṃbhavate phalam. evaṃ tad ubhayaṃ sarvaṃ mānuṣaṃ vidyate nṛṣu. laukikaṃ tat pravakṣyāmi daivamānuṣanirmitam. kṛṣau tu dṛśyate karma karṣaṇaṃ vapanaṃ tathā. ropaṇaṃ caiva lavanaṃ yac cānyat pauruṣaṃ smṛtam. kāle vṛṣṭiḥ suvāpaś ca prarohaḥ paktir eva ca. evamādi tu yac cānyat tad daivatam iti smṛtam. pravāpaḥ pauruṣaṃ karma siddhir daivam iti smṛtam. daivād asiddhiś ca bhaved duṣkṛtaṃ cāsti pauruṣe. suyatnāl labhate kīrtiṃ duryatnād ayaśas tathā. umā. evaṃ lokagatir devi ādiprabhṛti vartate. bhagavan sarvabhūteśa surāsuranamaskṛta. katham ātmā sadā garbhaṃ saṃviśet karmakāraṇāt. maheśvaraḥ. tan me vada mahādeva tad dhi guhyaṃ paraṃ mama. śṛṇu bhāmini tad guhyaṃ guhyānāṃ paramaṃ priye. devaguhyād api param ātmaguhyam iti smṛtam. devāsurās tan na vidur ātmano hi gatāgatam. adṛśyo hi sa devānāṃ śaighryāt saukṣmyān nirāśrayāt. atimātrātimāyānām ātmamāyā sadeṣyate. so 'yaṃ caturvidhāṃ jātiṃ saṃviśaty ātmamāyayā. maithunaṃ śoṇitaṃ bījaṃ daivaṃ cāpy atra kāraṇam. bījaśoṇitasaṃyogo yadā saṃbhavate śubhe. tadātmā viśate garbham evam aṇḍajarāyuje. śītoṣṇayos tu saṃyoge kledajeṣv avatiṣṭhati. bījabhūmijalānāṃ tu yogād udbhedajeṣu ca. evaṃ saṃyogakāle tu ātmā garbhatvam eyivān. kalalāj jāyate piṇḍaṃ piṇḍāt peśyarbudaṃ bhavet. vyaktibhāvaṃ gate caiva karma tv āśrayate kramāt. evaṃ strīpuruṣasaṃyogaṃ pauruṣaṃ viddhi bhāmini. apatyalābho yac cānyat tad daivam iti saṃsmṛtam. evaṃ vivardhamānena karmātmā saha vartate. evam ātmagatiṃ viddhi yan māṃ pṛcchasi suvrate. pañcabhūtasthitiś caiva jyotiṣām ayanaṃ tathā. abuddhigamyaṃ yan martyair hetubhir vā na vidyate. tādṛśaṃ kāraṇaṃ daivaṃ śubhaṃ vā yadi vetarat. yādṛśaṃ cātmanā śakyaṃ tat pauruṣam iti smṛtam. kevalaṃ phalaniṣpattir ekena na tu śakyate. pauruṣeṇa ca daivena yugapad grathitaṃ priye. tayoḥ samāhitaṃ karma śītoṣṇaṃ yugapat tathā. pauruṣaṃ tu tayoḥ pūrvam ārabdhavyaṃ vijānatā. ātmanā naiva śakyaṃ hi na tathā kīrtim āpnuyāt. khananān mathanāl loke jalāgniprāpaṇaṃ yathā. tathā puruṣakāre tu daivasaṃpat samāhitā. narasyākurvataḥ karma daivasaṃpan na labhyate. tasmāt sarvasamārambho daivamānuṣanirmitaḥ. asurā rākṣasāś caiva manyante lokanāyakāḥ. na paśyante ca te pāpāḥ kevalaṃ māṃsabhakṣakāḥ. pracchāditaṃ hi tat sarvaṃ guhyakāmā hi devatāḥ. tad ahaṃ te pravakṣyāmi devaguhyaṃ purātanam. ādikāle prajāḥ sarvāḥ kṛtvā karma śubhāśubham. bhuñjate paśyamānās te vṛttāntaṃ lokayor dvayoḥ. yathaivātmakṛtaṃ vidyur deśāntaragatā narāḥ. vidyus tathaivāntakāle svakṛtaṃ paurvadehikam. evaṃ vyavasthite loke sarve dharmaparābhavan. acireṇaiva kālena svargaḥ saṃpūritas tadā. devānām api saṃbādhaṃ dṛṣṭvā brahmāpy acintayat. saṃcarante kathaṃ devā mānuṣāḥ praviśanti hi. ity evam anucintyaiṣa mānuṣān samamohayat. tadāprabhṛti te martyā na vidus te purātanam. kāmakrodhau ca tatkāle mānuṣeṣu nyapātayat. tābhyām abhihatā martyāḥ svargalokaṃ na lebhire. purākṛtasyāvijñānāt kāmakrodhābhipīḍanāt. naitad astīti manvānā vikārāṃś cakrire punaḥ. akāryādīn mahādoṣān ārabhantātmakāraṇāt. vismṛtya dharmakāryāṇi paralokabhayaṃ tathā. evaṃ vyavasthite loke kaśmalaṃ samapadyata. lokānāṃ caiva vedānāṃ kṣayāyaiva tadā priye. narakāḥ pūritāś cāsan prāṇibhiḥ pāpakāribhiḥ. punar eva tu tad dṛṣṭvā lokakartā pitāmahaḥ. acintayat tam evārthaṃ lokānāṃ hitakāraṇāt. samatvena kathaṃ loko varteteti muhur muhuḥ. cintayitvā tadā brahmā jñānena tapasā priye. umā. akaroj jñānadṛśyaṃ tu paralokaṃ na cakṣuṣā. bhagavan mṛtamātras tu yo 'yaṃ jāta iti smṛtaḥ. tathaiva dṛśyate jātas tatrātmā tu kathaṃ bhavet. garbhādāv eva saṃviṣṭa ātmeti bhagavanmatam. eṣa me saṃśayo deva tan me chettuṃ tvam arhasi. maheśvaraḥ. tad ahaṃ te pravakṣyāmi śṛṇu tat tvaṃ samāhitā. anyo garbhagato bhūtvā tatraiva nidhanaṃ gataḥ. punar anyac charīraṃ tadāviśya bhuvi jāyate. tat kva cin naiva sarvatra daivayogaṃ tu tad bhavet. sūtikāyā hitārthaṃ ca mohanārthaṃ ca dehinām. yamakarmavidhānaṃ tad ity evaṃ viddhi śobhane. kaukṣamātraṃ tu narakaṃ bhuktvā ke cit prayānti hi. māyā sā yāmikā nāma yaj janmamaraṇāntare. iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. umā. bhagavan sarvabhūteśa lokanātha vṛṣadhvaja. nāsty ātmā karmabhokteti mṛto jantur na jāyate. svabhāvāj jāyate sarvaṃ yathā vṛkṣaphalaṃ tathā. yathormayaḥ saṃbhavanti tathaiva jagadākṛtiḥ. tapodānādi yat karma tatrātmā dṛśyate vṛthā. nāsti paunarbhavaṃ janma iti ke cid vyavasthitāḥ. parokṣavacanaṃ śrutvā na pratyakṣasya darśanāt. tat sarvaṃ nāsti vāstīti saṃśayasthās tathāpare. pakṣabhedāntare cāsmiṃs tattvaṃ me vaktum arhasi. nāradaḥ. uktaṃ bhagavatā yat tu tat tu lokasya saṃsthitiḥ. praśnam etaṃ tu pṛcchantyāṃ rudrāṇyāṃ pariṣat tadā. maheśvaraḥ. kautūhalayutā śrotuṃ samāhitamanābhavat. naitad asti mahābhāge yad vadantīha nāstikāḥ. etad evābhiśastānāṃ śrutividveṣiṇāṃ matam. sarvam arthaṃ śrutaṃ dṛṣṭaṃ yat prāg uktaṃ mayā tava. tadāprabhṛti martyānāṃ śrutam āśritya paṇḍitāḥ. kāmān saṃchindya parighān dhṛtyā vai paramāsinā. abhiyānty eva te svargaṃ paśyantaḥ karmaṇāṃ phalam. evaṃ śraddhāphalaṃ loke parataḥ sumahat phalam. buddhiḥ śraddhā ca śuśrūṣā kāraṇāni hitaiṣiṇām. tasmāt svargābhigantāraḥ kati cit tv abhavan narāḥ. anye karaṇahīnatvān nāstikyaṃ bhāvam āśritāḥ. śrutavidveṣiṇo mūrkhā nāstikā dṛḍhaniścayāḥ. niṣkriyāś ca nirannādyāḥ patanty evādhamāṃ gatim. nāstīti vai punarjanma kavayo 'py atra mohitāḥ. nādhigacchanti tan nityaṃ hetuvādaśatair api. eṣā brahmakṛtā māyā durvijñeyā surāsuraiḥ. kiṃ punar mānuṣair loke jñātukāmaiḥ svakarmabhiḥ. kevalaṃ śraddhayā devi śrutimātraniviṣṭayā. tad astīty eva mantavyaṃ tathā hi tam avāpnuyāt. vedaguhyeṣu cānyeṣu hetur devi nirarthakaḥ. badhirāndhavad evātra vartitavyaṃ hitaiṣiṇā. etat te kathitaṃ sarvaṃ devaguhyaṃ prajāhitam. tvatprītyartham idaṃ guhyam avācyam api bhāṣitam. umā. bhagavan sarvabhūteśa tripurārdana śaṃkara. kīdṛśā yamadaṇḍās te kīdṛśāḥ paricārakāḥ. kathaṃ mṛtās te gacchanti prāṇino yamasādanam. kīdṛśaṃ bhavanaṃ tasya kathaṃ daṇḍayati prajāḥ. maheśvaraḥ. etat sarvaṃ mahādeva śrotum icchāmy ahaṃ prabho. śṛṇu kalyāṇi tat sarvaṃ yat tad devi manaḥpriyam. dakṣiṇasyāṃ diśi śubhe yamasya sadanaṃ mahat. vicitraṃ ramaṇīyaṃ ca nānābhāvasamanvitam. pitṛbhiḥ pretasaṃghaiś ca yamadūtaiś ca saṃtatam. prāṇisaṃghaiḥ subahubhiḥ karmavaśyais tu pūritam. tatrāste daṇḍayan nityaṃ yamo lokahite rataḥ. māyayā satataṃ vetti prāṇināṃ yac chubhāśubham. māyayā saṃharaṃs tatra prāṇisaṃghān yatas tataḥ. tasya māyāmayāḥ pāśā na vedyante surāsuraiḥ. ko hi mānuṣamātras tu vettā tac caritaṃ mahat. evaṃ hi śāsatas tasya yamasya paricārakāḥ. gṛhītvā saṃnayanty eva prāṇinaḥ kṣīṇakarmiṇaḥ. yena kenāpadeśena apadeśas tadudbhavaḥ. karmaṇā prāṇino loka uttamādhamamadhyamāḥ. yathārhaṃ tān samādāya nayanti yamasādanam. dhārmikān uttamān viddhi svargīyās te yathāmarāḥ. nṛṣu janma labhante ye karmaṇā madhyamāḥ smṛtāḥ. tiryaṅnarakagantāro hy adhamās te narādhamāḥ. panthānas trividhā dṛṣṭā sarveṣāṃ gatijīvinām. ramaṇīyaṃ nirābādhaṃ durdarśam iti nāmataḥ. ramaṇīyaṃ tu sanmārgaṃ patākādhvajasaṃkulam. dhūpitaṃ siktasaṃmṛṣṭaṃ puṣpamālābhisaṃkulam. manoharaṃ sukhasparśaṃ gacchatām eva tad bhavet. nirābādhaṃ yathā loke supraśastaṃ tathā bhavet. tṛtīyaṃ tat tu durdarśaṃ durgandhi tamasāvṛtam. paruṣaṃ śarkarākīrṇaṃ śvadaṃṣṭrābahulaṃ bhṛśam. kṛmikīṭasamākīrṇaṃ gacchatām atidurgamam. mārgair ebhis tribhir nityam uttamādhamamadhyamān. saṃnayanti yathā kāle tan me śṛṇu śucismite. uttamān antakāle tu yamadūtāḥ susaṃyatāḥ. umā. nayanti sukham ādāya ramaṇīyapathena vai. bhagavaṃs tatra cātmānaṃ tyaktadehaṃ nirāśrayam. maheśvaraḥ. adṛśyaṃ katham ādāya saṃnayanti yamāntikam. śṛṇu bhāmini tat sarvaṃ trividhaṃ dehadhāraṇam. karmavaśyaṃ bhogavaśyaṃ duḥkhavaśyam iti priye. mānuṣaṃ karmavaśyaṃ syāt svargīyaṃ bhogasādhanam. tṛtīyaṃ yātanāvaśyaṃ śarīraṃ māyayā kṛtam. yamaloke na cānyatra dṛśyate yātanāyutam. śarīrair yātanāvaśyair jīvam āmucya bhāmini. nayanti yāmikās tatra prāṇino māyayā mṛtān. madhyamān atha veṣeṇa madhyamena pathā tathā. caṇḍālaveṣās tv adhamān gṛhītvā bhartsya tarjanaiḥ. ākarṣantas tathā pāśair durdarśena nayanti tān. trividhān evam ādāya nayanti yamasādanam. dharmāsanagataṃ dakṣaṃ bhrājamānaṃ svatejasā. lokapālaṃ sabhādhyakṣaṃ tathaiva pariṣadgatam. darśayanti mahābhāge yāmikās tān nivedya te. pūjayan daṇḍayan kāṃś cit teṣāṃ śṛṇvañ śubhāśubham. vyāpṛto bahusāhasrais tatrāste satataṃ yamaḥ. gatānāṃ tu yamas teṣām uttamān abhipūjayā. abhisaṃgamya vidhivat pṛṣṭvā svāgatakauśalam. prastutya satkathāṃ teṣāṃ lokaṃ saṃdiśate yamaḥ. yamenaivam anujñātā yānti paścān triviṣṭapam. madhyamānāṃ yamas teṣāṃ śrutvā karma yathātatham. jāyantāṃ mānuṣeṣv eva iti saṃdiśate ca tān. adhamān pāpasaṃyuktān yamo nāvekṣate ''gatān. yamasya puruṣā ghorāś caṇḍālasamadarśanāḥ. yātanā yāpayanty etāṃl lokapālasya śāsanāt. chindantaś ca nudantaś ca prakarṣante yatas tataḥ. krośataḥ pātayanty etān mitho garteṣv avāṅmukhān. saṃghātinyaḥ śilāś caiṣāṃ patanti śirasi priye. ayomukhāḥ kākabalā bhakṣayanti sudāruṇāḥ. asipatravane ghore cārayanti tathāparān. tīkṣṇadaṃṣṭrās tathā śvānaḥ kāṃś cit tatra daśanti vai. tatra vaitaraṇī nāma nadī grāhasamākulā. duṣpraveśā ca ghorā ca mūtraśoṇitavāhinī. tasyāṃ saṃmajjayanty etāṃs tṛṣitān pāyayanti tān. āropayanti vai kāṃś cit tatra kaṇṭakaśalmalīm. yantracakreṣu tilavat pīḍyante tatra ke cana. aṅgāreṣu ca dahyante tathā duṣkṛtakāriṇaḥ. kumbhīpākeṣu pacyante bharjyante saghṛteṣu vai. pāṭyante taruvac chastraiḥ pīḍyante locanādiṣu. bhidyante 'thāṅgaśaḥ śūlais tudyante sūkṣmasūcibhiḥ. evaṃ tvayā kṛto doṣas tadarthaṃ daṇḍanaṃ tv idam. vācaivaṃ ghoṣayanti sma daṇḍyamānān samantataḥ. evaṃ te yātanāḥ prāpya śarīrair yātanāvaśaiḥ. prasahantaś ca tad duḥkhaṃ smarantaḥ svāparādhajam. krośantaś ca rudantaś ca na mucyante kathaṃ cana. smarantas tatra tapyante pāpam ātmakṛtaṃ phalam. evaṃ bahuvidhā daṇḍā bhujyante pāpakāribhiḥ. yātanāś ca tathā bhuktvā pacyante narake punaḥ. apare yātanā bhuktvā mucyante tatra kilbiṣāt. pāpadoṣakṣayakarā yātanā saṃsmṛtā nṛṇām. umā. bahutaptaṃ yathā lohaṃ nirmalaṃ tat tathā bhavet. bhagavaṃs te kathaṃ tatra daṇḍyante narakeṣu vai. maheśvaraḥ. kati te nirayā ghorāḥ kīdṛśās te maheśvara. śṛṇu bhāmini tat sarvaṃ pañcaite narakāhvayāḥ. bhūmer adhastād vihitā ghorā duṣkṛtakarmaṇām. prathamaṃ rauravaṃ nāma śatayojanam āyatam. tāvat pramāṇaṃ vistīrṇaṃ tāmasaṃ pāpapīḍitam. bhṛśaṃ durgandhi paruṣaṃ kṛmibhir dāruṇair yutam. atighoram anirdeśyaṃ pratikūlaṃ yatas tataḥ. te ciraṃ tatra tiṣṭhanti na tatra śayanāsane. kṛmibhir bhakṣyamāṇāś ca visragandhasamāyutāḥ. evaṃpramāṇam udvignā yānti tiṣṭhanti tatra te. yātanābhyo daśaguṇaṃ narake duḥkham iṣyate. tatra cātyantikaṃ duḥkham iti viddhi śubhekṣaṇe. krośantaś ca rudantaś ca vedanās tatra bhuñjate. bhramanti duḥkhamokṣārthaṃ trātā kaś cin na vidyate. duḥkhasyāntaramātraṃ tu dvāraṃ vā na ca labhyate. mahārauravasaṃjñaṃ tu dvitīyaṃ narakaṃ priye. tasmād dviguṇitaṃ viddhi māne duḥkhe ca rauravāt. tṛtīyaṃ narakaṃ tatra kaṇṭakāvanasaṃjñitam. tato dviguṇitaṃ taṃ ca pūrvābhyāṃ duḥkhamānayoḥ. mahāpātakasaṃyuktā ghorās tasmin viśanti hi. agnikuṇḍam iti khyātaṃ caturthaṃ narakaṃ priye. etad dviguṇitaṃ tasmād yathāniṣṭasukhaṃ tathā. tatra duḥkhaṃ hi sumahad amānuṣam iti smṛtam. bhuñjate tatra tatraiva duḥkhaṃ duṣkṛtakāriṇaḥ. pañcakaṣṭam iti khyātaṃ pañcamaṃ narakaṃ priye. tatra duḥkham anirdeśyaṃ mahāghoraṃ yathātatham. pañcendriyair asahyatvāt pañcakaṣṭam iti smṛtam. bhuñjate tatra tatraiva duḥkhaṃ duṣkṛtakāriṇaḥ. amānuṣārhaṃ tad duḥkhaṃ mahābhūtais tu bhujyate. atighoraṃ ciraṃ kṛtvā mahābhūtāni yānti tam. pañcakaṣṭena hi samaṃ nāsti duḥkhaṃ tathāvidham. duḥkhasyāntam iti prāhuḥ pañcakaṣṭaṃ sadā priye. evaṃ te teṣu tiṣṭhanti prāṇino duḥkhabhāginaḥ. anye ca narakāḥ santi avīcipramukhāḥ priye. krośantaś ca rudantaś ca vedanārtā bhṛśāturāḥ. ke cid bhramanti veṣṭante ke cid dhāvanti cāturāḥ. ādhāvante nivāryante śūlahastair yatas tataḥ. rujārditās tṛṣāyuktāḥ prāṇinaḥ pāpakāriṇaḥ. krośantaś ca nadantaś ca na mucyante kathaṃ cana. kṛmibhir bhakṣyamāṇāś ca vedanārtās tṛṣānvitāḥ. saṃsmarantaḥ svakaṃ karma kṛtam ātmāparādhajam. śocantas tatra tiṣṭhanti yāvat pāpakṣayaṃ priye. evaṃ bhuktvā tu narakaṃ mucyante pāpasaṃkṣayāt. umā. bhagavan katikālaṃ te tiṣṭhante narakeṣu vai. maheśvaraḥ. etad veditum icchāmi tan me brūhi maheśvara. śataṃ sahasraṃ varṣāṇām ādiṃ kṛtvā hi jantavaḥ. umā. tiṣṭhanti narakāvāsāḥ pralayāntam iti sthitiḥ. maheśvaraḥ. bhagavaṃs teṣu te kutra tiṣṭhantīti vada prabho. raurave śatasāhasraṃ varṣāṇām iti saṃsthitiḥ. mānuṣaghnāḥ kṛtaghnāś ca tathaivānṛtavādinaḥ. jāracorāś ca nārī ca sarvataś cāpacāriṇī. utkocakāś ca piśunā varṇasaṃbhedakārakāḥ. tādṛśāḥ paripacyante raurave narake narāḥ. deśaghnāś caiva rājaghnāḥ pitṛmātṛvighātinaḥ. rājā cānyāyataḥ śāstā sākṣitve 'nṛtavādinaḥ. bahughnāś ca kulaghnāś ca bhrūṇaghnā gurughātinaḥ. viśvastaghātakāś caivam ātmaghnāḥ kopakāraṇāt. patighnyaḥ pramadā mohād yajñavighnakarāś ca ye. dvitīye dviguṇaṃ kālaṃ pacyante tādṛśāḥ narāḥ. mahāpātakayuktās tu tṛtīye duḥkham āpnuyuḥ. etāvan mānuṣasahaṃ param anyeṣu lakṣyate. yakṣā vidyādharāś caiva kādraveyāś ca kiṃnarāḥ. gandharvā bhūtasaṃghāś ca teṣāṃ pāpayutā bhṛśam. caturthe paripacyante yāvad yugaviparyayaḥ. sahantas tādṛśaṃ ghoraṃ pañcakaṣṭe ca yādṛśam. tādṛgvidhasya duḥkhasya ayogyān viddhi mānuṣān. evaṃ te narakān bhuktvā tatra kṣapitakalmaṣāḥ. narakebhyo vimuktāś ca jāyante kṛmijātiṣu. udbhedajeṣu vā ke cit tatrāpi kṣīṇakalmaṣāḥ. punar eva prajāyante mṛgapakṣiṣu śobhane. umā. mṛgapakṣiṣu tad bhuktvā labhante mānuṣaṃ padam. nānājātiṣu kenaiva jāyante pāpakāriṇaḥ. maheśvaraḥ. tad ahaṃ te pravakṣyāmi yat tvam icchasi bhāmini. sarvathātmā karmavaśān nānājātiṣu dṛśyate. yaś ca māṃsapriyo nityaṃ kaṅkagṛdhrān sa saṃspṛśet. surāpaḥ satataṃ martyaḥ sūkaratvaṃ vrajed dhruvam. abhakṣyabhakṣaṇo martyaḥ kākajātiṣu saṃspṛśet. parodvegakaro nityaṃ vyālajātiṣu jāyate. ātmaghno yo naraḥ kopāt pretajātiṣu tiṣṭhati. paiśunyāt parivādāc ca kukkuṭatvaṃ samaśnuyāt. nāstikaś caiva yo mūrkho mṛgajātiṃ sa gacchati. hiṃsāvihāras tu naraḥ kṛmikīṭeṣu jāyate. atra mānayuto nityaṃ pretya gardabhatāṃ vrajet. asatyaṃ paruṣaṃ vākyaṃ yo vaden matsyatāṃ vrajet. agamyāgamanāc caiva paradārābhimarśanāt. mūṣikatvaṃ vrajen martyo nāsti tatra vicāraṇā. kṛtaghno mitraghātī ca sṛgālavṛkajātiṣu. gurughnaḥ pitṛghātī ca sthāvareṣv avatiṣṭhati. vācikaiḥ pakṣimṛgatāṃ mānasair anyajātitām. śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ. evamādy aśubhaṃ kṛtvā narā nirayam āśritāḥ. tāṃs tān bhāvān prapadyante svakṛtasyaiva kāraṇāt. evaṃ jātiṣu nirdagdhāḥ prāṇinaḥ pāpakāriṇaḥ. kathaṃ cit punar utpadya labhante mānuṣaṃ padam. bahukṛtvo 'tisaṃtaptaṃ lohaṃ śucitamaṃ yathā. bahuduḥkhābhisaṃtaptas tathātmā śudhyate malāt. umā. tasmāt sudurlabhaṃ ceti viddhi janma sumānuṣam. bhagavan devadeveśa śūlapāṇe vṛṣadhvaja. śrutaṃ me paramaṃ guhyaṃ prasādāt te varaprada. śrotuṃ bhūyo 'ham icchāmi prajānāṃ hitakāraṇāt. śubhāśubham iti proktaṃ karma sarvaṃ samāsataḥ. tan me vistaraśo brūhi śubhāśubhavidhiṃ prati. aśubhaṃ kīdṛśaṃ karma prāṇino 'dho nipātayet. śubhaṃ karma kathaṃ deva prajānām ūrdhvato nayet. etan me vada deveśa śrotukāmāsmi kīrtaya. maheśvaraḥ. tad ahaṃ te pravakṣyāmi tat sarvaṃ śṛṇu śobhane. sukṛtaṃ duṣkṛtaṃ ceti dvividhaḥ karmavistaraḥ. tayor yad duṣkṛtaṃ karma tac ca saṃjāyate tridhā. manasā karmaṇā vācā buddhimohasamudbhavam. manaḥpūrvaṃ tu vākkarma vartate vāṅmayaṃ tataḥ. jāyate vai kriyāyogam evaṃ ceṣṭākramaṃ priye. abhidroho 'bhyasūyā ca parārthe cakṣuṣā spṛhā. śubhāśubhānāṃ martyānāṃ vartanaṃ viparītataḥ. dharmakārye yad aśraddhā pāpakarmaṇi harṣaṇam. evamādy aśubhaṃ karma manasā pāpam ucyate. anṛtaṃ yac ca paruṣam abaddhavacanaṃ kaṭu. asatyaṃ parivādaś ca pāpam etat tu vāṅmayam. agamyāgamanaṃ caiva paradāraniṣevaṇam. vadhabandhaparikleśaiḥ paraprāṇopatāpanam. cauryaṃ pareṣāṃ dravyāṇāṃ haraṇaṃ nāśanaṃ tathā. abhakṣyabhakṣaṇaṃ caiva vyasaneṣv abhiṣaṅgatā. darpāt stambhābhimānāc ca pareṣām upatāpanam. akāryāṇāṃ ca karaṇam aśaucaṃ pānam eva ca. dauḥśīlyaṃ kṣudrasaṃparkaḥ sāhāyyaṃ pāpakarmaṇi. adharmyam ayaśasyaṃ ca kāryaṃ tasya niṣevaṇam. evamādy aśubhaṃ cānyac charīraṃ pāpam ucyate. mānasād vāṅmayaṃ pāpaṃ viśiṣṭam iti vakṣyate. vāṅmayād api vai pāpaṃ śārīraṃ gaṇyate bahu. evaṃ pāpayutaṃ karma pātayet trividhaṃ naram. paropatāpajananam atyantaṃ pāpakaṃ smṛtam. dvividhaṃ tat kṛtaṃ pāpaṃ kartāraṃ narakaṃ nayet. pātakaṃ tv api yat karma karaṇād buddhipūrvakam. sāpadeśam avaśyaṃ tu kartavyam iti yat kṛtam. kathaṃ cit tat kṛtam api kartā tena na lipyate. umā. avaśyabhāvadeśena pratihanyeta kāraṇam. bhagavan pāpakaṃ karma yathā kṛtvā na lipyate. maheśvaraḥ. anṛtaṃ dharmayuktaṃ ca tan me śaṃsitum arhasi. yo naro 'naparādhī sann ātmaprāṇasya rakṣaṇāt. śatrum udyataśastraṃ vā pūrvaṃ tena hato 'pi vā. pratigatya naro hiṃsyān na sa pāpena lipyate. corāṭavikasaṃtrastās tatpratīkāraceṣṭayā. tān pratighnan naro hiṃsyān na sa pāpena lipyate. vṛttighnaṃ tu naro hiṃsyān na sa pāpena lipyate. grāmārthaṃ bhartṛpiṇḍārthaṃ dīnānugrahakāraṇāt. vadhabandhaparikleśān kurvan pāpāt pramucyate. durbhikṣe cātmavṛttyartham ekāyanagatas tathā. akāryaṃ vāpy abhakṣyaṃ vā kṛtvā pāpair na lipyate. vyādhito rogamokṣārtham abhakṣyeṇa na lipyate. anṛtaṃ dharmayuktaṃ ca dākṣiṇyāt strīṣu bhāṣitam. ātmaprāṇabhayād uktaṃ mokṣārthaṃ cāpy adhārmikāt. vivāhakaraṇe caiva laukikenānṛtaṃ bruvan. saṃstambhanārthaṃ trastānām anṛtena na lipyate. vidhir eṣa gṛhasthānāṃ prāyeṇaivopadiśyate. avācyaṃ vāpy akāryaṃ vā deśakālavaśena tu. buddhipūrvaṃ naraḥ kurvaṃs tat prayojanamātrayā. kiṃ cid vā lipyate pāpair atha vā na ca lipyate. umā. evaṃ devi vijānīhi nāsti tatra vicāraṇā. bhagavan pānadoṣāṃś ca peyāpeyatvakāraṇam. maheśvaraḥ. etad icchāmy ahaṃ śrotuṃ tan me vada maheśvara. hanta te kathayiṣyāmi pānotpattiṃ śucismite. purā sarve 'bhavan martyā buddhimanto nayānugāḥ. śucayaḥ subhagācārāḥ sarve sumanasaḥ priye. evaṃbhūte tadā loke preṣyatvaṃ na parasparam. preṣyābhāvān manuṣyāṇāṃ karmārambho nanāśa ha. ubhayor lokayor nāśaṃ dṛṣṭvā karmakṣayāt prabhuḥ. yajñakarma kathaṃ loke varteteti pitāmahaḥ. ājñāpayat surān devi mohayasveti mānuṣān. tamasaḥ sāram uddhṛtya pānaṃ buddhipraṇāśanam. nyapātayan manuṣyeṣu pāpadoṣāvahaṃ priye. tadāprabhṛti tat pītvā mumuhur mānuṣā bhuvi. kāryākāryam ajānanto vācyāvācyaṃ guṇāguṇam. ke cid dhasanti tat pītvā prarudanti tathā pare. nṛtyanti muditāḥ ke cid gāyanti ca śubhāśubham. kalahaṃ kurvate 'bhīkṣṇaṃ praharanti parasparam. ke cid dhāvanti sahasā praskhalanti patanti ca. ayuktaṃ bahu bhāṣante yatrakvacana śerate. nagnā vikṣipya gātrāṇi naṣṭasaṃjñā mṛtā iva. evaṃ bahuvidhān pāpān kurvanti hṛtacetasaḥ. ye pibanti mahāmohaṃ pānaṃ pāpayutā narāḥ. dhṛtiṃ lajjāṃ ca buddhiṃ ca pānaṃ pītaṃ praṇāśayet. tasmān narāḥ saṃbhavanti nirlajjā nirapatrapāḥ. buddhisattvaiḥ parikṣīṇās tejohīnā malānvitāḥ. pītvā pītvā tṛṣāyuktāḥ pānapāḥ saṃbhavanti ca. pānakāmāḥ pānakathāḥ pānakālābhikāṅkṣiṇaḥ. pānārthaṃ karmavaśyās te saṃbhavanti narādhamāḥ. pānakāmās tṛṣāyogād buddhisattvaparikṣayāt. pānapānāṃ preṣyakarāḥ pānapās tv abhavan bhṛśam. tadāprabhṛti vai loke nīcaiḥ pānavaśair naraiḥ. kārayanti ca karmāṇi buddhimantas tv apānapāḥ. kārutvam atha dāsatvaṃ preṣyatām etya pānapāḥ. sarvakarmakarāś cāsan paśuvad rajjubandhitāḥ. pānapās tu madāndhatvāt tadā buddhipraṇāśanāt. kāryākāryasya cājñānād yatheṣṭakaraṇāt svayam. viduṣām avidheyatvāt pāpam evābhipadyate. paribhūto bhavel loke madyapo mitrabhedakaḥ. sarvakālam aśuddhaś ca sarvabhakṣas tathābhavat. viśiṣṭair jñātibhir dveṣyaḥ satataṃ kalibhāvanaḥ. kaṭukaṃ paruṣaṃ ghoraṃ vākyaṃ vadati sarvataḥ. gurūn ativaden mattaḥ paradārān pradharṣayet. saṃvidaṃ kurute śauṇḍair na śṛṇoti hitaṃ kva cit. evaṃ bahuvidhā doṣāḥ pānape santi śobhane. kevalaṃ narakaṃ yānti nāsti tatra vicāraṇā. tasmāt tad varjitaṃ sadbhiḥ pānam ātmahitaiṣibhiḥ. yadi pānaṃ na varjeran santaś cāritrakāraṇāt. bhaved evaṃ jagat sarvaṃ nirmaryādaṃ ca niṣkriyam. tasmād buddher hi rakṣārthaṃ sadbhiḥ pānaṃ vivarjitam. iti te duṣkṛtaṃ sarvaṃ trividhaṃ kathitaṃ priye. maheśvaraḥ. vidhānaṃ sukṛtasyāpi bhūyaḥ śṛṇu śucismite. procyate tat tridhā devi sukṛta ca samāsataḥ. yad auparamikaṃ caiva sukṛtaṃ nirupadravam. tathaiva sopakaraṇaṃ tāvatā sukṛtaṃ viduḥ. nivṛttiḥ pāpakarmabhyas tad auparamikaṃ priye. manovākkāyajā doṣāḥ śṛṇu me varjanāc chubham. traividhyadoṣoparame yas tu doṣavyapekṣayā. sa tu prāpnoti sakalaṃ sarvaduṣkṛtavarjanāt. vratavad varjayed doṣān yugapat pṛthag eva vā. tathā dharmam avāpnoti doṣatyāgo hi duṣkaraḥ. doṣasākalyasaṃtyāgān munir bhavati mānavaḥ. saukaryaṃ paradharmasya kāryārambhād ṛte 'pi ca. ātmanā sthāpanāmātrāl labhyate sukṛtaṃ param. aho nṛśaṃsāḥ pacyante mānuṣāḥ svalpabuddhayaḥ. ye tādṛśaṃ na budhyante ātmādhīnaṃ ca nirvyayam. duṣkṛtatyāgamātreṇa padam ūrdhvaṃ hi labhyate. pāpabhīrutvamātreṇa doṣāṇāṃ parivarjanāt. suśobhanaṃ bhaved devi kim u dharmavyapekṣayā. ity auparamikaṃ devi sukṛtaṃ kathitaṃ tava. śrutāc ca vṛddhasaṃyogād indriyāṇāṃ ca nigrahāt. saṃtoṣāc ca dhṛteś caiva śakyate doṣavarjanam. tad eva yama ity āhur doṣasaṃyamanaṃ priye. yamadharmeṇa dharmo 'sti nānyaḥ śubhataraḥ śubhe. yamadharmeṇa yatayaḥ prāpnuvanty uttamāṃ gatim. īśvarāṇāṃ prabhavatāṃ daridrāṇāṃ ca vai nṛṇām. saphalo doṣasaṃtyāgo dānād api śubhād api. tapo dānaṃ mahādevi doṣam alpaṃ vinirdahet. sukṛtaṃ yāmikaṃ proktaṃ pathyaṃ nirupasādhanam. sukhābhisaṃdhir lokānāṃ satyaṃ śaucam athārjavam. vratopavāsaḥ prītiś ca brahmacaryaṃ damaḥ śamaḥ. evamādi śubhaṃ karma sukṛtaṃ niyamāśritam. śṛṇu teṣāṃ viśeṣāṃś ca kīrtayiṣyāmi bhāmini. satyaṃ svargasya sopānaṃ pārāvārasya naur iva. nāsti satyāt paraṃ dānaṃ nāsti satyāt paraṃ tapaḥ. yathā śrutaṃ yathā dṛṣṭam ātmanā yad yathā kṛtam. tathā tasyāvikāreṇa vacanaṃ satyalakṣaṇam. yac chalenābhisaṃyuktaṃ satyarūpaṃ mṛṣaiva tat. nityam eva pravaktavyaṃ pārāvaryaṃ vijānatā. dīrghāyuś ca bhavet satyāt kulasaṃtānapālakaḥ. lokasaṃsthitipālaś ca bhavet satyena mānavaḥ. umā. maheśvaraḥ. kathaṃ saṃdhārayan martyo vrataṃ śubham avāpnuyāt. pūrvam uktaṃ tu yat pāpaṃ manovākkāyakarmabhiḥ. vratavat tasya saṃtyāgas tad auparamikaṃ vratam. tena dharmam avāpnoti vratavat paripālayan. maṅgalaṃ śubhakarmāṇi vratenaiva samācaret. naro dharmam avāpnoti śubhasaṃjoṣaṇaṃ vratam. yad yad ātmapriyaṃ nityaṃ manovākkāyakarmabhiḥ. vratavat tasya saṃtyāgas tapovratam iti sthitam. tyājyaṃ vā yadi vā joṣyam avratena vṛthā caran. tathā phalaṃ na labhate tasmād dharmaṃ vratāc caret. śuddhakāyo naro bhūtvā snātvā tīrthe yathāvidhi. pañca bhūtāni candrārkau saṃdhye dharmaṃ yamaṃ pitṝn. ātmanaivaṃ tathātmānaṃ nivedya vratavac caret. vratamā maraṇād vāpi kālacchedena vā caret. śākādiṣu vrataṃ kuryāt tathā puṣpaphalādiṣu. brahmacaryaṃ vrataṃ kuryād upavāsaṃ tathā vratam. evam anyeṣu bahuṣu vrataṃ kāryaṃ hitaiṣiṇā. vratabhaṅgo yathā na syād rakṣitavyaṃ tathā budhaiḥ. vratabhaṅgo mahat pāpam iti viddhi śubhekṣaṇe. auṣadhārthaṃ yad ajñānād gurūṇāṃ vacanād api. anugrahārthaṃ bandhūnāṃ vratabhaṅgo na duṣyate. vratāpavargakāleṣu devabrāhmaṇapūjanam. umā. nareṇa tu yathāśakti kāryaṃ siddhiṃ tathāpnuyāt. maheśvaraḥ. kathaṃ śaucavidhis tatra tan me śaṃsitum arhasi. bāhyam ābhyantaraṃ ceti dvividhaṃ śaucam iṣyate. mānasaṃ sukṛtaṃ yat tac chaucam ābhyantaraṃ smṛtam. sadāhāraviśuddhiś ca kāyaprakṣālanaṃ ca yat. bāhyaṃ śaucaṃ bhaved etat tathaivācamanādi ca. mṛc caiva śuddhadeśasthā gośakṛnmūtram eva ca. dravyāṇi gandhayuktāni yāni puṣṭikarāṇi ca. etaiḥ saṃmārjayet kāyam ambhasā ca punaḥ punaḥ. akṣobhyaṃ yat prakīrṇaṃ ca nityasrotaś ca yaj jalam. prāyaśas tādṛśe majjed anyathā cāpi varjayet. trir ācamanakaṃ śreṣṭhaṃ niṣphenair nirmalair jalaiḥ. tathā viṇmūtrayoḥ śuddhir adbhir bahumṛdā bhavet. tadaiva jalasaṃśuddhir yat saṃśuddhaṃ tu saṃspṛśet. śakṛtā bhūmiśuddhiḥ syāl lohānāṃ bhasmanā smṛtā. takṣaṇaṃ gharṣaṇaṃ caiva dāravāṇāṃ viśodhanam. dahanaṃ mṛnmayānāṃ ca martyānāṃ kṛcchradhāraṇam. śeṣāṇāṃ devi sarveṣām ātapena jalena ca. brāhmaṇānāṃ ca vākyena sadā saṃśodhanaṃ bhavet. aduṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate. evam āpadi saṃśuddhir evaṃ śaucaṃ vidhīyate. umā. maheśvaraḥ. āhāraśuddhis tu kathaṃ tan me vada mahāprabho. amāṃsamadyam akledyam aparyuṣitam eva ca. atikaṭvamlalavaṇair hīnaṃ ca śubhagandhi ca. kṛmikīṭamalair hīnaṃ saṃbhṛtaṃ śuddhabhājane. evaṃvidhaṃ sadāhāraṃ devabrāhmaṇasatkṛtam. śuddham ity eva vijñeyam anyathā tv aśubhaṃ bhavet. grāmyād āraṇyakaiḥ siddhaṃ śuddham ity avadhāraya. atimātragṛhītāt tu alpadattaṃ bhavec chuci. yajñaśeṣaṃ haviḥśeṣaṃ pitṛśeṣaṃ ca nirmalam. umā. iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi. bhakṣayanty apare māṃsaṃ varjayanty apare bhuvi. maheśvaraḥ. tan me vada mahādeva bhakṣyābhakṣyasya kāraṇam. māṃsasya bhakṣaṇe doṣo yaś cāsyābhakṣaṇe guṇaḥ. tad ahaṃ kīrtayiṣyāmi tan nibodha yathātatham. iṣṭaṃ dattam adhītaṃ ca kratavaś ca sadakṣiṇāḥ. amāṃsabhakṣaṇasyaite kalāṃ nārhanti ṣoḍaśīm. ātmārthaṃ yaḥ paraprāṇān hiṃsyāt svāduphalepsayā. vyālagṛdhrasṛgālaiś ca rākṣasaiś ca samas tu saḥ. yo vṛthānityamāṃsāśī sa pumān adhamo bhavet. tataḥ kaṣṭataraṃ nāsti svayam āhṛtya bhakṣaṇāt. svamāṃsaṃ paramāṃsena yo vardhayitum icchati. udvignavāsaṃ labhate yatra yatropajāyate. saṃchedanaṃ svamāṃsasya yathā saṃjanayed rujam. tathaiva paramāṃse 'pi veditavyaṃ vijānatā. yas tu sarvāṇi māṃsāni yāvajjīvaṃ na bhakṣayet. sa svarge vipulaṃ sthānaṃ labhate nātra saṃśayaḥ. yas tu varṣaśataṃ pūrṇaṃ tapyate paramaṃ tapaḥ. yaś cāpi varjayen māṃsaṃ samam etan na vā samam. na hi prāṇaiḥ priyatamaṃ loke kiṃ cana vidyate. tasmāt prāṇidayā kāryā yathātmani tathā pare. sarve yajñā na tat kuryuḥ sarve vedāś ca bhāmini. yan māṃsarasam āsvādya punar māṃsāni varjayet. dharmyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat. ity evaṃ munayaḥ prāhur māṃsasyābhakṣaṇe guṇān. evaṃ bahuguṇaṃ devi nṛṇāṃ māṃsavivarjanam. na śaknuyād yadā jīvaṃs tyaktuṃ māṃsaṃ kathaṃ cana. tripuṇyamāsamātraṃ vā varjanīyaṃ viśeṣataḥ. na śaknuyād api tathā kaumudīmāsam eva ca. janmanakṣatratithiṣu sadā parvasu rātriṣu. varjanīyaṃ tathā māṃsaṃ paratra hitam icchatā. aśaktaḥ kāraṇān martyo bhoktum icched vidhiṃ śṛṇu. anena vidhinā khādan kalmaṣeṇa na lipyate. sūnāyāṃ ca gataprāṇaṃ krītvā nyāyena bhāmini. brāhmaṇātithipūjārthaṃ bhoktavyaṃ hitam icchatā. bhaiṣajyakāraṇād vyādhau khādan pāpair na lipyate. pitṛśeṣaṃ tathaivāśnan māṃsaṃ nāśubham ṛcchati. umā. maheśvaraḥ. gurupūjā kathaṃ deva kriyate dharmakāṅkṣibhiḥ. gurupūjāṃ pravakṣyāmi yathāvat tava śobhane. kṛtajñānāṃ paro dharma iti vedānuśāsanam. tasmāt svaguravaḥ pūjyās te hi pūrvopakāriṇaḥ. gurūṇāṃ ca garīyāṃsas trayo lokeṣu pūjitāḥ. upādhyāyaḥ pitā mātā saṃpūjyās te viśeṣataḥ. ye pitṛbhrātaro jyeṣṭhā ye ca tasyānujās tathā. pituḥ pitā ca sarve te pūjanīyā yathā pitā. mātur yā bhaginī jyeṣṭhā mātur yā ca yavīyasī. mātāmahī ca dhātrī ca sarvās tā mātaraḥ smṛtāḥ. upādhyāyasya yaḥ putro yaś ca tasya bhaved guruḥ. ṛtvig guruḥ pitā ceti guravaḥ parikīrtitāḥ. jyeṣṭho bhrātā narendraś ca mātulaḥ śvaśuras tathā. bhayatrātā ca bhartā ca guravas te prakīrtitāḥ. ity eṣa kathitaḥ svargyo gurūṇāṃ sarvasaṃgrahaḥ. anuvṛttiṃ ca pūjāṃ ca teṣām api nibodha me. avadhyau mātṛpitarau upādhyāyas tathaiva ca. kathaṃ cin nāvamantavyā nareṇa hitam icchatā. yena prīṇāti ca pitā tena prītaḥ prajāpatiḥ. yena prīṇāti cen mātā prītāḥ syur devamātaraḥ. yena prīṇāty upādhyāyo brahmā tenābhipūjitaḥ. aprīteṣu punas teṣu naro narakam eti hi. gurūṇāṃ vairanirbandho na kartavyaḥ kathaṃ cana. narakaṃ sa guruprītyā manasāpi na gacchati. na brūyād vipriyaṃ teṣām aniṣṭe na pravartayet. vigṛhya na vadet teṣāṃ samīpe spardhayā kva cit. yad yad icchanti te kartum asvatantras tad ācaret. vedānuśāsanasamaṃ guruśāsanam iṣyate. kalahāṃś ca vivādāṃś ca gurubhiḥ saha varjayet. kaitavaṃ parihāsāṃś ca manyukāmāśrayāḥ kathāḥ. gurūṇāṃ yo 'nahaṃvādī karoty ājñām atandritaḥ. na tasmāt sarvamartyeṣu vidyate puṇyakṛttamaḥ. asūyām apavādāṃś ca gurūṇāṃ parivarjayet. teṣāṃ priyahitānveṣī bhūtvā paricaret sadā. na tad yajñaphalaṃ kuryāt tapo vācaritaṃ mahat. yat kuryāt puruṣasyeha gurupūjā sadā kṛtā. anuvṛtter vinā dharmo nāsti sarvāśrameṣv api. tasmāt samādṛtaḥ kāle guruvṛttiṃ samācaret. svam arthaṃ svaśarīraṃ ca gurvarthaṃ saṃtyajed budhaḥ. vivādaṃ dhanahetor vā mohād vā tair na rocayet. brahmacaryam ahiṃsā ca dānāni vividhāni ca. gurubhiḥ pratiṣiddhasya sarvam etad apārthakam. upādhyāyaṃ pitaraṃ mātaraṃ ca. ye 'bhidruhyur manasā karmaṇā vā. teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ. tebhyo nānyaḥ pāpakṛd asti loke. umā. maheśvaraḥ. upavāsavidhiṃ tatra tan me śaṃsitum arhasi. śarīramalakārśyārtham indriyocchoṣaṇāya ca. ekabhuktopavāsais tu dhārayante vrataṃ narāḥ. labhante vipulaṃ dharmaṃ tathāhāraparikṣayāt. bahūnām uparodhaṃ tu na kuryād ātmakāraṇāt. jīvopaghātaṃ ca tathā dhānyaṃ saṃjīvyam iṣyate. tasmāt puṇyaṃ labhen martyaḥ svayam āhārakarśanāt. tad gṛhasthair yathāśakti kartavyam iti niścayaḥ. upavāsārdite kāya āpadarthaṃ payo jalam. umā. bhuñjan na vrataghātī syād brāhmaṇān anumānya ca. brahmacaryaṃ kathaṃ deva rakṣitavyaṃ vijānatā. maheśvaraḥ. tad ahaṃ te pravakṣyāmi śṛṇu devi samāhitā. brahmacaryaṃ paraṃ śaucaṃ brahmacaryaṃ paraṃ tapaḥ. kevalaṃ brahmacaryeṇa prāpyate paramaṃ padam. saṃkalpād darśanāc caiva tad yuktavacanād api. saṃsparśād atha saṃyogāt pañcadhā rakṣitaṃ param. vratavad dhāritaṃ caiva brahmacaryam akalmaṣam. nityasaṃrakṣaṇaṃ tasya naiṣṭhikānāṃ vidhīyate. tad iṣyate gṛhasthānāṃ kālam uddiśya kāraṇam. janmanakṣatrayogeṣu puṇyavāseṣu parvasu. devatādharmakāryeṣu brahmacaryavrataṃ caret. brahmacaryavrataphalaṃ labhed dāravratī sadā. śaucam āyus tathārogyaṃ labhyate brahmacāribhiḥ. umā. tīrthacaryā kathaṃ deva kriyate dharmakāṅkṣibhiḥ. maheśvaraḥ. kāni tīrthāni lokeśa tan me śaṃsitum arhasi. hanta te kathayiṣyāmi tīrthasnānavidhiṃ priye. pāvanārthaṃ ca śaucārthaṃ brahmaṇā nirmitāḥ purā. yās tu loke mahānadyas tāḥ sarvās tīrthasaṃjñitāḥ. tāsāṃ prāk srotasaḥ śreṣṭhāḥ saṃgamaś ca parasparam. tāsāṃ sāgarasaṃyogo variṣṭhaś ceti vidyate. tāsām ubhayataḥ kūlaṃ yatra tatra maharṣibhiḥ. devair vā sevitaṃ devi tat tīrthaṃ paramaṃ smṛtam. samudraś ca mahātīrthaṃ pāvanaṃ paramaṃ śubham. tasya kūlagatās tīrthā mahadbhiś ca samāplutāḥ. srotasāṃ parvatānāṃ ca joṣitānāṃ maharṣibhiḥ. api kūpataṭākaṃ vā munibhiḥ sevitaṃ priye. tat tu tīrtham iti jñeyaṃ prabhāvāt tu tapasvinām. tadāprabhṛti tīrthatvaṃ lebhe lokahitāya vai. evaṃ tīrthodbhavaṃ viddhi tasya snānavidhiṃ śṛṇu. tanmanā vratabhūyiṣṭho gatvā tīrthābhikāṅkṣayā. upavāsatrayaṃ kuryād ekaṃ vā niyamānvitaḥ. puṇyamāsayute kāle paurṇamāsyāṃ yathāvidhi. bahir eva śucir bhūtvā tat tīrthaṃ tanmanāviśet. trir āplutya jalābhyāśe dattvā brāhmaṇadakṣiṇām. abhyarcya devāyatanaṃ tataḥ prāyād yathāgatam. etad vidhānaṃ sarveṣāṃ tīrthaṃ tīrthaṃ prati priye. samīpatīrthasnānāt tu dūratīrthaṃ supūjitam. ādiprabhṛti śuddhasya tīrthasnānaṃ śubhaṃ bhavet. taporthaṃ pāpanāśārthaṃ śaucārthaṃ tīrthagāhanam. evaṃ puṇyeṣu māseṣu tīrthasnānaṃ śubhaṃ bhavet. maheśvaraḥ. etan naiyamikaṃ sarvaṃ sukṛtaṃ kathitaṃ tava. dānāni devapūjāṃ ca pitṛpūjāṃ tathaiva ca. anyāni dharmakāryāṇi sukṛtaṃ sopasādhanam. tat sarvaṃ śṛṇu kalyāṇi prajānāṃ hitakāmyayā. cetanācetanair yuktaṃ yal loke vidyate dhanam. umā. etad artham avāpnoti naraḥ pretya śubhekṣaṇe. lokasiddhaṃ tu yad dravyaṃ sarvasādhāraṇaṃ bhavet. tad dadat sarvasāmānyaṃ kathaṃ dharmaṃ labhen naraḥ. maheśvaraḥ. evaṃ sādhāraṇe dravye kasya svatvaṃ kathaṃ bhavet. loke bhūtamayaṃ dravyaṃ sarvasādhāraṇaṃ tathā. yathaiva tad dadan martyo bhavet puṇyaṃ hi tac chṛṇu. dātā pratigrahītā ca deyaṃ sopakramaṃ tathā. deśakālau ca yat tv etad dānaṃ ṣaḍguṇam ucyate. teṣāṃ saṃpadviśeṣāṃś ca kīrtyamānān nibodha me. ādiprabhṛti yaḥ śuddho manovākkāyakarmabhiḥ. satyavādī jitakrodhas tv alubdho nānasūyakaḥ. śraddhāvān āstikaś caiva evaṃ dātā praśasyate. śuddho dānto jitakrodhas tathoditakulodbhavaḥ. śrutacāritrasaṃpannas tathā bahukalatravān. pañcayajñaparo nityaṃ nirvikāraśarīravān. etān pātraguṇān viddhi tādṛk pātraṃ praśasyate. pitṛdevāgnikāryeṣu tasya dattaṃ mahat phalam. yad yad arhati yo loke pātraṃ tasya bhavec ca saḥ. mucyetāpadam āpanno yena pātraṃ sa tasya tu. annasya kṣudhitaḥ pātraṃ tṛṣitas tu jalasya vai. evaṃ pātreṣu nānātvam iṣyate puruṣaṃ prati. jāraś coraś ca ṣaṇḍaś ca hiṃsraḥ samayabhedakaḥ. lokavighnakarāś cānye varjitāḥ sarvaśaḥ priye. paropaghātād yad dravyaṃ cauryād vā labhyate nṛbhiḥ. nindayā labhyate yac ca dhūrtabhāvena vā tathā. adharmād atha mohād vā bahūnām uparodhanāt. labhyate yad dhanaṃ devi tad anyad vā hṛtaṃ bhavet. tādṛśena kṛtaṃ dharmaṃ niṣphalaṃ viddhi bhāmini. tasmān nyāyāgatenaiva dātavyaṃ śubham icchatā. yad yad ātmapriyaṃ nityaṃ tat tad deyam iti sthitiḥ. upakramam imaṃ viddhi dātṝṇāṃ paramaṃ hitam. pātrabhūtaṃ tu dūrastham abhigamya prasādya ca. dātā dānaṃ tathā dadyād yathā tuṣyeta tena saḥ. eṣa dānavidhiḥ śreṣṭhaḥ samāhūya tu madhyamaḥ. pūrvaṃ ca pātratāṃ jñātvā samāhūya nivedya ca. śaucārcanasamāyuktaṃ dātavyaṃ śraddhayā priye. yācitṝṇāṃ tu paramam ābhimukhyapuraskṛtam. saṃmānapūrvaṃ saṃgṛhya dātavyaṃ deśakālayoḥ. apātrebhyo 'pi cānyebhyo dātavyaṃ bhūtim icchatā. pātrāṇi saṃparīkṣyaiva dātā vai dānamātrayoḥ. atiśaktyā paraṃ dānaṃ yathāśakti tu madhyamam. tṛtīyaṃ cāparaṃ dānaṃ nānurūpam ivātmanaḥ. yathāsaṃbhāvitaṃ pūrvaṃ dātavyaṃ tat tathaiva ca. puṇyakṣetreṣu yad dattaṃ puṇyakāleṣu vā tathā. umā. tac chobhanataraṃ viddhi gauravād deśakālayoḥ. yaś ca puṇyatamo deśas tathā kālaś ca śaṃsa me. maheśvaraḥ. kurukṣetraṃ mahānadyo yac ca devarṣisevitam. girir varaś ca tīrthāni deśabhāgena pūjitāḥ. grahītur īpsito yaś ca tatra dattaṃ mahat phalam. śaradvasantakālaś ca puṇyamāsas tathaiva ca. śuklapakṣaś ca pakṣāṇāṃ paurṇamāsī ca parvasu. pitṛdaivatanakṣatraṃ nirmalā divasās tathā. tac chobhanataraṃ viddhi candrasūryagrahaṃ tathā. pratigrahītur yaḥ kālo manasā kīrtitaḥ śubhe. evamādiṣu kāleṣu dattaṃ dānaṃ mahad bhavet. dātā deyaṃ ca pātraṃ ca upakramayutā kriyā. deśaḥ kālaś ca ity eṣāṃ saṃpacchuddhiḥ prakīrtitā. yatraiva yugapat saṃpat tatra śuddhir mahad bhavet. atyalpam api yad dānam ebhiḥ ṣaḍbhir guṇair yutam. bhūtvānantaṃ nayet svargaṃ dātāraṃ doṣavarjitam. sumahad vāpi yad dānaṃ guṇair ebhir vinākṛtam. umā. atyalpaphalaniryogam aphalaṃ vā bhaved dhi tat. evaṃ guṇayutaṃ dānaṃ dattaṃ tv aphalatāṃ vrajet. maheśvaraḥ. tad asti cen mahādeva tan me śaṃsitum arhasi. tad apy asti mahābhāge narāṇāṃ bhavadoṣataḥ. kṛtvā tu dharmaṃ vidhivat paścāttāpaṃ karoti cet. ślāghayā vā yadi brūyād vṛthā saṃsadi yat kṛtam. prakalpayec ca manasā tatphalaṃ pretyabhāvataḥ. dharmakāryaṃ kṛtaṃ yac ca satataṃ phalakāṅkṣayā. evaṃ kṛtaṃ vā dattaṃ vā paratra viphalaṃ bhavet. ete doṣā vivarjyāś ca dātṛbhiḥ puṇyakāṅkṣibhiḥ. sanātanam idaṃ vṛttaṃ sadbhir ācaritaṃ tathā. anugrahaḥ pareṣāṃ tu gṛhasthānām ṛṇaṃ hi tat. ity evaṃ mana āveśya dātavyaṃ satataṃ budhaiḥ. evam eva kṛtaṃ nityaṃ sukṛtaṃ tad bhaven mahat. umā. sarvasādhāraṇaṃ dravyam evaṃ dattvā mahat phalam. bhagavan kāni deyāni dharmam uddiśya mānavaiḥ. maheśvaraḥ. tāny ahaṃ śrotum icchāmi tan me śaṃsitum arhasi. ajasraṃ dharmakāryaṃ ca tathā naimittikaṃ priye. annaṃ pratiśrayo dīpaḥ pānīyaṃ tṛṇam indhanam. sneho gandhaś ca bhaiṣajyaṃ tilāś ca lavaṇaṃ tathā. evamādi tathānyac ca dānam ājasram ucyate. ajasradānāt satatam ājasram iti niścitam. sāmānyaṃ sarvavarṇānāṃ dānaṃ śṛṇu samāhitā. annaṃ prāṇā manuṣyāṇām annadaḥ prāṇado bhavet. tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ. brāhmaṇāyābhirūpāya yo dadyād annam īpsitam. nidadhāti nidhiṃ śreṣṭhaṃ so 'nantaṃ pāralaukikam. śrāntam adhvapariśrāntam atithiṃ gṛham āgatam. arcayīta prayatnena sa hi yajño varaḥ smṛtaḥ. kṛtvā tu pāpakaṃ karma yo dadyād annam arthinām. brāhmaṇānāṃ viśeṣeṇa so 'pahanti svakaṃ tamaḥ. pitaras tasya nandanti suvṛṣṭyā karṣakā iva. putro vā yasya pautro vā śrotriyān bhojayiṣyati. api caṇḍālaśūdrāṇām annadānān na garhyate. tasmāt sarvaprayatnena dadyād annam amatsaraḥ. kalatraṃ pīḍayitvāpi poṣayed atithīn sadā. janmāpi mānuṣe loke tadarthaṃ hi vidhīyate. annadānāc ca ye lokās tān pravakṣyāmy anindite. bhavanāni prakāśante divi teṣāṃ mahātmanām. anekaśatabhaumāni sāntarjalavanāni ca. vaiḍūryārciḥprakāśāni rukmarūpyanibhāni ca. nānāsaṃsthānarūpāṇi nānāratnamayāni ca. candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca. taruṇādityavarṇāni sthāvarāṇi carāṇi ca. yatheṣṭabhakṣyabhojyāni śayanāsanavanti ca. sarvakāmaphalāś cātra vṛkṣā bhavanasaṃsthitāḥ. vāpyo bahvyaś ca kūpāś ca dīrghikāś ca sahasraśaḥ. arujāni viśokāni nityāni vividhāni ca. bhavanāni viviktāni prāṇadānāṃ triviṣṭape. vivasvataś ca somasya brahmaṇaś ca prajāpateḥ. viśanti lokāṃs te nityaṃ jagaty annodakapradāḥ. tatra te suciraṃ kālaṃ vihṛtyāpsarasāṃ gaṇaiḥ. jāyante mānuṣe loke sarvakalyāṇasaṃyutāḥ. balasaṃhananopetā nīrogāś cirajīvinaḥ. kulīnā matimantaś ca bhavanty annapradā narāḥ. tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā. sarvakālaṃ ca sarvasya sarvatra ca sadaiva ca. suvarṇadānaṃ paramaṃ svargyaṃ svastyayanaṃ mahat. tasmāt tad varṇayiṣyāmi yathāvad anupūrvaśaḥ. api pāpaṃ kṛtaṃ krūraṃ dattaṃ rukmaṃ praṇāśayet. suvarṇaṃ ye prayacchanti śrotriyebhyaḥ sucetasaḥ. devatās te tarpayanti samastā iti vaidikam. agnir hi devatāḥ sarvāḥ suvarṇaṃ cāgnir ucyate. tasmāt suvarṇadānena dattāḥ syuḥ sarvadevatāḥ. agnyabhāve tu kurvanti vahnisthāneṣu kāñcanam. tasmāt suvarṇadātāraḥ sarvān kāmān avāpnuyuḥ. ādityasya hutāśasya lokān nānāvidhāñ śubhān. kāñcanaṃ saṃpradāyāśu praviśanti na saṃśayaḥ. alaṃkārakṛtaṃ cāpi kevalāt praviśiṣyate. sauvarṇair brāhmaṇān kāle tair alaṃkṛtya bhojayet. etat paramakaṃ dānaṃ dattvāsau varṇam adbhutam. dyutiṃ medhāṃ vapuḥ kīrtiṃ punar jāte labhed dhruvam. tasmāt svaśaktyā dātavyaṃ kāñcanaṃ bhuvi mānavaiḥ. na hy etasmāt paraṃ lokeṣv anyat pāvanam ucyate. ata ūrdhvaṃ pravakṣyāmi gavāṃ dānam anindite. na hi gobhyaḥ paraṃ dānaṃ vidyate jagati priye. lokān sisṛkṣuṇā pūrvaṃ gāvaḥ sṛṣṭāḥ svayaṃbhuvā. vṛttyarthaṃ sarvabhūtānāṃ tasmāt tā mātaraḥ smṛtāḥ. lokajyeṣṭhā lokavṛttyāṃ pravṛttā. mayy āyattāḥ somaviṣyandabhūtāḥ. saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca. tasmāt pūjyāḥ puṇyakāmair manuṣyaiḥ. dhenuṃ hi dattvā nibhṛtām arogāṃ. kalyāṇavatsāṃ ca payasvinīṃ ca. yāvanti lomāni bhavanti tasyās. tāvat samāḥ svargaphalāni bhuṅkte. prayacchate yaḥ kapilāṃ sacelāṃ. kāṃsyopadohāṃ kanakāgraśṛṅgīm. putrāṃś ca pautrāṃś ca kulaṃ ca sarvam. āsaptamaṃ tārayate paratra. antarjātāḥ krītakā dyūtalabdhāḥ. prāṇakrītāḥ sodakāś caujasā vā. kṛcchrotsṛṣṭāḥ poṣaṇārthāgatāś ca. dvārair etais tāḥ pralabdhāḥ pradadyāt. kṛśāya bahuputrāya śrotriyāyāhitāgnaye. pradāya nīrujāṃ dhenuṃ lokān prāpnoty anuttamān. nṛśaṃsasya kṛtaghnasya lubdhasyānṛtavādinaḥ. havyakavyavyapetasya na dadyād gāḥ kathaṃ cana. samānavatsāṃ yo dadyād dhenuṃ vipre payasvinīm. suvastrāṃ vastrasaṃdānāṃ somaloke mahīyate. samānavatsāṃ yo dhenuṃ kṛṣṇāṃ dadyāt payasvinīm. suvṛttāṃ vastrasaṃdānāṃ lokān prāpnoty apāṃ pateḥ. samānavatsāṃ yo dhenuṃ dadyād gaurīṃ payasvinīm. suvṛttāṃ vastrasaṃdānām agniloke mahīyate. hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām. pradāya vastrasaṃdānāṃ yāti kauberasadma saḥ. vāyureṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām. pradāya vastrasaṃdānāṃ vāyuloke mahīyate. yuvānaṃ balinaṃ śyāmaṃ śatena saha yūthapam. gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam. ṛṣabhaṃ ye prayacchanti śrotriyāṇāṃ mahātmanām. aiśvaryam abhijāyante jāyamānāḥ punaḥ punaḥ. gavāṃ mūtrapurīṣāṇi nodvijeta kadā cana. na cāsāṃ māṃsam aśnīyād goṣu bhaktaḥ sadā bhavet. grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ śuciḥ. akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam. gavām ubhayataḥkāle nityaṃ svastyayanaṃ vadet. na cāsāṃ cintayet pāpam iti dharmavido viduḥ. gāvaḥ pavitraṃ paramaṃ goṣu lokāḥ pratiṣṭhitāḥ. kathaṃ cin nāvamantavyā gāvo lokasya mātaraḥ. tasmād eva gavāṃ dānaṃ viśiṣṭam iti kathyate. goṣu pūjā ca bhaktiś ca narasyāyuṣyam āvahet. ataḥ paraṃ pravakṣyāmi bhūmidānaṃ mahāphalam. bhūmidānasamaṃ dānaṃ na kilāstīti niścayaḥ. gṛhayuk kṣetrayug vāpi bhūmibhāgaḥ pradīyate. sukhabhogyaṃ nirākrośaṃ vāstupūrvaṃ prakalpya ca. grahītāram alaṃkṛtya vastrapuṣpānulepanaiḥ. sabhṛtyaṃ saparīvāraṃ bhojayitvā yatheṣṭataḥ. yo dadyād dakṣiṇākāle trir adbhir gṛhyatām iti. evaṃ bhūmyāṃ pradattāyāṃ śraddhayā vītamatsaraiḥ. yāvat tiṣṭhati sā bhūmis tāvat tasya phalaṃ viduḥ. bhūmidaḥ svargam āruhya ramate śāśvatīḥ samāḥ. acalā hy akṣayā bhūmiḥ sarvān kāmān dudhukṣati. yad yac ca kurute pāpaṃ puruṣo vṛttikarśitaḥ. api gokarṇamātreṇa bhūmidānena mucyate. suvarṇarajataṃ vastraṃ maṇimuktāvasūni ca. sarvam etan mahāprājñe bhūmidāne pratiṣṭhitam. bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ. brahmalokāya saṃsiddhā nātikrāmanti bhūmidam. halakṛṣṭāṃ mahīṃ dadyād yaḥ sabījaphalānvitām. sakūpaśaraṇāṃ vāpi sā bhavet sarvakāmadā. niṣpannasasyāṃ pṛthivīṃ yo dadāti dvijanmanām. vimuktaḥ kaluṣaiḥ sarvaiḥ śakralokaṃ sa gacchati. yathā janitrī kṣīreṇa svaputram abhivardhayet. evaṃ sarvaphalair bhūmir dātāram abhivardhayet. brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam. grāhayitvā nijāṃ bhūmiṃ na yāti yamasādanam. yathā candramaso vṛddhir ahany ahani dṛśyate. tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate. yathā bījāni rohanti prakīrṇāni mahītale. tathā kāmāḥ prarohanti bhūmidānaguṇārjitāḥ. pitaraḥ pitṛlokasthā devatāś ca divi sthitāḥ. saṃtarpayanti bhogais taṃ yo dadāti vasuṃdharām. dīrghāyuṣṭvam arogatvaṃ sphītāṃ ca śriyam uttamām. paratra labhate martyaḥ saṃpradāya vasuṃdharām. etat sarvaṃ mayoddiṣṭaṃ bhūmidānasya yat phalam. śraddadhānair narair nityaṃ śrāvyam etat sanātanam. ataḥ paraṃ pravakṣyāmi kanyādānaṃ yathāvidhi. kanyā deyā tathā devi pareṣām ātmano 'pi vā. kanyāṃ śuddhavratācārāṃ kularūpasamanvitām. yasmai ditsati pātrāya tenāpi bhṛśakāmitām. prathamaṃ tat samākalpya bandhubhiḥ kṛtaniścayam. kārayitvā gṛhaṃ pūrvaṃ dāsīdāsaparicchadaiḥ. gṛhopakaraṇaṃ caiva śuddhadhānyena saṃyutam. dārārthine tadarhāya kanyāṃ tāṃ samalaṃkṛtām. savivāhaṃ yathānyāyaṃ prayacched agnisākṣikam. vṛttyāyatiṃ tathā kṛtvā sadgṛhe tau niveśayet. evaṃ kṛtvā vadhūdānaṃ tasya dānasya gauravāt. pretyabhāve mahīyeta svargaloke yathāsukham. punarjātau ca saubhāgyaṃ kulavṛddhiṃ tathāpnuyāt. vidyādānaṃ tathā devi pātrabhūtāya vai dadat. pretyabhāve labhen martyo medhāṃ vṛddhiṃ dhṛtiṃ smṛtim. anurūpāya śiṣyāya svāṃ vidyāṃ yaḥ prayacchati. yathoktam asya dānasya phalam ānantyam ucyate. dāpanaṃ tv atha vidyānāṃ daridrebhyo 'rthavetanaiḥ. svayaṃdattena tulyaṃ syād iti viddhi śubhānane. evaṃ te kathitāny eva mahādānāni bhāmini. tvatpriyārthaṃ mahādevi bhūyaḥ śrotuṃ kim icchasi. umā. bhagavan devadeveśa kathaṃ deyaṃ tilānvitam. maheśvaraḥ. tasya tasya phalaṃ brūhi dattasya ca kṛtasya ca. tilakalpavidhiṃ devi tvaṃ me śṛṇu samāhitā. samṛddhair asamṛddhair vā tilā deyā viśeṣataḥ. tilāḥ pavitrāḥ pāpaghnāḥ supuṇyā iti saṃsmṛtāḥ. nyāyatas tu tilāñ śuddhān saṃbhṛtyātha svaśaktitaḥ. tilarāśiṃ punaḥ kuryāt parvatābhaṃ saratnakam. mahāntaṃ yadi vā stokaṃ nānādravyasamāyutam. suvarṇarajatābhyāṃ ca maṇimuktāpravālakaiḥ. alaṃkṛtya yathāyogaṃ sapatākaṃ savedikam. sabhūṣaṇaṃ savastraṃ ca śayanāsanasaṃyutam. prāyaśaḥ kaumudīmāse paurṇamāsyāṃ viśeṣataḥ. bhojayitvā ca vidhivad brāhmaṇān arhato bahūn. svayaṃ kṛtvopavāsaṃ ca vṛttaśaucasamanvitaḥ. dadyāt pradakṣiṇīkṛtya tilarāśiṃ sadakṣiṇam. ekasya vā bahūnāṃ vā dātavyaṃ bhūtim icchatā. tasya dānaphalaṃ devi agniṣṭomena saṃmitam. kevalaṃ vā tilair eva bhūmau kṛtvā gavākṛtim. saratnakaṃ savastraṃ ca puṃsā godānakāṅkṣiṇā. tad arhāya pradātavyaṃ tasya godānavat phalam. śarāvāṃs tilasaṃpūrṇān sahiraṇyān sacampakān. jalair dadad brāhmaṇāya sa puṇyaphalabhāg bhavet. evaṃ tilamayaṃ deyaṃ nareṇa hitam icchatā. nānādānaphalaṃ bhūyaḥ śṛṇu devi samāhitā. balam āyuṣyam ārogyam annadānāl labhen naraḥ. pānīyadas tu saubhāgyaṃ rasajñānaṃ labhen naraḥ. vastradānād vapuḥśobhām alaṃkāraṃ labhen naraḥ. dīpado buddhivaimalyaṃ dyutiṃ śobhāṃ labhet punaḥ. rājapīḍāvimokṣaṃ tac chatrado labhate phalam. dāsīdāsapradānāt tu bhavet karmāntabhāṅ naraḥ. dāsīdāsaṃ ca vividhaṃ labhet pretya guṇānvitam. yānāni vāhanaṃ caiva tadarhāya dadan naraḥ. pādarogaparikleśān muktaś cotsāhavān bhavet. vicitraṃ ramaṇīyaṃ ca labhate yānavāhanam. pratiśrayapradānāc ca tadarhāya tad icchate. varṣakāle tu rātrau ca labhet pakṣabalaṃ śubham. setukūpataṭākānāṃ kartā tu labhate naraḥ. dīrghāyuṣṭvaṃ ca saubhāgyaṃ tathā pretyāyatīṃ śubhām. vṛkṣapaṅktikaro yas tu cchāyāpuṣpaphalapradaḥ. pretyabhāve labhet puṇyam abhigamyo bhaven naraḥ. yas tu saṃkramakṛl loke nadīṣu jalatāriṇām. labhet puṇyaphalaṃ pretya vyasanebhyo vimokṣaṇam. mārgakṛt satataṃ martyo bhavet saṃtānavān punaḥ. kāyadoṣavimuktas tu tīrthakṛt satataṃ bhavet. auṣadhānāṃ pradātā ca satataṃ kṛpayānvitaḥ. bhaved vyādhivihīnaś ca dīrghāyuś ca viśeṣataḥ. anāthān poṣayed yas tu kṛpaṇāndhakapaṅgukān. sa tu puṇyaphalaṃ pretya labhate kṛcchramokṣaṇam. devagoṣṭhān sabhāḥ śālā bhikṣūṇāṃ ca pratiśrayam. yaḥ kuryāl labhate nityaṃ naraḥ pretya phalaṃ śubham. prāsādavāsaṃ vividhaṃ pakṣaśobhāṃ labhen naraḥ. vividhaṃ vividhākāraṃ bhakṣyabhojyaguṇānvitam. ramyaṃ sadaiva govāṭaṃ yaḥ kuryāl labhate naraḥ. pretyabhāve śubhāṃ jātiṃ vyādhimokṣaṃ tathaiva ca. umā. evaṃ nānāvidhaṃ dravyaṃ dātā kartā labhet phalam. kṛtaṃ dattaṃ yathā yāvat tasya yal labhate phalam. maheśvaraḥ. etan me vada deveśa tatra kautūhalaṃ mahat. pretyabhāve śṛṇu phalaṃ dattasya ca kṛtasya ca. dānaṃ vā ṣaḍguṇayutaṃ tadarhāya yathāvidhi. yathāvibhavato dānaṃ dātavyam iti mānavaiḥ. buddhim āyuṣyam ārogyaṃ kulaṃ bhāgyaṃ tathāgamam. rūpeṇa saptadhā bhūtvā mānuṣyaṃ phalati dhruvam. idaṃ dattam idaṃ me syād ity evaṃ phalakāṅkṣayā. yad dattaṃ tat tad eva syān na tu kiṃ cana labhyate. dhruvaṃ devy uttame dāne madhyame tv adhame phalam. umā. bhagavan devadeveśa viśiṣṭaṃ yajñam ucyate. maheśvaraḥ. laukikaṃ vaidikaṃ caiva tan me śaṃsitum arhasi. devatānāṃ ca saṃpūjā yajñeṣv eva samāhitā. yajñā vedeṣv adhīnāś ca vedā brāhmaṇasaṃyutāḥ. idaṃ tu sakalaṃ dravyaṃ divi vā bhuvi vā priye. yajñārthaṃ viddhi tat sṛṣṭaṃ lokānāṃ hitakāmyayā. evaṃ vijñāya tatkartā sadāraḥ satataṃ dvijaḥ. pretyabhāve labhel lokān brahmakarmasamādhinā. brāhmaṇeṣv api tad brahma nityaṃ devi samāhitam. tasmād viprair yathāśāstraṃ vidhidṛṣṭena karmaṇā. yajñakarma kṛtaṃ sarvaṃ devatā abhitarpayet. brāhmaṇāḥ kṣatriyāś caiva yajñārhāḥ prāyaśaḥ smṛtāḥ. agniṣṭomādibhir yajñair vedeṣu parikalpitaiḥ. suśuddhair yajamānaiś ca ṛtvigbhiś ca yathāvidhi. śuddhair dravyopakaraṇair yaṣṭavyam iti niścayaḥ. tathā kṛteṣu yajñeṣu devānāṃ toṣaṇaṃ bhavet. tuṣṭeṣu devasaṃgheṣu yajvā yajñaphalaṃ labhet. devāḥ saṃtoṣitā yajñair lokān saṃvardhayanty uta. ubhayor lokayor bhūtir devi yajñaiḥ pradṛśyate. tasmād yajvā divaṃ gatvā amaraiḥ saha modate. nāsti yajñasamaṃ dānaṃ nāsti yajñasamo nidhiḥ. sarvadharmasamuddeśo devi yajñe samāhitaḥ. eṣā yajñakṛtā pūjā laukikīm aparāṃ śṛṇu. devasatkāram uddiśya kriyante laukikotsavāḥ. devagoṣṭhān hi saṃskṛtya cotsavaṃ yaḥ karoti vai. yāgān devopahārāṃś ca śucir bhūtvā yathāvidhi. devān saṃtoṣayitvā sa devi dharmam avāpnuyāt. gandhamālyaiś ca vividhaiḥ paramānnena dhūpanaiḥ. bahubhiḥ stutibhiś caiva stuvantaḥ prayatā narāḥ. nṛttair vādyaiś ca gāndharvair anyair dṛṣṭivilobhanaiḥ. devasatkāram uddiśya kurvate ye narā bhuvi. teṣāṃ bhaktikṛtenaiva satkāreṇābhipūjitāḥ. tathaiva toṣaṃ saṃyānti devi devās triviṣṭape. mānuṣair aparair vāpi śucibhis tatparāyaṇaiḥ. brahmacaryaparair etat kṛtaṃ dharmaphalaṃ bhavet. kevalaiḥ stutibhir devi gandhamālyasamāyutaiḥ. prayataiḥ śuddhagātrais tu śuddhadeśe supūjitāḥ. saṃtoṣaṃ yānti vai devā bhaktaiḥ saṃpūjitās tathā. umā. devān saṃtoṣayitvaiva devi dharmam avāpnuyāt. triviṣṭapasthā vai devā bhūmau mānuṣaceṣṭitam. maheśvaraḥ. kathaṃ jñāsyanti vividhaṃ tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi yathā tair vidyate priye. prāṇināṃ tu śarīreṣu antarātmā vyavasthitaḥ. ātmānaṃ paramaṃ devam iti viddhi śubhekṣaṇe. ātmā manovyavasthānāt sarvaṃ vetti śubhāśubham. ātmaiva devās tad vidyur avyagramanasaḥ kṛtam. satāṃ manovyavasthānāc chubhaṃ bhavati vai nṛṇām. tasmād devābhisaṃpūjā pitṛpūjā tathaiva ca. yajñāś ca dharmakāryāṇi gurupūjāś ca śobhane. śuddhagātrair vṛttayuktais tanmayais tatparāyaṇaiḥ. evaṃ vyavasthitair nityaṃ kartavyam iti niścayaḥ. evaṃ kṛtvā śubhākāṅkṣī paratreha ca modate. anyathā mana āveśya kṛtaṃ na phalati priye. umā. ṛte 'pi tu mano devi aśubhaṃ phalati dhruvam. pitṛmedhaḥ kathaṃ deva tan me śaṃsitum arhasi. sarveṣāṃ pitaraḥ pūjyāḥ sarvasaṃpatpradāyinaḥ. maheśvaraḥ. pitṛmedhaṃ pravakṣyāmi yathāvat tanmanāḥ śṛṇu. deśakālau vidhānaṃ ca tatkriyāyāḥ śubhāśubham. lokeṣu pitaraḥ pūjyā devatānāṃ ca devatāḥ. śucayo nirmalāḥ puṇyā dakṣiṇāṃ diśam āśritāḥ. yathā vṛṣṭiṃ pratīkṣante bhūmiṣṭhāḥ sarvajantavaḥ. pitaraś ca tathā loke pitṛmedhaṃ śubhekṣaṇe. tasya deśāḥ kurukṣetraṃ gayā gaṅgā sarasvatī. prabhāsaṃ puṣkaraṃ ceti teṣu dattaṃ mahāphalam. tīrthāni saritaḥ puṇyā viviktāni vanāni ca. nadīnāṃ pulinānīti deśāḥ śrāddhasya pūjitāḥ. maghāprauṣṭhapadau māsau śrāddhakarmaṇi pūjitau. pakṣayoḥ kṛṣṇapakṣaś ca pūrvapakṣāt praśasyate. amāvāsyāṃ trayodaśyāṃ navamyāṃ pratipatsu ca. tithiṣv etāsu tuṣyanti datteneha pitāmahāḥ. pūrvāhṇe śuklapakṣe vā rātrau janmadineṣu vā. yugmeṣv ahaḥsu ca śrāddhaṃ na ca kurvīta paṇḍitaḥ. eṣa kālo mayā proktaḥ pitṛmedhasya pūjitaḥ. yasmin vā brāhmaṇaṃ pātraṃ paśyet kālaḥ sa ca smṛtaḥ. apāṅkteyā dvijā varjyā grāhyās te paṅktipāvanāḥ. pūjayed yadi pāpiṣṭhāñ śrāddheṣu narakaṃ vrajet. vṛttaśrutakulopetān sakalatrān guṇānvitān. tadarhāñ śrotriyān viddhi brāhmaṇān ayujaḥ śubhe. etān nimantrayed vidvān pūrvedyuḥ prātar eva vā. tatra śrāddhakriyāṃ paścād ārabheta yathāvidhi. trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ. trīṇi cātra praśaṃsanti śaucam akrodham atvarām. kutapasya ca lomāni kuśā darbhās tilā madhu. nīlaśākaṃ gajacchāyā pavitraṃ śrāddhakarmasu. tilān avakiret tatra nānāvarṇān samantataḥ. aśuddhaṃ pitṛyajñeṣu tilaiḥ śudhyati śobhane. nīlakāṣāyavastraṃ ca bhinnakarṇaṃ navavraṇam. hīnāṅgam aśuciṃ vāpi varjayet tatra dūrataḥ. kukkuṭāṃś ca varāhāṃś ca nagnaṃ klībaṃ rajasvalām. āyasaṃ trapu sīsaṃ ca śrāddhakarmaṇi varjayet. māṃsaiḥ prīṇanti pitaro mudgamāṣayavair iha. śaśarauravamāṃsena ṣaṇmāsaṃ tṛptir iṣyate. saṃvatsaraṃ ca gavyena haviṣā pāyasena ca. vārdhrāṇasasya māṃsena tṛptir dvādaśavārṣikī. ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye. pāyasaṃ satilaṃ kṣaudraṃ khaḍgamāṃsena saṃmitam. mahāśaphariṇo matsyāś chāgo vā sarvalohitaḥ. kālaśākakam ity eva tadānantyaṃ prakīrtitam. sāpūpaṃ sāmiṣaṃ snigdham āhāram upakalpayet. upakalpya tadāhāraṃ brāhmaṇān arcayet tataḥ. śmaśrukarmaśiraḥsnātān samāropyāsanaṃ kramāt. sugandhamālyābharaṇaiḥ sragbhir etān vibhūṣayet. alaṃkṛtopaviṣṭāṃs tān piṇḍāvāpaṃ nivedayet. tataḥ prastīrya darbhāṇāṃ prastaraṃ dakṣiṇāmukhaḥ. tatsamīpe 'gnibhiddhvā ca svadhāṃ ca juhuyāt tataḥ. samīpe tv agnīṣomābhyāṃ pitṛbhyo juhuyāt tathā. tato darbheṣu piṇḍāṃs trīn nivaped dakṣiṇāmukham. apasavyam apāṅguṣṭhaṃ nāmadheyapuraskṛtam. etena vidhinā dattaṃ pitṝṇām akṣayaṃ bhavet. tato viprān yathākāmaṃ pūjayen niyataḥ śuciḥ. sadakṣiṇaṃ sasaṃbhāraṃ yathā tuṣyanti te dvijāḥ. yatra tat kriyate karma paitṛke brāhmaṇān prati. tat sarvam akhilaṃ kuryād vaiśvadevasya pūrvakam. aśrūn na pātayet tatra na jalpen na japen mithaḥ. niyamya vācaṃ dehaṃ ca śrāddhakarma samārabhet. tato nirvapaṇe vṛtte tān piṇḍāṃs tadantaram. brāhmaṇo 'gnirajo gaur vā bhakṣayed apsu vā kṣipet. patnīṃ vā madhyamaṃ piṇḍaṃ putrakāmo hi prāśayet. ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam. tṛptān utthāpya tān viprān annaśeṣaṃ nivedayet. taccheṣaṃ bahubhiḥ paścāt sabhṛtyo bhakṣayen naraḥ. eṣa proktaḥ samāsena pitṛyajñaḥ sanātanaḥ. pitaras tena tuṣyanti kartā ca phalam āpnuyāt. ahany ahani vā kuryān māse māse 'tha vā punaḥ. saṃvatsarasya dviḥ kuryāc catur vāpi ca śaktitaḥ. dīrghāyuś ca bhavet svasthaḥ pitṛmedhena mānavaḥ. saputro bahubhṛtyaś ca prabhūtadhanadhānyavān. śrāddhadaḥ svargam āpnoti nirmalaṃ vividhādbhutam. apsarogaṇasaṃghuṣṭaṃ virajaskam anantakam. śrāddhāni puṣṭikāmā ye prakurvanti ca paṇḍitāḥ. teṣāṃ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā. dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ śatruvināśanam. umā. kulasaṃdhāraṇaṃ ceti śrāddham āhur manīṣiṇaḥ. bhagavan devadeveśa mṛtās te bhuvi jantavaḥ. nānājātiṣu jāyante śīghraṃ karmavaśāt punaḥ. pitaras tv iti te tatra kathaṃ tiṣṭhanti devavat. pitṝṇāṃ katamo deśaḥ piṇḍān aśnanti te katham. anne datte mṛtānāṃ tu katham āpyāyanaṃ bhavet. nāradaḥ. evaṃ mayā saṃśayitaṃ bhagavañ chettum arhasi. etad viruddhaṃ rudrāṇyāṃ pṛcchantyāṃ pariṣad bhṛśam. maheśvaraḥ. babhūva sarvā muditā śrotuṃ paramakaṃ hi tat. sthāne saṃśayitaṃ devi śṛṇu kalyāṇi tattvataḥ. guhyānāṃ paramaṃ guhyaṃ khilānāṃ paramaṃ khilam. yathā devagaṇā devi tathā pitṛgaṇāḥ priye. dakṣiṇasyāṃ diśi śubhe sarve pitṛgaṇāḥ sthitāḥ. pretān uddiśya yā pūjā kriyate mānuṣair iha. tena tuṣyanti pitaro na pretāḥ pitaraḥ smṛtāḥ. uttarasyāṃ yathā devā ramante yajñakarmabhiḥ. dakṣiṇasyāṃ tathā te ca tuṣyanti vividhair makhaiḥ. dvividhaṃ kriyate karma havyakavyasamāśritam. tayor havyakriyā devān kavyam āpyāyayet pitṝn. prasavyaṃ maṅgalair dravyair havyakarma vidhīyate. apasavyam amaṅgalyaiḥ kavyaṃ cāpi vidhīyate. sadevāsuragandharvāḥ pitṝn abhyarcayanti ca. āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti tān. aniṣṭvā ca pitṝn pūrvaṃ yaḥ kriyāṃ prakaroti cet. rakṣāṃsi ca piśācāś ca phalaṃ bhokṣyanti tasya tat. havyakavyakriyā tasmāt kartavyā bhuvi mānavaiḥ. karmakṣetraṃ hi mānuṣyaṃ tad anyatra na vidyate. kavyena saṃtatir dṛṣṭā havye bhūtiḥ pṛthagvidhā. umā. iti te kathitaṃ devi devaguhyaṃ sanātanam. evaṃ kṛtasya dharmasya śrotum icchāmy ahaṃ prabho. maheśvaraḥ. pramāṇaṃ phalamānānāṃ tan me śaṃsitum arhasi. pramāṇakalpanāṃ devi dānasya śṛṇu bhāmini. yatsāras tu naro loke tad dānaṃ cottamaṃ smṛtam. sarvadānavidhiṃ prāhus tad eva bhuvi śobhane. prasthaṃ sāraṃ daridrasya śataṃ koṭidhanasya ca. prasthasāras tu tat prasthaṃ dadan mahad avāpnuyāt. koṭisāras tu tāṃ koṭiṃ dadan mahad avāpnuyāt. ubhayaṃ tan mahat tac ca phalenaiva samaṃ smṛtam. dharmārthakāmabhogeṣu śakyabhāvaṃ tu madhyamam. svadravyād atihīnaṃ tu tad dānam adhamaṃ smṛtam. śṛṇu dattasya vai devi pañcadhā phalakalpanam. ānantyaṃ ca mahac caiva samaṃ hīnaṃ ca pātakam. teṣāṃ viśeṣān vakṣyāmi śṛṇu devi samāhitā. dustyajasya ca vai dānaṃ pātra ānantyam ucyate. dānaṃ ṣaḍguṇayuktaṃ tu mahad ity abhidhīyate. yathāśraddhaṃ tu vai dānaṃ yathārhaṃ samam ucyate. guṇatas tu tathā hīnaṃ dānaṃ hīnam iti smṛtam. dānaṃ pātakam ity āhuḥ ṣaḍguṇānāṃ viparyaye. devaloke mahat kālam ānantyasya phalaṃ viduḥ. mahatas tu tathā dānaṃ svargaloke tu pūjyate. samasya tu tathā dānaṃ mānuṣaṃ bhogam āvahet. dānaṃ niṣphalam ity āhur vihīnaṃ kriyayā śubhe. atha vā mlecchadeśeṣu tatra tatphalatāṃ vrajet. umā. narakaṃ pretya tiryakṣu gacched aśubhadānataḥ. maheśvaraḥ. aśubhasyāpi dānasya śubhaṃ syāc ca phalaṃ katham. manasā tattvataḥ śuddham anṛśaṃsapuraḥsaram. prītyā tu sarvadānāni dattvā phalam avāpnuyāt. rahasyaṃ sarvadānānām etad viddhi śubhekṣaṇe. anyāni sarvakāryāṇi śṛṇu sadbhiḥ kṛtāni ca. ārāmaṃ devagoṣṭhāni saṃkramāḥ kūpa eva ca. govāṭaṃ ca taṭākaṃ ca sabhāḥ śālāś ca sarvaśaḥ. bhikṣukāvasathāś caiva pānīyaṃ gotṛṇāni ca. vyādhitānāṃ ca bhaiṣajyam anāthānāṃ ca bhojanam. anāthaśavasaṃskāras tīrthamārgaviśodhanam. vyasanābhyavapattiś ca sarveṣāṃ ca svaśaktitaḥ. etat sarvaṃ samāsena dharmakāryam iti smṛtam. tat kartavyaṃ manuṣyeṇa svaśaktyā śraddhayā śubhe. pretyabhāve labhet puṇyaṃ nāsti tatra vicāraṇā. rūpaṃ saubhāgyam ārogyaṃ balaṃ saukhyaṃ labhen naraḥ. umā. svarge vā mānuṣe vāpi tais tair āpyāyate hi saḥ. bhagavaṃl lokapāleśa dharmas tu katibhedakaḥ. dṛśyate caritaḥ sadbhis tan me śaṃsitum arhasi. maheśvaraḥ. śṛṇu devi samuddeśān nānātvaṃ dharmasaṃkaṭe. dharmā bahuvidhā loke śrutā vedamukhodbhavāḥ. smṛtidharmaś ca bahudhā sadbhir ācāra iṣyate. deśadharmāś ca dṛśyante kuladharmās tathaiva ca. jātidharmāś ca vai dharmā gaṇadharmāś ca śobhane. śarīrakālavaiṣamyād āpaddharmaś ca dṛśyate. etad dharmasya nānātvaṃ kriyate lokavāsibhiḥ. kāraṇāt tatra tatraiva phalaṃ dharmasya ceṣyate. tatkāraṇasamāyoge labhet kurvan phalaṃ naraḥ. anyathā na labhet puṇyam atadarhaḥ samādiśan. evaṃ dharmasya nānātvaṃ phalaṃ kurvaṃl labhen naraḥ. śrautaḥ smārtas tu dharmāṇāṃ prākṛto dharma ucyate. umā. iti te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi. bhagavan sarvabhūteśa tripurārdana śaṃkara. śrutaṃ pāpakṛtaṃ duḥkhaṃ yamaloke varaprada. śrotum icchāmy ahaṃ deva nṛṇāṃ sukṛtakarmaṇām. kathaṃ te bhuñjate lokān svargaloke maheśvara. kathitāḥ kīdṛśā lokā nṛṇāṃ sukṛtakāriṇām. maheśvaraḥ. etan me vada deveśa śrotuṃ kautūhalaṃ hi me. śṛṇu kalyāṇi tat sarvaṃ yat tvam icchasi bhāmini. vividhāḥ puṇyalokās te karmākarmaṇyatāṃ gatāḥ. meruṃ hi kanakātmānaṃ paritaḥ sarvatodiśam. bhadrāśvaḥ ketumālaś ca uttarāḥ kuravas tathā. jambūvanādayaḥ svargā ity ete karmavarjitāḥ. teṣu bhogāḥ svayaṃbhūtāḥ pradṛśyante yatas tataḥ. yojanānāṃ sahasraṃ tu ekaikaṃ mānamātrayā. nityapuṣpaphalopetās tatra vṛkṣāḥ samantataḥ. āsaktavastrābharaṇāḥ sarve kanakasaṃnibhāḥ. dvirephāś cāṇḍajās tatra pravālamaṇisaṃnibhāḥ. vicitrāś ca manojñāś ca kūjitaiḥ śobhayanti tān. kuśeśayavanaiś channā nalinyaś ca manoramāḥ. tatra vānty anilā nityaṃ divyagandhāḥ sukhāvahāḥ. sarve cāmlānamālyāś ca virajombarasaṃvṛtāḥ. evaṃ bahuvidhā devi divi bhogāḥ sukhāvahāḥ. striyaś ca puruṣāś caiva sarve sukṛtakāriṇaḥ. ramante tatra cānyonyaṃ kāmarāgasamanvitāḥ. divyabhūṣaṇasaṃyuktā divyagandhasamanvitāḥ. manoramā mahābhāgāḥ sarve lalitakuṇḍalāḥ. evaṃ tatragatā martyāḥ pramadāḥ priyadarśanāḥ. nānābhāvasamāyuktā yauvanasthāḥ sadaiva tu. kamanīyāḥ kāmayutāḥ kāmajñā lalitās tathā. manonukūlā madhurā bhoginām upakalpitāḥ. pramadāś codbhavanty eva svargaloke yathā tathā. evaṃvidhāḥ striyaś cātra puruṣāś ca parasparam. ramante cendriyaiḥ svasthaiḥ śarīrair bhogasaṃskṛtaiḥ. kāmaharṣau guṇāv āstāṃ nānye krodhādayaḥ priye. kṣut pipāsā na cāsty atra gātrakleśāś ca śobhane. sarvato ramaṇīyaś ca sarvartukusumānvitam. yāvat puṇyaphalaṃ tāvad ramante tatra saṃgatāḥ. nirantaraṃ bhogayutā ramante svargavāsinaḥ. tatra bhogān yathāyogaṃ bhuktvā puṇyakṣayāt punaḥ. naśyanti jāyamānās te śarīraiḥ sahasā priye. svargalokāt paribhraṣṭā jāyante mānuṣe punaḥ. pūrvapuṇyāvaśeṣeṇa viśiṣṭāḥ saṃbhavanti te. eṣā svargagatiḥ proktā pṛcchantyās tava bhāmini. ata ūrdhvaṃ padāny aṣṭau karmaṇyāni śṛṇu priye. bhogayuktāni puṇyāni ucchritāni parasparam. vidyādharāḥ kiṃpuruṣā yakṣagandharvakiṃnarāḥ. apsaro dānavā devā yathākramam udāhṛtāḥ. teṣu sthāneṣu jāyante prāṇinaḥ puṇyakarmiṇaḥ. teṣām api ca ye lokāḥ svargalokopamāḥ smṛtāḥ. svargavat tatra te bhogān bhuñjate ca ramanti ca. rūpasattvabalopetāḥ sarve dīrghāyuṣas tathā. teṣāṃ sarvakriyārambho mānuṣeṣv eva dṛśyate. atimānuṣam āścaryam astramāyābalātkṛtam. jarāprasūtimaraṇaṃ teṣu sthāneṣu dṛśyate. guṇadoṣāś ca santy atra ākāśagamanaṃ tathā. antardhānaṃ balaṃ sarvam āyuś ca cirajīvanam. tapoviśeṣāj jāyante teṣāṃ karmāṇi bhāmini. devalokapravṛttis tu teṣām eva vidhīyate. na tathā devaloko hi tadviśiṣṭāḥ surāḥ smṛtāḥ. tatra bhogam anirdeśyam amṛtatvaṃ ca vidyate. vimānagamanaṃ nityam apsarogaṇasevitam. evam anyac ca tat karma daivatebhyo viśiṣyate. pratyakṣaṃ tava tat sarvaṃ devalokapravartanam. tasmān na varṇaye devi viditaṃ hi tvayā śubhe. umā. tat sarvaṃ sukṛtenaiva prāpyate cottamaṃ padam. mānuṣeṣv eva jīvatsu gatir vijñāyate na vā. ayaṃ śubhagatir jīvann asau tv aśubhabhāg iti. maheśvaraḥ. etad icchāmy ahaṃ śrotuṃ tan me śaṃsitum arhasi. tad ahaṃ te pravakṣyāmi jīvatāṃ vidyate yathā. dvividhāḥ prāṇino loke daivāsurasamāśritāḥ. manasā karmaṇā vācā pratikūlā bhavanti ye. tādṛśān āsurān viddhi martyās te narakālayāḥ. rāgadveṣayutā ye tu nirlajjā nirapatrapāḥ. darpāhaṃkārasaṃyuktā narā narakagāminaḥ. nāstikāś ca śaṭhā ghorāḥ pareṣām upatāpinaḥ. yatheṣṭavṛttayaś caiva narā narakagāminaḥ. duṣpratītamanā yas tu calacitto nirākṛtiḥ. śiśnodararatir mūḍho nirayaṃ yāti so 'dhamaḥ. māṃsapānapriyā nityaṃ kaṭhorā nīcavṛttayaḥ. tādṛśān āsurān viddhi sarve te narakālayāḥ. hiṃsāvihārā ye nityaṃ nirdayāḥ prāṇināśane. svadharmavimukhāś caiva parasveṣv abhikāṅkṣiṇaḥ. yuddhamātsaryasaṃyuktā grāmyabhogaparāyaṇāḥ. tādṛśān āsurān viddhi narān narakagāminaḥ. darpotsekasamāyuktā mūrkhās tattvabahiṣkṛtāḥ. śrutividveṣiṇo nityaṃ te narā narakālayāḥ. nityaṃ vadanti ye mohād anṛtaṃ kaṭukaṃ vacaḥ. kṛtaghnāḥ piśunā ghorā bhavanti narakālayāḥ. hiṃsrāś corāś ca dhūrtāś ca paradārābhimarśinaḥ. nīcakarmakarā ye ca śaucamaṅgalavarjitāḥ. śrutividveṣiṇaḥ pāpā lokacāritradūṣakāḥ. evaṃyuktasamācārā jīvanto narakālayāḥ. lokodvegakarāś cānye paśavaś ca sarīsṛpāḥ. vṛkṣāḥ kaṇṭakino rūkṣās tādṛśān viddhi cāsurān. aparān devapakṣāṃs tu śṛṇu devi samāhitā. manovākkarmabhir nityam anukūlā bhavanti ye. tādṛśān amarān viddhi te narāḥ svargagāminaḥ. śaucārjavaparādhīnāḥ parārthaṃ na haranti ye. ye samāḥ sarvabhūteṣu te narāḥ svargagāminaḥ. bhayād vā vṛttihetor vā anṛtaṃ na bruvanti ye. satyaṃ vadanti satataṃ te narāḥ svargagāminaḥ. dhārmikāḥ śaucasaṃpannāḥ śuklā madhurabhāṣiṇaḥ. nākāryaṃ manasecchanti te narāḥ svargagāminaḥ. daridrā api ye ke cid yācitāḥ prītipūrvakam. dadaty eva ca yat kiṃ cit te narāḥ svargagāminaḥ. āstikā maṅgalaparāḥ satataṃ vṛddhasevinaḥ. puṇyakarmaparā nityaṃ te narāḥ svargagāminaḥ. svaduḥkham iva manyante pareṣāṃ duḥkhavedanām. śaktyā cābhyavapadyante te narāḥ svargagāminaḥ. vratino dānaśīlāś ca sukhaśīlāś ca mānavāḥ. ṛjavo mṛdavo nityaṃ te narāḥ svargagāminaḥ. guruśuśrūṣaṇaparā devabrāhmaṇapūjakāḥ. kṛtajñāḥ kṛtavidyāś ca te narāḥ svargagāminaḥ. jitendriyā jitakrodhā jitamānamadaspṛhāḥ. lobhamātsaryahīnā ye te narāḥ svargagāminaḥ. nirmamā nirahaṃkārāḥ svānukrośāḥ svabandhuṣu. dīnānukampino nityaṃ te narāḥ svargagāminaḥ. aihikena tu vṛttena pāratram anumīyate. evaṃvidhā narā loke jīvantaḥ svargagāminaḥ. yad anyac ca śubhaṃ loke prajānugrahakāri ca. paśavaś caiva vṛkṣāś ca prajānāṃ hitakāriṇaḥ. tādṛśān devapakṣasthān iti viddhi śubhānane. śubhāśubhamayaṃ loke sarvaṃ sthāvarajaṅgamam. umā. daivaṃ śubham iti prāhur āsuraṃ hy aśubhaṃ priye. bhagavan mānuṣāḥ ke cit kāladharmam upasthitāḥ. prāṇamokṣaṃ kathaṃ kṛtvā paratra hitam āpnuyuḥ. maheśvaraḥ. hanta te kathayiṣyāmi śṛṇu devi samāhitā. dvividhaṃ maraṇaṃ loke svabhāvād yatnatas tathā. tayoḥ svabhāvaṃ nopāyaṃ yatnajaṃ kāraṇodbhavam. etayor ubhayor devi vidhānaṃ śṛṇu śobhane. kalyākalyaśarīrasya yatnajaṃ dvividhaṃ smṛtam. yatnajaṃ nāma maraṇam ātmatyāgo mumūrṣayā. tatrākalyaśarīrasya jarā vyādhiś ca kāraṇam. mahāprasthānagamanaṃ tathā prāyopaveśanam. jalāvagāhanaṃ caiva agnicityāpraveśanam. evaṃ caturvidhaḥ prokta ātmatyāgo mumūrṣatām. eteṣāṃ kramayogena vidhānaṃ śṛṇu śobhane. svadharmayuktaṃ gārhasthyaṃ ciram ūḍhvā vidhānataḥ. tatrānṛṇyaṃ ca saṃprāpya vṛddho vā vyādhito 'pi vā. darśayitvā svadaurbalyaṃ sarvān evānumānya ca. saṃvidhāya svabandhūṃś ca karmaṇāṃ bharaṇaṃ tathā. dānāni vidhivat kṛtvā dharmakāryārtham ātmanaḥ. anujñāpya janaṃ sarvaṃ vācā madhurayā bruvan. ahataṃ vastram ācchādya baddhvā tat kuśarajjunā. upaspṛśya pratijñāya vyavasāyapuraḥsaram. parityajya tato grāmaṃ paścāt kuryād yathepsitam. mahāprasthānam icchec cet pratiṣṭhetottarāṃ diśam. bhūtvā tāvan nirāhāro yāvat prāṇavimokṣaṇam. ceṣṭāhānau śayitvāpi tanmanāḥ prāṇam utsṛjet. evaṃ puṇyakṛtāṃ lokān amalān pratipadyate. prāyopaveśanaṃ cecchet tenaiva vidhinā naraḥ. deśe puṇyatame śreṣṭhe nirāhāras tu saṃviśet. āprāṇāntaṃ śucir bhūtvā kurvan dānaṃ svaśaktitaḥ. hariṃ smaraṃs tyajet prāṇān eṣa dharmaḥ sanātanaḥ. evaṃ kalevaraṃ tyaktvā svargaloke mahīyate. agnipraveśanaṃ cecchet tenaiva vidhinā śubhe. kṛtvā kāṣṭhamayaṃ cityaṃ puṇyakṣetre nadīṣu vā. daivatebhyo namaskṛtya kṛtvā cāgniṃ pradakṣiṇam. bhūtvā śucir vyavasitaḥ praviśed agnisaṃstaram. so 'pi lokān yathānyāyaṃ prāpnuyāt puṇyakarmaṇām. jalāvagāhanaṃ cecchet tenaiva vidhinā śubhe. khyāte puṇyatame tīrthe nimajjet svakṛtaṃ smaran. so 'pi puṇyakṛtāṃ lokān nisargāt pratipadyate. tataḥ kalyaśarīrasya saṃtyāgaṃ śṛṇu tattvataḥ. rakṣārthaṃ kṣatriyasyeṣṭaḥ prajāpālanakāraṇāt. yodhānāṃ bhartṛpiṇḍārthaṃ gurvarthaṃ brahmacāriṇām. gobrāhmaṇārthaṃ grāmārthaṃ sarveṣāṃ ca vidhīyate. svarāṣṭrarakṣaṇārthaṃ vā kunṛpaiḥ pīḍitāḥ prajāḥ. moktukāmas tyajet prāṇān yuddhamārge yathāvidhi. susaṃnaddho vyavasitaḥ saṃpraviśyāparāṅmukhaḥ. evaṃ rājā mṛtaḥ sadyaḥ svargaloke mahīyate. tādṛśī sugatir nāsti kṣatriyasya viśeṣataḥ. bhṛtyo vā bhartṛpiṇḍārthaṃ bhartṛkarmaṇy upasthite. kurvaṃs tatra tu sāhāyyam ātmaprāṇānapekṣayā. svāmyarthaṃ saṃtyajet prāṇān puṇyāṃl lokān sa gacchati. spṛhaṇīyaḥ suragaṇais tatra nāsti vicāraṇā. evaṃ gobrāhmaṇārthaṃ vā dīnārthaṃ vā tyajet tanum. so 'pi puṇyam avāpnoti ānṛśaṃsyavyapekṣayā. ity ete jīvitatyāge mārgās te samudāhṛtāḥ. kāmāt krodhād bhayān mohād yadi cet saṃtyajet tanum. so 'nantaṃ narakaṃ yāti ātmahantṛtvakāraṇāt. svabhāvamaraṇaṃ nāma na tu cātmecchayā bhavet. tathā mṛtānāṃ yat kāryaṃ tan me śṛṇu yathāvidhi. tatrāpi bodhasaṃtyāgān mūḍhatyāgo viśiṣyate. bhūmau saṃveśayed dehaṃ narasya vinaśiṣyataḥ. nirjīvaṃ vṛṇuyāt sadyo vāsasā tu kalevaram. mālyagandhair alaṃkṛtya suvarṇena ca bhāmini. śmaśāne dakṣiṇe deśe citāgnau pradahen mṛtam. atha vā nikṣiped bhūmau śarīraṃ jīvavarjitam. divā ca śuklapakṣaś ca uttarāyaṇam eva ca. mumūrṣūṇāṃ praśastāni viparītaṃ tu garhitam. audakaṃ cāṣṭakāśrāddhaṃ bahubhir bahuśaḥ kṛtam. āpyāyanaṃ mṛtānāṃ tat paraloke bhavec chubham. etat sarvaṃ mayā proktaṃ mānuṣāṇāṃ hitāya ca. umā. devadeva namas te 'stu kālasūdana śaṃkara. lokeṣu vividhā dharmās tvatprasādān mayā śrutāḥ. viśiṣṭaṃ sarvadharmebhyaḥ śāśvataṃ dhruvam avyayam. śrotum icchāmy ahaṃ dharmaṃ tatra muhyati me manaḥ. ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ. vānaprasthaṃ punaḥ ke cid gārhasthyaṃ ke cid āśramam. rājadharmāśrayaṃ ke cit ke cit svādhyāyam eva ca. brahmacaryāśramaṃ ke cit ke cid vāksaṃyamāśrayam. mātaraṃ pitaraṃ ke cit sevamānā divaṃ gatāḥ. ahiṃsayāparaḥ svarge satyena ca mahīyate. āhave 'bhimukhāḥ ke cin nihatās tridivaṃ gatāḥ. ke cid uñchavrate siddhāḥ svargamārgaṃ samāśritāḥ. ārjavenāpare yuktā hatāś cānārjavair janaiḥ. ṛjavo nākapṛṣṭhe tu śuddhātmānaḥ pratiṣṭhitāḥ. evaṃ bahuvidhair loke dharmadvāraiḥ susaṃvṛtaiḥ. mamāpi matir āviddhā meghalekheva vāyunā. etasmin saṃśayasthāne saṃśayacchedakāri yat. nāradaḥ. vacanaṃ brūhi deveśa niścayajñānasaṃjñitam. evaṃ pṛṣṭaḥ svayaṃ devyā mahādevaḥ pinākadhṛk. provāca madhuraṃ vākyaṃ sūkṣmam adhyātmasaṃjñitam. maheśvaraḥ. nyāyatas tvaṃ mahābhāge śrotukāmāsi niścayam. etad eva viśiṣṭaṃ te yat tvaṃ pṛcchasi māṃ priye. sarvatra vihito dharmaḥ svargalokaphalāśritaḥ. bahudvārasya dharmasya nehāsti viphalā kriyā. yasmin yasmiṃś ca viṣaye yo yo yāti viniścayam. taṃ tam evābhijānāti nānyaṃ dharmaṃ śucismite. śṛṇu devi samāsena mokṣajñānam anuttamam. etad dhi sarvadharmāṇāṃ viśiṣṭaṃ guhyam avyayam. nāsti mokṣāt paraṃ devi mokṣa eva parā gatiḥ. sukham ātyantikaṃ śreṣṭham anivarti ca tad viduḥ. nātra devi jarāmṛtyū śoko vā duḥkham eva vā. anuttamam acintyaṃ ca tad devi paramaṃ sukham. jñānānām uttamaṃ jñānaṃ mokṣajñānaṃ vidur budhāḥ. ṛṣibhir devasaṃghaiś ca procyate paramaṃ padam. nityam akṣaram akṣobhyam ajaraṃ śāśvataṃ śivam. uśanti tat padaṃ prājñāḥ spṛhaṇīyaṃ surāsuraiḥ. duḥkhādi ca durantaṃ ca saṃkṣayaṃ ca virodhi ca. mithaḥ satatakāryaṃ ca trivargaṃ sukham ucyate. tasmān mokṣaḥ pradhānas tu trivargāc ca viśeṣataḥ. mokṣasya tasya mārgo 'yaṃ śrūyatāṃ śubhalakṣaṇe. brahmādisthāvarāntaś ca saṃsāro 'yaṃ pravartate. śokavyādhijarādoṣair maraṇena ca saṃyutaḥ. yathā jyotirgaṇā vyomni nivartante punaḥ punaḥ. saṃsāre prāṇinaḥ sarve nivartante tathā punaḥ. tatra saṃsāracakrasya mokṣo jñānena dṛśyate. adhyātmatattvavijñānaṃ jñānam ity abhidhīyate. jñānasya grahaṇopāyam ācāraṃ jñāninas tathā. yathāvat saṃpravakṣyāmi tattvam ekamanāḥ śṛṇu. brāhmaṇaḥ kṣatriyo vāpi bhūtvā pūrvaṃ gṛhe sthitaḥ. ānṛṇyaṃ sarvataḥ prāpya tatas tān saṃtyajed gṛhān. tataḥ saṃtyajya gārhasthyaṃ niścito vanam āśrayet. vane gurusamājñāto dīkṣeta vidhipūrvakam. dīkṣāṃ prāpya yathānyāyaṃ svavṛttaṃ paripālayet. gṛhṇīyād apy upādhyāyān mokṣajñānam atandritaḥ. dvividhaś ca punar mokṣaḥ sāṃkhyo yoga iti smṛtaḥ. pañcaviṃśativijñānaṃ sāṃkhyam ity abhidhīyate. aiśvaryaṃ devasāyujyaṃ yogaśāstrasya nirṇaye. tayor anyataraṃ jñānaṃ śṛṇuyāc chiṣyatāṃ gataḥ. nāmuṇḍo nāpy akāṣāyī nāpy asaṃvatsaroṣitaḥ. sāṃkhyayogau na ca śrāvyau guruṇā snehapūrvakam. samaḥ śītoṣṇaharṣādīn viṣaheta sadā muniḥ. adhṛṣyaḥ kṣutpipāsābhyāṃ bhavej jñānasamādhinā. na kurvītānyam ārambham anivedya svakaṃ gurum. chāyābhūto 'parityāgī nityam eva bhaved gurau. indriyāṇīndriyārthebhya ucitebhyo nivartayet. tyajet saṃkalpajān granthīn sadā dhyānaparo bhavet. kuṇḍikāṃ carma saṃśikyaṃ chatraṃ yaṣṭim upānahau. cailam ity eva naiteṣu sthāpayet svāmyam ātmanaḥ. guroḥ pūrvaṃ samuttiṣṭhej jaghanyaṃ tasya saṃviśet. nānanujñāpya bhartāram āvaśyakam api vrajet. dvir ahnaḥ snānaśāṭena saṃdhyayor abhiṣecanam. ekakālāśanaṃ cāsya vihitaṃ yatibhiḥ purā. bhaikṣaṃ sarvatra gṛhṇīyāc cintayet satataṃ niśi. kāraṇe cāpi saṃprāpte na kupyeta kadā cana. brahmacaryaṃ vane vāsaḥ śaucam indriyasaṃyamaḥ. dayā ca sarvabhūteṣu tasya dharmaḥ sanātanaḥ. vimuktaḥ sarvapāpebhyo laghvāhāro jitendriyaḥ. ātmayuktaḥ parāṃ buddhiṃ labhate pāpanāśinīm. yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam. karmaṇā manasā vācā brahma saṃpadyate tadā. anīrṣyur anahaṃkāro vimuktaḥ sarvabandhanaiḥ. brāhmaṃ padam avāpnoti yat prāpya na nivartate. ubhe satyānṛte tyaktvā śokānandau bhayābhaye. priyāpriye parityajya brahmabhūyāya kalpate. nirmamo nirahaṃkāro nirdvaṃdvo vītamatsaraḥ. vītaśokabhayābādhaḥ padaṃ prāpnoty anuttamam. tulyanindāstutir maunī samaloṣṭāśmakāñcanaḥ. samaḥ śatrau ca mitre ca nirvāṇam adhigacchati. evaṃyuktasamācāras tatparo 'dhyātmacintakaḥ. maheśvaraḥ. jñānābhyāsena tenaiva prāpnoti paramāṃ gatim. anudvignamater jantor asmin saṃsāramaṇḍale. śokavyādhijarāduḥkhe nirvāṇaṃ nopapadyate. tasmād udvegajananaṃ manovasthāpanaṃ tathā. jñānaṃ te saṃpravakṣyāmi tanmūlam amṛtaṃ hi vai. śokasthānasahasrāṇi bhayasthānaśatāni ca. divase divase mūḍham āviśanti na paṇḍitam. naṣṭe dhane vā dāre vā putre pitari vā mṛte. aho duḥkham iti dhyāyañ śokasya padam āvrajet. dravyeṣu samatīteṣu ye guṇās tān na cintayet. tān anādriyamāṇasya śokabandhaḥ praṇaśyati. saṃprayogād aniṣṭasya viprayogāt priyasya ca. mānuṣā mānasair duḥkhaiḥ saṃyujyante 'lpabuddhayaḥ. mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati. saṃtāpena ca yujyeta tac cāsya na nivartate. utpanne tv iha mānuṣye garbhaprabhṛti mānavam. vividhāny upavartante duḥkhāni ca sukhāni ca. tayor ekataro mārgo yady enam abhisaṃnamet. sukhaṃ prāpya na saṃhṛṣyed duḥkhaṃ prāpya na saṃjvaret. doṣadarśī bhavet tatra yatra snehaḥ pravartate. aniṣṭenānvitaṃ paśyed yathā kṣipraṃ virajyate. yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau. sametya ca vyapeyātāṃ tadvaj jñātisamāgamaḥ. adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ. snehas tatra na kartavyo viprayogo hi tair dhruvam. kuṭumbaṃ putradāraṃ ca śarīraṃ dhanasaṃcayaḥ. pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛte. putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ. saraḥpaṅkārṇave magnā jīrṇā iva mahāgajāḥ. mātāpitṛsahasrāṇi putradāraśatāni ca. asaṃkhyeyāny atītāni tathaivānāgatāni ca. na teṣāṃ ca mayā kāryaṃ na kāryaṃ mama tair api. atītam anatītaṃ tad iti paśyan na muhyati. duḥkhopaghāte śārīre mānase vā samutthite. yasmin na śakyate kartuṃ yatnāt tan nānucintayet. yannimittaṃ bhavec chokas trāso vā duḥkham eva vā. āyāso vā yatomūlas tad ekāṅgam api tyajet. anityaṃ yauvanaṃ rūpaṃ jīvitaṃ ratnasaṃcayaḥ. aiśvaryaṃ svasthatā ceti na muhyet tatra paṇḍitaḥ. sukham ekāntato nāsti śakrasyāpi triviṣṭape. tatrāpi sumahad duḥkhaṃ sukham alpataraṃ bhavet. na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham. sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham. kṣayāntā nicayāḥ sarve patanāntāḥ samucchrayāḥ. saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam. ucchrayān vinipātāṃś ca dṛṣṭvā pratyakṣataḥ svayam. anityam asukhaṃ ceti vyavasyet sarvam eva ca. arthānām ārjane duḥkham ārjitānāṃ ca rakṣaṇe. nāśe duḥkhaṃ vyaye duḥkhaṃ dhig arthaṃ duḥkhabhājanam. arthavantaṃ naraṃ nityaṃ pañca nighnanti śatravaḥ. rājataskaradāyādā bhūtāni kṣaya eva ca. artha eva hy anarthasya mūlam ity avadhāraya. na hy anarthāḥ prabādhante naram arthavivarjitam. arthaprāptir mahad duḥkham ākiṃcanyaṃ paraṃ sukham. upadraveṣu cārthānāṃ duḥkhaṃ hi niyataṃ bhavet. dhanalābhena tṛṣṇāyā na tṛptir upalabhyate. labdhvā bhūyo vivardheta samidbhir iva pāvakaḥ. jitvāpi pṛthivīṃ kṛtsnāṃ catuḥsāgaramekhalām. sāgarāṇāṃ punaḥ pāraṃ jetum icchaty asaṃśayam. alaṃ parigraheṇeha doṣavān hi parigrahaḥ. kośakāraḥ kṛmir devi badhyate hi parigrahāt. ya ekāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ca. ekasminn eva rāṣṭre tu sa cāpi nivasen nṛpaḥ. tasmin rāṣṭre 'pi nagaram ekam evādhitiṣṭhati. nagare 'pi gṛhaṃ caikaṃ bhavet tasya niveśanam. eka eva pratiṣṭhā syād āvāsaṃ tadgṛhe 'pi ca. āvāse śayanaṃ caikaṃ niśi yatra pralīyate. śayanasyārdham evāsya striyās tv ardhaṃ vidhīyate. tad anena prasaṅgena svalpenaiva hi yujyate. sarvaṃ mameti saṃmūḍho janaḥ paśyati bāliśaḥ. evaṃ sarvopabhogeṣu svalpam asya prayojanam. taṇḍulaprasthamātreṇa yātrā syāt sarvadehinām. tato bhūyastaro bhāgo duḥkhāya patanāya ca. nāsti tṛṣṇāsamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham. sarvān kāmān parityajya brahmabhūyāya kalpate. yā dustyajā durmatibhir yā na jīryati jīryataḥ. yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham. na jātu kāmaḥ kāmānām upabhogena śāmyati. haviṣā kṛṣṇavartmeva bhūya evābhivardhate. alābheneha kāmānāṃ kāmāṃs tyajati paṇḍitaḥ. āyāsavikaṭas tīvraḥ kāmāgnis tarṣaṇāraṇiḥ. indriyārtheṣu saṃmohāt pacaty akuśalaṃ janam. yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ. nālam ekasya paryāptam iti paśyan na muhyati. yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham. tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām. indriyāṇīndriyārtheṣu naiva dhīro niyojayet. manaḥṣaṣṭhāni saṃyamya nityam ātmani yojayet. indriyāṇāṃ visargeṇa doṣam ṛcchaty asaṃśayam. saṃniyamya tu tāny eva tataḥ siddhim avāpnuyāt. ṣaṇṇām ātmani yuktānām aiśvaryaṃ yo 'dhigacchati. na sa pāpair na cānarthaiḥ saṃyujyeta vicakṣaṇaḥ. apramattaḥ sadā rakṣed indriyāṇi vicakṣaṇaḥ. arakṣiteṣu teṣv āśu naro narakam eti hi. hṛdi kāmamayaś citro mohasaṃcayasaṃbhavaḥ. ajñānarūḍhamūlas tu vidhitsāpariṣecanaḥ. roṣalobhamahāskandhaḥ purāduṣkṛtasāravān. āyāsaviṭapas tīvraḥ śokapuṣpo bhayāṅkuraḥ. nānāsaṃkalpapatrāḍhyaḥ pramādaparivardhitaḥ. mahatībhiḥ pipāsābhiḥ samantāt parivardhitaḥ. saṃrohaty akṛtaprajñaḥ pādapaḥ kāmasaṃbhavaḥ. naiva rohati tattvajñe rūḍho vā chidyate punaḥ. kṛcchropāyeṣv anityeṣu niḥsāreṣu caleṣu ca. duḥkhādiṣu duranteṣu kāmabhogeṣu kā ratiḥ. yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaś ca sevitaḥ. tena sarvam idaṃ dṛṣṭaṃ punarāvartakaṃ jagat. bhogā bhuktā manuṣyeṇa svapnā iva bhavanti te. svapnopabhogatulyeṣu kāmabhogeṣu kā ratiḥ. indriyeṣu ca jīryatsu chidyamāne tathāyuṣi. purastāc ca sthite mṛtyau kiṃ sukhaṃ paśyataḥ śubhe. vyādhibhiḥ pīḍyamānasya nityaṃ śārīramānasaiḥ. narasyākṛtakṛtyasya kiṃ sukhaṃ bhavati priye. saṃcinvānakam evārthaṃ kāmānām avitṛptakam. vyāghraḥ paśum ivāraṇye mṛtyur ādāya gacchati. janmamṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ. umā. saṃsāre pacyamānas tu pāpān nodvijate janaḥ. kenopāyena martyānāṃ nivartete jarāntakau. yady asti bhagavan mahyam etad ācakṣva māciram. tapasā vā sumahatā karmaṇā vā śrutena vā. maheśvaraḥ. rasāyanaprayogair vā kenātyeti jarāntakau. naitad asti mahābhāge jarāmṛtyunivartanam. sarvalokeṣu jānīhi mokṣād anyatra bhāmini. na dhanena na rājyena nogreṇa tapasāpi vā. maraṇaṃ nātivartante vinā muktyā śarīriṇaḥ. aśvamedhasahasreṇa vājapeyaśatena ca. na taranti jarāmṛtyū nirvāṇādhigamād vinā. aiśvaryaṃ dhanadhānyaṃ ca vidyā lābhas tapas tathā. rasāyanaprayogaś ca na taranti jarāntakau. dānayajñatapaḥśīlā rasāyanavido 'pi vā. svādhyāyaniratā vāpi na taranti jarāntakau. devadānavagandharvakiṃnaroragarākṣasān. svavaśe kurute kālo na kālasyāsty agocaraḥ. na hy ahāni nivartante na māsā na punaḥ kṣapāḥ. so 'yaṃ prapadyate 'dhvānam ajasraṃ dhruvam avyayam. sravanti na nivartante srotāṃsi saritām iva. āyur ādāya martyānām ahorātrāṇi saṃtatam. jīvitaṃ sarvabhūtānām akṣayaḥ kṣapayann asau. ādityo hy astam abhyeti punaḥ punar udeti ca. yasyāṃ rātryāṃ vyatītāyām āyur alpataraṃ bhavet. gādhodake matsya iva kiṃ nu tasya kumāratā. maraṇaṃ hi śarīrasya niyataṃ dhruvam eva ca. tiṣṭhann eva kṣaṇaṃ sarvaḥ kālasyaiti vaśaṃ punaḥ. na mriyeran na jīryeran yadi syuḥ sarvadehinaḥ. na cāniṣṭaṃ pravarteta śoko vā prāṇināṃ kva cit. apramattaḥ pramatteṣu kālo bhūteṣu tiṣṭhati. apramattasya kālasya kṣayaṃ prāpto na mucyate. śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam. ko hi tad veda yatrāsau mṛtyunā nābhivīkṣitaḥ. varṣāsv idaṃ kariṣyāmi idaṃ grīṣmavasantayoḥ. iti bālaś cintayati antarāyaṃ na budhyate. idaṃ me syād idaṃ me syād ity evaṃmanaso narāḥ. anavāpteṣu kāmeṣu hriyante maraṇaṃ prati. kālapāśena baddhānām ahany ahani jīryatām. kā śraddhā prāṇināṃ mārge viṣame bhramatāṃ sadā. yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam. phalānām iva pakvānāṃ sadā hi patanād bhayam. martyasya kim u tair dāraiḥ putrair bhogaiḥ priyair api. ekāhnā sarvam utsṛjya mṛtyor hi vaśam eyivān. jāyamānāṃś ca saṃprekṣya mriyamāṇāṃs tathaiva ca. na saṃvego 'sti cet puṃsaḥ kāṣṭhaloṣṭasamo hi saḥ. vināśino hy adhruvajīvitasya. kiṃ bandhubhir mitraparigrahaiś ca. vihāya yad gacchati sarvam eva. kṣaṇena gatvā na nivartate ca. evaṃ cintayato nityaṃ sarvārthānām anityatām. udvego jāyate nityaṃ nirvāṇasya puraḥsaraḥ. tenodvegena cāpy asya vimarśo jāyate punaḥ. vimarśenātha vairāgyaṃ sarvatrāsyopajāyate. vairāgyeṇa parāṃ śāntiṃ labhante mānavāḥ śubhe. mokṣasyopaniṣad devi vairāgyam iti kīrtitam. etat te kathitaṃ devi vairāgyotpādanaṃ vacaḥ. maheśvaraḥ. etat sarvaṃ hi saṃcintya mucyante hi mumukṣavaḥ. sāṃkhyajñānaṃ pravakṣyāmi yathāvat te śucismite. yaj jñātvā na punar martyaḥ saṃsāreṣu pravartate. jñānenaiva vimuktās te sāṃkhyāḥ saṃnyāsakovidāḥ. śārīraṃ tu tapo ghoraṃ sāṃkhyāḥ prāhur nirarthakam. pañcaviṃśatikaṃ jñānaṃ teṣāṃ jñānam iti smṛtam. mūlaprakṛtir avyaktam avyaktāj jāyate mahān. mahato 'bhūd ahaṃkāras tasmāt tanmātrapañcakam. indriyāṇi daśaikaṃ ca tanmātrebhyo bhavanty uta. tebhyo bhūtāni pañca syur iti kṣetrasamuccayaḥ. asya kṣetrasya saṃkṣepaś caturviṃśatir iṣyate. pañcaviṃśatir ity āhuḥ puruṣeṇeha saṃkhyayā. sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ. taiḥ sṛjaty akhilaṃ lokaṃ prakṛtiḥ svātmajair guṇaiḥ. icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ. vikārāḥ prakṛteś caite veditavyā manīṣibhiḥ. lakṣaṇaṃ cāpi sarveṣāṃ vikalpaṃ cāditaḥ pṛthak. vistareṇa pravakṣyāmi tasya vyākhyām imāṃ śṛṇu. nityam ekam aṇu vyāpi kriyāhīnam ahetukam. agrāhyam indriyaiḥ sarvair etad avyaktalakṣaṇam. avyaktaṃ prakṛtir mūlaṃ pradhānaṃ yonir avyayam. avyaktasyaiva nāmāni śabdaiḥ paryāyavācakaiḥ. tat sūkṣmatvād anirdeśyaṃ tat sad ity abhidhīyate. tanmūlaṃ ca jagat sarvaṃ tanmūlā sṛṣṭir iṣyate. sattvādayaḥ prakṛtijā guṇās tān prabravīmy aham. sukhaṃ tuṣṭiḥ prakāśaś ca trayas te sāttvikā guṇāḥ. rāgadveṣau sukhaṃ duḥkhaṃ stambhaś ca rajaso guṇāḥ. aprakāśo bhayaṃ mohas tandrī ca tamaso guṇāḥ. śraddhā praharṣo vijñānam asaṃmoho dayā dhṛtiḥ. sattve pravṛddhe vardhante viparīte viparyayaḥ. kāmaḥ krodho manastāpo droho lobhas tathā tṛṣā. pravṛddhe parivardhante rajasy etāni nityaśaḥ. viṣādaḥ saṃśayo mohas tandrī nidrā bhayaṃ tathā. tamasy etāni vardhante pravṛddhe hetvahetubhiḥ. evam anyonyam etāni vardhante ca punaḥ punaḥ. hīyante ca tathā nityam abhibhūtāni bhūribhiḥ. tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet. vartate sāttviko bhāva ity upekṣeta tat tathā. yadā saṃtāpasaṃyuktaṃ cittakṣobhakaraṃ bhavet. vartate raja ity evaṃ tadā tad abhicintayet. yadā saṃmohasaṃyuktaṃ yad viṣādakaraṃ bhavet. apratarkyam avijñeyaṃ tamas tad upadhārayet. samāsāt sāttviko dharmaḥ samāsād rājasaṃ dhanam. samāsāt tāmasaḥ kāmas trivarge triguṇakramāt. brahmādidevasṛṣṭir yā sāttvikīti prakīrtyate. rājasī mānuṣī sṛṣṭis tiryagyonis tu tāmasī. ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ. jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ. devamānuṣatiryakṣu yad bhūtaṃ sacarācaram. ādiprabhṛti saṃyuktaṃ vyāptam ebhis tribhir guṇaiḥ. ataḥ paraṃ pravakṣyāmi mahadādīni liṅgataḥ. vijñānaṃ ca vivekaś ca mahato lakṣaṇaṃ bhavet. mahān buddhir matiḥ prajñā nāmāni mahato viduḥ. mahadādikriyāyoge mahattvaṃ copajāyate. abhimānaḥ punas tatra mahato vaikṛtād bhavet. ahaṃkāraḥ sa vijñeyo lakṣaṇena samāsataḥ. ahaṃkāreṇa bhūtānāṃ sarveṣāṃ prabhavāpyayau. ahaṃkāranivṛttir hi nirvāṇāyopapadyate. khaṃ vāyur agniḥ salilaṃ pṛthivī ceti pañcamī. mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau. śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam. sparśas tvak prāṇināṃ ceṣṭā pavanasya guṇāḥ smṛtāḥ. rūpaṃ pāko 'kṣiṇī jyotiś catvāras tejaso guṇāḥ. rasaḥ snehas tathā jihvā śaityaṃ ca jalajā guṇāḥ. gandho ghrāṇaṃ śarīraṃ ca pṛthivyās te guṇās trayaḥ. iti sarvaguṇā devi vyākhyātāḥ pāñcabhautikāḥ. guṇān pūrvasya pūrvasya prāpnuvanty uttarāṇi tu. tasmān naikaguṇāś ceha dṛśyante bhūtasṛṣṭayaḥ. upalabhyāpsu ye gandhaṃ ke cid brūyur anaipuṇāḥ. apāṃ gandhaguṇaṃ prājñā necchanti kamalekṣaṇe. tad gandhatvam apāṃ nāsti pṛthivyā eva tadguṇaḥ. bhūmer gandho rase sneho jyotiś cakṣuṣi saṃsthitam. prāṇāpānāśrayo vāyuḥ kheṣv ākāśaḥ śarīriṇām. keśāsthinakhadantatvakpāṇipādaśirāṃsi ca. pṛṣṭhodarakaṭigrīvāḥ sarvaṃ bhūmyātmakaṃ smṛtam. yat kiṃ cid api kāye 'smin dhātudoṣamalāśritam. tat sarvaṃ bhautikaṃ viddhi dehe naivāsty abhautikam. buddhīndriyāṇi karṇas tvag akṣi jihvātha nāsikā. karmendriyāṇi vāk pāṇiḥ pādo meḍhraṃ gudaṃ tathā. śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ. buddhīndriyārthāñ jānīyād bhūtebhyas tv abhiniḥsṛtān. vākyaṃ kriyā gatiḥ prītir utsargaś ceti pañcadhā. karmendriyārthāñ jānīyāt te ca bhūtodbhavā matāḥ. indriyāṇāṃ tu sarveṣām īśvaraṃ mana ucyate. prārthanālakṣaṇaṃ tac ca indriyaṃ tu manaḥ smṛtam. niyuṅkte ca sadā tāni bhūtātmā manasā saha. niyame ca visarge ca manasaḥ kāraṇaṃ prabhuḥ. indriyāṇīndriyārthāś ca svabhāvaś cetanā dhṛtiḥ. bhūtābhūtavikāraś ca śarīram iti saṃjñitam. śarīrāc ca paro dehī śarīraṃ ca vyapāśritaḥ. śarīriṇaḥ śarīrasya yo 'ntaraṃ vetti vai muniḥ. arasasparśagandhaṃ ca rūpaśabdavivarjitam. aśarīraṃ śarīreṣu didṛkṣeta nirindriyam. avyaktaṃ sarvadeheṣu martyeṣv amaram āśritam. yaḥ paśyet paramātmānaṃ bandhanaiḥ sa vimucyate. naivāyaṃ cakṣuṣā grāhyo nāparair indriyair api. manasaiṣa pradīpena mahān ātmā pradṛśyate. sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca. vasaty eko mahāvīryo nānābhāvasamanvitaḥ. naiva cordhvaṃ na tiryak ca nādhastān na kutaś cana. indriyair iha buddhyā vā na dṛśyeta kadā cana. navadvāraṃ puraṃ gatvā haṃso 'sau nīyate vaśam. īśvaraḥ sarvabhūteṣu sthāvarasya carasya ca. tam evāhur aṇubhyo 'ṇuṃ taṃ mahadbhyo mahattaram. bahudhā sarvabhūtāni vyāpya tiṣṭhati śāśvataḥ. kṣetrajñam ekataḥ kṛtvā sarvaṃ kṣetram athaikataḥ. evaṃ saṃvimṛśej jñānī saṃyataḥ satataṃ hṛdā. puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān. akartālepako nityo madhyasthaḥ sarvakarmaṇām. kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate. puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate. ajaro 'yam acintyo 'yam avyakto 'yaṃ sanātanaḥ. dehe tejomayo dehī tiṣṭhatīty apare viduḥ. jñānam ūṣmā ca vāyuś ca śarīre jīvasaṃjñitaḥ. ity eke niścitā buddhyā tatra ye buddhicintakāḥ. apare sarvalokāṃś ca vyāpya tiṣṭhantam īśvaram. bruvate ke cid atraiva tile tailavad āsthitam. apare nāstikā mūḍhā hīnatvāt sūkṣmalakṣaṇaiḥ. nāsty ātmeti viniścitya prāhus te nirayālayāḥ. evaṃ nānāvidhānena vimṛśanti maheśvaram. ūhavān brāhmaṇo loke nityam avyayam akṣaram. asty ātmā sarvadeheṣu hetus tatra sudurgamaḥ. ṛṣibhiś cāpi devaiś ca vyaktam eṣa tu dṛśyate. dṛṣṭvātataṃ mahātmānaṃ punas tan na nivartate. tasmāt taddarśanād eva vindate paramāṃ gatim. iti te kathito devi sāṃkhyadharmaḥ sanātanaḥ. maheśvaraḥ. kapilādibhir ācāryaiḥ sevitaḥ paramarṣibhiḥ. sāṃkhyajñānena yuktānāṃ tad etat kīrtitaṃ mayā. yogadharmaṃ punaḥ kṛtsnaṃ kīrtayiṣyāmi me śṛṇu. sa ca yogo dvidhā bhinno brahmadevarṣisevitaḥ. samānam ubhayatrāpi vṛttaṃ śāstrapracoditam. sa cāṣṭaguṇam aiśvaryam adhikṛtya vidhīyate. sāyujyaṃ sarvadevānāṃ yogadharmaḥ paraḥ smṛtaḥ. jñānaṃ sarvasya yogasya mūlam ity avadhāraya. vratopavāsaniyamais tais tais tat paribṛṃhayet. aikātmyaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ. ātmany avyayini prājñe jñānam etat tu yoginām. arcayed brāhmaṇān agnīn devatāyatanāni ca. varjayed aśivāṃ vācaṃ bhavet sattvam upāśritaḥ. dānam adhyayanaṃ śraddhā vratāni niyamās tathā. samyag āhāraśuddhiś ca śaucam indriyanigrahaḥ. etais tu vardhate tejaḥ pāpaṃ cāpy avadhūyate. dhūtapāpmā ca tejasvī laghvāhāro jitendriyaḥ. niḥśoko nirmalo dāntaḥ paścād yogaṃ samācaret. avadadhyān manaḥ pūrvaṃ matsyaghāta ivāmiṣam. ekānte vijane deśe sarvataḥ saṃvṛte śucau. kalpayed āsanaṃ tatra svāstīrṇaṃ mṛdubhiḥ kuśaiḥ. upaviśyāsane tasminn ṛjukāyaśirodharaḥ. avyagraḥ sukham āsīnaḥ svāṅgāni na vikampayet. saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan. bhruvor madhye manaḥ kṛtvā cintayitvā śarīriṇam. yato yato niścarati manaś cañcalam asthiram. tatas tato niyamyaitad ātmany eva vaśaṃ nayet. manovasthāpanaṃ devi yogasyopaniṣad bhavet. tasmāt sarvaprayatnena mano 'vasthāpayet sadā. tvak śrotraṃ ca tato jihvāṃ ghrāṇaṃ cakṣuś ca saṃharet. pañcendriyāṇi saṃdhāya manasi sthāpayed budhaḥ. sarvaṃ cāpohya saṃkalpam ātmani sthāpayen manaḥ. yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani. prāṇāpānau tadā tasya yugapat tiṣṭhato vaśe. prāṇe hi vaśam āpanne yogasiddhir dhruvā bhavet. śarīraṃ cintayet sarvaṃ vipāṭya ca samīpataḥ. antardehagatiṃ cāpi prāṇānāṃ paricintayet. tato mūrdhānam agniṃ ca śārīraṃ paripālayan. prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate. sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ. mano buddhir ahaṃkāro bhūtāni viṣayāṃś ca saḥ. bastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ. vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate. adhaḥpravṛttir deheṣu karmāpānasya tan matam. udīrayan sarvadhātūn ata ūrdhvaṃ pravartate. udāna iti taṃ vidyur adhyātmakuśalā janāḥ. saṃdhau saṃdhau saṃniviṣṭaḥ sarvaceṣṭāpravartakaḥ. śarīreṣu manuṣyāṇāṃ vyāna ity upadiśyate. dhātuṣv agnau ca vitataḥ samāno 'gniḥ samīraṇaḥ. sa eva sarvaceṣṭānām antakāle nivartakaḥ. prāṇānāṃ saṃnipāteṣu saṃsargād yaḥ prajāyate. ūṣmā so 'gnir iti jñeyaḥ so 'nnaṃ pacati dehinām. apānaprāṇayor madhye prāṇāpānasamāhitaḥ. samanvitaḥ samānena samyak pacati pāvakaḥ. adhas tv agnir apānena prāṇena paripālyate. pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ. śarīramadhye nābhiḥ syān nābhyām agniḥ pratiṣṭhitaḥ. agnau prāṇāś ca saṃsaktāḥ prāṇeṣv ātmā vyavasthitaḥ. pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ smṛtaḥ. nābhir madhye śarīrasya sarvaprāṇās tam āśritāḥ. sthitāḥ prāṇādayaḥ sarve tiryag ūrdhvam adhaścarāḥ. vahanty annarasān nāḍyo daśa prāṇapracoditāḥ. yoginām eṣa mārgas tu pañcasv eteṣu tiṣṭhati. jitaśramaḥ samāsīno mūrdhany ātmānam ādadhet. mūrdhany ātmānam ādhāya bhruvor madhye manas tathā. saṃnirudhya tataḥ prāṇān ātmānaṃ cintayet param. prāṇe tv apānaṃ yuñjīta prāṇāṃś cāpānakarmaṇi. prāṇāpānagatī ruddhvā prāṇāyāmaparo bhavet. evam antaḥ prayuñjīta pañca prāṇān parasparam. vijane saṃmitāhāro munis tūṣṇīṃ nirucchvasan. aśrāntaś cintayed yogam utthāya ca punaḥ punaḥ. tiṣṭhan gacchan svapan vāpi yuñjītaivam atandritaḥ. evaṃ niyuñjatas tasya yogino yuktacetasaḥ. prasīdati manaḥ kṣipraṃ prasanne dṛśyate paraḥ. vidhūma iva dīpto 'gnir āditya iva raśmimān. vaidyuto 'gnir ivākāśe dṛśyate puruṣo 'vyayaḥ. dṛṣṭvā tad ātmāno jyotir aiśvaryāṣṭaguṇair yutam. prāpnoti paramaṃ sthānaṃ spṛhaṇīyaṃ surair api. imān yogasya doṣāṃś ca daśaiva paricakṣate. doṣair vighno varārohe yogināṃ kavibhiḥ smṛtaḥ. kāmaṃ krodhaṃ bhayaṃ svapnaṃ sneham atyaśanaṃ tathā. vaicityaṃ vyādhim ālasyaṃ lobhaṃ ca daśamaṃ smṛtam. etais teṣāṃ bhaved vighno daśabhir devakāritaiḥ. tasmād etān apāsyādau yuñjīta capalaṃ manaḥ. imān api guṇān aṣṭau yogasya paricakṣate. guṇais tair aṣṭabhir dravyam aiśvaryam adhigamyate. aṇimā mahimā caiva prāptiḥ prākāśyalāghave. īśitvaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā. etān aṣṭau guṇān prāpya kathaṃ cid yogināṃ varāḥ. īśāḥ sarvasya lokasya devān apy atiśerate. yogo 'sti naivātyaśino na caikāntam anaśnataḥ. na cātisvapnaśīlasya nātijāgaratas tathā. yuktāhāravihārasya yuktaceṣṭasya karmasu. yuktasvapnāvabodhasya yogo bhavati duḥkhahā. anenaiva vidhānena sāyujye 'pi prakalpate. sāyujyaṃ devasātkṛtya prayuñjītātmabhaktitaḥ. ananyamanasā devi nityaṃ tadgatacetasā. sāyujyaṃ prāpyate devair yatnena mahatā cirāt. havibhir arcanair homaiḥ praṇāmair nityacintayā. arcayitvā yathāśakti svakaṃ devaṃ viśanti te. sāyujyānāṃ viśiṣṭe dve māmakaṃ vaiṣṇavaṃ tathā. māṃ prāpya na nivartante viṣṇuṃ vā śubhalocane. iti te kathito devi yogadharmaḥ sanātanaḥ. umā. na śakyaṃ praṣṭum apy anyair yogadharmas tvayā vinā. triyakṣa tridaśaśreṣṭha tryambaka tridaśādhipa. tripurāntaka kāmāṅgahara tripathagādhara. dakṣayajñapramathana śūlapāṇe 'risūdana. namas te lokapāleśa lokapāla varaprada. naikaśākham aparyantam adhyātmajñānam uttamam. apratarkyam anirdeśyaṃ sāṃkhyayogasamanvitam. bhavatā parituṣṭena śṛṇvantyā mama bhāṣitam. idānīṃ śrotum icchāmi sāyujyaṃ tvadgataṃ vibho. kathaṃ paricaranty ete bhaktās tvāṃ parameṣṭhinam. ācāraḥ kīdṛśas teṣāṃ kena tuṣṭo bhaved bhavān. maheśvaraḥ. varṇyamānaṃ tvayā sākṣāt prīṇayaty adhikaṃ hi mām. hanta te kathayiṣyāmi mama sāyujyam adbhutam. yena tena nivartante yuktāḥ paramayoginaḥ. avyakto 'ham acintyo 'haṃ pūrvair api maharṣibhiḥ. sāṃkhyayogau mayā sṛṣṭau sarvaṃ cāpi carācaram. arcanīyo 'ham īśo 'ham avyayo 'haṃ sanātanaḥ. ahaṃ prasanno bhaktānāṃ dadāmy amaratām api. na māṃ viduḥ suragaṇā munayaś ca tapodhanāḥ. tvatpriyārtham ahaṃ devi madvibhūtiṃ bravīmi te. āśramebhyaś caturbhyo 'haṃ caturo brāhmaṇāñ śubhe. madbhaktān nirmalān puṇyān samānīya tapasvinaḥ. vyācakhye 'haṃ tadā devi yogaṃ pāśupataṃ mahat. gṛhītaṃ tac ca taiḥ sarvaṃ mukhāc ca mama dakṣiṇāt. śrutvā ca triṣu lokeṣu sthāpitaṃ cāpi taiḥ punaḥ. idānīṃ ca tvayā pṛṣṭas tvatpriyārtham anindite. tat sarvaṃ kathayiṣyāmi tat tvam ekamanāḥ śṛṇu. ahaṃ paśupatir nāma madbhaktā ye ca mānavāḥ. sarve pāśupatā jñeyā bhasmadigdhatanūruhāḥ. rakṣārthaṃ maṅgalārthaṃ ca pavitrārthaṃ ca bhāmini. liṅgārthaṃ caiva bhaktānāṃ bhasma dattaṃ mayā purā. tena saṃdigdhasarvāṅgā bhasmanā brahmacāriṇaḥ. jaṭilā muṇḍitā vāpi nānākṛtaśikhaṇḍinaḥ. vikṛtāḥ piṅgalābhāś ca nagnā nānāprahāriṇaḥ. bhaikṣaṃ carantaḥ sarvatra niḥspṛhā niṣparigrahāḥ. kapālahastā madbhaktā manniveśitabuddhayaḥ. caranto nikhilaṃ lokaṃ mama harṣavivardhanāḥ. mama pāśupataṃ divyaṃ yogaśāstram anuttamam. sūkṣmaṃ sarveṣu lokeṣu vimṛśantaś caranti te. evaṃ nityābhiyuktānāṃ madbhaktānāṃ tapasvinām. upāyaṃ cintayāmy āśu yena mām upayānti te. sthāpitaṃ triṣu lokeṣu śivaliṅgaṃ mayā priye. namaskāreṇa vā tasya mucyate sarvakilbiṣaiḥ. iṣṭaṃ dattam adhītaṃ ca yajñāś ca sahadakṣiṇāḥ. śivaliṅgapraṇāmasya kalāṃ nārhanti ṣoḍaśīm. arcayā śivaliṅgasya parituṣyāmy ahaṃ priye. śivaliṅgārcanāyāṃ tu vidhānam api me śṛṇu. gokṣīranavanītābhyām arcayed yaḥ śivaṃ mama. iṣṭasya hayamedhasya yat phalaṃ tasya tad bhavet. ghṛtamaṇḍena yo nityam arcayed dhi śivaṃ mama. sa phalaṃ prāpnuyān martyo brāhmaṇasyāgnihotriṇaḥ. kevalenāpi toyena snāpayed yaḥ śivaṃ mama. sa cāpi labhate puṇyaṃ matpriyaś ca bhaven naraḥ. saghṛtaṃ gugguluṃ samyag dhūpayed yaḥ śivāntike. gosavasya tu yajñasya yat phalaṃ tasya tad bhavet. yas tu guggulupiṇḍena kevalenāpi dhūpayet. tasya rukmapradānasya yat phalaṃ tasya tad bhavet. yas tu nānāvidhaiḥ puṣpair mama liṅgaṃ samarcayet. sa hi dhenusahasrasya dattasya phalam āpnuyāt. yas tu deśāntaraṃ gatvā śivaliṅgaṃ samarcayet. tasmāt sarvamanuṣyeṣu nāsti me priyakṛttamaḥ. evaṃ nānāvidhair dravyaiḥ śivaliṅgaṃ samarcayet. matprasādān manuṣyeṣu na punar jāyate naraḥ. arcanābhir namaskārair upahāraiḥ stavair api. bhakto mām arcayen nityaṃ śivaliṅgeṣv atandritaḥ. palāśabilvapatrāṇi rājavṛkṣasrajas tathā. arkapuṣpāṇi medhyāni matpriyāṇi viśeṣataḥ. phalaṃ vā yadi vā śākaṃ puṣpaṃ vā yadi vā jalam. dattaṃ saṃprīṇayed devi bhaktair madgatamānasaiḥ. mamābhiparituṣṭasya nāsti loke sudurlabham. tasmāt te satataṃ bhaktā mām evābhyarcayanty uta. madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ. madbhaktāḥ sarvalokeṣu pūjanīyā viśeṣataḥ. maddveṣiṇaś ca ye martyā madbhaktadveṣiṇas tathā. yānti te narakaṃ kṣipram iṣṭvā kratuśatair api. etat te sarvam ākhyātaṃ yogaṃ pāśupataṃ mama. madbhaktair manujair devi śrāvyam etad dine dine. śṛṇuyād yaḥ paṭhed vāpi mamaitaṃ dharmaniścayam. nāradaḥ. svargaṃ kīrtiṃ dhanaṃ dhānyaṃ labheta sa narottamaḥ. evam uktvā mahādevaḥ śrotukāmaḥ svayaṃ prabhuḥ. maheśvaraḥ. anukūlāṃ priyāṃ bhāryāṃ pārśvasthāṃ samabhāṣata. parāvarajñe dharmāṇāṃ tapovananivāsinām. dīkṣādamaśamopete satataṃ vratacāriṇi. pṛcchāmi tvā varārohe pṛṣṭā vada mamepsitam. sāvitrī brahmaṇaḥ patnī kauśikasya śacī śubhā. lakṣmīr viṣṇoḥ priyatamā dhṛtir bhāryā yamasya tu. mārkaṇḍeyasya dhūmorṇā ṛddhir vaiśravaṇasya tu. varuṇasya tathā gaurī savituś ca suvarcalā. rohiṇī śaśino bhāryā svāhā vahner aninditā. kaśyapasyāditiś caiva vasiṣṭhasyāpy arundhatī. etāś cānyāś ca devyas tu sarvās tāḥ patidevatāḥ. śrūyante lokavikhyātās tvayā caiva sahoṣitāḥ. tābhiś ca pūjitā sā tvam anuvṛttyānubhāṣaṇaiḥ. tasmāt tvāṃ paripṛcchāmi dharmajñe lokasaṃmate. strīdharmaṃ śrotum icchāmi tvayaiva samudāhṛtam. sadharmacāriṇī me tvaṃ samānavratacāriṇī. samānasārā vīryeṇa mayaiva tvaṃ śubhānane. mamaivārdhāc charīrasya nirmitāsi purā śubhe. surakāryaṃ karoṣi tvaṃ lokasaṃdhāraṇī tathā. ayaṃ hi strīgaṇas tvāṃ tu anuyāti na muñcati. tvatprasādād dhitaṃ śrotuṃ strīvṛttaṃ śubhalakṣaṇe. tvayā coktaṃ viśeṣeṇa gurubhūtaṃ hi tiṣṭhati. striya eva sadā loke strīgaṇasya gatiḥ priye. śaśvad gaur goṣu gaccheta nānyatra ramate manaḥ. evaṃ lokagatir devi ādiprabhṛti vartate. pramadoktaṃ tu yat kiṃ cit tat strīṣu bahu manyate. na tathā manyate strīṣu puruṣoktam anindite. tvayaiva vidito hy arthaḥ strīṇāṃ dharmaḥ sanātanaḥ. tasmāt tvā paripṛcchāmi pṛṣṭā vada mamepsitam. nāradaḥ. evam uktā tadā devī mahādevena śobhanā. sodvegā ca salajjā ca nāvadat tatra kiṃ cana. punaḥ punas tadā devo devīṃ kim iti cābravīt. bahuśaś coditā devī savrīḍā cedam abravīt. umā. bhagavan devadeveśa surāsuranamaskṛta. maheśvaraḥ. tvadantike mayā vaktuṃ strīṇāṃ dharmaṃ kathaṃ bhavet. manniyogād avaśyaṃ tu vaktavyaṃ hi mama priye. umā. imā nadyo mahādeva sarvatīrthodakānvitāḥ. upasparśanahetos tvāṃ na tyajanti samīpataḥ. etābhiḥ saha saṃmantrya pravakṣyāmi tavepsitam. ayuktaṃ satsu tajjñeṣu tān atikramya bhāṣitum. nāradaḥ. mayā saṃmānitāś caiva bhaviṣyanti saridvarāḥ. iti matvā mahādevī nadīr devīḥ samāhvayat. vipāśāṃ ca vitastāṃ ca candrabhāgāṃ sarasvatīm. śatadruṃ devikāṃ sindhuṃ gomatīṃ kauśikīṃ tathā. yamunāṃ narmadāṃ caiva kāverīm atha nimnagām. tathā devanadīṃ gaṅgāṃ prāptāṃ tripathagāṃ śubhām. sarvatīrthodakavahāṃ sarvapāpavināśanīm. umā. etā nadīḥ samāhūya samudvīkṣyedam abravīt. he he puṇyāḥ saricchreṣṭhāḥ sarvapāpavinodakāḥ. jñānavijñānasaṃpannāḥ śṛṇudhvaṃ vacanaṃ mama. ayaṃ bhagavatā praśna uktaḥ strīdharmam āśritaḥ. na caikayā mayā sādhyas tasmād vas tv ānayāmy aham. yuṣmābhis tad vicāryaiva vaktum icchāmi śobhanāḥ. nāradaḥ. tat kathaṃ devadevāya vācyaḥ strīdharma uttamaḥ. iti pṛṣṭās tayā devyā devanadyaś cakampire. tāsāṃ śreṣṭhatamā gaṅgā vacanaṃ cedam abravīt. dhanyāś cānugṛhītāḥ sma anena vacanena te. yā tvaṃ surāsurair mānyā nadīr mānayase 'naghe. tavaivārhanti kalyāṇi evaṃ sāntvaprasādanam. aśakyam api ye mūrkhāḥ svātmasaṃbhāvanāyutāḥ. vākyaṃ vadanti saṃsatsu svayam eva yatheṣṭataḥ. yaḥ śaktaś cānahaṃvādī sudurlabhatamo mataḥ. tvaṃ hi śaktā satī devī vaktuṃ praśnam aśeṣataḥ. vyāhartuṃ necchasi strītvāt saṃpūjayasi nas tathā. tvaṃ hi devasamā devi ūhāpohaviśāradā. divyajñānayutā devi divyajñānendhanedhitā. tvam evārhasi tad vaktuṃ strīṇāṃ dharmaṃ śubhāśubham. yācāmahe vayaṃ śrotum amṛtaṃ tvanmukhodgatam. kuru devi priyaṃ devi vada strīdharmam uttamam. nāradaḥ. evaṃ prasāditā devī gaṅgayā lokapūjitā. umā. prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī. bhagavan devadeveśa sureśvara maheśvara. tvatprasādāt suraśreṣṭha tavaiva priyakāmyayā. nāradaḥ. tam ahaṃ kīrtayiṣyāmi yathāvac chrotum arhasi. evaṃ bruvantyāṃ strīdharmaṃ devyāṃ devasya śāsanāt. ṛṣigandharvayakṣāṇāṃ yoṣitaś cāpsarogaṇāḥ. nāgabhūtastriyaś caiva nadyaś caiva samāgatāḥ. śrotukāmāḥ paraṃ vākyaṃ sarvāḥ paryavatasthire. umā devī mudā yuktā pūjyamānāṅganāgaṇaiḥ. ānṛśaṃsyaparā devī satataṃ strīgaṇaṃ prati. strīgaṇasya hitārthāya bhavapriyacikīrṣayā. umā. vaktuṃ vacanam ārebhe strīṇāṃ dharmāśritaṃ hitam. bhagavan sarvadharmajña śrūyatāṃ vacanaṃ mama. ṛtuprāptā suśuddhā yā kanyā sety abhidhīyate. tāṃ tu kanyāṃ pitā mātā bhrātā mātula eva vā. pitṛvyaś ceti pañcaite dātuṃ prabhavatāṃ gatāḥ. vivāhāś ca tathā pañca tāsāṃ dharmārthakāraṇāt. kāmataś ca mitho dānaṃ bhayāc ca prasabhāt tathā. dattā yasya bhaved bhāryā eteṣāṃ yena kena cit. dātāraḥ saṃvimṛśyaiva dātum arhanti nānyathā. uttamānāṃ tu varṇānāṃ mantravatpāṇisaṃgrahaḥ. vivāhakaraṇaṃ cāhuḥ śūdrāṇāṃ saṃprayogataḥ. yadā dattā bhavet kanyā tasmai bhāryārthine svakaiḥ. tadāprabhṛti sā nārī daśarātraṃ vivarjya ca. manasā karmaṇā vācā hy anukūlā ca sā bhavet. iti bhartṛvrataṃ kuryāt patim uddiśya śobhanā. tadāprabhṛti sā nārī tat tat kuryāt patipriyam. yad yad icchati vai bhartā dharmakāmārthakāraṇāt. tadaivānupriyā bhūtvā tathaivopacaret patim. pativratātvaṃ nārīṇām etad eva samāsataḥ. tādṛśā sā bhaven nityaṃ yādṛśas tu bhavet patiḥ. śubhāśubhasamācāre etad vṛttaṃ samāsataḥ. daivataṃ satataṃ sādhvī bhartāraṃ yānupaśyati. daivam eva bhavet tasyāḥ patir ity avagamyate. etasmin kāraṇe deva paurāṇī śrūyate śrutiḥ. kathayāmi prasādāt te śṛṇu deva samāhitaḥ. kasya cit tv atha viprasya bhārye hi dve babhūvatuḥ. tayor ekā dharmakāmā devān uddiśya bhaktitaḥ. bhartāram avamatyaiva devatāsu samāhitā. cakāra vipulaṃ dharmaṃ pūjanārcanayānvitam. aparā dharmakāmā ca patim uddiśya śobhanā. bhartāraṃ daivataṃ kṛtvā cakāra kila tatpriyam. evaṃ saṃvartamāne tu yugapan maraṇe 'dhvani. gate kila mahādeva tatraikā yā pativratā. devapriyāyāṃ tiṣṭhantyāṃ puṇyalokaṃ jagāma sā. devapriyā ca tiṣṭhantī vilalāpa suduḥkhitā. tāṃ yamo lokapālas tu babhāṣe puṣkalaṃ vacaḥ. mā śocīs tvaṃ nivartasva na lokāḥ santi te śubhe. svadharmavimukhāsi tvaṃ tasmāl lokā na santi te. daivataṃ hi patir nāryāḥ sthāpitaṃ sarvadaivataiḥ. avamatya śubhe taṃ tvaṃ kathaṃ lokān gamiṣyasi. mohena tvaṃ varārohe na jānīṣe svadaivatam. patimatyā striyā kāryo dharmaḥ patyarpitas tv iti. tasmāt tvaṃ hi nivartasva kuru patyāśritaṃ hitam. tadā gantāsi lokāṃs tān yān gacchanti pativratāḥ. nānyathā śakyate prāptuṃ patnīnāṃ loka uttamaḥ. yamenaivaṃvidhaṃ coktvā nivṛtya punar eva sā. babhūva patim ālambya patipriyaparāyaṇā. evam etan mahādeva daivataṃ hi patiḥ striyaḥ. umā. tasmāt patiparā bhūtvā patiṃ paricared iti. patimatyā divārātraṃ vṛttāntaḥ śrūyatāṃ śubhaḥ. patyuḥ pūrvaṃ samutthāya prātaḥkarma samādiśet. patyur bhāvaṃ viditvā tu paścāt saṃbodhayet patim. tataḥ paurvāhṇikaṃ kāryaṃ svayaṃ kuryād yathāvidhi. nivedya ca tathāhāraṃ yathā saṃpadyatām iti. tathaiva kuryāt tat sarvaṃ yathā patyuḥ priyaṃ bhavet. yathā patyus tathā bhartur gurūṇāṃ pratipadyate. śuśrūṣāpoṣaṇavidhau patipriyacikīrṣayā. bhartur niṣkramaṇe kāryaṃ saṃsmared apramādataḥ. āgataṃ tu patiṃ dṛṣṭvā sahasā paricārakaiḥ. svayaṃ kurvīta saṃprītyā kāyaśramaharaṃ param. pādyāsanābhyāṃ śayanair vākyaiś ca hṛdayapriyaiḥ. atithīnām āgamane prītiyuktā sadā bhavet. karmaṇā vacanenāpi toṣayed atithīn sadā. maṅgalyaṃ gṛhaśaucaṃ ca sarvopakaraṇāni ca. sarvakālam avekṣeta kārayantī ca kurvatī. dharmakārye tu saṃprāpte tadvad dharmaparā bhavet. arthakārye punar bhartuḥ pramādālasyavarjitā. sā yatnaṃ paramaṃ kuryāt tasya sāhāyyakāraṇāt. yugaṃdharā bhavet sādhvī patyur dharmārthayoḥ sadā. vihārakāle vai bhartur jñātvā bhāvaṃ hṛdi sthitam. alaṃkṛtya yathāyogaṃ hāvabhāvasamanvitā. vākyair madhurasaṃyuktaiḥ smayantī toṣayet patim. yena yena yathā tuṣyet tathā sā toṣayet patim. kaṭhorāṇi na vācyāni anyadā pramadāntare. yasyāṃ kāmī bhaved bhartā tasyāḥ prītikarā bhavet. apramādaṃ puraskṛtya manasā joṣayet patim. anantaraṃ tathānyeṣāṃ bhojanāvekṣaṇaṃ caret. dāsīdāsabalīvardāṃś caṇḍālāṃś ca śunas tathā. anāthān kṛpaṇāṃś caiva bhikṣukāṃś ca tathaiva ca. pūjayed balibhaikṣeṇa patyur dharmavivṛddhaye. kupitaṃ vārthahīnaṃ vā śrāntaṃ vopacaret patim. yathā sa tuṣṭaḥ svasthaś ca bhavet saṃtoṣayet patim. tathā kuṭumbacintāyāṃ vivāde cārthasaṃśaye. āhūtā ca sahāyārthaṃ tadā priyahitaṃ vadet. apriyaṃ vā hitaṃ brūyāt tasya kāmārthakāṅkṣayā. ekāntacaryākathanaṃ kalahaṃ varjayet paraiḥ. bahir ālokanaṃ caiva mohaṃ vrīḍāṃ ca paiśunam. bahvāśitvaṃ divāsvapnam evamādīni varjayet. rahasy ekāsanaṃ sādhvī na kuryād ātmajair api. yad yad dadyān nidhatsveti nyāsavat paripālayet. vismṛtaṃ vā patidravyaṃ pratidadyāt svaśaucataḥ. yat kiṃ cit patinā dattaṃ tal labdhvā sumukhī bhavet. atiyācñām atīrṣyāṃ ca dūrataḥ parivarjayet. bālavad vṛddhavan nāryāḥ sadaivāturavat patiḥ. bhāryayā vratam ity eva bhartavyaḥ satataṃ vibho. etat pativratāvṛttam uktaṃ deva samāsataḥ. na ca bhoge na caiśvarye na dhane na sukhe tathā. spṛhā yasyā yathā patyau sā nārīṇāṃ pativratā. patir hi daivataṃ strīṇāṃ patir bandhuḥ patir gatiḥ. nānyāṃ gatim ahaṃ paśye pramadānāṃ yathā patiḥ. jātiṣv api ca vai strītvaṃ viśiṣṭam iti me matiḥ. kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam. tat sarvaṃ labhate nārī sevantīndriyagocarān. yathāsukhaṃ patimatī sarvaṃ patyanukūlataḥ. īdṛśaṃ dharmasaukaryaṃ paśyadhvaṃ pramadāḥ prati. etad vismṛtya vartante kustriyaḥ pāpamohitāḥ. tapaścaryā ca dānaṃ ca patau tasyāḥ samarpitau. rūpaṃ kulaṃ yaśaḥ svargaḥ sarvaṃ tasmin pratiṣṭhitam. evaṃvṛttasamācārā svavṛttenaiva śobhanā. patinā ca samaṃ gacchet puṇyalokān svakarmaṇā. vṛddho virūpo bībhatsur dhanavān nirdhano 'pi vā. evaṃbhūto 'pi bhartā vai strīṇāṃ bhūṣaṇam uttamam. āḍhyaṃ vā rūpayuktaṃ vā virūpaṃ dhanavarjitam. yā patiṃ toṣayet sādhvī sā nārīṇāṃ pativratā. daridrāṃś ca virūpāṃś ca pramūḍhān kuṣṭhasaṃyutān. evaṃvidhān patīn deva toṣayitvā pativratā. upary upari tāṃl lokān patyaiva saha gacchati. evaṃ pravartamānāyāḥ patiḥ pūrvaṃ mriyeta cet. tadānumaraṇaṃ gacchet punar dharmaṃ careta vā. umā. etad evaṃ mayā proktaṃ strīṇāṃ dharmāśritaṃ hitam. evam etan mayā proktaṃ striyas tu bahudhā smṛtāḥ. devatānāgagandharvamanuṣyā iti naikadhā. saumyaśīlāḥ śubhācārāḥ sarvās tāḥ saṃbhavanti hi. athāśubhaṃ pravakṣyāmi strīṇāṃ vṛttaṃ maheśvara. āsuryaś caiva paiśācyo rākṣasyaś ca bhavanti yāḥ. tāsāṃ vṛttam aśeṣeṇa śrūyatāṃ lokakāraṇāt. nyāyato vānyathā proktā bhāvadoṣasamanvitāḥ. bhartṝn apacaranty eva rāgadveṣabalātkṛtāḥ. svadharmavimukhā bhūtvā praduṣyanti yatas tataḥ. pravṛddhaviṣayā nityaṃ pratikūlaṃ vadanti ca. arthān vināśayanty eva na gṛhṇanti hitaṃ kva cit. svabuddhiniratā bhūtvā jīvanti ca yathā tathā. guṇavatyaḥ kva cid bhūtvā patidharmaparā iva. punar bhavanti pāpiṣṭhā viṣamaṃ vṛttam āśritāḥ. anavasthitamaryādā bahuveṣā vyayapriyāḥ. asaṃtuṣṭāś ca lubdhāś ca īrṣyākrodhayutā bhṛśam. bhogapriyā hitadveṣyāḥ kāmabhogaparāyaṇāḥ. patīn paribhavanty eva pratikūlaparāyaṇāḥ. prāyaśo 'nṛtabhūyiṣṭhā gurūṇāṃ pratilomakāḥ. evaṃyuktasamācārā āsuraṃ bhāvam āśritāḥ. aparāḥ pāpakāriṇyaḥ satataṃ kalahapriyāḥ. paruṣā rūkṣavacanā nirghṛṇā nirapatrapāḥ. niḥsnehāḥ kopanāś caiva bhartṛputrasvabandhuṣu. ghorā māṃsapriyā nityaṃ hasanti ca rudanti ca. patīn vyabhicaranty evam unmārgeṇa yathā tathā. bandhubhir bhartsitā bhūtvā gṛhakāryāṇi kurvate. atha vā bhartsitā deva nīcavṛttāḥ svabandhuṣu. tathaivātmavadhaṃ ghoraṃ vyavasyeyur na saṃśayaḥ. nirdayā niranukrośāḥ kuṭumbārthavilopanāḥ. dharmārtharahitā ghorāḥ satataṃ kurvate kriyāḥ. anarthanipuṇāḥ pāpāḥ paraprāṇeṣu nirdayāḥ. evaṃyuktasamācārāḥ striyaḥ paiśācyam āśritāḥ. aparā mohasaṃyuktā nirlajjā rodanapriyāḥ. aśuddhā maladigdhāṅgāḥ pānamāṃsaratā bhṛśam. vadanty anṛtavākyāni hasanti vilapanti ca. duṣprasādā mahākrodhāḥ svapnaśīlā nirantaram. tāmasyo naṣṭatattvārthā mandaśīlā mahodarāḥ. bhuñjanti vividhaṃ siddhaṃ bhojanaṃ tīvrasaṃbhramāḥ. guṇarūpavayoyuktaṃ patiṃ kāmukam uttamam. hitvānyān eva gacchanti sarvathā bhṛśapāpikāḥ. nirlajjā dharmasaṃdigdhāḥ pratikūlāḥ samantataḥ. evaṃyuktasamācārāḥ striyo rākṣasyam āśritāḥ. evaṃvidhānāṃ sarvāsāṃ na paratreha vā sukham. etāsām eva kustrīṇāṃ mṛtānāṃ ca maheśvara. asaṃśayaṃ ciraṃ kālaṃ narake vāsa iṣyate. narakād dhi vimuktānāṃ kathaṃ cit kālaparyayāt. iṣyate janma mānuṣyaṃ kaṣṭaṃ tatrāpi bhuñjate. tāsāṃ duṣkṛtasaṃyogād duḥkhaṃ janmāntareṣv api. daridrāḥ kleśabhūyiṣṭhā virūpāḥ kutsitāḥ paraiḥ. vidhavā durbhagā vāpi labhante duḥkham īdṛśam. śatavarṣasahasrāntam ātmānaṃ vyabhicāriṇī. nayej jāraṃ ca nirayaṃ patiṃ pāpena yojayet. etad yadi tu vijñāya punaś ced dhitam ātmanaḥ. kuryur bhartāram āśritya tathā dharmam avāpnuyuḥ. abhisaṃyānti tā lokān puṇyān paramaśobhanān. avamatya tu yāḥ pūrvaṃ patiṃ duṣṭena cetasā. vartamānāś ca satataṃ bhartṝṇāṃ pratikūlatām. bhartrānumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ. kāmāt krodhād bhayān mohād apahāsyā bhavanti tāḥ. ādiprabhṛti kustrīṇāṃ tathānumaraṇaṃ vṛthā. ādiprabhṛti yā sādhvī bhartuḥ priyaparāyaṇā. ūrdhvaṃ gacchati sā tatra bhartrānumaraṇaṃ gatā. evaṃ mṛtāyā vai lokān ahaṃ paśyāmi cakṣuṣā. spṛhaṇīyān suragaṇair yān gacchanti pativratāḥ. atha vā bhartari mṛte vaidhavyaṃ dharmam āśritā. mṛtaṃ ca patim uddiśya kuryāc caivaṃvidhaṃ tapaḥ. evaṃ gacchati sā nārī patīnāṃ lokam uttamam. ramaṇīyam anirdeśyaṃ duṣprāpaṃ devamānuṣaiḥ. prāpnuyāt tādṛśaṃ lokaṃ kevalaṃ yā pativratā. iti te kathitaṃ deva strīṇāṃ dharmam anuttamam. tavaiva priyakāminyā yan mayoktaṃ tavāgrataḥ. nāradaḥ. cāpalyān mama deveśa tad bhavān kṣantum arhati. evaṃ vadantīṃ rudrāṇīṃ lajjābhāvasamanvitām. toṣayām āsa deveśo vācā saṃpūjayan priyām. ṛṣayo devagandharvāḥ sāsurāḥ sāpsarogaṇāḥ. daivatapramadāś cāpi devanadyaś ca saṃgatāḥ. praṇamya śirasā devīṃ stutibhiś cāpi tuṣṭuvuḥ. pūjayām āsur apare devadevaṃ mudā yutāḥ. apare vismayān nocus tam artham abhicintya vai. saṃprahṛṣṭamanāḥ śarvaḥ saṃvādaṃ cintayan muhuḥ. tatra tasmin kṣaṇe devīṃ devo vacanam abravīt. śṛṇu kalyāṇi madvākyaṃ yad idaṃ tu tvayā mayā. kṛtaṃ saṃvādam abhavat tat trilokaṃ gamiṣyati. puṇyaṃ pavitram ākhyānaṃ bhavitā tan na saṃśayaḥ. ya idaṃ śrāvayed vidvān saṃvādaṃ tv āvayoḥ priye. śucir bhūtvā narān yuktān sa yajñaphalam āpnuyāt. ye tv enaṃ śṛṇuyur nityaṃ dharmyaṃ tadgatamānasāḥ. śravaṇād eva teṣāṃ tu mahad dharmaphalaṃ bhavet. kathayec chṛṇuyād vāpi yaḥ kaś cin nityam āhnikam. sa bhaven matpriyo devi taṃ smarāmi dine dine. ya imaṃ paṭhate nityaṃ saṃvādaṃ cāvayoḥ śubham. kīrtim āyuṣyam ārogyaṃ paratreha sa vindati. nāradaḥ. śrutvā cemaṃ prayoktā tu kathaṃ sa na bhaven mahān. ity uktvā sa mahādevas tatraivāntaradhīyata. devīṃ devaṃ vayaṃ tatra nāpaśyāma prabhāvataḥ. evaṃ purā mayāścaryaṃ dṛṣṭaṃ haimavate vane. caratā tīrthayātrārthaṃ purā keśiniṣūdana. bhīṣmaḥ. tad adya kathitaṃ sarvaṃ tava keśava śṛṇvataḥ. etāvad uktvā devarṣir nārado virarāma ha. vaiśaṃpāyanaḥ. tad adya nikhilenaiva kathitaṃ te yudhiṣṭhira. dharmarājas tu tac chrutvā bhrātṛbhir mudito 'bhavat. tat sarvaṃ nikhilaṃ proktaṃ taveha janamejaya. ṛṣayaḥ. pinākin bhaganetraghna sarvalokanamaskṛta. maheśvaraḥ. māhātmyaṃ vāsudevasya śrotum icchāma śaṃkara. pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ. kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ. daśabāhur mahātejā devatāriniṣūdanaḥ. śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ. brahmā tasyodaraśayas tathāhaṃ ca śirobhavaḥ. śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ. ṛṣayo dehasaṃbhūtās tasya lokāś ca śāśvatāḥ. pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ. so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ. saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca. sa devaripujit sākṣād devanāthaḥ paraṃtapaḥ. sarvajñaḥ sarvasaṃśliṣṭaḥ sarvagaḥ sarvatomukhaḥ. paramātmā hṛṣīkeśaḥ sarvavyāpī maheśvaraḥ. na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiṃ cana. surakāryārtham utpanno mānuṣaṃ vapur āsthitaḥ. na hi devagaṇāḥ śaktās trivikramavinākṛtāḥ. bhuvane devakāryāṇi kartuṃ nāyakavarjitāḥ. nāyakaḥ sarvadevānāṃ sarvabhūtanamaskṛtaḥ. etasya devanāthasya devakāryaparasya ca. brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca. brahmā vasati garbhasthaḥ śarīre sukhasaṃsthitaḥ. sarvāḥ sukhasthitāś caiva śarīre tasya devatāḥ. sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ. śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ. uttamena ca śaucena śīlena ca damena ca. parākrameṇa vīryeṇa vapuṣā darśanena ca. āroheṇa pramāṇena dhairyeṇārjavasaṃpadā. ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ. astraiḥ samuditaḥ sarvair divyaiś cādbhutadarśanaiḥ. yogamāyaḥ sahasrākṣo niravadyo mahāmanāḥ. dhīro mitrajanaślāghī jñātibandhujanapriyaḥ. kṣamāvān anahaṃvādī brahmaṇyo brahmanāyakaḥ. bhayahartā bhayārtānāṃ mitrāṇāṃ nandivardhanaḥ. śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ. śrutavān arthasaṃpannaḥ sarvabhūtanamaskṛtaḥ. samāśritānām upakṛc chatrūṇām api dharmavit. matimān nītisaṃpanno brahmacārī jitendriyaḥ. bhavārtham iha devānāṃ buddhyā paramayā yutaḥ. prājāpatye śubhe mārge mānave dharmasaṃhite. samutpatsyati govindo manor vaṃśe mahātmanaḥ. aṅganāmā manoḥ putras tv antardhāmā tataḥ paraḥ. antardhāmno havirdhāmā prajāpatir aninditaḥ. prācīnabarhir bhavitā havirdhāmasuto mahān. tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ. prācetasas tathā dakṣo bhaviteha prajāpatiḥ. dākṣāyiṇyās tathādityo manur ādityatas tathā. manoś ca vaṃśaja iḍā sudyumnaś ca bhaviṣyati. budhāt purūravāś cāpi tasmād āyur bhaviṣyati. nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ. yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati. kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati. vṛjinīvato hi bhavitā uṣadgur aparājitaḥ. uṣadgor bhavitā putraḥ śūraś citrarathas tathā. tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati. teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām. yajvināṃ suviśuddhānāṃ vaṃśe brāhmaṇasaṃmate. sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ. svavaṃśavistarakaraṃ janayiṣyati mānadaḥ. vasudeva iti khyātaṃ putram ānakaduṃdubhim. tasya putraś caturbāhur vāsudevo bhaviṣyati. dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ. rājñaḥ sarvāṃś ca ruddhān sa mokṣayiṣyati mānadaḥ. jarāsaṃdhaṃ ca rājānaṃ nirjitya girigahvare. sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān. pṛthivyām apratihato vīryeṇa ca bhaviṣyati. vikrameṇa ca saṃpannaḥ sarvapārthivapārthivaḥ. śūraseneṣu saṃbhūto dvārakāyāṃ vasan prabhuḥ. pālayiṣyati gāṃ devīṃ vijitya nayavat sadā. taṃ bhavantaḥ samāsādya vāṅmālyair arhaṇair varaiḥ. arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam. yo hi māṃ draṣṭum iccheta brahmāṇaṃ vā pitāmaham. draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān. dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā. pitāmaho vā deveśa iti vitta tapodhanāḥ. sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati. tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati. yaś ca taṃ mānavo loke saṃśrayiṣyati keśavam. tasya kīrtir jayaś caiva svargaś caiva bhaviṣyati. dharmāṇāṃ deśikaḥ sākṣāt sa bhaviṣyati dharmabhāk. dharmavidbhiḥ sa deveśo namaskāryaḥ sadodyataiḥ. dharma eva paro hi syāt tasminn abhyarcite vibhau. sa hi devo mahātejāḥ prajāhitacikīrṣayā. dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ha. tāḥ sṛṣṭās tena vibhunā parvate gandhamādane. sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ. tasmāt sa vāgmī dharmajño namasyo dvijapuṃgavāḥ. vandito hi sa vandeta mānito mānayeta ca. arcitaś cārcayen nityaṃ pūjitaḥ pratipūjayet. dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet. arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ. etat tasyānavadyasya viṣṇor vai paramaṃ vratam. ādidevasya mahataḥ sajjanācaritaṃ sadā. bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ. ubhayenānurūpeṇa yajante tam anuvratāḥ. karmaṇā manasā vācā namasyaḥ sa dvijaiḥ sadā. yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ. eṣa vo 'bhihito mārgo mayā vai munisattamāḥ. taṃ dṛṣṭvā sarvaśo devā dṛṣṭāḥ syur munisattamāḥ. mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham. ahaṃ caiva namasyāmi nityam eva jagatpatim. tatra vas tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ. samastā hi vayaṃ devās tasya dehe vasāmahe. tasya caivāgrajo bhrātā sitābhranicayaprabhaḥ. halī bala iti khyāto bhaviṣyati dharādharaḥ. triśirās tasya devasya śātakaumbhamayo drumaḥ. dhvajas tṛṇendro devasya bhaviṣyati rathāśritaḥ. śiro nāgair mahābhogaiḥ parikīrṇaṃ mahātmanaḥ. bhaviṣyati mahābāhoḥ sarvalokeśvarasya hi. cintitāni sameṣyanti śastrāṇy astrāṇi caiva ha. anantaś ca sa evokto bhagavān harir avyayaḥ. samādiṣṭaḥ sa vibudhair darśayantam iti prabho. suparṇo yasya vīryeṇa kaśyapasyātmajo balī. antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ. sa ca śeṣe vicarate parayā vai mudā yutaḥ. antar vasati bhogena parirabhya vasuṃdharām. sa eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ. yo rāmaḥ sa hṛṣīkeśo yo 'cyutaḥ sa dharādharaḥ. tāv ubhau puruṣavyāghrau divyau divyavapurdharau. draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau. eṣa yo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ. nāradaḥ. yaṃ bhavanto dvijaśreṣṭhāḥ pūjayeyuḥ prayatnataḥ. atha vyomni mahāñ śabdaḥ savidyut stanayitnumān. meghaiś ca gaganaṃ nīlaiḥ saṃruddham abhavad ghanaiḥ. prāvṛṣīva ca parjanyo vavṛṣe nirmalaṃ payaḥ. nabhaś caivābhavad ghoraṃ diśaś ca na cakāśire. tato devagirau tasmin ramye puṇye sanātane. na śarvaṃ bhūtasaṃghaṃ vā dadṛśur munayas tadā. vyabhraṃ ca gaganaṃ sadyaḥ kṣaṇena samapadyata. tīrthayātrāṃ tato viprā jagmuś cānye yathāgatam. tad adbhutam acintyaṃ ca dṛṣṭvā te vismitābhavan. śaṃkarasyomayā sārdhaṃ saṃvādaṃ tatkathāśrayam. bhagavān puruṣavyāghro brahmabhūtaḥ sanātanaḥ. yadartham anuśiṣṭāḥ smo giripṛṣṭhe mahātmanā. dvitīyam adbhutam idaṃ tvattejaḥkṛtam adya vai. dṛṣṭvātivismitāḥ kṛṣṇa sā ca naḥ smṛtir āgatā. etat te devadevasya māhātmyaṃ kathitaṃ vibho. kapardino girīśasya mahābāho janārdana. ity uktaḥ sa tadā kṛṣṇas tapovananivāsibhiḥ. mānayām āsa tān sarvān ṛṣīn devakinandanaḥ. atharṣayaḥ saṃprahṛṣṭāḥ punas te kṛṣṇam abruvan. punaḥ saṃdarśayasvāsmān sadaiva madhusūdana. na hi naḥ sā ratiḥ svarge yā ca tvaddarśane vibho. tādṛśaṃ ca mahābāho yathāha bhagavān bhavaḥ. etat te sarvam ākhyātaṃ rahasyam arikarśana. tvam eva hy arthatattvajñaḥ pṛṣṭo 'smān pṛcchase sadā. tad asmābhir idaṃ guhyaṃ tvatpriyārtham udāhṛtam. na ca te 'viditaṃ kiṃ cit triṣu lokeṣu vidyate. janma caiva prasūtiś ca yac cānyat kāraṇaṃ bhuvi. vayaṃ tu baṭucāpalyād aśaktā guhyadhāraṇe. tataḥ sthite tvayi vibho laghutvāt pralapāmahe. na hi kiṃ cit tad āścaryaṃ yan na vetti bhavān iha. divi vā bhuvi vā deva sarvaṃ hi viditaṃ tava. sādhayāma vayaṃ deva vṛddhiṃ puṣṭim avāpnuhi. putras te sadṛśas tāta viśiṣṭo vā bhaviṣyati. bhīṣmaḥ. mahāprabhāvasaṃyukto dīptikīrtikaraḥ prabho. tataḥ praṇamya deveśaṃ yādavaṃ puruṣottamam. pradakṣiṇam upāvṛtya prajagmus te maharṣayaḥ. so 'yaṃ nārāyaṇaḥ śrīmān dīptyā paramayā yutaḥ. vrataṃ yathāvat tac cīrtvā dvārakāṃ punar āgamat. pūrṇe ca daśame māsi putro 'sya paramādbhutaḥ. rukmiṇyāṃ saṃmato jajñe śūro vaṃśadharaḥ prabho. sa kāmaḥ sarvajantūnāṃ sarvabhāgavato nṛpa. surāṇām asurāṇāṃ ca caraty antargataḥ sadā. so 'yaṃ puruṣaśārdūlo meghavarṇaś caturbhujaḥ. saṃśritaḥ pāṇḍavān premṇā bhavantaś cainam āśritāḥ. kīrtir lakṣmīr dhṛtiś caiva svargamārgas tathaiva ca. yatraiṣa saṃsthitas tatra devo viṣṇus trivikramaḥ. sendrā devās trayastriṃśat sthitā nātra vicāraṇā. ādidevo mahādevo bhūtānāṃ ca pratiśrayaḥ. anādinidhano 'vyakto mahātmā madhusūdanaḥ. svayaṃjāto mahātejāḥ surāṇām arthasiddhaye. sudustarārthatattvasya vaktā kartā ca mādhavaḥ. tava pārtha jayaḥ kṛtsnas tava kīrtis tathātulā. taveyaṃ pṛthivī kṛtsnā nārāyaṇasamāśrayāt. ayaṃ nāthas tavācintyo yasya nārāyaṇo hṛdi. sa bhavān bhūmipādhvaryū raṇāgnau hutavān nṛpān. kṛṣṇaḥ sruveṇa mahatā yugāntāgnisamena vai. duryodhanas tu śocyo 'sau saputrabhrātṛbāndhavaḥ. kṛtavān yo 'budhaḥ kopād dharigāṇḍīvavigraham. daiteyā dānavendrāś ca mahākāyā mahābalāḥ. cakrāgnau kṣayam āpannā dāvāgnau śalabhā iva. pratiyoddhuṃ na śakyo hi mānuṣair eṣa saṃyuge. nihīnaiḥ puruṣavyāghra sattvaśaktibalādibhiḥ. jayo yo 'yaṃ yugāntābhaḥ savyasācī raṇāgragaḥ. tejasā hatavān sarvaṃ suyodhanabalaṃ nṛpa. yat tu vai vṛṣabhāṅkena munibhyaḥ samudāhṛtam. purāṇaṃ himavatpṛṣṭhe tan me nigadataḥ śṛṇu. yāvad asyodbhavas tuṣṭis tejo vīryaṃ parākramaḥ. prabhāvaḥ sannatir janma kṛṣṇe tat tritayaṃ vibho. na śakyam anyathā kartuṃ tad yadi syāt tathāpy aṇu. yatra kṛṣṇo hi bhagavāṃs tatra tuṣṭir anuttamā. vayaṃ hi bālamatayaḥ paranetrāḥ suviklavāḥ. jñānapūrvaṃ prapannāḥ smo mṛtyoḥ panthānam uttamam. bhavāṃś cāpy ārjavaparaḥ sarvaṃ kṛtvā pratiśrayam. rājavṛttān na calate pratijñāpālane rataḥ. apy evātmavadhaṃ loke rājaṃs tvaṃ bahu manyase. na hi pratijñayā dattaṃ taṃ prahātum ariṃdama. kālenāyaṃ janaḥ sarvo nihato raṇamūrdhani. vayaṃ ca kālena hatāḥ kālo hi parameśvaraḥ. na hi kālena kālajña spṛṣṭaḥ śocitum arhati. kālo lohitaraktākṣaḥ kṛṣṇo daṇḍī sanātanaḥ. tasmāt kuntīsuta jñātīn neha śocitum arhasi. vyapetamanyur nityaṃ tvaṃ bhava kauravanandana. mādhavasya ca māhātmyaṃ śrutaṃ yat kathitaṃ mayā. tad eva tava paryāptaṃ sajjanasya nidarśanam. vyāsasya vacanaṃ śrutvā nāradasya ca dhīmataḥ. svayaṃ caiva mahārāja kṛṣṇasyārhattamasya vai. prabhāvaś carṣipūgasya kathitaḥ sumahān mayā. maheśvarasya saṃvādaḥ śailaputryāś ca bhārata. dhārayiṣyati yaś cemaṃ mahāpuruṣasaṃbhavam. śṛṇuyāt kathayed vā yaḥ sa vai śreyo labhet param. bhavitāraś ca tasyātha sarve kāmā yathepsitāḥ. pretya māheśvaraṃ lokaṃ labhate nātra saṃśayaḥ. nāyaṃ śreyobhikāmena pratipattuṃ janārdane. eṣa vai cākṣayo vipraiḥ smṛto rājañ janārdanaḥ. maheśvaramukhotsṛṣṭā ye ca dharmaguṇāḥ smṛtāḥ. te tvayā manasā dhāryāḥ kururāja divāniśam. evaṃ te vartamānasya samyagdaṇḍadharasya ca. prajāpālanadakṣasya svargaloko bhaviṣyati. dharmeṇa hi sadā rājā prajā rakṣitum arhati. yas tasya vipulo daṇḍaḥ samyag dharmaḥ sa kīrtyate. sa eṣa kathito rājan mayā sajjanasaṃnidhau. śaṃkarasyomayā sārdhaṃ saṃvādo dharmasaṃhitaḥ. śrutvā vā śrotukāmo vāpy arcayed vṛṣabhadhvajam. viśuddhena hi bhāvena ya icched bhūtim ātmanaḥ. eṣa tasyānavadyasya nāradasya mahātmanaḥ. saṃdeśo devapūjārthaṃ taṃ tathā kuru pāṇḍava. etad atyadbhutaṃ vṛttaṃ puṇyaṃ haimavate girau. vāsudevasya kaunteya sthāṇoś caiva svabhāvajam. daśa varṣasahasrāṇi badaryām eṣa sātvataḥ. tapaś cacāra vipulaṃ saha gāṇḍīvadhanvanā. triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau. viditau nāradād etau mama vyāsāc ca pārthiva. bāla eva mahābāhuś cakāra kadanaṃ mahat. kaṃsasya puṇḍarīkākṣo jñātitrāṇārthakāraṇāt. karmaṇām asya kaunteya nāntaṃ saṃkhyātum utsahe. śāśvatasya purāṇasya puruṣasya yudhiṣṭhira. dhruvaṃ śreyaḥ paraṃ tāta bhaviṣyati tavottamam. yasya te puruṣavyāghraḥ sahāyo 'yaṃ janārdanaḥ. duryodhanaṃ tu śocāmi pretyaloke 'tidurmatim. yatkṛte pṛthivī sarvā vinaṣṭā sahayadvipā. duryodhanāparādhena karṇasya śakunes tathā. vaiśaṃpāyanaḥ. duḥśāsanacaturthānāṃ kuravo nidhanaṃ gatāḥ. evaṃ prabhāṣamāṇe tu gāṅgeye puruṣarṣabhe. tūṣṇīṃ babhūva kauravyo madhye teṣāṃ mahātmanām. tac chrutvā vismayaṃ jagmur dhṛtarāṣṭrādayo nṛpāḥ. saṃpūjya manasā kṛṣṇaṃ sarve prāñjalayo 'bhavan. ṛṣayaś cāpi te sarve nāradapramukhās tathā. pratigṛhyābhyanandanta tad vākyaṃ pratipūjya ca. ity etad akhilaṃ sarvaṃ pāṇḍavo bhrātṛbhiḥ saha. śrutavān sumahac citraṃ puṇyaṃ bhīṣmānuśāsanam. yudhiṣṭhiras tu gāṅgeyaṃ viśrāntaṃ bhūridakṣiṇam. punar eva mahābuddhiḥ paryapṛcchan mahīpatiḥ. yudhiṣṭhiraḥ. ka upāyo varaprāptau sarveṣāṃ pāpakarmaṇām. bhīṣmaḥ. jñānasya ca parasyeha tan me brūhi pitāmaha. upāyo 'yaṃ varaprāptau paramaḥ parikīrtitaḥ. nārāyaṇasya tu dhyānam arcanaṃ yajanaṃ stutiḥ. śravaṇaṃ tatkathānāṃ ca vidvatsaṃrakṣaṇaṃ tathā. vidvacchuśrūṣaṇaprītir upadeśānupālanam. saṃdhyānena japenāśu mucyate prākṛto 'pi ca. japaś caturvidhaḥ prokto vaidikas tāntriko 'pi ca. paurāṇiko 'tha vidvadbhiḥ kathitaḥ smārta eva ca. dvijaśuśrūṣayā jñānaṃ vidvatsaṃrakṣaṇena vā. nāsādhyaṃ jñānināṃ kiṃ cit tasmād rakṣyā dvijās tvayā. suvratā bandhuhīnaikā vane pūrvaṃ yamena tu. āsīd āśvāsitā vidvatsaṃrakṣaṇaphalāt kila. viprasya maraṇe hetus tatpatnī pitṛśokadā. vaiśyā tvam abhilāṣeyaṃ viprakanyeti sāṃpratam. ity uktāśvāsitāpṛcchat kenaivaṃ pāpasaṃyutā. yamaḥ. jātā viprakule samyak śreyaś cāpi bravīhi me. anyajanmani vidvāṃsaṃ prahārair abhipīḍitam. coraśaṅkāvimokṣeṇa mokṣayitvā sujanmikā. ity uktāṣṭākṣaradhyānajapādiśreyasā tu sā. yamenānugṛhītābhūt puṇyalokanivāsinī. tan nityaṃ viduṣāṃ rakṣātatparo bhava bhūpate. teṣāṃ saṃrakṣaṇāt tuṣṭaḥ sarvapāpaiḥ pramucyate.