तस्माद् वाक्कायमनसा नाचरेद् अशुभं नरः। शुभाशुभान्य् आचरन् हि तस्य तस्याश्नुते फलम्। शुभान्य् एवाचरंल् लोके भक्तो नारायणस्य हि। तस्यैव तु पदं सूक्ष्मं प्रसादाद् अश्नुयात् परम्। युधिष्ठिरः। चित्तं मे दूयते तात लोके परम् अविन्दतः। अशाश्वतम् इदं सर्वं जगत् स्थावरजंगमम्। ऋते नारायणं पुण्यं प्रतिभाति पितामह। नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः। भीष्मः। तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयानघ। युधिष्ठिर महाप्राज्ञ मया दृष्टं च संगरे। युधिष्ठिरः। त्वत्त एव तु राजेन्द्र राजधर्माश् च पुष्कलाः। श्रुतं पुराणम् अखिलं नारदेन निवेदितम्। गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम्। एकान्तधर्मनियमाः समासव्यासकल्पिताः। कथिता वै महाभाग त्वया वै मदनुग्रहात्। लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः। आतिथेयविधिश् चैव तपांसि नियमाश् च ये। वेदवादप्रसिद्धाश् च वाजपेयादयो मखाः। यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः। जपयज्ञाश् च विविधा ब्राह्मणानां तपस्विनाम्। एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम्। तेषां फलविशेषाश् च उञ्छधर्मास् तथैव च। अहन्य् अहनि ये प्रोक्ता महायज्ञा द्विजातिनाम्। वेदश्रवणधर्माश् च ब्रह्मयज्ञफलं तथा। वेदव्रतविधानं च नियमाश् चैव वैदिकाः। स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा। उत्तरोत्तरसेवायाम् आश्रमाणां च यत् फलम्। प्रत्येकशश् च निष्ठायाम् आश्रमाणां महामते। मासपक्षोपवासानां सम्यग् उक्तं फलं च यत्। अनाशितानां ये लोका ये च पञ्चतपा नराः। वीराध्वानं प्रपन्नानां या गतिश् चाग्निहोत्रिणाम्। ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम्। वर्षे स्थण्डिलशायीनां फलं यत् परिकीर्तितम्। लोके चक्रचराणां च द्विजानां यत् फलं स्मृतम्। अन्नादीनां च दानानां यत् फलं परिकीर्तितम्। सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः। राज्ञां धर्माश् च ये लोके सम्यक् पालयतां प्रजाः। ये च सत्यव्रता लोके ये च तीर्थे कृतश्रमाः। मातापितृपरा ये च गुरुवृत्तीश् च संश्रिताः। गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा। त्यजन्त्य् अभिमुखाः प्राणान् निर्भयाः सत्त्वम् आश्रिताः। सहस्रदक्षिणानां च या गतिर् ददतां वर। वे च संध्याम् उपासन्ते सम्यग् उक्ता महाव्रताः। तथा योगविधानं च यद् ग्रन्थेष्व् अभिशब्दितम्। वेदाद्याः श्रुतयश् चापि श्रुता मे कुरुसत्तम। सिद्धान्तनिर्णयाश् चापि द्वैपायनमुखोद्गताः। श्रुताः पञ्च महायागा येषु सर्वं प्रतिष्ठितम्। तत्प्रभेदेषु ये धर्मास् ते ऽपि वै कृत्स्नशः श्रुताः। न च दूषयितुं शक्याः सद्भिर् उक्ता हि ते तथा। एतेषां किल धर्माणाम् उत्तमो वैष्णवो विधिः। रक्षते भगवान् विष्णुर् भक्तम् आत्मशरीरवत्। कर्मणो हि कृतस्येह कामितस्य द्विजोत्तमैः। फलं ह्य् अवश्यं भोक्तव्यम् ऋषिर् द्वैपायनो ऽब्रवीत्। भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता। न मे प्रीतिकरास् त्व् एते विषोदर्का हि मे मताः। वधात् कष्टतरं मन्ये गर्भवासं महाद्युते। दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो। ततः कष्टतराणीह गर्भवासे हि विन्दति। ततश् चाभ्यधिकां तीव्रां वेदनां लभते नरः। गर्भापक्रमणे तात कर्मणाम् उपसर्पणे। तस्मान् मे निश्चयो जातो धर्मेष्व् एतेषु भारत। तद् इच्छामि कुरुश्रेष्ठ त्वत्प्रसादान् महामते। तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा। येनोष्णदा वैतरणी असिपत्रवनं च तत्। कुण्डानि चाग्नितप्तानि क्षुरधारापथस् तथा। शाल्मलीं च महाघोराम् आयसीं घोरकण्टकाम्। मातापितृकृते चापि सुहृन्मित्रार्थकारणात्। आत्महेतोश् च पापानि कृतानीह नरैश् च यैः। तेषां फलोदयं कष्टम् ऋषिर् द्वैपायनो ऽब्रवीत्। कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम्। रौरवे क्षिप्यमाणानां प्रहारैर् मथितात्मनाम्। स्तनताम् अपकृत्तानां पिबताम् आत्मशोणितम्। तेषाम् एव प्रवदतां कारुण्यं नास्ति यन्त्रतः। तृष्णाशुष्कोष्ठकण्ठानां विह्वलानाम् अचेतसाम्। सर्वदुःखाभितप्तानां रुजार्तानां च क्रोशताम्। वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश। एकः करोति पापानि सहभोज्यानि बान्धवैः। तेषाम् एकः फलं भुङ्क्ते कष्टे वैवस्वतक्षये। येन नैतां गतिं गच्छेन् न विण्मूत्रास्थिपिच्छिले। विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते। को गर्भवासात् परतो नरको ऽन्यो विधीयते। यत्र वासकृतो योगः कुक्षौ वासो विधीयते। जातो विस्तीर्णदुःखः स्याद् भवते विगतज्वरः। न चैष लभ्यते कामो जातमात्रं हि मानवम्। आविशन्तीह दुःखानि मनोवाक्कायिकानि तु। तैर् अस्वतन्त्रो भवति पीड्यमानो भयानकैः। तैर् गर्भवासं गच्छति अवशो जायते तथा। अवशश् चेहते जन्तुर् व्रजत्य् अवश एव हि। जरसा रूपविध्वंसं प्राप्नोत्य् अवश एव तु। शरीरभेदम् आप्नोति जीर्यत्य् अवश एव तु। एवं ह्य् अनियतो मृत्युर् भवत्य् एव सदा नृषु। गर्भेषु म्रियते कश् चिज् जायमानस् तथापरः। जाता म्रियन्ते बहवो यौवनस्थास् तथापरे। मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु। को जन्मनो नोद्विजते स्वयंभूर् अपि यो भवेत्। कुतस् त्व् अस्मद्विधस् तात मरणस्य वशानुगः। नित्याविष्टो भयेनाहं मनसा कुरुसत्तम। मुहूर्तम् अप्य् अहं शर्म न विन्दामि महामते। कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः। अन्नैर् बहुविधैः पुष्टं वस्त्रैर् नानाविधैर् वृतम्। चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम्। यानैर् बहुविधैर् यातम् एकान्तेनैव लालितम्। यौवनोद्धतरूपाभिर् मदविह्वलगामिभिः। इष्टाभिर् अभिरामाभिर् वरस्त्रीभिर् अयन्त्रितम्। रमितं सुचिरं कालं शरीरम् अमितप्रभम्। अवितृप्ता गमिष्यन्ति हित्वा प्राणांस् तथापरे। स्वर्गे ऽप्य् अनियता भूतिस् तथैवाकाशसंश्रये। देवाप्य् अधिष्ठानवशास् तस्माद् देवं न कामये। कामानां नास्त्य् अधिष्ठानम् अकामस् तु निवर्तते। लोकसंग्रहधर्मास् तु सर्व एव न संशयः। डोलासधर्मान् धर्मज्ञ ऋषिर् द्वैपायनो ऽब्रवीत्। कस्मात् को विषमं दुःखम् आरोहेत विचक्षणः। विद्यमाने समे मार्गे डोलाधर्मविवर्जिते। को ह्य् आत्मानं प्रियं लोके डोलासाधर्म्यतां नयेत्। चराचरैः सर्वभूतैर् गन्तव्यम् अविशङ्कया। अस्माल् लोकात् परं लोकम् अपाथेयम् अदैशिकम्। घोरं तमः प्रवेष्टव्यम् अत्रातारम् अबान्धवम्। ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम्। अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः। ततस् ते न च पश्यन्ति प्राप्नुवन्ति परं पदम्। रक्षते भगवान् विष्णुर् भक्तान् आत्मशरीरवत्। कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु। मातापितृसहस्राणि संप्राप्तानि मया गुरो। स्नेहापन्नेन पीतास् तु मातॄणां विविधाः स्तनाः। पुत्रदारसहस्राणि इष्टानिष्टशतानि च। प्राप्तान्य् अधिष्ठानवशाद् अतीतानि तथैव च। न क्व चिच् च सुखं प्राप्तं न क्व चिच् छाश्वती गतिः। स्थानैर् महद्भिर् विभ्रंशो दुःखलब्धैः पुनः पुनः। धननाशश् च संप्राप्तो लब्ध्वा दुःखेन तद् धनम्। अध्वगानाम् इव पथि च्छायाम् आश्रित्य संगमः। एवं कर्मवशो लोको ज्ञातीनां हितसंगमः। विश्रम्य च पुनर् याति कर्मभिर् दर्शितां गतिम्। एतद् ईदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम्। को न बिभ्येत् कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात्। बुद्धिश् च मे समुत्पन्ना वैष्णवे धर्मविस्तरे। तद् एष शिरसा पादौ गतो ऽस्मि भगवंस् तव। शरणं च प्रपन्नो ऽस्मि गन्तव्ये शरणे ध्रुवे। जन्ममृत्युजराखिन्नस् त्रिभिर् दुःखैर् निपीडितः। इच्छामि भवता त्रातुम् एभ्यस् त्वत्तो महामुने। तस्याद्ययुगधर्मस्य श्रवणात् कुरुपुंगव। एतद् आद्ययुगोद्भूतं त्रेतायां तत् तिरोहितम्। भीष्मः। स एव धर्मम् अखिलम् ऋषिर् द्वैपायनो ऽब्रवीत्। सदृशं राजशार्दूल वृत्तस्य च कुलस्य च। को राज्यं विपुलं गृह्य स्फीताकारपुरं महत्। निर्जितारातिसामन्तं देवराज्योपमं सुखम्। राज्ये राज्यगुणा ये च तान् व्युदस्य नराधिप। दोषं पश्यसि राजेन्द्र देहे ऽस्मिन् पाञ्चभौतिके। अतिक्रान्तास् त्वया राजन् वृत्तेन प्रपितामहाः। धर्मो विग्रहवान् धीरो विदुरश् च महायशाः। संजयश् च महातेजा ये चान्ये दिव्यदर्शनाः। प्रवृत्तज्ञानसंपन्नास् तत्त्वज्ञानविदो नृप। ते ऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः। अनित्यं दुःखसंतप्तं जगद् एतन् न संशयः। एवम् एतान् महाबाहो ब्रह्माद्यान् ससुरासुरान्। अनित्यान् सततं पश्य मनुष्यादिषु का कथा। नित्यां तु प्रकृतीम् आहुर् यासौ प्रसवधर्मिणी। अरूपिणीम् अनिर्देश्याम् अकृतां पुरुषातिगाम्। ताम् अत्यन्तसुखां सौख्यां निर्वाणम् इति संज्ञिताम्। आहुर् ब्रह्मर्षयो ह्य् आद्यां भुवि चैव महर्षयः। तया पुरुषरूपिण्या धर्मप्रकृतिको ऽनघ। स यात्य् एव हि निर्वाणं यत् तत् प्रकृतिसंज्ञितम्। स एष प्राकृतो धर्मो भ्राजत्य् आदियुगे नृप। विकारधर्माः शेषेषु युगेषु भरतर्षभ। भ्राजन्ते ऽभ्यधिकं वीर संसारपथगोचराः। प्रकृतीनां च सर्वासाम् अकृता प्रकृतिः स्मृता। एवं प्रकृतिधर्मा हि वरां प्रकृतिम् आश्रिताः। पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम्। सत्त्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे। कामं कामयमानेषु ब्राह्मणेषु तिरोहितः। कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव। जातो मन्दप्रचारो हि धर्मः कलियुगे नृप। नित्यस् तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः। ब्रह्माद्या अपि देवाश् च यं सदा पर्युपासते। तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम्। तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम्। कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते। तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम्। इत्य् एतद् विष्णुम् आश्रित्य संसारग्रहमोक्षणम्। कथितं ते महाबाहो किं भूयः श्रोतुम् इच्छसि। युधिष्ठिरः। क्लिश्यमानेषु भूतेषु जातीमरणसागरे। भीष्मः। यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। सनत्कुमारस्य सतः संवादं नारदस्य च। सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः। पूर्वजातास् त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः। सनकः सनन्दनश् चैव तृतीयश् च सनातनः। जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः। चतुर्थश् चैव तेषां स भगवान् योगवित्तमः। सनत्कुमार इति वै कथयन्ति महर्षयः। हैरण्यगर्भः स मुनिर् वसिष्ठः पञ्चमः स्मृतः। षष्ठः स्थाणुः स भगवान् अमेयात्मा त्रिशूलधृत्। ततो ऽपरे समुत्पन्नाः पावका दारुणे क्रतौ। मनसा स्वयंभुवो हीमे मरीचिप्रमुखास् तथा। भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा। अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः। पुलस्त्यस्यानुजो विद्वान् पुलहो नु महाद्युतिः। पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः। सर्वम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान्। प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः। मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः। सनकप्रभृतयस् तत्र ये च प्राप्ताः परं पदम्। कृत्स्नं क्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात्। सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित्। त्रींल् लोकान् अचरच् छश्वद् ऐश्वर्येण परेण हि। रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः। सूक्ष्मम् अष्टगुणं राजन्न् इतरे नृपसत्तम। मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते। नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे। सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः। सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः। इतिहासपुराणे च श्रुतिर् एषा सनातनी। ब्राह्मणा वरदान् एतान् प्राहुर् वेदान्तपारगाः। एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते। गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा। पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः। देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम। कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च। देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतम्। गौतमाद् अपि कौण्डिन्याद् भारद्वाजात् तथैव च। मार्कण्डेयात् तथैवैतद् ऋषेर् देवमतात् तथा। पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम्। परं रहस्यं वेदान्तं प्रियं हि परमात्मनः। अतः परं प्रवक्ष्यामि यन् मां पृच्छसि भारत। तद् इहैकमनोबुद्धिः शृणुष्वावहितो नृप। स्वायंभुवस्य संवादं नारदस्य च धीमतः। सनत्कुमारो भगवान् दिव्यं जज्वाल तेजसा। अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः। स कदा चिन् महाभागो मेरुपृष्ठं समागमत्। नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना। जिज्ञासमानाव् अन्योन्यं सकाशे ब्रह्मणस् ततः। ब्रह्मभावगतौ तात परमार्थार्थचिन्तकौ। मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम्। क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम्। सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम। लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम्। सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम्। सांख्ययोगं च यो वेद पाणाव् आमलकं यथा। नारदः। नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः। त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने। प्रभवं चाप्य् अयं चैव श्रोतुम् इच्छामि तत्त्वतः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। कालसंख्यां च सर्गं च स्रष्टारं पुरुषं प्रभुम्। यं विश्वम् उपजीवन्ति येन सर्वम् इदं ततम्। सनत्कुमारः। यं प्राप्य न निवर्तन्ते तद् भवान् वक्तुम् अर्हति। यं विश्वम् उपजीवन्ति यम् आहुः पुरुषं परम्। तं वै शृणु महाबुद्धे नारायणम् अनामयम्। एष नारायणो नाम यं विश्वम् उपजीवति। एष स्रष्टा विधाता च हर्ता पालयिता प्रभुः। प्राप्यैनं न निवर्तन्ते यतयो ऽध्यात्मचिन्तकाः। एतावद् एव वक्तव्यं मया नारद पृच्छते। परं न वेद्मि तत् सर्गं यावांश् चायं यथाप्ययम्। श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः। यथाकालपरीमाणं तत्त्वानाम् ऋषिसत्तम। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। कालसंख्यां च सर्गं च सर्वम् एव महामुने। तमसः कुर्वतः सर्गं तामसो ह्य् अभिधीयते। ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः। पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः। तानि ते संप्रवक्ष्यामि तद् इहैकमनाः शृणु। महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा। वेदास् तपश् च यज्ञाश् च धर्माश् च भगवान् विभुः। प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च। नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै। कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः। चतुर्युगसहस्राणि चतुर्युगम् अरिंदम। प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः। दश कल्पसहस्राणि अव्ययस्य महानिशा। तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः। निशासुप्तो ऽथ भगवान् क्षपान्ते प्रत्यबुध्यत। पश्चाद् बुद्ध्वा ससर्जापस् तासु वीर्यम् अवासृजत्। तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम्। अहंकृत्वा ततस् तस्मिन् ससर्ज प्रभुर् ईश्वरः। हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलवन् मुनिम्। भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम्। मूर्तिमन्तं महात्मानं विश्वशंभुं स्वयंभुवम्। अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिषां वरम्। चक्रे तिरोधां भगवान् एतत् कृत्वा महायशाः। एतस्यापि निशाम् आहुर् वेदवेदाङ्गपारगाः। पञ्च कल्पसहस्राणि अहर् एतावद् एव च। स सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः। सृजते ह त्व् अहंकारं परमेष्ठिनम् अव्ययम्। अहंकारेण वै लोका व्याप्ताः साहंकृतेन वै। येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे। देवर्षिदानवनरा यक्षगन्धर्वकिंनराः। उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च। एतस्यापि निशाम् आहुस् तृतीयाम् अथ कुर्वतः। त्रीणि कल्पसहस्राणि अहर् एतावद् एव तु। अहंकारस् तु सृजति महाभूतानि पञ्च वै। पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्। एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः। शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च। गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः। नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे। एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वतः। चतुर्युगसहस्रे वै अहोरात्रास् तथैव च। अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते। इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात्। मनः सर्वम् इदं तात विश्वं सर्वम् इदं जगत्। न तथान्यानि भूतानि बलवन्ति यथा मनः। एतस्यापि ह वै सर्गं षष्ठम् आहुर् द्विजातयः। अहः कल्पसहस्रं वै रात्रिर् एतावती तथा। ऊर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्रह्मणो विदुः। अष्टमं चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः। एतानि नव सर्गाणि तत्त्वानि च महामुने। चतुर्विंशति तत्त्वानि तत्त्वसंख्यानि ते ऽनघ। सर्वस्य प्रभवः पूर्वम् उक्तो नारायणः प्रभुः। अव्ययः प्रभवश् चैव अव्यक्तस्य महामुने। प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। यथाश्रुतं यथादृष्टं तत्त्वतो वै निबोध मे। सनत्कुमारः। अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि। एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च। कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः। बुद्धीन्द्रियाणाम् अथ तु ईश्वरो मन उच्यते। मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम्। भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम्। भवान् हि कुशलश् चैव धर्मेष्व् एषु परेषु वै। कालाग्निर् अह्नः कल्पान्ते जगद् दहति चांशुभिः। ततः सर्वाणि भूतानि स्थावराणि चराणि च। महाभूतानि दग्धानि स्वयोनिं गमितानि वै। कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका। निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा। जगत् प्रलीनं जगति जगच् चाप्सु प्रलीयते। नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा। ततो मयूखजालेन सूर्यस् त्व् आपीयते जलम्। रसात्मा लीयते चार्के तदा ब्राह्मणसत्तम। अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा। अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते। तं तथा विस्फुरन्तं हि वायुर् जरयते महान्। महता बलवेगेन आदत्ते तं हि भानुमान्। वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा। प्रशाम्यति ततो वायुः खं तु तिष्ठति नानदत्। तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा। स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस् तु वै। भुङ्क्ते च स तदा व्योम मनस् तात दिगात्मकम्। व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते। संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा। चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम। विनष्टे च तदा चित्ते अहंकारो ऽभवन् महान्। अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः। अभिमाने विनष्टे तु महान् ब्रह्मा विराजते। तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम्। येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना। मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम्। ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्ताव्यक्तम् असंशयः। एषो ऽव्ययस्य प्रलयो मया ते परिकीर्तितः। अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम्। रसो ऽधिभूतं वरुणो ऽधिदैवतं स्यात् ॥४॥ पृथिवी पञ्चमं। पाञ्चभौतिकम् एतच् चतुष्टयम् अनुवर्णितम् ॥६॥। भूतं घ्राणम् अध्यात्मं गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् ॥५॥। अधिभूतं सूर्यो ऽधिदैवतं स्यात् ॥३॥ आपश् चतुर्थं भूतं जिह्वाध्यात्मं। आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् ॥१॥। वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद्। अधिदैवतं स्यात् ॥२॥ ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम्। चन्द्रमा अधिदैवतं स्यात् ॥७॥ अहंकारो ऽध्यात्मम् अभिमानो। ऽधिभूतं विरिञ्चो ऽधिदैवतं स्यात् ॥८॥ बुद्धिर् अध्यात्मं व्यवसायो। अग्निर् अधिदैवतं स्यात् ॥६॥ मनो ऽध्यात्मं मन्तव्यम् अधिभूतं। ऽधिभूतं ब्रह्माधिदैवतं स्यात् ॥९॥। अत ऊर्ध्वम् इन्द्रियम् अनुवर्णयिष्यामः ॥१॥ पादाव् अध्यात्मं। ऽधिभूतं प्रजापतिर् अधिदैवतं स्यात् ॥५॥ वाग् अध्यात्मं वक्तव्यम् अधिभूतम्। कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतं स्यात् ॥३॥ पायुर् अध्यात्मं विसर्गो। गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् ॥२॥ हस्ताव् अध्यात्मं। ऽधिभूतं मित्रो ऽधिदैवतं स्यात् ॥४॥ उपस्थो ऽध्यात्मम् आनन्दो। स्तनितगर्जितोन्मिश्रं तद्वत् तत्रैव प्रणाशात् । एवम् अव्यक्तो। गुणान् सृजति संहरते च ॥४॥। चोर्ध्वम् उत्तिष्ठते संहरते च ॥३॥ यथा चान्तरिक्षाद् अभ्रकोशम् उत्तिष्ठति। गुणान् सृजति संहरते च ॥२॥ यथार्णवाद् ऊर्मिमालानिचयश्। क्रीडार्थम् ॥१॥ यथादित्यो ऽंशुजालं क्षिपति संहरते च एवम् अव्यक्तो। एवम् अव्यक्तो भगवान् सकृत् कृत्स्नान् कुरुते संहरते च । कस्मात् ।। च ॥२॥ भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावतश् च प्रकृतिः ।। शुचिः ।तेनाधिष्ठिता प्रकृतिश् चेतयति नित्यं सहधर्मा। यथा कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयति एवम् अव्यक्तो। लोकान् प्रकाशयते प्रवेशयते च ॥१॥ एवं चेतनश् च भगवान् पञ्चविंशकः। क्रियावान् अजरामरः क्षेत्रज्ञो नारायणः पुरुषः ॥३॥। भीष्मः। इत्य् एतन् नारदायोक्तं कुमारेण च धीमता। एतच् छ्रुत्वा द्विजो राजन् सर्वयज्ञफलं लभेत्। युधिष्ठिरः। आत्मन्य् अग्नीन् समाधाय य एते कुरुनन्दन। द्विजातयो व्रतोपेता जपयज्ञपरायणाः। यजन्त्य् आरम्भयज्ञैश् च मानसं यज्ञम् आस्थिताः। अग्निभ्यश् च परं नास्ति येषाम् एषा व्यवस्थितिः। तेषां गतिर् महाप्राज्ञ कीदृशी किंपराश् च ते। भीष्मः। एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह। अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। वैकुण्ठस्य च संवादं सुपर्णस्य च भारत। अमृतस्य समुत्पत्तौ देवानाम् असुरैः सह। षष्टिं वर्षसहस्राणि देवासुरम् अवर्तत। तत्र देवास् तु दैतेयैर् वध्यन्ते भृशदारुणैः। त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः। आर्तास् ते देवदेवेशं प्रपन्नाः शरणैषिणः। पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः। ता दृष्ट्वा देवता ब्रह्मा संभ्रान्तेन्द्रियमानसः। वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह। ततः स देवैः सहितः पद्मयोनिर् नरेश्वर। तुष्टाव प्राञ्जलिर् भूत्वा नारायणम् अनामयम्। त्वद्रूपचिन्तनान् नाम्नां स्मरणाद् अर्चनाद् अपि। तपोयोगादिभिश् चैव श्रेयो यान्ति मनीषिणः। भक्तवत्सल पद्माक्ष परमेश्वर पापहन्। परमात्माविकाराद् य नारायण नमो ऽस्तु ते। नमस् ते सर्वलोकादे सर्वात्मामितविक्रम। सर्वभूतभविष्येश सर्वभूतमहेश्वर। देवानाम् अपि देवस् त्वं सर्वविद्यापरायणः। जगद्बीजसमाहार जगतः परमो ह्य् असि। त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः। लोकांश् च लोकपालांश् च ऋषींश् च जयतां वर। वेदाः साङ्गोपनिषदः सरहस्याः ससंग्रहाः। स्ॐकाराः सवषट्काराः प्राहुस् त्वां यज्ञम् उत्तमम्। पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्। तपस्विनां तपश् चैव दैवतं देवतास्व् अपि। एवमादिपुरस्कारैर् ऋक्सामयजुषां गणैः। वैकुण्ठं तुष्टुवुर् देवाः सर्वे ब्रह्मर्षिभिः सह। ततो ऽन्तरिक्षे वाग् आसीन् मेघगम्भीरनिस्वना। जेष्यध्वं दानवान् यूयं मयैव सह संगरे। ततो देवगणानां च दानवानां च युध्यताम्। प्रादुरासीन् महातेजाः शार्ङ्गचक्रगदाधरः। सुपर्णपृष्ठम् आस्थाय तेजसा प्रदहन्न् इव। व्यधमद् दानवान् सर्वान् बाहुद्रविणतेजसा। तं समासाद्य समरे दैत्यदानवपुंगवाः। व्यनश्यन्त महाराज पतंगा इव पावकम्। स विजित्यासुरान् सर्वान् दानवांश् च महामतिः। पश्यताम् एव देवानां तत्रैवान्तरधीयत। तं दृष्ट्वान्तर्हितं देवं विष्णुं देवामितद्युतिम्। विस्मयोत्फुल्लनयना ब्रह्माणम् इदम् अब्रुवन्। भगवन् सर्वलोकेश सर्वलोकपितामह। इदम् अत्यद्भुतं वृत्तं तन् नः शंसितुम् अर्हसि। देवासुरे ऽस्मिन् संग्रामे त्राता येन वयं प्रभो। एतद् विज्ञातुम् इच्छामः कुतो ऽसौ कश् च तत्त्वतः। को ऽयम् अस्मान् परित्राय तूष्णीम् एव यथागतम्। प्रतिप्रयातो दिव्यात्मा तं नः शंसितुम् अर्हसि। एवम् उक्तः सुरैः सर्वैर् वचनं वचनार्थवित्। ब्रह्मा। उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो। न ह्य् एनं वेद तत्त्वेन भुवनं भुवनेश्वरम्। संख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम्। अत्र वो वर्तयिष्यामि इतिहासं पुरातनम्। सुपर्णस्य च संवादम् ऋषीणां चापि देवताः। पुरा ब्रह्मर्षयश् चैव सिद्धाश् च भुवनेश्वरम्। आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः। तेषां कथयतां तत्र कथान्ते पततां वरः। प्रादुरासीन् महातेजा वाहश् चक्रगदाभृतः। स तान् ऋषीन् समासाद्य विनयावनताननः। अवतीर्य महावीर्यस् तान् ऋषीन् अभिजग्मिवान्। अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः। उपाविशत तेजस्वी भूमौ वेगवतां वरः। तम् आसीनं महात्मानं वैनतेयं महाद्युतिम्। ऋषयः परिपप्रच्छुर् महात्मानस् तपस्विनः। कौतूहलं वैनतेय परं नो हृदि वर्तते। तस्य नान्यो ऽस्ति वक्तेह त्वाम् ऋते पन्नगाशन। तद् आख्यातुम् इहेच्छामो भवता प्रश्नम् उत्तमम्। एवम् उक्तः प्रत्युवाच प्राञ्जलिर् विनतासुतः। धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मां ब्रह्मर्षिसत्तमाः। प्रष्टव्यं प्रष्टुम् इच्छन्ति प्रीतिमन्तो ऽनसूयकाः। किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः। यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुम् अर्हथ। नमस्कृत्वा ह्य् अनन्ताय ततस् ते ऋषिसत्तमाः। प्रष्टुं प्रचक्रमुस् तत्र वैनतेयं महाबलम्। देवदेवं महात्मानं नारायणम् अनामयम्। भवान् उपास्ते वरदं कुतो ऽसौ कश् च तत्त्वतः। प्रकृतिर् विकृतिर् वास्य कीदृशी क्व नु संस्थितिः। एतद् भवन्तं पृच्छामो देवो ऽयं क्व कृतालयः। एष भक्तप्रियो देवः प्रियभक्तस् तथैव च। त्वं प्रियश् चास्य भक्तश् च नान्यः काश्यप विद्यते। मुष्णन्न् इव मनश्चक्षूंष्य् अविभाव्यतनुर् विभुः। अनादिमध्यनिधनो न विद्मैनं कुतो ह्य् असौ। वेदेष्व् अपि च विश्वात्मा गीयते न च विद्महे। तत्त्वतस् तत्त्वभूतात्मा विभुर् नित्यः सनातनः। पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्। गुणाश् चैषां यथासंख्यं भावाभावौ तथैव च। तमः सत्त्वं रजश् चैव भावाश् चैव तदात्मकाः। मनो बुद्धिश् च तेजश् च बुद्धिगम्यानि तत्त्वतः। जायन्ते तात कस्माद् धि तिष्ठते तेष्व् असौ विभुः। संचिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम्। तस्य देवस्य तत्त्वेन तन् नः शंस यथातथम्। एतम् एव परं प्रश्नं कौतूहलसमन्विताः। सुपर्णः। एवं भवन्तं पृच्छामस् तन् नः शंसितुम् अर्हसि। स्थूलतो यस् तु भगवांस् तेनैव स्वेन हेतुना। त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपम् आस्थितः। मया तु महद् आश्चर्यं पुरा दृष्टं सनातने। देवे श्रीवृक्षनिलये तच् छृणुध्वम् अशेषतः। न स्म शक्यो मया वेत्तुं न भवद्भिः कथं चन। यथा मां प्राह भगवांस् तथा तच् छ्रूयतां मम। मयामृतं देवतानां मिषताम् ऋषिसत्तमाः। हृतं विपाट्य तद् यन्त्रं विद्राव्यामृतरक्षिणः। देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे। उन्मथ्याशु गिरींश् चैव विक्षोभ्य च महोदधिम्। तं दृष्ट्वा मम विक्रान्तं वाग् उवाचाशरीरिणी। प्रीतो ऽस्मि ते वैनतेय कर्मणानेन सुव्रत। अवृथा ते ऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते। ताम् एवंवादिनीं वाचम् अहं प्रत्युक्तवांस् तदा। ज्ञातुम् इच्छामि कस् त्वं हि ततो मे दास्यसे वरम्। प्रकृतिर् विकृतिर् वा त्वं देवो वा दानवो ऽपि वा। ततो जलदगम्भीरं प्रहस्य वदतां वरः। उवाच वरदः प्रीतः काले त्वं माभिवेत्स्यसि। वाहनं भव मे साधो वरं दद्मि तवोत्तमम्। न ते वीर्येण सदृशः कश् चिल् लोके भविष्यति। पतंग पततां श्रेष्ठ न देवो नापि दानवः। मत्सखित्वम् अनुप्राप्तो दुर्धर्षश् च भविष्यसि। तम् अब्रवं देवदेवं माम् एवंवादिनं परम्। प्रयतः प्राञ्जलिर् भूत्वा प्रणम्य शिरसा विभुम्। एवम् एतन् महाबाहो सर्वम् एतद् भविष्यति। वाहनं ते भविष्यामि यथा वदति मां भवान्। ममापि च महाबुद्धे निश्चयं श्रूयताम् इति। ध्वजस् ते ऽहं भविष्यामि रथस्थस्य न संशयः। तथास्त्व् इति स माम् उक्त्वा भूयः प्राह महामनाः। न ते गतिविघातो ऽद्य भविष्यत्य् अमृतं विना। एवं कृत्वा तु समयं देवदेवः सनातनः। माम् उक्त्वा साधयस्वेति यथाभिप्रायतो गतः। ततो ऽहं कृतसंवादो तेन केनापि सत्तमाः। कौतूहलसमाविष्टः पितरं काश्यपं गतः। सो ऽहं पितरम् आसाद्य प्रणिपत्याभिवाद्य च। सर्वम् एतद् यथातथ्यम् उक्तवान् पितुर् अन्तिके। श्रुत्वा तु भगवान् मह्यं ध्यानम् एवान्वपद्यत। स मुहूर्तम् इव ध्यात्वा माम् आह वदतां वरः। धन्यो ऽस्य् अनुगृहीतश् च यत् त्वं तेन महात्मना। संवादं कृतवांस् तात गुह्येन परमात्मना। स्थूलदृश्यः स भगवांस् तेन तेनैव हेतुना। दृश्यते ऽव्यक्तरूपस्थः प्रधानं प्रभवाप्ययः। मया हि स महातेजा नान्ययोगसमाधिना। तपसोग्रेण तेजस्वी तोषितस् तपसां निधिः। ततो मे दर्शयाम् आस तोषयन्न् इव पुत्रक। श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः। रक्तनीलासितनिभः सहस्रोदरपाणिमान्। द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः। अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा। तम् उपासन्ति परमं गुह्यम् अक्षरम् अव्ययम्। समासाद्य तु तं विश्वम् अहं मूर्ध्ना प्रणम्य च। ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः। महामेघौघधीरेण स्वरेण जयतां वरः। आभाष्य पुत्र पुत्रेति इदम् आह धृतं वचः। त्वयाभ्युदयकामेन तपश् चीर्णं महामुने। अमुक्तस् त्वं न मां सङ्गैर् अविमुक्तो ऽद्य पश्यसि। यदा सङ्गैर् विमुक्तश् च गतमोहो गतस्पृहः। भविष्यसि तदा ब्रह्मन् माम् अनुध्यास्यसे द्विज। एकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः। ज्ञास्यसे मां ततो ब्रह्मन् वीतमोहश् च तत्त्वतः। तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा। विश्वरूपेण देवेन पुरुषेण महात्मना। तम् एवाराधय क्षिप्रं तम् आराध्य न सीदसि। सो ऽहम् एवं भगवता पित्रा ब्रह्मर्षिसत्तमाः। सुपर्णः। अनुगीतो यथान्यायं स्वम् एव भवनं गतः। सो ऽहम् आमन्त्र्य पितरं तद्भावगतमानसः। स्वम् एवालयम् आसाद्य तम् एवार्थम् अचिन्तयम्। तद्भावगतभावात्मा तद्भूतगतमानसः। गोविन्दं चिन्तयन्न् आसे शाश्वतं परम् अव्ययम्। धृतं बभूव हृदयं नारायणदिदृक्षया। सो ऽहं वेगं समास्थाय मनोमारुतवेगवान्। रम्यां विशालां बदरीं गतो नारायणाश्रमम्। ततस् तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम्। गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम्। ऋग्यजुःसामभिश् चैनं तुष्टाव परया मुदा। अथापश्यं सुविपुलम् अश्वत्थं देवसंश्रयम्। चतुर्द्विगुणपीनांसः शङ्खचक्रगदाधरः। प्रादुर्बभूव पुरुषः पीतवासाः सनातनः। मध्याह्नार्कप्रतीकाशस् तेजसा भासयन् दिशः। संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः। प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः। दिशश् च विदिशश् चैव भासयन् स्वेन तेजसा। तम् अहं पुरुषं दिव्यं व्रजन्तम् अमितौजसम्। अनुवव्राज वेगेन शनैर् गच्छन्तम् अव्ययम्। योजनानां सहस्राणि षष्टिम् अष्टौ तथा शतम्। तथा शतसहस्रं च शतं द्विगुणम् एव च। स गत्वा दीर्घम् अध्वानम् अपश्यम् अहम् अद्भुतम्। महान्तं पावकं दीप्तम् अर्चिष्मन्तम् अनिन्धनम्। शतयोजनविस्तीर्णं तस्माद् द्विगुणम् आयतम्। विवेश स महायोगी पावकं पावकद्युतिः। तत्र शंभुस् तपस् तेपे महादेवः सहोमया। स तेन संविदं कृत्वा पावकं समतिक्रमत्। श्रमाभिभूतेन मया कथं चिद् अनुगम्यते। गत्वा स दीर्घम् अध्वानं भास्करेणावभासितम्। अभास्करम् अमर्यादं विवेश सुमहत्तमः। अथ दृष्टिः प्रतिहता मम तत्र बभूव ह। यथास्वभावं भूतात्मा विवेश स महाद्युतिः। ततो ऽहम् अभवं मूढो जडान्धबधिरोपमः। दिशश् च विदिशश् चैव न विजज्ञे तमोवृतः। अविजानन्न् अहं किं चित् तस्मिंस् तमसि संवृते। सुसंभ्रान्तेन मनसा व्यथां परमिकां गतः। सो ऽहं प्रपन्नः शरणं देवदेवं सनातनम्। प्राञ्जलिर् मनसा भूत्वा वाक्यम् एतत् तदोक्तवान्। भगवन् भूतभव्येश भवद्भूतकृद् अव्यय। शरणं संप्रपन्नं मां त्रातुम् अर्हस्य् अरिंदम। अहं तु तत्त्वजिज्ञासुः को ऽसि कस्यासि कुत्र वा। संप्राप्तः पदवीं देव स मां संत्रातुम् अर्हसि। आविर्भूतः पुराणात्मा माम् एहीति सनातनः। ततो ऽपरान्ततो देवो विश्वस्य गतिर् आत्मवान्। मोहयाम् आस मां तत्र दुर्विभाव्यवपुर् विभुः। स्वभावम् आत्मनस् तत्र दर्शयन् स्वयम् आत्मना। श्रमं मे जनयाम् आस भयं चाभयदः प्रभुः। खिन्न इत्य् एव मां मत्वा भगवान् अव्ययो ऽच्युतः। शब्देनाश्वासयाम् आस जगाहे च तमो महत्। अहं तु खेदानुगतः श्रमाच् चलपदश् चरन्। मनसा देवदेवेशं ध्यातुं समुपचक्रमे। तथा गतं तु मां ज्ञात्वा भगवान् अमितद्युतिः। तमः प्रणाशयाम् आस ममानुग्रहकाङ्क्षया। ततः प्रनष्टे तमसि तम् अहं दीप्ततेजसम्। अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम्। स्वयंप्रभांश् च पुरुषान् स्त्रियश् च परमाद्भुताः। अपश्यम् अहम् अव्यग्रं तस्मिन् देशे सहस्रशः। न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च। न तत्र चन्द्रमा भाति न वायुर् वाति पांसुलः। तत्र तूर्याण्य् अनेकानि गीतानि मधुराणि च। अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम्। स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः। मुक्तासिकतवप्राश् च सरितो निर्मलोदकाः। अगतिस् तत्र देवानाम् असुराणां तथैव च। गन्धर्वनागयक्षाणां राक्षसानां तथैव च। स्वयंप्रभास् तत्र नरा दृश्यन्ते ऽद्भुतदर्शनाः। येषां न देवतास् तुल्याः प्रभाभिर् भावितात्मनाम्। स च तान् अप्य् अतिक्रम्य दैवतैर् अपि पूजितः। विवेश ज्वलनं दीप्तम् अनिन्धनम् अनौपमम्। ज्वालाभिर् मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम्। दैत्यदानवरक्षोभिर् दैवतैश् चापि दुःसहम्। ज्वालामालिनम् आसाद्य तम् अग्निम् अहम् अव्ययम्। अविषह्यतमं मत्वा मनसेदम् अचिन्तयम्। मया हि समरेष्व् अग्निर् अनेकेषु महाद्युतिः। प्रविष्टश् चापविद्धश् च न च मां दग्धवान् क्व चित्। अयं च दुःसहः शश्वत् तेजसातिहुताशनः। अत्यादित्यप्रकाशार्चिर् अनलो दीप्यते महान्। स तथा दह्यमानो ऽपि तेजसा दीप्तवर्चसा। प्रपन्नः शरणं देवं शङ्खचक्रगदाधरम्। भक्तश् चानुगतश् चेति त्रातुम् अर्हसि मां विभो। यथा मां न दहेद् अग्निः सद्यो देव तथा कुरु। एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः। मा भैर् इति वचः प्राह मेघगम्भीरनिस्वनः। स माम् आश्वास्य वचनं प्राहेदं भगवान् विभुः। मम त्वं विदितः सौम्य यथावत् तत्त्वदर्शने। ज्ञापितश् चापि यत् पित्रा तच् चापि विदितं महत्। वैनतेय ममाप्य् एवम् अहं वेद्यः कथं चन। महद् एतत् स्वरूपं मे न ते वेद्यं कथं चन। मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः। निर्ममा निरहंकारा निराशीर्बन्धनायुताः। भवांस् तु सततं भक्तो मन्मनाः पक्षिसत्तम। सुपर्णः। स्थूलं मां वेत्स्यते तस्माज् जगतः कारणे स्थितम्। एवं दत्ताभयस् तेन ततो ऽहम् ऋषिसत्तमाः। नष्टखेदश्रमभयः क्षणेन ह्य् अभवं तदा। स शनैर् याति भगवान् गत्या लघुपराक्रमः। अहं तु सुमहावेगम् आस्थायानुव्रजामि तम्। स गत्वा दीर्घम् अध्वानम् आकाशम् अमितद्युतिः। मनसाप्य् अगमं देवम् आससादात्मतत्त्ववित्। अथ देवः समासाद्य मनसः सदृशं जवम्। मोहयित्वा च मां तत्र क्षणेनान्तरधीयत। तत्राम्बुधरधीरेण भोशब्देनानुनादिना। अयं भो ऽहम् इति प्राह वाक्यं वाक्यविशारदः। शब्दानुसारी तु ततस् तं देशम् अहम् आव्रजम्। तत्रापश्यं ततश् चाहं श्रीमद्धंसयुतं सरः। स तत् सरः समासाद्य भगवान् आत्मवित्तमः। भोशब्दप्रतिसृष्टेन स्वरेणाप्रतिवादिना। विवेश देवः स्वां योनिं माम् इदं चाभ्यभाषत। विशस्व सलिलं सौम्य सुखम् अत्र वसामहे। ततश् च प्राविशं तत्र सह तेन महात्मना। दृष्टवान् अद्भुततरं तस्मिन् सरसि भास्वताम्। अग्नीनाम् अप्रणीतानाम् इद्धानाम् इन्धनैर् विना। दीप्तानाम् आज्यसिक्तानां स्थानेष्व् अर्चिष्मतां सदा। दीप्तिस् तेषाम् अनाज्यानां प्राप्ताज्यानाम् इवाभवत्। अनिद्धानाम् इव सताम् इद्धानाम् इव भास्वताम्। अथाहं वरदं देवं नापश्यं तत्र संगतम्। ततः संमोहम् आपन्नो विषादम् अगमं परम्। अपश्यं चाग्निहोत्राणि शतशो ऽथ सहस्रशः। विधिना संप्रणीतानि धिष्ण्येष्व् आज्यवतां तदा। असंमृष्टतलाश् चैव वेदीः कुसुमसंस्तृताः। कुशपद्मोत्पलासङ्गान् कलशांश् च हिरण्मयान्। अग्निहोत्राणि चित्राणि शतशो ऽथ सहस्रशः। अग्निहोत्रोपयोग्यानि यानि द्रव्याणि कानि चित्। तानि चात्र समृद्धानि दृष्टवान् अस्म्य् अनेकशः। मनोहृद्यतमश् चात्र सुरभिः पुण्यलक्षणः। आज्यगन्धो मनोग्राही घ्राणचक्षुःसुखावहः। तेषां तत्राग्निहोत्राणाम् ईडितानां सहस्रशः। समीपे त्व् अद्भुततमम् अपश्यम् अहम् अव्ययम्। चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम्। विमलादित्यभासानां स्थण्डिलानि सहस्रशः। दृष्टान्य् अग्निसमीपेषु द्युतिमन्ति महान्ति च। एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः। प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम्। ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः। सुसंमृष्टतलैस् तैस् तु बृहद्भिर् दीप्ततेजसैः। पावकैः पावितात्माहम् अभवं लघुविक्रमः। ततो ऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम्। तं देशं प्रणमित्वाथ अन्वेष्टुम् उपचक्रमे। तान्य् अनेकसहस्राणि परीयंस् तु महाजवात्। अपश्यमानस् तं देवं ततो ऽहं व्यथितो ऽभवम्। ततस् तेष्व् अग्निहोत्रेषु ज्वलत्सु विमलार्चिषु। भानुमत्सु न पश्यामि देवदेवं सनातनम्। ततो ऽहं तानि दीप्तानि परीय व्यथितेन्द्रियः। नान्तं तेषां प्रपश्यामि खेदश् च सहसाभवत्। विहृत्य सर्वतो दृष्टिं भयमोहसमन्वितः। श्रमं परमम् आपन्नश् चिन्तयामि विचेतनः। तस्मिन् नु खलु वर्तामि लोके किं चैतद् ईदृशम्। ऋग्यजुःसामनिर्घोषः श्रूयते न च दृश्यते। न च पश्यामि तं देवं येनाहम् इह चोदितः। एवं चिन्तासमापन्नः प्रध्यातुम् उपचक्रमे। ततश् चिन्तयतो मह्यं मोहेनाविष्टचेतसः। महाञ् शब्दः प्रादुरासीत् सुभृशं मे व्यथाकरः। अथाहं सहसा तत्र शृणोमि विपुलध्वनिम्। अपश्यं च सुपर्णानां सहस्राण्य् अयुतानि च। अभ्यद्रवन्त माम् एव विपुलद्युतिरंहसः। तेषाम् अहं प्रभावेन सर्वथैवावरो ऽभवम्। सो ऽहं समन्ततः सर्वैः सुपर्णैर् अतितेजसैः। दृष्ट्वात्मानं परिगतं संभ्रमं परमं गतः। विनयावनतो भूत्वा नमश्चक्रे महात्मने। अनादिनिधनायैभिर् नामभिः परमात्मने। नारायणाय शुद्धाय शाश्वताय ध्रुवाय च। भूतभव्यभवेशाय शिवाय शिवमूर्तये। शिवयोनेः शिवाद्याय शिवपूज्यतमाय च। घोररूपाय महते युगान्तकरणाय च। विश्वाय विश्वदेवाय विश्वेशाय महात्मने। सहस्रोदरपादाय सहस्रनयनाय च। सहस्रबाहवे चैव सहस्रवदनाय च। शुचिश्रवाय महते ऋतुसंवत्सराय च। ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः। हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च। ब्रह्मोद्रेकाय तार्क्ष्याय वराहायैकशृङ्गिणे। शिपिविष्टाय सत्याय हरये ऽथ शिखण्डिने। हुतायोर्ध्वाय वक्राय रौद्रानीकाय साधवे। सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः। गरुत्मते त्रिनेत्राय सुधामाय वृषावृषे। सम्राडुग्रे संकृतये विरजे संभवे भवे। वृषाय वृषरूपाय विभवे भूर्भुवाय च। दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च। अच्युताय तुषाराय वीराय च समाय च। जिष्णवे पुरुहूताय वसिष्ठाय वराय च। सत्येशाय सुरेशाय हरये ऽथ शिखण्डिने। बर्हिषाय वरेण्याय वसवे विश्ववेधसे। किरीटिने सुकेशाय वासुदेवाय शुष्मिणे। बृहदुक्थे सुषेणाय युग्मे दुंदुभये तथा। भवे सखाय विभवे भरद्वाजाभयाय च। भास्कराय च चन्द्राय पद्मनाभाय भूरिणे। पुनर्वसुभृतत्वाय जीवप्रभविषाय च। वषट्काराय स्वाहाय स्वधाय निधनाय च। ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः। श्रीपद्मायाजसदृशे धरणे धारणे परे। सौम्याय सौम्यरूपाय सौम्ये सुमनसे नमः। विश्वाय च सुविश्वाय विश्वरूपधराय च। केशवाय सुकेशाय रश्मिकेशाय भूरिणे। हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे। नारायणाग्रवपुषे पुरुहूताय वज्रिणे। धर्मिणे वृषसेनाय धर्मसेनाय रोधसे। मुनये ज्वरमुक्ताय ज्वराधिपतये नमः। अनेत्राय त्रिनेत्राय पिङ्गलाय विधर्मिणे। तपोब्रह्मनिधानाय युगपर्यायिणे नमः। शरणाय शरण्याय शक्तेष्टशरणाय च। नमः सर्वभवेशाय भूतभव्यभवाय च। पाहि मां देवदेवेश को ऽप्य् अजो ऽसि सनातनः। एवं गतो ऽस्मि शरणं शरण्यं ब्रह्मयोनिनम्। स्तव्यं स्तवं स्तुतवतस् तत् तमो मे प्रणश्यतु। भयं च मे व्यपगतं पक्षिणो ऽन्तर्हिताभवन्। शृणोमि च गिरं दिव्याम् अन्तर्धानगतां शिवाम्। मा भैर् गरुत्मन् दान्तो ऽसि पुनः सेन्द्रा दिवौकसः। स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान्। ततस् तस्मिन् क्षणेनैव सहसैव महाद्युतिः। प्रत्यदृश्यत तेजस्वी पुरस्तात् स ममान्तिके। समागम्य ततस् तेन शिवेन परमात्मना। अपश्यं चाहम् आयान्तं नरनारायणाश्रमे। चतुर्द्विगुणविन्यासं तं च देवं सनातनम्। यजतस् तान् ऋषीन् देवान् वदतो ध्यायतो मुनीन्। युक्तान् सिद्धान् नैष्ठिकांश् च जपतो यजतो गृहे। पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम्। वन्दितं सिक्तसंमृष्टं नरनारायणाश्रमम्। तद् अद्भुतम् अहं दृष्ट्वा विस्मितो ऽस्मि तदानघाः। जगाम शिरसा देवं प्रयतेनान्तरात्मना। तद् अत्यद्भुतसंकाशं किम् एतद् इति चिन्तयन्। नाध्यगच्छं परां दिव्यां तस्य सर्वभवात्मनः। प्रणिपत्य सुदुर्धर्षं पुनः पुनर् उदीक्ष्य च। शिरस्य् अञ्जलिम् आधाय विस्मयोत्फुल्ललोचनः। अवोचं तम् अदीनार्थं श्रेष्ठानां श्रेष्ठम् उत्तमम्। नमस् ते भगवन् देव भूतभव्यभवत्प्रभो। यद् एतद् अद्भुतं देव मया दृष्टं त्वदाश्रयम्। अनादिमध्यपर्यन्तं किं तच् छंसितुम् अर्हसि। यदि जानासि मां भक्तं यदि वानुग्रहो मयि। शंस सर्वम् अशेषेण श्रोतव्यं यदि चेन् मया। स्वभावस् तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च। भवद्भूतभविष्येश सर्वथा गहनं भवान्। ब्रूहि सर्वम् अशेषेण तद् आश्चर्यं महामुने। किं तद् अत्यद्भुतं वृत्तं तेष्व् अग्निषु समन्ततः। कानि तान्य् अग्निहोत्राणि केषां शब्दः श्रुतो मया। शृण्वतां ब्रह्म सततम् अदृश्यानां महात्मनाम्। एतन् मे भगवन् कृष्ण ब्रूहि सर्वम् अशेषतः। गृणन्त्य् अग्निसमीपेषु के च ते ब्रह्मराशयः। भगवान्। मां न देवा न गन्धर्वा न पिशाचा न राक्षसाः। विदुस् तत्त्वेन तत्त्वस्थं सूक्ष्मात्मानम् अवस्थितम्। चतुर्धाहं विभक्तात्मा लोकानां हितकाम्यया। भूतभव्यभविष्यादिर् अनादिर् विश्वकृत्तमः। पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्। मनो बुद्धिश् च चेतश् च तमः सत्त्वं रजस् तथा। प्रकृतिर् विकृतिश् चेति विद्याविद्ये शुभाशुभे। मत्त एतानि जायन्ते नाहम् एभ्यः कथं चन। स किं चिच् छ्रेयसा युक्तः श्रेष्ठभावं व्यवस्यति। धर्मयुक्तं च पुण्यं च सो ऽहम् अस्मि निरामयः। यत् स्वभावात्मतत्त्वज्ञैः कारणैर् उपलक्ष्यते। अनादिमध्यनिधनः सो ऽन्तरात्मास्मि शाश्वतः। यत् तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः। गृह्यते सूक्ष्मभावज्ञैः सो ऽविभाव्यो ऽस्मि शाश्वतः। यत् तु मे परमं गुह्यं येन व्याप्तम् इदं जगत्। सो ऽहंगतः सर्वसत्त्वः सर्वस्य प्रभवो ऽव्ययः। मत्तो जातानि भूतानि मया धार्यन्त्य् अहर्निशम्। मय्य् एव विलयं यान्ति प्रलये पन्नगाशन। यो मां यथा वेदयति तस्य तस्यास्मि काश्यप। मनोबुद्धिगतः श्रेयो विदधामि विहंगम। मां तु ज्ञातुं कृता बुद्धिर् भवता पक्षिसत्तम। शृणु यो ऽहं यतश् चाहं यदर्थश् चाहम् उद्यतः। ये के चिन् नियतात्मानस् त्रेताग्निपरमार्चिताः। अग्निकार्यपरा नित्यं जपहोमपरायणाः। आत्मन्य् अग्नीन् समाधाय नियता नियतेन्द्रियाः। अनन्यमनसस् ते मां सर्वे वै समुपासते। यजन्तो जपयज्ञैर् मां मानसैश् च सुसंयताः। अग्नीन् अभ्युद्ययुः शश्वद् अग्निष्व् एवाभिसंस्थिताः। अनन्यकार्याः शुचयो नित्यम् अग्निपरायणाः। य एवंबुद्धयो धीरास् ते मां गच्छन्ति तादृशाः। अकामहतसंकल्पा ज्ञाने नित्यं समाहिताः। आत्मन्य् अग्नीन् समाधाय निराहारा निराशिषः। विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः। अनन्यमनसो धीराः स्वभावनियमान्विताः। यत् तद् वियति दृष्टं तत् सरः पद्मोत्पलायुतम्। तत्राग्नयः संनिहिता दीप्यन्ते स्म निरिन्धनाः। ज्ञानामलाशयास् तस्मिन् ये च चन्द्रांशुनिर्मलाः। उपासीना गृणन्तो ऽग्निं प्रस्पष्टाक्षरभाषिणः। आकाङ्क्षमाणाः शुचयस् तेष्व् अग्निषु विहंगम। ये मया भावितात्मानो मय्य् एवाभिरताः सदा। उपासते च माम् एव ज्योतिर्भूता निरामयाः। तैर् हि तत्रैव वस्तव्यं नीरागात्मभिर् अच्युतैः। निराहारा ह्य् अनिष्पन्दाश् चन्द्रांशुसदृशप्रभाः। निर्मला निरहंकारा निरालम्बा निराशिषः। मद्भक्ताः सततं ते वै भक्तास् तान् अपि चाप्य् अहम्। चतुर्धाहं विभक्तात्मा चरामि जगतो हितः। लोकानां धारणार्थाय विधानं विदधामि च। यथावत् तद् अशेषेण श्रोतुम् अर्हति मे भवान्। एका मूर्तिर् निर्गुणाख्या योगं परमम् आस्थिता। द्वितीया सृजते तात भूतग्रामं चराचरम्। सृष्टं संहरते चैका जगत् स्थावरजंगमम्। जातात्मनिष्ठा क्षपयन् मोहयन्न् इव मायया। क्षिपन्ती मोहयन्ती च आत्मनिष्ठा स्वमायया। चतुर्थी मे महामूर्तिर् जगद्वृद्धिं ददाति सा। रक्षते चापि नियता सो ऽहम् अस्मि नभश्चर। मया सर्वम् इदं व्याप्तं मयि सर्वं प्रतिष्ठितम्। अहं सर्वजगद्बीजं सर्वत्रगतिर् अव्ययः। यानि तान्य् अग्निहोत्राणि ये च चन्द्रांशुराशयः। गृणन्ति वेदं सततं तेष्व् अग्निषु विहंगम। क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः। तेषाम् अहं तपो दीप्तं तेजः सम्यक् समाहितम्। नित्यं ते मयि वर्तन्ते तेषु चाहम् अतन्द्रितः। सर्वतो मुक्तसङ्गेन मय्य् अनन्यसमाधिना। शक्यः समासादयितुम् अहं वै ज्ञानचक्षुषा। मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम्। मत्तश् च संप्रसूतान् वै विद्धि लोकान् सदैवतान्। मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्थितः। आत्मभूतो वासुदेवो ह्य् अनिरुद्धो मतौ स्थितः। संकर्षणो ऽहंकारे च प्रद्युम्नो मनसि स्थितः। अन्यथा च चतुर्धा यत् सम्यक् त्वं श्रोतुम् अर्हसि। हिरण्यगर्भः पद्माख्यो यत्र ब्रह्मा व्यजायत। ब्रह्मणश् चापि संभूतः शिव इत्य् अवधार्यताम्। शिवात् स्कन्दः संबभूव एतत् सृष्टिचतुष्टयम्। दैत्यदानवदर्पघ्नम् एवं मां विद्धि नित्यशः। दैत्यदानवरक्षोभिर् यदा धर्मः प्रपीड्यते। तदाहं धर्मवृद्ध्यर्थं मूर्तिमान् भविताशुग। वेदव्रतपरा ये तु धीरा निश्चितबुद्धयः। योगिनो योगयुक्ताश् च ते मां पश्यन्ति नान्यथा। पञ्चभिः संप्रयुक्तो ऽहं विप्रयुक्तश् च पञ्चभिः। वर्तमानश् च तेष्व् एवं निवृत्तश् चैव तेष्व् अहम्। ये विदुर् जातसंकल्पास् ते मां पश्यन्ति तादृशाः। खं वायुर् आपो ज्योतिश् च पृथिवी चेति पञ्चमम्। तदात्मको ऽस्मि विज्ञेयो न चान्यो ऽस्मीति निश्चितम्। वर्तमानम् अतीतं च पञ्चवर्गेषु निश्चलम्। शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्य् अहम्। रजस्तमोभ्याम् आविष्टा येषां बुद्धिर् अनिश्चिता। ते न पश्यन्ति मे तत्त्वं तपसा महता ह्य् अपि। नोपवासैर् न नियमैर् न व्रतैर् विविधैर् अपि। द्रष्टुं वा वेदितुं वापि न शक्या परमा गतिः। महामोहोत्थपङ्के तु निमग्नानां गतिर् हरिः। एकान्तिनो ध्यानपरा यतिभावाद् व्रजन्ति माम्। सत्त्वयुक्ता मतिर् येषां केवलात्मविनिश्चिता। ते पश्यन्ति स्वम् आत्मानं परमात्मानम् अव्ययम्। अहिंसा सर्वभूतेषु तेष्व् अवस्थितम् आर्जवम्। तेष्व् एव च समाधाय सम्यग् एति स माम् अजम्। यद् एतत् परमं गुह्यम् आख्यानं परमाद्भुतम्। यत्नेन तद् अशेषेण यथावच् छ्रोतुम् अर्हसि। ये त्व् अग्निहोत्रनियता जपयज्ञपरायणाः। ते माम् उपासते शश्वद् यांस् तांस् त्वं दृष्टवान् असि। शास्त्रदृष्टविधानज्ञा असक्ताः क्व चिद् अन्यथा। शक्यो ऽहं वेदितुं तैस् तु यन् मे परमम् अव्ययम्। ये तु सांख्यं च योगं च ज्ञात्वाप्य् अधृतनिश्चयाः। न ते गच्छन्त्य् अकुशलाः परां गतिम् अनुत्तमाम्। तस्माज् ज्ञानेन शुद्धेन प्रसन्नात्मात्मविच् छुचिः। आसादयति तद् ब्रह्म यत्र गत्वा न शोचति। शुद्धाभिजनसंपन्नाः श्रद्धायुक्तेन चेतसा। मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिम्। यद् गुह्यं परमं बुद्धेर् अलिङ्गग्रहणं च यत्। तत् सूक्ष्मं गृह्यते विप्रैर् यतिभिस् तत्त्वदर्शिभिः। न वायुः पवते तत्र न तस्मिञ् ज्योतिषां गतिः। न चापः पृथिवी नैव नाकाशं न मनोगतिः। तस्माच् चैतानि सर्वाणि प्रजायन्ते विहंगम। सर्वेभ्यश् च स तेभ्यश् च प्रभवत्य् अमलो विभुः। स्थूलदर्शनम् एतन् मे यद् दृष्टं भवतानघ। एतत् सूक्ष्मस्य च द्वारं कार्याणां कारणं त्व् अहम्। दृष्टो वै भवता तस्मात् सरस्य् अमितविक्रम। ब्रह्मणो यद् अहोरात्रं संख्यानज्ञैर् विभाव्यते। एष कालस् त्वया तत्र सरहस्यम् उपागतः। मां यज्ञम् आहुर् यज्ञज्ञा वेदं वेदविदो जनाः। मुनयश् चापि माम् एव जपयज्ञं प्रचक्षते। वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः। बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः। माम् इष्ट्वा स्वर्गम् आयान्ति तथा चाप्नुवते महत्। ज्ञात्वा माम् एव चैधन्ते निःसङ्गेनान्तरात्मना। अहं तेजो द्विजातीनां मम तेजो द्विजातयः। मम यस् तेजसा देहः सो ऽग्निर् इत्य् एव गम्यताम्। प्राणपालः शरीरे ऽहं योगिनाम् अहम् ईश्वरः। सांख्यानाम् इदम् एवाग्रे मयि सर्वम् इदं जगत्। धर्मम् अर्थं च कामं च मोक्षं चैवार्जवं जपम्। तमः सत्त्वं रजश् चैव कर्मजं च भवाप्ययम्। स तदाहं तथारूपस् त्वया दृष्टः सनातनः। ततस् त्व् अहं परतरः शक्यः कालेन वेदितुम्। मम यत् परमं गुह्यं शाश्वतं ध्रुवम् अव्ययम्। तद् एवं परमो गुह्यो देवो नारायणो हरिः। न तच् छक्यं भुजंगारे वेत्तुम् अभ्युदयान्वितैः। निरारम्भनमस्कारा निराशीर्बन्धनास् तथा। गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम्। स्थूलो ऽहम् एवं विहग त्वया दृष्टस् तथानघ। एतच् चापि न वेत्त्य् अन्यस् त्वाम् ऋते पन्नगाशन। मा मतिस् तव गान् नाशम् एषा गतिर् अनुत्तमा। मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम्। एतत् ते सर्वम् आख्यातं रहस्यं दिव्यमानुषम्। एतच् छ्रेयः परं चैतत् पन्थानं विद्धि मोक्षिणाम्। एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत। पश्यतो मे महायोगी जगामात्मगतिर् गतिम्। एतद् एवंविधं तस्य महिमानं महात्मनः। अच्युतस्याप्रमेयस्य दृष्टवान् अस्मि यत् पुरा। एतद् वः सर्वम् आख्यातं चेष्टितं तस्य धीमतः। ऋषयः। मयानुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः। अहो श्रावितम् आख्यानं भवतात्यद्भुतं महत्। पुण्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। एतत् पवित्रं देवानाम् एतद् गुह्यं परंतप। एतज् ज्ञानवतां ज्ञेयम् एषा गतिर् अनुत्तमा। य इमां श्रावयेद् विद्वान् कथां पर्वसु पर्वसु। स लोकान् प्राप्नुयात् पुण्यान् देवर्षिभिर् अभिष्टुतान्। श्राद्धकाले च विप्राणां य इमां श्रावयेच् छुचिः। न तत्र रक्षसां भागो नासुराणां च विद्यते। अनसूयुर् जितक्रोधः सर्वसत्त्वहिते रतः। यः पठेत् सततं युक्तः स व्रजेत् तत् सलोकताम्। वेदान् पारयते विप्रो राजा विजयवान् भवेत्। भीष्मः। वैश्यस् तु धनधान्याढ्यः शूद्रः सुखम् अवाप्नुयात्। ततस् ते मुनयः सर्वे संपूज्य विनतासुतम्। स्वान् एव चाश्रमाञ् जग्मुर् बभूवुः शान्तितत्पराः। स्थूलदर्शिभिर् आकृष्टो दुर्ज्ञेयो ह्य् अकृतात्मभिः। एषा श्रुतिर् महाराज धर्म्या धर्मभृतां वर। सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप। मयाप्य् एषा कथा तात कथिता मातुर् अन्तिके। वसुभिः सत्त्वसंपन्नैस् तवाप्य् एषा मयोच्यते। तद् अग्निहोत्रपरमा जपयज्ञपरायणाः। निराशीर्बन्धनाः सन्तः प्रयान्त्य् अक्षरसाम्यताम्। आरम्भयज्ञान् उत्सृज्य जपहोमपरायणाः। ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम्। तद् एव परमो मोक्षो मोक्षद्वारं च भारत। यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम्।
tasmād vākkāyamanasā nācared aśubhaṃ naraḥ. śubhāśubhāny ācaran hi tasya tasyāśnute phalam. śubhāny evācaraṃl loke bhakto nārāyaṇasya hi. tasyaiva tu padaṃ sūkṣmaṃ prasādād aśnuyāt param. yudhiṣṭhiraḥ. cittaṃ me dūyate tāta loke param avindataḥ. aśāśvatam idaṃ sarvaṃ jagat sthāvarajaṃgamam. ṛte nārāyaṇaṃ puṇyaṃ pratibhāti pitāmaha. nārāyaṇo hi viśvātmā puruṣaḥ puṣkarekṣaṇaḥ. bhīṣmaḥ. tasyāsya devakīsūnoḥ śrutaṃ kṛtsnaṃ tvayānagha. yudhiṣṭhira mahāprājña mayā dṛṣṭaṃ ca saṃgare. yudhiṣṭhiraḥ. tvatta eva tu rājendra rājadharmāś ca puṣkalāḥ. śrutaṃ purāṇam akhilaṃ nāradena niveditam. guhyaṃ nārāyaṇākhyānaṃ trividhakleśanāśanam. ekāntadharmaniyamāḥ samāsavyāsakalpitāḥ. kathitā vai mahābhāga tvayā vai madanugrahāt. lokarakṣaṇakartṛtvaṃ tasyaiva harimedhasaḥ. ātitheyavidhiś caiva tapāṃsi niyamāś ca ye. vedavādaprasiddhāś ca vājapeyādayo makhāḥ. yajñā draviṇaniṣpādyā agnihotrānupālitāḥ. japayajñāś ca vividhā brāhmaṇānāṃ tapasvinām. ekādaśavidhāḥ proktā haviryajñā dvijātinām. teṣāṃ phalaviśeṣāś ca uñchadharmās tathaiva ca. ahany ahani ye proktā mahāyajñā dvijātinām. vedaśravaṇadharmāś ca brahmayajñaphalaṃ tathā. vedavratavidhānaṃ ca niyamāś caiva vaidikāḥ. svāhā svadhā praṇīte ca iṣṭāpūrtaphalaṃ tathā. uttarottarasevāyām āśramāṇāṃ ca yat phalam. pratyekaśaś ca niṣṭhāyām āśramāṇāṃ mahāmate. māsapakṣopavāsānāṃ samyag uktaṃ phalaṃ ca yat. anāśitānāṃ ye lokā ye ca pañcatapā narāḥ. vīrādhvānaṃ prapannānāṃ yā gatiś cāgnihotriṇām. grīṣme pañcatapānāṃ ca śiśire jalacāriṇām. varṣe sthaṇḍilaśāyīnāṃ phalaṃ yat parikīrtitam. loke cakracarāṇāṃ ca dvijānāṃ yat phalaṃ smṛtam. annādīnāṃ ca dānānāṃ yat phalaṃ parikīrtitam. sarvatīrthābhiṣiktānāṃ narāṇāṃ ca phalodayaḥ. rājñāṃ dharmāś ca ye loke samyak pālayatāṃ prajāḥ. ye ca satyavratā loke ye ca tīrthe kṛtaśramāḥ. mātāpitṛparā ye ca guruvṛttīś ca saṃśritāḥ. gobrāhmaṇaparitrāṇe rāṣṭrātikramaṇe tathā. tyajanty abhimukhāḥ prāṇān nirbhayāḥ sattvam āśritāḥ. sahasradakṣiṇānāṃ ca yā gatir dadatāṃ vara. ve ca saṃdhyām upāsante samyag uktā mahāvratāḥ. tathā yogavidhānaṃ ca yad grantheṣv abhiśabditam. vedādyāḥ śrutayaś cāpi śrutā me kurusattama. siddhāntanirṇayāś cāpi dvaipāyanamukhodgatāḥ. śrutāḥ pañca mahāyāgā yeṣu sarvaṃ pratiṣṭhitam. tatprabhedeṣu ye dharmās te 'pi vai kṛtsnaśaḥ śrutāḥ. na ca dūṣayituṃ śakyāḥ sadbhir uktā hi te tathā. eteṣāṃ kila dharmāṇām uttamo vaiṣṇavo vidhiḥ. rakṣate bhagavān viṣṇur bhaktam ātmaśarīravat. karmaṇo hi kṛtasyeha kāmitasya dvijottamaiḥ. phalaṃ hy avaśyaṃ bhoktavyam ṛṣir dvaipāyano 'bravīt. bhogānte cāpi patanaṃ gatiḥ pūrvaṃ prabhāṣitā. na me prītikarās tv ete viṣodarkā hi me matāḥ. vadhāt kaṣṭataraṃ manye garbhavāsaṃ mahādyute. diṣṭānte yāni duḥkhāni puruṣo vindate vibho. tataḥ kaṣṭatarāṇīha garbhavāse hi vindati. tataś cābhyadhikāṃ tīvrāṃ vedanāṃ labhate naraḥ. garbhāpakramaṇe tāta karmaṇām upasarpaṇe. tasmān me niścayo jāto dharmeṣv eteṣu bhārata. tad icchāmi kuruśreṣṭha tvatprasādān mahāmate. taṃ dharmaṃ ceha vettuṃ vai yo jarājanmamṛtyuhā. yenoṣṇadā vaitaraṇī asipatravanaṃ ca tat. kuṇḍāni cāgnitaptāni kṣuradhārāpathas tathā. śālmalīṃ ca mahāghorām āyasīṃ ghorakaṇṭakām. mātāpitṛkṛte cāpi suhṛnmitrārthakāraṇāt. ātmahetoś ca pāpāni kṛtānīha naraiś ca yaiḥ. teṣāṃ phalodayaṃ kaṣṭam ṛṣir dvaipāyano 'bravīt. kumbhīpākapradīptānāṃ śūlārtānāṃ ca krandatām. raurave kṣipyamāṇānāṃ prahārair mathitātmanām. stanatām apakṛttānāṃ pibatām ātmaśoṇitam. teṣām eva pravadatāṃ kāruṇyaṃ nāsti yantrataḥ. tṛṣṇāśuṣkoṣṭhakaṇṭhānāṃ vihvalānām acetasām. sarvaduḥkhābhitaptānāṃ rujārtānāṃ ca krośatām. vedanārtā hi krandanti pūrayanto diśo daśa. ekaḥ karoti pāpāni sahabhojyāni bāndhavaiḥ. teṣām ekaḥ phalaṃ bhuṅkte kaṣṭe vaivasvatakṣaye. yena naitāṃ gatiṃ gacchen na viṇmūtrāsthipicchile. viṣṭhāmūtrakṛmīmadhye bahujantuniṣevite. ko garbhavāsāt parato narako 'nyo vidhīyate. yatra vāsakṛto yogaḥ kukṣau vāso vidhīyate. jāto vistīrṇaduḥkhaḥ syād bhavate vigatajvaraḥ. na caiṣa labhyate kāmo jātamātraṃ hi mānavam. āviśantīha duḥkhāni manovākkāyikāni tu. tair asvatantro bhavati pīḍyamāno bhayānakaiḥ. tair garbhavāsaṃ gacchati avaśo jāyate tathā. avaśaś cehate jantur vrajaty avaśa eva hi. jarasā rūpavidhvaṃsaṃ prāpnoty avaśa eva tu. śarīrabhedam āpnoti jīryaty avaśa eva tu. evaṃ hy aniyato mṛtyur bhavaty eva sadā nṛṣu. garbheṣu mriyate kaś cij jāyamānas tathāparaḥ. jātā mriyante bahavo yauvanasthās tathāpare. madhyabhāve tu naśyanti sthaviro mṛta eva tu. ko janmano nodvijate svayaṃbhūr api yo bhavet. kutas tv asmadvidhas tāta maraṇasya vaśānugaḥ. nityāviṣṭo bhayenāhaṃ manasā kurusattama. muhūrtam apy ahaṃ śarma na vindāmi mahāmate. kālātmani tirobhūto nityaṃ tadguṇavarjitaḥ. annair bahuvidhaiḥ puṣṭaṃ vastrair nānāvidhair vṛtam. candanāgarudigdhāṅgaṃ maṇimuktāvibhūṣitam. yānair bahuvidhair yātam ekāntenaiva lālitam. yauvanoddhatarūpābhir madavihvalagāmibhiḥ. iṣṭābhir abhirāmābhir varastrībhir ayantritam. ramitaṃ suciraṃ kālaṃ śarīram amitaprabham. avitṛptā gamiṣyanti hitvā prāṇāṃs tathāpare. svarge 'py aniyatā bhūtis tathaivākāśasaṃśraye. devāpy adhiṣṭhānavaśās tasmād devaṃ na kāmaye. kāmānāṃ nāsty adhiṣṭhānam akāmas tu nivartate. lokasaṃgrahadharmās tu sarva eva na saṃśayaḥ. ḍolāsadharmān dharmajña ṛṣir dvaipāyano 'bravīt. kasmāt ko viṣamaṃ duḥkham āroheta vicakṣaṇaḥ. vidyamāne same mārge ḍolādharmavivarjite. ko hy ātmānaṃ priyaṃ loke ḍolāsādharmyatāṃ nayet. carācaraiḥ sarvabhūtair gantavyam aviśaṅkayā. asmāl lokāt paraṃ lokam apātheyam adaiśikam. ghoraṃ tamaḥ praveṣṭavyam atrātāram abāndhavam. ye tu taṃ kila dharmajñā dharmaṃ nārāyaṇeritam. ananyamanaso dāntāḥ smaranti niyatavratāḥ. tatas te na ca paśyanti prāpnuvanti paraṃ padam. rakṣate bhagavān viṣṇur bhaktān ātmaśarīravat. kulālacakrapratime bhrāmyamāṇeṣu jantuṣu. mātāpitṛsahasrāṇi saṃprāptāni mayā guro. snehāpannena pītās tu mātṝṇāṃ vividhāḥ stanāḥ. putradārasahasrāṇi iṣṭāniṣṭaśatāni ca. prāptāny adhiṣṭhānavaśād atītāni tathaiva ca. na kva cic ca sukhaṃ prāptaṃ na kva cic chāśvatī gatiḥ. sthānair mahadbhir vibhraṃśo duḥkhalabdhaiḥ punaḥ punaḥ. dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam. adhvagānām iva pathi cchāyām āśritya saṃgamaḥ. evaṃ karmavaśo loko jñātīnāṃ hitasaṃgamaḥ. viśramya ca punar yāti karmabhir darśitāṃ gatim. etad īdṛśakaṃ dṛṣṭvā jñātvā caiva samāgamam. ko na bibhyet kuruśreṣṭha viṣṭhānnasyeva bhojanāt. buddhiś ca me samutpannā vaiṣṇave dharmavistare. tad eṣa śirasā pādau gato 'smi bhagavaṃs tava. śaraṇaṃ ca prapanno 'smi gantavye śaraṇe dhruve. janmamṛtyujarākhinnas tribhir duḥkhair nipīḍitaḥ. icchāmi bhavatā trātum ebhyas tvatto mahāmune. tasyādyayugadharmasya śravaṇāt kurupuṃgava. etad ādyayugodbhūtaṃ tretāyāṃ tat tirohitam. bhīṣmaḥ. sa eva dharmam akhilam ṛṣir dvaipāyano 'bravīt. sadṛśaṃ rājaśārdūla vṛttasya ca kulasya ca. ko rājyaṃ vipulaṃ gṛhya sphītākārapuraṃ mahat. nirjitārātisāmantaṃ devarājyopamaṃ sukham. rājye rājyaguṇā ye ca tān vyudasya narādhipa. doṣaṃ paśyasi rājendra dehe 'smin pāñcabhautike. atikrāntās tvayā rājan vṛttena prapitāmahāḥ. dharmo vigrahavān dhīro viduraś ca mahāyaśāḥ. saṃjayaś ca mahātejā ye cānye divyadarśanāḥ. pravṛttajñānasaṃpannās tattvajñānavido nṛpa. te 'tikrāntā mahārāja brahmādyāḥ sasurāsurāḥ. anityaṃ duḥkhasaṃtaptaṃ jagad etan na saṃśayaḥ. evam etān mahābāho brahmādyān sasurāsurān. anityān satataṃ paśya manuṣyādiṣu kā kathā. nityāṃ tu prakṛtīm āhur yāsau prasavadharmiṇī. arūpiṇīm anirdeśyām akṛtāṃ puruṣātigām. tām atyantasukhāṃ saukhyāṃ nirvāṇam iti saṃjñitām. āhur brahmarṣayo hy ādyāṃ bhuvi caiva maharṣayaḥ. tayā puruṣarūpiṇyā dharmaprakṛtiko 'nagha. sa yāty eva hi nirvāṇaṃ yat tat prakṛtisaṃjñitam. sa eṣa prākṛto dharmo bhrājaty ādiyuge nṛpa. vikāradharmāḥ śeṣeṣu yugeṣu bharatarṣabha. bhrājante 'bhyadhikaṃ vīra saṃsārapathagocarāḥ. prakṛtīnāṃ ca sarvāsām akṛtā prakṛtiḥ smṛtā. evaṃ prakṛtidharmā hi varāṃ prakṛtim āśritāḥ. paśyanti paramāṃ loke dṛṣṭādṛṣṭānudarśinīm. sattvādiyugaparyante tretāyugasamudbhave. kāmaṃ kāmayamāneṣu brāhmaṇeṣu tirohitaḥ. kupatheṣu tu dharmeṣu prādurbhūteṣu kaurava. jāto mandapracāro hi dharmaḥ kaliyuge nṛpa. nityas tu puruṣo jñeyo viśvarūpo nirañjanaḥ. brahmādyā api devāś ca yaṃ sadā paryupāsate. taṃ ca nārāyaṇaṃ viddhi paraṃ brahmeti śāśvatam. tatkarma kuru kāyena dhyāyasva manasā ca tam. kīrtayasva ca tannāma vācā sarvatra bhūpate. tatpadaṃ prāpnuhi prāpyaṃ śāśvataṃ cāpunarbhavam. ity etad viṣṇum āśritya saṃsāragrahamokṣaṇam. kathitaṃ te mahābāho kiṃ bhūyaḥ śrotum icchasi. yudhiṣṭhiraḥ. kliśyamāneṣu bhūteṣu jātīmaraṇasāgare. bhīṣmaḥ. yat prāpya kleśaṃ nāpnoti tan me brūhi pitāmaha. atrāpy udāharantīmam itihāsaṃ purātanam. sanatkumārasya sataḥ saṃvādaṃ nāradasya ca. sanatkumāro bhagavān brahmaputro mahāyaśāḥ. pūrvajātās trayas tasya kathyante brahmavādinaḥ. sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ. jātamātrāś ca te sarve pratibuddhā iti śrutiḥ. caturthaś caiva teṣāṃ sa bhagavān yogavittamaḥ. sanatkumāra iti vai kathayanti maharṣayaḥ. hairaṇyagarbhaḥ sa munir vasiṣṭhaḥ pañcamaḥ smṛtaḥ. ṣaṣṭhaḥ sthāṇuḥ sa bhagavān ameyātmā triśūladhṛt. tato 'pare samutpannāḥ pāvakā dāruṇe kratau. manasā svayaṃbhuvo hīme marīcipramukhās tathā. bhṛgur marīcer anujo bhṛgor apy aṅgirās tathā. anujo 'ṅgiraso 'thātriḥ pulastyo 'tres tathānujaḥ. pulastyasyānujo vidvān pulaho nu mahādyutiḥ. paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ. sarvam etan mahārāja kurvann ādigurur mahān. prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ. mūrtimanto 'mṛtībhūtās tejasātitaponvitāḥ. sanakaprabhṛtayas tatra ye ca prāptāḥ paraṃ padam. kṛtsnaṃ kṣayam anuprāpya vimuktā mūrtibandhanāt. sanatkumāras tu vibhur yogam āsthāya yogavit. trīṃl lokān acarac chaśvad aiśvaryeṇa pareṇa hi. rudraś cāpy aṣṭaguṇitaṃ yogaṃ prāpto mahāyaśāḥ. sūkṣmam aṣṭaguṇaṃ rājann itare nṛpasattama. marīcipramukhās tāta sarve sṛṣṭyartham eva te. niyuktā rājaśārdūla teṣāṃ sṛṣṭiṃ śṛṇuṣva me. sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ. sarve vedeṣu caivoktāḥ khileṣu ca na saṃśayaḥ. itihāsapurāṇe ca śrutir eṣā sanātanī. brāhmaṇā varadān etān prāhur vedāntapāragāḥ. eteṣāṃ pitaras tāta putrā ity anucakṣate. gaṇāḥ sapta mahārāja mūrtayo 'mūrtayas tathā. pitṝṇāṃ caiva rājendra putrā devā iti śrutiḥ. devair vyāptā ime lokā ity evam anuśuśruma. kṛṣṇadvaipāyanāc caiva devasthānāt tathaiva ca. devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutam. gautamād api kauṇḍinyād bhāradvājāt tathaiva ca. mārkaṇḍeyāt tathaivaitad ṛṣer devamatāt tathā. pitrā ca mama rājendra śrāddhakāle prabhāṣitam. paraṃ rahasyaṃ vedāntaṃ priyaṃ hi paramātmanaḥ. ataḥ paraṃ pravakṣyāmi yan māṃ pṛcchasi bhārata. tad ihaikamanobuddhiḥ śṛṇuṣvāvahito nṛpa. svāyaṃbhuvasya saṃvādaṃ nāradasya ca dhīmataḥ. sanatkumāro bhagavān divyaṃ jajvāla tejasā. aṅguṣṭhamātro bhūtvā vai vicacāra mahādyutiḥ. sa kadā cin mahābhāgo merupṛṣṭhaṃ samāgamat. nāradena naraśreṣṭha muninā brahmavādinā. jijñāsamānāv anyonyaṃ sakāśe brahmaṇas tataḥ. brahmabhāvagatau tāta paramārthārthacintakau. matimān matimacchreṣṭhaṃ buddhimān buddhimattaram. kṣetravit kṣetravicchreṣṭhaṃ jñānavij jñānavittamam. sanatkumāraṃ tattvajñaṃ bhagavantam ariṃdama. lokavil lokavicchreṣṭham ātmavic cātmavittamam. sarvavedārthakuśalaṃ sarvaśāstraviśāradam. sāṃkhyayogaṃ ca yo veda pāṇāv āmalakaṃ yathā. nāradaḥ. nārado 'tha naraśreṣṭha taṃ papraccha mahādyutiḥ. trayoviṃśatitattvasya avyaktasya mahāmune. prabhavaṃ cāpy ayaṃ caiva śrotum icchāmi tattvataḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. kālasaṃkhyāṃ ca sargaṃ ca sraṣṭāraṃ puruṣaṃ prabhum. yaṃ viśvam upajīvanti yena sarvam idaṃ tatam. sanatkumāraḥ. yaṃ prāpya na nivartante tad bhavān vaktum arhati. yaṃ viśvam upajīvanti yam āhuḥ puruṣaṃ param. taṃ vai śṛṇu mahābuddhe nārāyaṇam anāmayam. eṣa nārāyaṇo nāma yaṃ viśvam upajīvati. eṣa sraṣṭā vidhātā ca hartā pālayitā prabhuḥ. prāpyainaṃ na nivartante yatayo 'dhyātmacintakāḥ. etāvad eva vaktavyaṃ mayā nārada pṛcchate. paraṃ na vedmi tat sargaṃ yāvāṃś cāyaṃ yathāpyayam. śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ. yathākālaparīmāṇaṃ tattvānām ṛṣisattama. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. kālasaṃkhyāṃ ca sargaṃ ca sarvam eva mahāmune. tamasaḥ kurvataḥ sargaṃ tāmaso hy abhidhīyate. brahmavidbhir dvijair nityaṃ nityam adhyātmacintakaiḥ. paryāyanāmāny etasya kathayanti manīṣiṇaḥ. tāni te saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu. mahārṇavo 'rṇavaś caiva salilaṃ ca guṇās tathā. vedās tapaś ca yajñāś ca dharmāś ca bhagavān vibhuḥ. prāṇaḥ saṃvartako 'gniś ca vyoma kālas tathaiva ca. nāmāny etāni brahmarṣe śarīrasyeśvarasya vai. kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ. caturyugasahasrāṇi caturyugam ariṃdama. prāhuḥ kalpasahasraṃ vai brāhmaṇās tattvadarśinaḥ. daśa kalpasahasrāṇi avyayasya mahāniśā. tathaiva divasaṃ prāhur yogāḥ sāṃkhyāś ca tattvataḥ. niśāsupto 'tha bhagavān kṣapānte pratyabudhyata. paścād buddhvā sasarjāpas tāsu vīryam avāsṛjat. tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham. ahaṃkṛtvā tatas tasmin sasarja prabhur īśvaraḥ. hiraṇyagarbhaṃ viśvātmā brahmāṇaṃ jalavan munim. bhūtabhavyabhaviṣyasya kartāram anaghaṃ vibhum. mūrtimantaṃ mahātmānaṃ viśvaśaṃbhuṃ svayaṃbhuvam. aṇimā laghimā prāptir īśāno jyotiṣāṃ varam. cakre tirodhāṃ bhagavān etat kṛtvā mahāyaśāḥ. etasyāpi niśām āhur vedavedāṅgapāragāḥ. pañca kalpasahasrāṇi ahar etāvad eva ca. sa sargaṃ kurute brahmā tāmasasyānupūrvaśaḥ. sṛjate ha tv ahaṃkāraṃ parameṣṭhinam avyayam. ahaṃkāreṇa vai lokā vyāptāḥ sāhaṃkṛtena vai. yenāviṣṭāni bhūtāni majjanty avyaktasāgare. devarṣidānavanarā yakṣagandharvakiṃnarāḥ. unmajjanti nimajjanti ūrdhvādhas tiryag eva ca. etasyāpi niśām āhus tṛtīyām atha kurvataḥ. trīṇi kalpasahasrāṇi ahar etāvad eva tu. ahaṃkāras tu sṛjati mahābhūtāni pañca vai. pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam. eteṣāṃ guṇatattvāni pañca prāhur dvijātayaḥ. śabde sparśe ca rūpe ca rase gandhe tathaiva ca. guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ. nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare. eteṣām iha vai sargaṃ caturtham iha kurvataḥ. caturyugasahasre vai ahorātrās tathaiva ca. ananta iti vikhyātaḥ pañcamaḥ sarga ucyate. indriyāṇi daśaikaṃ ca yathāśrutinidarśanāt. manaḥ sarvam idaṃ tāta viśvaṃ sarvam idaṃ jagat. na tathānyāni bhūtāni balavanti yathā manaḥ. etasyāpi ha vai sargaṃ ṣaṣṭham āhur dvijātayaḥ. ahaḥ kalpasahasraṃ vai rātrir etāvatī tathā. ūrdhvasrotas tu vai sargaṃ saptamaṃ brahmaṇo viduḥ. aṣṭamaṃ cāpy adhaḥsrotas tiryak tu navamaḥ smṛtaḥ. etāni nava sargāṇi tattvāni ca mahāmune. caturviṃśati tattvāni tattvasaṃkhyāni te 'nagha. sarvasya prabhavaḥ pūrvam ukto nārāyaṇaḥ prabhuḥ. avyayaḥ prabhavaś caiva avyaktasya mahāmune. pravakṣyāmy aparaṃ tattvaṃ yasya yasyeśvaraś ca yaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. yathāśrutaṃ yathādṛṣṭaṃ tattvato vai nibodha me. sanatkumāraḥ. adhaḥsrotasi sarge ca tiryaksrotasi caiva hi. etābhyām īśvaraṃ vidyād ūrdhvasrotas tathaiva ca. karmendriyāṇāṃ pañcānām īśvaro buddhigocaraḥ. buddhīndriyāṇām atha tu īśvaro mana ucyate. manasaḥ pañca bhūtāni saguṇāny āhur īśvaram. bhūtānām īśvaraṃ vidyād brahmāṇaṃ parameṣṭhinam. bhavān hi kuśalaś caiva dharmeṣv eṣu pareṣu vai. kālāgnir ahnaḥ kalpānte jagad dahati cāṃśubhiḥ. tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca. mahābhūtāni dagdhāni svayoniṃ gamitāni vai. kūrmapṛṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā. nirvṛkṣā nistṛṇā caiva dagdhā kālāgninā tadā. jagat pralīnaṃ jagati jagac cāpsu pralīyate. naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā. tato mayūkhajālena sūryas tv āpīyate jalam. rasātmā līyate cārke tadā brāhmaṇasattama. antarikṣagatān bhūtān pradahaty analas tadā. agnibhūtaṃ tadā vyoma bhavatīty abhicakṣate. taṃ tathā visphurantaṃ hi vāyur jarayate mahān. mahatā balavegena ādatte taṃ hi bhānumān. vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā. praśāmyati tato vāyuḥ khaṃ tu tiṣṭhati nānadat. tasya taṃ ninadaṃ śabdam ādatte vai manas tadā. sa śabdaguṇahīnātmā tiṣṭhate mūrtimāṃs tu vai. bhuṅkte ca sa tadā vyoma manas tāta digātmakam. vyomātmani vinaṣṭe tu saṃkalpātmā vivardhate. saṃkalpātmānam ādatte cittaṃ vai svena tejasā. cittaṃ grasaty ahaṃkāras tadā vai munisattama. vinaṣṭe ca tadā citte ahaṃkāro 'bhavan mahān. ahaṃkāraṃ tadādatte mahān brahmā prajāpatiḥ. abhimāne vinaṣṭe tu mahān brahmā virājate. taṃ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam. yena viśvam idaṃ kṛtsnaṃ nirmitaṃ vai guṇārthinā. mūrtiṃ jaleśvaram api vyavasāyaguṇātmakam. grasiṣṇur bhagavān brahmā vyaktāvyaktam asaṃśayaḥ. eṣo 'vyayasya pralayo mayā te parikīrtitaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām. raso 'dhibhūtaṃ varuṇo 'dhidaivataṃ syāt ||4|| pṛthivī pañcamaṃ. pāñcabhautikam etac catuṣṭayam anuvarṇitam ||6||. bhūtaṃ ghrāṇam adhyātmaṃ gandho 'dhibhūtaṃ vāyur adhidaivataṃ syāt ||5||. adhibhūtaṃ sūryo 'dhidaivataṃ syāt ||3|| āpaś caturthaṃ bhūtaṃ jihvādhyātmaṃ. ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmaṃ śabdo 'dhibhūtaṃ diśo 'dhidaivatam ||1||. vāyur dvitīyaṃ bhūtaṃ tvag adhyātmaṃ sparśo 'dhibhūtaṃ vidyud. adhidaivataṃ syāt ||2|| jyotis tṛtīyaṃ bhūtaṃ cakṣur adhyātmaṃ rūpam. candramā adhidaivataṃ syāt ||7|| ahaṃkāro 'dhyātmam abhimāno. 'dhibhūtaṃ viriñco 'dhidaivataṃ syāt ||8|| buddhir adhyātmaṃ vyavasāyo. agnir adhidaivataṃ syāt ||6|| mano 'dhyātmaṃ mantavyam adhibhūtaṃ. 'dhibhūtaṃ brahmādhidaivataṃ syāt ||9||. ata ūrdhvam indriyam anuvarṇayiṣyāmaḥ ||1|| pādāv adhyātmaṃ. 'dhibhūtaṃ prajāpatir adhidaivataṃ syāt ||5|| vāg adhyātmaṃ vaktavyam adhibhūtam. kartavyam adhibhūtam indro 'dhidaivataṃ syāt ||3|| pāyur adhyātmaṃ visargo. gantavyam adhibhūtaṃ viṣṇur adhidaivataṃ syāt ||2|| hastāv adhyātmaṃ. 'dhibhūtaṃ mitro 'dhidaivataṃ syāt ||4|| upastho 'dhyātmam ānando. stanitagarjitonmiśraṃ tadvat tatraiva praṇāśāt | evam avyakto. guṇān sṛjati saṃharate ca ||4||. cordhvam uttiṣṭhate saṃharate ca ||3|| yathā cāntarikṣād abhrakośam uttiṣṭhati. guṇān sṛjati saṃharate ca ||2|| yathārṇavād ūrmimālānicayaś. krīḍārtham ||1|| yathādityo 'ṃśujālaṃ kṣipati saṃharate ca evam avyakto. evam avyakto bhagavān sakṛt kṛtsnān kurute saṃharate ca | kasmāt |. ca ||2|| bhagavato 'vyaktasya kriyāvato 'kriyāvataś ca prakṛtiḥ |. śuciḥ |tenādhiṣṭhitā prakṛtiś cetayati nityaṃ sahadharmā. yathā kūrmo 'ṅgāni kāmāt prasārayate punaś ca praveśayati evam avyakto. lokān prakāśayate praveśayate ca ||1|| evaṃ cetanaś ca bhagavān pañcaviṃśakaḥ. kriyāvān ajarāmaraḥ kṣetrajño nārāyaṇaḥ puruṣaḥ ||3||. bhīṣmaḥ. ity etan nāradāyoktaṃ kumāreṇa ca dhīmatā. etac chrutvā dvijo rājan sarvayajñaphalaṃ labhet. yudhiṣṭhiraḥ. ātmany agnīn samādhāya ya ete kurunandana. dvijātayo vratopetā japayajñaparāyaṇāḥ. yajanty ārambhayajñaiś ca mānasaṃ yajñam āsthitāḥ. agnibhyaś ca paraṃ nāsti yeṣām eṣā vyavasthitiḥ. teṣāṃ gatir mahāprājña kīdṛśī kiṃparāś ca te. bhīṣmaḥ. etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha. atra te vartayiṣyāmi itihāsaṃ purātanam. vaikuṇṭhasya ca saṃvādaṃ suparṇasya ca bhārata. amṛtasya samutpattau devānām asuraiḥ saha. ṣaṣṭiṃ varṣasahasrāṇi devāsuram avartata. tatra devās tu daiteyair vadhyante bhṛśadāruṇaiḥ. trātāraṃ nādhigacchanti vadhyamānā mahāsuraiḥ. ārtās te devadeveśaṃ prapannāḥ śaraṇaiṣiṇaḥ. pitāmahaṃ mahāprājñaṃ vadhyamānāḥ suretaraiḥ. tā dṛṣṭvā devatā brahmā saṃbhrāntendriyamānasaḥ. vaikuṇṭhaṃ śaraṇaṃ devaṃ pratipede ca taiḥ saha. tataḥ sa devaiḥ sahitaḥ padmayonir nareśvara. tuṣṭāva prāñjalir bhūtvā nārāyaṇam anāmayam. tvadrūpacintanān nāmnāṃ smaraṇād arcanād api. tapoyogādibhiś caiva śreyo yānti manīṣiṇaḥ. bhaktavatsala padmākṣa parameśvara pāpahan. paramātmāvikārād ya nārāyaṇa namo 'stu te. namas te sarvalokāde sarvātmāmitavikrama. sarvabhūtabhaviṣyeśa sarvabhūtamaheśvara. devānām api devas tvaṃ sarvavidyāparāyaṇaḥ. jagadbījasamāhāra jagataḥ paramo hy asi. trāyasva devatā vīra dānavādyaiḥ supīḍitāḥ. lokāṃś ca lokapālāṃś ca ṛṣīṃś ca jayatāṃ vara. vedāḥ sāṅgopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ. soṃkārāḥ savaṣaṭkārāḥ prāhus tvāṃ yajñam uttamam. pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam. tapasvināṃ tapaś caiva daivataṃ devatāsv api. evamādipuraskārair ṛksāmayajuṣāṃ gaṇaiḥ. vaikuṇṭhaṃ tuṣṭuvur devāḥ sarve brahmarṣibhiḥ saha. tato 'ntarikṣe vāg āsīn meghagambhīranisvanā. jeṣyadhvaṃ dānavān yūyaṃ mayaiva saha saṃgare. tato devagaṇānāṃ ca dānavānāṃ ca yudhyatām. prādurāsīn mahātejāḥ śārṅgacakragadādharaḥ. suparṇapṛṣṭham āsthāya tejasā pradahann iva. vyadhamad dānavān sarvān bāhudraviṇatejasā. taṃ samāsādya samare daityadānavapuṃgavāḥ. vyanaśyanta mahārāja pataṃgā iva pāvakam. sa vijityāsurān sarvān dānavāṃś ca mahāmatiḥ. paśyatām eva devānāṃ tatraivāntaradhīyata. taṃ dṛṣṭvāntarhitaṃ devaṃ viṣṇuṃ devāmitadyutim. vismayotphullanayanā brahmāṇam idam abruvan. bhagavan sarvalokeśa sarvalokapitāmaha. idam atyadbhutaṃ vṛttaṃ tan naḥ śaṃsitum arhasi. devāsure 'smin saṃgrāme trātā yena vayaṃ prabho. etad vijñātum icchāmaḥ kuto 'sau kaś ca tattvataḥ. ko 'yam asmān paritrāya tūṣṇīm eva yathāgatam. pratiprayāto divyātmā taṃ naḥ śaṃsitum arhasi. evam uktaḥ suraiḥ sarvair vacanaṃ vacanārthavit. brahmā. uvāca padmanābhasya pūrvarūpaṃ prati prabho. na hy enaṃ veda tattvena bhuvanaṃ bhuvaneśvaram. saṃkhyātuṃ naiva cātmānaṃ nirguṇaṃ guṇināṃ varam. atra vo vartayiṣyāmi itihāsaṃ purātanam. suparṇasya ca saṃvādam ṛṣīṇāṃ cāpi devatāḥ. purā brahmarṣayaś caiva siddhāś ca bhuvaneśvaram. āśritya himavatpṛṣṭhe cakrire vividhāḥ kathāḥ. teṣāṃ kathayatāṃ tatra kathānte patatāṃ varaḥ. prādurāsīn mahātejā vāhaś cakragadābhṛtaḥ. sa tān ṛṣīn samāsādya vinayāvanatānanaḥ. avatīrya mahāvīryas tān ṛṣīn abhijagmivān. abhyarcitaḥ sa ṛṣibhiḥ svāgatena mahābalaḥ. upāviśata tejasvī bhūmau vegavatāṃ varaḥ. tam āsīnaṃ mahātmānaṃ vainateyaṃ mahādyutim. ṛṣayaḥ paripapracchur mahātmānas tapasvinaḥ. kautūhalaṃ vainateya paraṃ no hṛdi vartate. tasya nānyo 'sti vakteha tvām ṛte pannagāśana. tad ākhyātum ihecchāmo bhavatā praśnam uttamam. evam uktaḥ pratyuvāca prāñjalir vinatāsutaḥ. dhanyo 'smy anugṛhīto 'smi yan māṃ brahmarṣisattamāḥ. praṣṭavyaṃ praṣṭum icchanti prītimanto 'nasūyakāḥ. kiṃ mayā brūta vaktavyaṃ kāryaṃ ca vadatāṃ varāḥ. yūyaṃ hi māṃ yathāyuktaṃ sarvaṃ vai praṣṭum arhatha. namaskṛtvā hy anantāya tatas te ṛṣisattamāḥ. praṣṭuṃ pracakramus tatra vainateyaṃ mahābalam. devadevaṃ mahātmānaṃ nārāyaṇam anāmayam. bhavān upāste varadaṃ kuto 'sau kaś ca tattvataḥ. prakṛtir vikṛtir vāsya kīdṛśī kva nu saṃsthitiḥ. etad bhavantaṃ pṛcchāmo devo 'yaṃ kva kṛtālayaḥ. eṣa bhaktapriyo devaḥ priyabhaktas tathaiva ca. tvaṃ priyaś cāsya bhaktaś ca nānyaḥ kāśyapa vidyate. muṣṇann iva manaścakṣūṃṣy avibhāvyatanur vibhuḥ. anādimadhyanidhano na vidmainaṃ kuto hy asau. vedeṣv api ca viśvātmā gīyate na ca vidmahe. tattvatas tattvabhūtātmā vibhur nityaḥ sanātanaḥ. pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam. guṇāś caiṣāṃ yathāsaṃkhyaṃ bhāvābhāvau tathaiva ca. tamaḥ sattvaṃ rajaś caiva bhāvāś caiva tadātmakāḥ. mano buddhiś ca tejaś ca buddhigamyāni tattvataḥ. jāyante tāta kasmād dhi tiṣṭhate teṣv asau vibhuḥ. saṃcintya bahudhā buddhyā nādhyavasyāmahe param. tasya devasya tattvena tan naḥ śaṃsa yathātatham. etam eva paraṃ praśnaṃ kautūhalasamanvitāḥ. suparṇaḥ. evaṃ bhavantaṃ pṛcchāmas tan naḥ śaṃsitum arhasi. sthūlato yas tu bhagavāṃs tenaiva svena hetunā. trailokyasya tu rakṣārthaṃ dṛśyate rūpam āsthitaḥ. mayā tu mahad āścaryaṃ purā dṛṣṭaṃ sanātane. deve śrīvṛkṣanilaye tac chṛṇudhvam aśeṣataḥ. na sma śakyo mayā vettuṃ na bhavadbhiḥ kathaṃ cana. yathā māṃ prāha bhagavāṃs tathā tac chrūyatāṃ mama. mayāmṛtaṃ devatānāṃ miṣatām ṛṣisattamāḥ. hṛtaṃ vipāṭya tad yantraṃ vidrāvyāmṛtarakṣiṇaḥ. devatā vimukhīkṛtya sendrāḥ samaruto mṛdhe. unmathyāśu girīṃś caiva vikṣobhya ca mahodadhim. taṃ dṛṣṭvā mama vikrāntaṃ vāg uvācāśarīriṇī. prīto 'smi te vainateya karmaṇānena suvrata. avṛthā te 'stu madvākyaṃ brūhi kiṃ karavāṇi te. tām evaṃvādinīṃ vācam ahaṃ pratyuktavāṃs tadā. jñātum icchāmi kas tvaṃ hi tato me dāsyase varam. prakṛtir vikṛtir vā tvaṃ devo vā dānavo 'pi vā. tato jaladagambhīraṃ prahasya vadatāṃ varaḥ. uvāca varadaḥ prītaḥ kāle tvaṃ mābhivetsyasi. vāhanaṃ bhava me sādho varaṃ dadmi tavottamam. na te vīryeṇa sadṛśaḥ kaś cil loke bhaviṣyati. pataṃga patatāṃ śreṣṭha na devo nāpi dānavaḥ. matsakhitvam anuprāpto durdharṣaś ca bhaviṣyasi. tam abravaṃ devadevaṃ mām evaṃvādinaṃ param. prayataḥ prāñjalir bhūtvā praṇamya śirasā vibhum. evam etan mahābāho sarvam etad bhaviṣyati. vāhanaṃ te bhaviṣyāmi yathā vadati māṃ bhavān. mamāpi ca mahābuddhe niścayaṃ śrūyatām iti. dhvajas te 'haṃ bhaviṣyāmi rathasthasya na saṃśayaḥ. tathāstv iti sa mām uktvā bhūyaḥ prāha mahāmanāḥ. na te gativighāto 'dya bhaviṣyaty amṛtaṃ vinā. evaṃ kṛtvā tu samayaṃ devadevaḥ sanātanaḥ. mām uktvā sādhayasveti yathābhiprāyato gataḥ. tato 'haṃ kṛtasaṃvādo tena kenāpi sattamāḥ. kautūhalasamāviṣṭaḥ pitaraṃ kāśyapaṃ gataḥ. so 'haṃ pitaram āsādya praṇipatyābhivādya ca. sarvam etad yathātathyam uktavān pitur antike. śrutvā tu bhagavān mahyaṃ dhyānam evānvapadyata. sa muhūrtam iva dhyātvā mām āha vadatāṃ varaḥ. dhanyo 'sy anugṛhītaś ca yat tvaṃ tena mahātmanā. saṃvādaṃ kṛtavāṃs tāta guhyena paramātmanā. sthūladṛśyaḥ sa bhagavāṃs tena tenaiva hetunā. dṛśyate 'vyaktarūpasthaḥ pradhānaṃ prabhavāpyayaḥ. mayā hi sa mahātejā nānyayogasamādhinā. tapasogreṇa tejasvī toṣitas tapasāṃ nidhiḥ. tato me darśayām āsa toṣayann iva putraka. śvetapītāruṇanibhaḥ kadrūkapilapiṅgalaḥ. raktanīlāsitanibhaḥ sahasrodarapāṇimān. dvisāhasramahāvaktra ekākṣaḥ śatalocanaḥ. aniṣpandā nirāhārāḥ samānāḥ sūryatejasā. tam upāsanti paramaṃ guhyam akṣaram avyayam. samāsādya tu taṃ viśvam ahaṃ mūrdhnā praṇamya ca. ṛgyajuḥsāmabhiḥ stutvā śaraṇyaṃ śaraṇaṃ gataḥ. mahāmeghaughadhīreṇa svareṇa jayatāṃ varaḥ. ābhāṣya putra putreti idam āha dhṛtaṃ vacaḥ. tvayābhyudayakāmena tapaś cīrṇaṃ mahāmune. amuktas tvaṃ na māṃ saṅgair avimukto 'dya paśyasi. yadā saṅgair vimuktaś ca gatamoho gataspṛhaḥ. bhaviṣyasi tadā brahman mām anudhyāsyase dvija. ekāntikīṃ matiṃ kṛtvā madbhakto matparāyaṇaḥ. jñāsyase māṃ tato brahman vītamohaś ca tattvataḥ. tena tvaṃ kṛtasaṃvādaḥ svataḥ sarvahitaiṣiṇā. viśvarūpeṇa devena puruṣeṇa mahātmanā. tam evārādhaya kṣipraṃ tam ārādhya na sīdasi. so 'ham evaṃ bhagavatā pitrā brahmarṣisattamāḥ. suparṇaḥ. anugīto yathānyāyaṃ svam eva bhavanaṃ gataḥ. so 'ham āmantrya pitaraṃ tadbhāvagatamānasaḥ. svam evālayam āsādya tam evārtham acintayam. tadbhāvagatabhāvātmā tadbhūtagatamānasaḥ. govindaṃ cintayann āse śāśvataṃ param avyayam. dhṛtaṃ babhūva hṛdayaṃ nārāyaṇadidṛkṣayā. so 'haṃ vegaṃ samāsthāya manomārutavegavān. ramyāṃ viśālāṃ badarīṃ gato nārāyaṇāśramam. tatas tatra hariṃ dṛṣṭvā jagataḥ prabhavaṃ vibhum. govindaṃ puṇḍarīkākṣaṃ praṇataḥ śirasā harim. ṛgyajuḥsāmabhiś cainaṃ tuṣṭāva parayā mudā. athāpaśyaṃ suvipulam aśvatthaṃ devasaṃśrayam. caturdviguṇapīnāṃsaḥ śaṅkhacakragadādharaḥ. prādurbabhūva puruṣaḥ pītavāsāḥ sanātanaḥ. madhyāhnārkapratīkāśas tejasā bhāsayan diśaḥ. saṃstutaḥ saṃvidaṃ kṛtvā vrajeti śreyase rataḥ. prāgudīcīṃ diśaṃ devaḥ pratasthe puruṣottamaḥ. diśaś ca vidiśaś caiva bhāsayan svena tejasā. tam ahaṃ puruṣaṃ divyaṃ vrajantam amitaujasam. anuvavrāja vegena śanair gacchantam avyayam. yojanānāṃ sahasrāṇi ṣaṣṭim aṣṭau tathā śatam. tathā śatasahasraṃ ca śataṃ dviguṇam eva ca. sa gatvā dīrgham adhvānam apaśyam aham adbhutam. mahāntaṃ pāvakaṃ dīptam arciṣmantam anindhanam. śatayojanavistīrṇaṃ tasmād dviguṇam āyatam. viveśa sa mahāyogī pāvakaṃ pāvakadyutiḥ. tatra śaṃbhus tapas tepe mahādevaḥ sahomayā. sa tena saṃvidaṃ kṛtvā pāvakaṃ samatikramat. śramābhibhūtena mayā kathaṃ cid anugamyate. gatvā sa dīrgham adhvānaṃ bhāskareṇāvabhāsitam. abhāskaram amaryādaṃ viveśa sumahattamaḥ. atha dṛṣṭiḥ pratihatā mama tatra babhūva ha. yathāsvabhāvaṃ bhūtātmā viveśa sa mahādyutiḥ. tato 'ham abhavaṃ mūḍho jaḍāndhabadhiropamaḥ. diśaś ca vidiśaś caiva na vijajñe tamovṛtaḥ. avijānann ahaṃ kiṃ cit tasmiṃs tamasi saṃvṛte. susaṃbhrāntena manasā vyathāṃ paramikāṃ gataḥ. so 'haṃ prapannaḥ śaraṇaṃ devadevaṃ sanātanam. prāñjalir manasā bhūtvā vākyam etat tadoktavān. bhagavan bhūtabhavyeśa bhavadbhūtakṛd avyaya. śaraṇaṃ saṃprapannaṃ māṃ trātum arhasy ariṃdama. ahaṃ tu tattvajijñāsuḥ ko 'si kasyāsi kutra vā. saṃprāptaḥ padavīṃ deva sa māṃ saṃtrātum arhasi. āvirbhūtaḥ purāṇātmā mām ehīti sanātanaḥ. tato 'parāntato devo viśvasya gatir ātmavān. mohayām āsa māṃ tatra durvibhāvyavapur vibhuḥ. svabhāvam ātmanas tatra darśayan svayam ātmanā. śramaṃ me janayām āsa bhayaṃ cābhayadaḥ prabhuḥ. khinna ity eva māṃ matvā bhagavān avyayo 'cyutaḥ. śabdenāśvāsayām āsa jagāhe ca tamo mahat. ahaṃ tu khedānugataḥ śramāc calapadaś caran. manasā devadeveśaṃ dhyātuṃ samupacakrame. tathā gataṃ tu māṃ jñātvā bhagavān amitadyutiḥ. tamaḥ praṇāśayām āsa mamānugrahakāṅkṣayā. tataḥ pranaṣṭe tamasi tam ahaṃ dīptatejasam. apaśyaṃ tejasā vyāptaṃ madhyāhna iva bhāskaram. svayaṃprabhāṃś ca puruṣān striyaś ca paramādbhutāḥ. apaśyam aham avyagraṃ tasmin deśe sahasraśaḥ. na tatra dyotate sūryo nakṣatrāṇi tathaiva ca. na tatra candramā bhāti na vāyur vāti pāṃsulaḥ. tatra tūryāṇy anekāni gītāni madhurāṇi ca. adṛśyāni manojñāni śrūyante sarvatodiśam. sravanti vaiḍūryalatāḥ padmotpalajhaṣākulāḥ. muktāsikatavaprāś ca sarito nirmalodakāḥ. agatis tatra devānām asurāṇāṃ tathaiva ca. gandharvanāgayakṣāṇāṃ rākṣasānāṃ tathaiva ca. svayaṃprabhās tatra narā dṛśyante 'dbhutadarśanāḥ. yeṣāṃ na devatās tulyāḥ prabhābhir bhāvitātmanām. sa ca tān apy atikramya daivatair api pūjitaḥ. viveśa jvalanaṃ dīptam anindhanam anaupamam. jvālābhir māṃ praviṣṭaṃ ca jvalantaṃ sarvatodiśam. daityadānavarakṣobhir daivataiś cāpi duḥsaham. jvālāmālinam āsādya tam agnim aham avyayam. aviṣahyatamaṃ matvā manasedam acintayam. mayā hi samareṣv agnir anekeṣu mahādyutiḥ. praviṣṭaś cāpaviddhaś ca na ca māṃ dagdhavān kva cit. ayaṃ ca duḥsahaḥ śaśvat tejasātihutāśanaḥ. atyādityaprakāśārcir analo dīpyate mahān. sa tathā dahyamāno 'pi tejasā dīptavarcasā. prapannaḥ śaraṇaṃ devaṃ śaṅkhacakragadādharam. bhaktaś cānugataś ceti trātum arhasi māṃ vibho. yathā māṃ na dahed agniḥ sadyo deva tathā kuru. evaṃ vilapamānasya jñātvā me vacanaṃ prabhuḥ. mā bhair iti vacaḥ prāha meghagambhīranisvanaḥ. sa mām āśvāsya vacanaṃ prāhedaṃ bhagavān vibhuḥ. mama tvaṃ viditaḥ saumya yathāvat tattvadarśane. jñāpitaś cāpi yat pitrā tac cāpi viditaṃ mahat. vainateya mamāpy evam ahaṃ vedyaḥ kathaṃ cana. mahad etat svarūpaṃ me na te vedyaṃ kathaṃ cana. māṃ hi vindanti vidvāṃso ye jñāne pariniṣṭhitāḥ. nirmamā nirahaṃkārā nirāśīrbandhanāyutāḥ. bhavāṃs tu satataṃ bhakto manmanāḥ pakṣisattama. suparṇaḥ. sthūlaṃ māṃ vetsyate tasmāj jagataḥ kāraṇe sthitam. evaṃ dattābhayas tena tato 'ham ṛṣisattamāḥ. naṣṭakhedaśramabhayaḥ kṣaṇena hy abhavaṃ tadā. sa śanair yāti bhagavān gatyā laghuparākramaḥ. ahaṃ tu sumahāvegam āsthāyānuvrajāmi tam. sa gatvā dīrgham adhvānam ākāśam amitadyutiḥ. manasāpy agamaṃ devam āsasādātmatattvavit. atha devaḥ samāsādya manasaḥ sadṛśaṃ javam. mohayitvā ca māṃ tatra kṣaṇenāntaradhīyata. tatrāmbudharadhīreṇa bhośabdenānunādinā. ayaṃ bho 'ham iti prāha vākyaṃ vākyaviśāradaḥ. śabdānusārī tu tatas taṃ deśam aham āvrajam. tatrāpaśyaṃ tataś cāhaṃ śrīmaddhaṃsayutaṃ saraḥ. sa tat saraḥ samāsādya bhagavān ātmavittamaḥ. bhośabdapratisṛṣṭena svareṇāprativādinā. viveśa devaḥ svāṃ yoniṃ mām idaṃ cābhyabhāṣata. viśasva salilaṃ saumya sukham atra vasāmahe. tataś ca prāviśaṃ tatra saha tena mahātmanā. dṛṣṭavān adbhutataraṃ tasmin sarasi bhāsvatām. agnīnām apraṇītānām iddhānām indhanair vinā. dīptānām ājyasiktānāṃ sthāneṣv arciṣmatāṃ sadā. dīptis teṣām anājyānāṃ prāptājyānām ivābhavat. aniddhānām iva satām iddhānām iva bhāsvatām. athāhaṃ varadaṃ devaṃ nāpaśyaṃ tatra saṃgatam. tataḥ saṃmoham āpanno viṣādam agamaṃ param. apaśyaṃ cāgnihotrāṇi śataśo 'tha sahasraśaḥ. vidhinā saṃpraṇītāni dhiṣṇyeṣv ājyavatāṃ tadā. asaṃmṛṣṭatalāś caiva vedīḥ kusumasaṃstṛtāḥ. kuśapadmotpalāsaṅgān kalaśāṃś ca hiraṇmayān. agnihotrāṇi citrāṇi śataśo 'tha sahasraśaḥ. agnihotropayogyāni yāni dravyāṇi kāni cit. tāni cātra samṛddhāni dṛṣṭavān asmy anekaśaḥ. manohṛdyatamaś cātra surabhiḥ puṇyalakṣaṇaḥ. ājyagandho manogrāhī ghrāṇacakṣuḥsukhāvahaḥ. teṣāṃ tatrāgnihotrāṇām īḍitānāṃ sahasraśaḥ. samīpe tv adbhutatamam apaśyam aham avyayam. candrāṃśukāśaśubhrāṇāṃ tuṣārodbhedavarcasām. vimalādityabhāsānāṃ sthaṇḍilāni sahasraśaḥ. dṛṣṭāny agnisamīpeṣu dyutimanti mahānti ca. eṣu cāgnisamīpeṣu śuśrāva supadākṣarāḥ. prabhāvāntaritānāṃ tu praspaṣṭākṣarabhāṣiṇām. ṛgyajuḥsāmagānāṃ ca madhurāḥ susvarā giraḥ. susaṃmṛṣṭatalais tais tu bṛhadbhir dīptatejasaiḥ. pāvakaiḥ pāvitātmāham abhavaṃ laghuvikramaḥ. tato 'haṃ teṣu dhiṣṇyeṣu jvalamāneṣu yajvanām. taṃ deśaṃ praṇamitvātha anveṣṭum upacakrame. tāny anekasahasrāṇi parīyaṃs tu mahājavāt. apaśyamānas taṃ devaṃ tato 'haṃ vyathito 'bhavam. tatas teṣv agnihotreṣu jvalatsu vimalārciṣu. bhānumatsu na paśyāmi devadevaṃ sanātanam. tato 'haṃ tāni dīptāni parīya vyathitendriyaḥ. nāntaṃ teṣāṃ prapaśyāmi khedaś ca sahasābhavat. vihṛtya sarvato dṛṣṭiṃ bhayamohasamanvitaḥ. śramaṃ paramam āpannaś cintayāmi vicetanaḥ. tasmin nu khalu vartāmi loke kiṃ caitad īdṛśam. ṛgyajuḥsāmanirghoṣaḥ śrūyate na ca dṛśyate. na ca paśyāmi taṃ devaṃ yenāham iha coditaḥ. evaṃ cintāsamāpannaḥ pradhyātum upacakrame. tataś cintayato mahyaṃ mohenāviṣṭacetasaḥ. mahāñ śabdaḥ prādurāsīt subhṛśaṃ me vyathākaraḥ. athāhaṃ sahasā tatra śṛṇomi vipuladhvanim. apaśyaṃ ca suparṇānāṃ sahasrāṇy ayutāni ca. abhyadravanta mām eva vipuladyutiraṃhasaḥ. teṣām ahaṃ prabhāvena sarvathaivāvaro 'bhavam. so 'haṃ samantataḥ sarvaiḥ suparṇair atitejasaiḥ. dṛṣṭvātmānaṃ parigataṃ saṃbhramaṃ paramaṃ gataḥ. vinayāvanato bhūtvā namaścakre mahātmane. anādinidhanāyaibhir nāmabhiḥ paramātmane. nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca. bhūtabhavyabhaveśāya śivāya śivamūrtaye. śivayoneḥ śivādyāya śivapūjyatamāya ca. ghorarūpāya mahate yugāntakaraṇāya ca. viśvāya viśvadevāya viśveśāya mahātmane. sahasrodarapādāya sahasranayanāya ca. sahasrabāhave caiva sahasravadanāya ca. śuciśravāya mahate ṛtusaṃvatsarāya ca. ṛgyajuḥsāmavaktrāya atharvaśirase namaḥ. hṛṣīkeśāya kṛṣṇāya druhiṇorukramāya ca. brahmodrekāya tārkṣyāya varāhāyaikaśṛṅgiṇe. śipiviṣṭāya satyāya haraye 'tha śikhaṇḍine. hutāyordhvāya vakrāya raudrānīkāya sādhave. sindhave sindhuvarṣaghne devānāṃ sindhave namaḥ. garutmate trinetrāya sudhāmāya vṛṣāvṛṣe. samrāḍugre saṃkṛtaye viraje saṃbhave bhave. vṛṣāya vṛṣarūpāya vibhave bhūrbhuvāya ca. dīptasṛṣṭāya yajñāya sthirāya sthavirāya ca. acyutāya tuṣārāya vīrāya ca samāya ca. jiṣṇave puruhūtāya vasiṣṭhāya varāya ca. satyeśāya sureśāya haraye 'tha śikhaṇḍine. barhiṣāya vareṇyāya vasave viśvavedhase. kirīṭine sukeśāya vāsudevāya śuṣmiṇe. bṛhadukthe suṣeṇāya yugme duṃdubhaye tathā. bhave sakhāya vibhave bharadvājābhayāya ca. bhāskarāya ca candrāya padmanābhāya bhūriṇe. punarvasubhṛtatvāya jīvaprabhaviṣāya ca. vaṣaṭkārāya svāhāya svadhāya nidhanāya ca. ṛce ca yajuṣe sāmne trailokyapataye namaḥ. śrīpadmāyājasadṛśe dharaṇe dhāraṇe pare. saumyāya saumyarūpāya saumye sumanase namaḥ. viśvāya ca suviśvāya viśvarūpadharāya ca. keśavāya sukeśāya raśmikeśāya bhūriṇe. hiraṇyagarbhāya namaḥ saumyāya vṛṣarūpiṇe. nārāyaṇāgravapuṣe puruhūtāya vajriṇe. dharmiṇe vṛṣasenāya dharmasenāya rodhase. munaye jvaramuktāya jvarādhipataye namaḥ. anetrāya trinetrāya piṅgalāya vidharmiṇe. tapobrahmanidhānāya yugaparyāyiṇe namaḥ. śaraṇāya śaraṇyāya śakteṣṭaśaraṇāya ca. namaḥ sarvabhaveśāya bhūtabhavyabhavāya ca. pāhi māṃ devadeveśa ko 'py ajo 'si sanātanaḥ. evaṃ gato 'smi śaraṇaṃ śaraṇyaṃ brahmayoninam. stavyaṃ stavaṃ stutavatas tat tamo me praṇaśyatu. bhayaṃ ca me vyapagataṃ pakṣiṇo 'ntarhitābhavan. śṛṇomi ca giraṃ divyām antardhānagatāṃ śivām. mā bhair garutman dānto 'si punaḥ sendrā divaukasaḥ. svaṃ caiva bhavanaṃ gatvā drakṣyase putrabāndhavān. tatas tasmin kṣaṇenaiva sahasaiva mahādyutiḥ. pratyadṛśyata tejasvī purastāt sa mamāntike. samāgamya tatas tena śivena paramātmanā. apaśyaṃ cāham āyāntaṃ naranārāyaṇāśrame. caturdviguṇavinyāsaṃ taṃ ca devaṃ sanātanam. yajatas tān ṛṣīn devān vadato dhyāyato munīn. yuktān siddhān naiṣṭhikāṃś ca japato yajato gṛhe. puṣpapūraparikṣiptaṃ dhūpitaṃ dīpitaṃ hutam. vanditaṃ siktasaṃmṛṣṭaṃ naranārāyaṇāśramam. tad adbhutam ahaṃ dṛṣṭvā vismito 'smi tadānaghāḥ. jagāma śirasā devaṃ prayatenāntarātmanā. tad atyadbhutasaṃkāśaṃ kim etad iti cintayan. nādhyagacchaṃ parāṃ divyāṃ tasya sarvabhavātmanaḥ. praṇipatya sudurdharṣaṃ punaḥ punar udīkṣya ca. śirasy añjalim ādhāya vismayotphullalocanaḥ. avocaṃ tam adīnārthaṃ śreṣṭhānāṃ śreṣṭham uttamam. namas te bhagavan deva bhūtabhavyabhavatprabho. yad etad adbhutaṃ deva mayā dṛṣṭaṃ tvadāśrayam. anādimadhyaparyantaṃ kiṃ tac chaṃsitum arhasi. yadi jānāsi māṃ bhaktaṃ yadi vānugraho mayi. śaṃsa sarvam aśeṣeṇa śrotavyaṃ yadi cen mayā. svabhāvas tava durjñeyaḥ prādurbhāvo bhavasya ca. bhavadbhūtabhaviṣyeśa sarvathā gahanaṃ bhavān. brūhi sarvam aśeṣeṇa tad āścaryaṃ mahāmune. kiṃ tad atyadbhutaṃ vṛttaṃ teṣv agniṣu samantataḥ. kāni tāny agnihotrāṇi keṣāṃ śabdaḥ śruto mayā. śṛṇvatāṃ brahma satatam adṛśyānāṃ mahātmanām. etan me bhagavan kṛṣṇa brūhi sarvam aśeṣataḥ. gṛṇanty agnisamīpeṣu ke ca te brahmarāśayaḥ. bhagavān. māṃ na devā na gandharvā na piśācā na rākṣasāḥ. vidus tattvena tattvasthaṃ sūkṣmātmānam avasthitam. caturdhāhaṃ vibhaktātmā lokānāṃ hitakāmyayā. bhūtabhavyabhaviṣyādir anādir viśvakṛttamaḥ. pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam. mano buddhiś ca cetaś ca tamaḥ sattvaṃ rajas tathā. prakṛtir vikṛtiś ceti vidyāvidye śubhāśubhe. matta etāni jāyante nāham ebhyaḥ kathaṃ cana. sa kiṃ cic chreyasā yuktaḥ śreṣṭhabhāvaṃ vyavasyati. dharmayuktaṃ ca puṇyaṃ ca so 'ham asmi nirāmayaḥ. yat svabhāvātmatattvajñaiḥ kāraṇair upalakṣyate. anādimadhyanidhanaḥ so 'ntarātmāsmi śāśvataḥ. yat tu me paramaṃ guhyaṃ rūpaṃ sūkṣmārthadarśibhiḥ. gṛhyate sūkṣmabhāvajñaiḥ so 'vibhāvyo 'smi śāśvataḥ. yat tu me paramaṃ guhyaṃ yena vyāptam idaṃ jagat. so 'haṃgataḥ sarvasattvaḥ sarvasya prabhavo 'vyayaḥ. matto jātāni bhūtāni mayā dhāryanty aharniśam. mayy eva vilayaṃ yānti pralaye pannagāśana. yo māṃ yathā vedayati tasya tasyāsmi kāśyapa. manobuddhigataḥ śreyo vidadhāmi vihaṃgama. māṃ tu jñātuṃ kṛtā buddhir bhavatā pakṣisattama. śṛṇu yo 'haṃ yataś cāhaṃ yadarthaś cāham udyataḥ. ye ke cin niyatātmānas tretāgniparamārcitāḥ. agnikāryaparā nityaṃ japahomaparāyaṇāḥ. ātmany agnīn samādhāya niyatā niyatendriyāḥ. ananyamanasas te māṃ sarve vai samupāsate. yajanto japayajñair māṃ mānasaiś ca susaṃyatāḥ. agnīn abhyudyayuḥ śaśvad agniṣv evābhisaṃsthitāḥ. ananyakāryāḥ śucayo nityam agniparāyaṇāḥ. ya evaṃbuddhayo dhīrās te māṃ gacchanti tādṛśāḥ. akāmahatasaṃkalpā jñāne nityaṃ samāhitāḥ. ātmany agnīn samādhāya nirāhārā nirāśiṣaḥ. viṣayeṣu nirārambhā vimuktā jñānacakṣuṣaḥ. ananyamanaso dhīrāḥ svabhāvaniyamānvitāḥ. yat tad viyati dṛṣṭaṃ tat saraḥ padmotpalāyutam. tatrāgnayaḥ saṃnihitā dīpyante sma nirindhanāḥ. jñānāmalāśayās tasmin ye ca candrāṃśunirmalāḥ. upāsīnā gṛṇanto 'gniṃ praspaṣṭākṣarabhāṣiṇaḥ. ākāṅkṣamāṇāḥ śucayas teṣv agniṣu vihaṃgama. ye mayā bhāvitātmāno mayy evābhiratāḥ sadā. upāsate ca mām eva jyotirbhūtā nirāmayāḥ. tair hi tatraiva vastavyaṃ nīrāgātmabhir acyutaiḥ. nirāhārā hy aniṣpandāś candrāṃśusadṛśaprabhāḥ. nirmalā nirahaṃkārā nirālambā nirāśiṣaḥ. madbhaktāḥ satataṃ te vai bhaktās tān api cāpy aham. caturdhāhaṃ vibhaktātmā carāmi jagato hitaḥ. lokānāṃ dhāraṇārthāya vidhānaṃ vidadhāmi ca. yathāvat tad aśeṣeṇa śrotum arhati me bhavān. ekā mūrtir nirguṇākhyā yogaṃ paramam āsthitā. dvitīyā sṛjate tāta bhūtagrāmaṃ carācaram. sṛṣṭaṃ saṃharate caikā jagat sthāvarajaṃgamam. jātātmaniṣṭhā kṣapayan mohayann iva māyayā. kṣipantī mohayantī ca ātmaniṣṭhā svamāyayā. caturthī me mahāmūrtir jagadvṛddhiṃ dadāti sā. rakṣate cāpi niyatā so 'ham asmi nabhaścara. mayā sarvam idaṃ vyāptaṃ mayi sarvaṃ pratiṣṭhitam. ahaṃ sarvajagadbījaṃ sarvatragatir avyayaḥ. yāni tāny agnihotrāṇi ye ca candrāṃśurāśayaḥ. gṛṇanti vedaṃ satataṃ teṣv agniṣu vihaṃgama. krameṇa māṃ samāyānti sukhino jñānasaṃyutāḥ. teṣām ahaṃ tapo dīptaṃ tejaḥ samyak samāhitam. nityaṃ te mayi vartante teṣu cāham atandritaḥ. sarvato muktasaṅgena mayy ananyasamādhinā. śakyaḥ samāsādayitum ahaṃ vai jñānacakṣuṣā. māṃ sthūladarśanaṃ viddhi jagataḥ kāryakāraṇam. mattaś ca saṃprasūtān vai viddhi lokān sadaivatān. mayā cāpi caturdhātmā vibhaktaḥ prāṇiṣu sthitaḥ. ātmabhūto vāsudevo hy aniruddho matau sthitaḥ. saṃkarṣaṇo 'haṃkāre ca pradyumno manasi sthitaḥ. anyathā ca caturdhā yat samyak tvaṃ śrotum arhasi. hiraṇyagarbhaḥ padmākhyo yatra brahmā vyajāyata. brahmaṇaś cāpi saṃbhūtaḥ śiva ity avadhāryatām. śivāt skandaḥ saṃbabhūva etat sṛṣṭicatuṣṭayam. daityadānavadarpaghnam evaṃ māṃ viddhi nityaśaḥ. daityadānavarakṣobhir yadā dharmaḥ prapīḍyate. tadāhaṃ dharmavṛddhyarthaṃ mūrtimān bhavitāśuga. vedavrataparā ye tu dhīrā niścitabuddhayaḥ. yogino yogayuktāś ca te māṃ paśyanti nānyathā. pañcabhiḥ saṃprayukto 'haṃ viprayuktaś ca pañcabhiḥ. vartamānaś ca teṣv evaṃ nivṛttaś caiva teṣv aham. ye vidur jātasaṃkalpās te māṃ paśyanti tādṛśāḥ. khaṃ vāyur āpo jyotiś ca pṛthivī ceti pañcamam. tadātmako 'smi vijñeyo na cānyo 'smīti niścitam. vartamānam atītaṃ ca pañcavargeṣu niścalam. śabdasparśeṣu rūpeṣu rasagandheṣu cāpy aham. rajastamobhyām āviṣṭā yeṣāṃ buddhir aniścitā. te na paśyanti me tattvaṃ tapasā mahatā hy api. nopavāsair na niyamair na vratair vividhair api. draṣṭuṃ vā vedituṃ vāpi na śakyā paramā gatiḥ. mahāmohotthapaṅke tu nimagnānāṃ gatir hariḥ. ekāntino dhyānaparā yatibhāvād vrajanti mām. sattvayuktā matir yeṣāṃ kevalātmaviniścitā. te paśyanti svam ātmānaṃ paramātmānam avyayam. ahiṃsā sarvabhūteṣu teṣv avasthitam ārjavam. teṣv eva ca samādhāya samyag eti sa mām ajam. yad etat paramaṃ guhyam ākhyānaṃ paramādbhutam. yatnena tad aśeṣeṇa yathāvac chrotum arhasi. ye tv agnihotraniyatā japayajñaparāyaṇāḥ. te mām upāsate śaśvad yāṃs tāṃs tvaṃ dṛṣṭavān asi. śāstradṛṣṭavidhānajñā asaktāḥ kva cid anyathā. śakyo 'haṃ vedituṃ tais tu yan me paramam avyayam. ye tu sāṃkhyaṃ ca yogaṃ ca jñātvāpy adhṛtaniścayāḥ. na te gacchanty akuśalāḥ parāṃ gatim anuttamām. tasmāj jñānena śuddhena prasannātmātmavic chuciḥ. āsādayati tad brahma yatra gatvā na śocati. śuddhābhijanasaṃpannāḥ śraddhāyuktena cetasā. madbhaktyā ca dvijaśreṣṭhā gacchanti paramāṃ gatim. yad guhyaṃ paramaṃ buddher aliṅgagrahaṇaṃ ca yat. tat sūkṣmaṃ gṛhyate viprair yatibhis tattvadarśibhiḥ. na vāyuḥ pavate tatra na tasmiñ jyotiṣāṃ gatiḥ. na cāpaḥ pṛthivī naiva nākāśaṃ na manogatiḥ. tasmāc caitāni sarvāṇi prajāyante vihaṃgama. sarvebhyaś ca sa tebhyaś ca prabhavaty amalo vibhuḥ. sthūladarśanam etan me yad dṛṣṭaṃ bhavatānagha. etat sūkṣmasya ca dvāraṃ kāryāṇāṃ kāraṇaṃ tv aham. dṛṣṭo vai bhavatā tasmāt sarasy amitavikrama. brahmaṇo yad ahorātraṃ saṃkhyānajñair vibhāvyate. eṣa kālas tvayā tatra sarahasyam upāgataḥ. māṃ yajñam āhur yajñajñā vedaṃ vedavido janāḥ. munayaś cāpi mām eva japayajñaṃ pracakṣate. vaktā mantā rasayitā ghrātā draṣṭā pradarśakaḥ. boddhā bodhayitā cāhaṃ gantā śrotā cidātmakaḥ. mām iṣṭvā svargam āyānti tathā cāpnuvate mahat. jñātvā mām eva caidhante niḥsaṅgenāntarātmanā. ahaṃ tejo dvijātīnāṃ mama tejo dvijātayaḥ. mama yas tejasā dehaḥ so 'gnir ity eva gamyatām. prāṇapālaḥ śarīre 'haṃ yoginām aham īśvaraḥ. sāṃkhyānām idam evāgre mayi sarvam idaṃ jagat. dharmam arthaṃ ca kāmaṃ ca mokṣaṃ caivārjavaṃ japam. tamaḥ sattvaṃ rajaś caiva karmajaṃ ca bhavāpyayam. sa tadāhaṃ tathārūpas tvayā dṛṣṭaḥ sanātanaḥ. tatas tv ahaṃ parataraḥ śakyaḥ kālena veditum. mama yat paramaṃ guhyaṃ śāśvataṃ dhruvam avyayam. tad evaṃ paramo guhyo devo nārāyaṇo hariḥ. na tac chakyaṃ bhujaṃgāre vettum abhyudayānvitaiḥ. nirārambhanamaskārā nirāśīrbandhanās tathā. gacchanti taṃ mahātmānaḥ paraṃ brahma sanātanam. sthūlo 'ham evaṃ vihaga tvayā dṛṣṭas tathānagha. etac cāpi na vetty anyas tvām ṛte pannagāśana. mā matis tava gān nāśam eṣā gatir anuttamā. madbhakto bhava nityaṃ tvaṃ tato vetsyasi me padam. etat te sarvam ākhyātaṃ rahasyaṃ divyamānuṣam. etac chreyaḥ paraṃ caitat panthānaṃ viddhi mokṣiṇām. evam uktvā sa bhagavāṃs tatraivāntaradhīyata. paśyato me mahāyogī jagāmātmagatir gatim. etad evaṃvidhaṃ tasya mahimānaṃ mahātmanaḥ. acyutasyāprameyasya dṛṣṭavān asmi yat purā. etad vaḥ sarvam ākhyātaṃ ceṣṭitaṃ tasya dhīmataḥ. ṛṣayaḥ. mayānubhūtaṃ pratyakṣaṃ dṛṣṭvā cādbhutakarmaṇaḥ. aho śrāvitam ākhyānaṃ bhavatātyadbhutaṃ mahat. puṇyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat. etat pavitraṃ devānām etad guhyaṃ paraṃtapa. etaj jñānavatāṃ jñeyam eṣā gatir anuttamā. ya imāṃ śrāvayed vidvān kathāṃ parvasu parvasu. sa lokān prāpnuyāt puṇyān devarṣibhir abhiṣṭutān. śrāddhakāle ca viprāṇāṃ ya imāṃ śrāvayec chuciḥ. na tatra rakṣasāṃ bhāgo nāsurāṇāṃ ca vidyate. anasūyur jitakrodhaḥ sarvasattvahite rataḥ. yaḥ paṭhet satataṃ yuktaḥ sa vrajet tat salokatām. vedān pārayate vipro rājā vijayavān bhavet. bhīṣmaḥ. vaiśyas tu dhanadhānyāḍhyaḥ śūdraḥ sukham avāpnuyāt. tatas te munayaḥ sarve saṃpūjya vinatāsutam. svān eva cāśramāñ jagmur babhūvuḥ śāntitatparāḥ. sthūladarśibhir ākṛṣṭo durjñeyo hy akṛtātmabhiḥ. eṣā śrutir mahārāja dharmyā dharmabhṛtāṃ vara. surāṇāṃ brahmaṇā proktā vismitānāṃ paraṃtapa. mayāpy eṣā kathā tāta kathitā mātur antike. vasubhiḥ sattvasaṃpannais tavāpy eṣā mayocyate. tad agnihotraparamā japayajñaparāyaṇāḥ. nirāśīrbandhanāḥ santaḥ prayānty akṣarasāmyatām. ārambhayajñān utsṛjya japahomaparāyaṇāḥ. dhyāyanto manasā viṣṇuṃ gacchanti paramāṃ gatim. tad eva paramo mokṣo mokṣadvāraṃ ca bhārata. yathā viniścitātmāno gacchanti paramāṃ gatim.