न वृत्तं मन्यते ऽन्यस्य मन्यते ऽन्यस्य पापकम्। तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्। यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः। ये ऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः। द्रव्याण्य् आददते चैव दुःखं यान्ति पतन्ति च। ततो ऽन्यत् कर्म यत् किं चिन् न पुण्यं न च पातकम्। नित्यं चाकृपणो भुङ्क्ते स्वजनैर् देहि याचितः। भाग्यक्षयेण क्षीयन्ते नोपभोगेन संचयाः।
na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam. tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam. yajñadānatapaḥśīlā narā vai puṇyakarmiṇaḥ. ye 'bhidruhyanti bhūtāni te vai pāpakṛto janāḥ. dravyāṇy ādadate caiva duḥkhaṃ yānti patanti ca. tato 'nyat karma yat kiṃ cin na puṇyaṃ na ca pātakam. nityaṃ cākṛpaṇo bhuṅkte svajanair dehi yācitaḥ. bhāgyakṣayeṇa kṣīyante nopabhogena saṃcayāḥ.