तस्मिंस् तृप्ते च तृप्यन्ते पितरो दैवतानि च। न हि श्रुतवतां किं चिद् अधिकं ब्राह्मणाद् ऋते। अन्धं स्यात् तम एवेदं न प्रज्ञायेत किं चन। चातुर्वर्ण्यं न वर्तेत धर्माधर्माव् ऋतानृते। असंस्कारात् क्षत्रवैश्यौ नश्येते ब्राह्मणाद् ऋते। शूद्रो नश्यत्य् अशुश्रूषुर् आश्रमाणां यथार्हतः।
tasmiṃs tṛpte ca tṛpyante pitaro daivatāni ca. na hi śrutavatāṃ kiṃ cid adhikaṃ brāhmaṇād ṛte. andhaṃ syāt tama evedaṃ na prajñāyeta kiṃ cana. cāturvarṇyaṃ na varteta dharmādharmāv ṛtānṛte. asaṃskārāt kṣatravaiśyau naśyete brāhmaṇād ṛte. śūdro naśyaty aśuśrūṣur āśramāṇāṃ yathārhataḥ.