स तथेति प्रतिश्रुत्य कीटो वर्त्मन्य् अतिष्ठत। शकटव्रजश् च सुमहान् आगतश् च यदृच्छया। चक्राक्रमेण भिन्नश् च कीटः प्राणान् मुमोच ह। संभूतः क्षत्रियकुले प्रसादाद् अमितौजसः। तम् ऋषिं द्रष्टुम् अगमत् सर्वास्व् अन्यासु योनिषु। ददर्श च महाराज संप्राप्तं राजपुत्रताम्।
sa tatheti pratiśrutya kīṭo vartmany atiṣṭhata. śakaṭavrajaś ca sumahān āgataś ca yadṛcchayā. cakrākrameṇa bhinnaś ca kīṭaḥ prāṇān mumoca ha. saṃbhūtaḥ kṣatriyakule prasādād amitaujasaḥ. tam ṛṣiṃ draṣṭum agamat sarvāsv anyāsu yoniṣu. dadarśa ca mahārāja saṃprāptaṃ rājaputratām.