दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत। अचलेष्व् अप्रकम्पेषु मा ते भूद् अत्र संशयः। युधिष्ठिरः। पितामहेन कथिता दानधर्माश्रिताः कथाः। मया श्रुता ऋषीणां तु संनिधौ केशवस्य च। पुनः कौतूहलम् अभूत् ताम् एवाध्यात्मिकीं प्रति। कथां कथय राजेन्द्र त्वद् अन्यः क उदाहरेत्। एष यादवदायादस् तथानुज्ञातुम् अर्हति। ज्ञाते तु यस्मिञ् ज्ञातव्यं ज्ञातं भवति भारत। पश्चाच् छ्रोष्यामहे राज्ञां श्राव्यान् धर्मान् पितामह। कौतूहलम् ऋषीणां तु च्छेत्तुम् अर्हसि सांप्रतम्। भीष्मः। अत ऊर्ध्वं महाराज सांख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसंपन्नयोर् आचार्ययोः संवादम् अनुव्याख्यास्यामः । तद् यथाभगवन्तं सनत्कुमारम् आसीनम् अङ्गुष्ठपर्वमात्रं महति विमानवरे । योजनसहस्रमण्डले तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनम् अनुध्यायन्तम् अमृतम् अनावर्तकरम् अमूर्तम् अक्षयजम् अथोपदिष्टम् उपससर्प भगवन्तम् आचार्यं भगवान् आचार्यो रुद्रस् तं प्रोवाच - स्वागतं महेश्वर ब्रह्मसुत । एतद् आसनम् आस्तां भगवान् ॥ इत्य् उक्ते चासीनो भगवान् अनन्तरूपो रुद्रस् तं प्रोवाच - भगवान् अपि ध्यानम् आवर्तयति । इत्य् उक्ते चाह भगवान् सनत्कुमारस् तथेति ॥। तथेत्य् उक्तश् च प्रोवाच भगवाञ् शंकरस् तदा। परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम्। किं वा ध्यानेन द्रष्टव्यं यद् भवान् अनुपश्यति। यच् च ध्यात्वा न शोचन्ति यतयस् तत्त्वदर्शिनः। कथय त्वम् इमं देवं देहिनां यतिसत्तम। यच् च तत्पुरुषं शुद्धम् इत्य् उक्तं योगसांख्ययोः। किम् अध्यात्माधिभूतं च तथा चाप्य् अधिदैवतम्। कालसंख्या च का देव द्रष्टव्या तस्य ब्रह्मणः। संख्या संख्यादनस्यैव या प्रोक्ता परमर्षिभिः। शास्त्रदृष्टेन मार्गेण यथावद् यतिसत्तम। यच् च तत्पुरुषं शुद्धं प्रबुद्धम् अजरं ध्रुवम्। बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च। विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदां वर। परिसंख्यां च सांख्यानां ध्यानं योगेषु चार्थवत्। एकत्वदर्शनं चैव तथा नानात्वदर्शनम्। अरिष्टानि च तत्त्वेन तथैवोत्क्रमणानि च। दैवतानि च सर्वाणि निखिलेनानुपूर्वशः। यान्य् आश्रितानि देहेषु देहिनां यतिसत्तम। सर्वम् एतद् यथातत्त्वम् आख्याहि मुनिसत्तम। श्रेष्ठो भवान् हि सर्वेषां ब्रह्मज्ञानाम् अनिन्दित। चतुर्थस् त्वं त्रयाणां तु ये गताः परमां गतिम्। ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात्। वयं तु वैकृतं मार्गम् आश्रिता वै क्षरं सदा। परम् उत्सृज्य पन्थानम् अमृताक्षरम् एव तु। न्यूने पथि निमग्नास् तु ऐश्वर्ये ऽष्टगुणे तथा। महिमानं प्रगृह्येमं विचरामो यथासुखम्। न चैतत् सुखम् अत्यन्तं न्यूनम् एतद् अनन्तरम्। मूर्तिमत् परम् एतत् स्यात् त्व् इदम् एवं सुसत्तम। पुनः पुनश् च पतनं मूर्तिमत्य् उपदिश्यते। न पुनर् मृत्युर् इत्य् अन्यं निर्मुक्तानां तु मूर्तितः। मृत्युदोषास् त्व् अनन्ता वै उत्पद्यन्ते कृतात्मनाम्। मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने। तत्र मज्जन्ति पुरुषाः सुखदुःखेन चेष्टिताः। सुखदुःखव्यपेतं च यद् आहुर् अमृतं पदम्। तद् अहं श्रोतुम् इच्छामि यथावच् छ्रुतिदर्शनात्। सनत्कुमारः। यद् उक्तं भवता वाक्यं तत्त्वसंज्ञेति देहिनाम्। चतुर्विंशतिम् एवात्र के चिद् आहुर् मनीषिणः। के चिद् आहुस् त्रयोविंशं यथाश्रुतिनिदर्शनात्। वयं तु पञ्चविंशं वै तद् अधिष्ठानसंज्ञितम्। तत्त्वं समधिमन्यामः सर्वतन्त्रप्रलापनात्। अव्ययश् चैव वै व्यक्ताव् उभाव् अपि पिनाकधृक्। सह चैव विना चैव ताव् अन्योन्यं प्रतिष्ठितौ। हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतां वर। चकार पुरुषस् तात विकारपुरुषाव् उभौ। अव्यक्ताद् एक एवैष महान् आत्मा प्रसूयते। अहंकारेण लोकांश् च व्याप्य चाहंकृतेन वै। विना सर्वं तद् अव्यक्ताद् अभिमन्यस्व शूलधृक्। भूतसर्गम् अहंकारात् तृतीयं विद्धि वै क्रमात्। अहंकाराच् च भूतेषु चतुर्थं विद्धि वैकृतम्। अहंकाराच् च जातानि युगपद् विबुधेश्वर। सविशेषाणि भूतानि पञ्च प्राहुर् मनीषिणः। चतुर्विंशात् तु वै प्रोक्तात् पञ्चविंशो ऽधितिष्ठति। एते सर्गा मया प्रोक्ताश् चत्वारः प्राकृतास् त्व् इह। अहंकाराच् च जातानि युगपद् विबुधेश्वर। अहंकाराच् च भूतेषु विविधार्थं व्यजायत। इन्द्रियैर् युगपत् सर्वैः सो ऽनित्यश् च समीक्ष्यते। मरुत्त्वं सत्त्वसर्गश् च तुष्टिः सिद्धिस् तथैव च। वैकृतानि प्रवक्ष्यामि शृणु तानि महामते। एषा तत्त्वचतुर्विंशन् मया शास्त्रानुमानतः। वर्णिता तव देवेश पञ्चविंशसमन्विता। पञ्चमो ऽनुग्रहश् चैव नवैते प्राकृतैः सह। ऐन्द्रे ऽप्य् अहम् अथाप्य् अन्यन् ममात्मनि च भास्वरः। यच् च देहमयं किं चित् त्रिषु लोकेषु विद्यते। सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन। अन्यथा ये तु पश्यन्ति ते न पश्यन्ति ब्रह्मज। एतद् अव्यक्तविषयं पञ्चविंशसमन्वितम्। अनेन कारणेनैव तत्त्वम् आहुर् मनीषिणः। विकारमात्रम् एतत् तु तत्त्वम् आचक्षते परम्। निस्तत्त्वश् चैष देवेश बोद्धव्यं तु न बुध्यते। यदि बुध्येत् परं बुद्धं बुध्यमानः सुरर्षभ। सनत्कुमारः। प्रबुद्धो ह्य् अभिमन्येत यो ऽयं नाहम् इति प्रभो। तत्त्वसंख्या श्रुता चैषा येषां ब्रह्मविदां वर। सर्गसंख्या मया प्रोक्ता नवानाम् अनुपूर्वशः। प्रवक्ष्यामि तु ते ऽध्यात्मम् अधिभूताधिदैवतम्। नैतद् युक्तैर् वेदविद्भिर् गृहस्थैर्। मान्यैर् एभिस् तपसा वाभिपन्नैः। यत्नेन दृष्टं परमात्मतत्त्वं। तत्त्वेन प्राप्यं तु यथोक्तम् एतत्। परं परेभ्यस् त्व् अमृतार्थतत्त्वं। स्वभावसत्त्वस्थम् अनीशम् ईशम्। कैवल्यतां प्राप्य महासुरोत्तम। तवैतद् आख्यामि मुनीन्द्र वृत्त्या। रहस्यम् एवान्यद् अवाप्य दिव्यं। पवित्रपूतस् तव मृत्युजालम्। पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां। दद्यान् न देयं त्व् अपरीक्षिताय। नाश्रद्दधानाय न चान्यबुद्धेर्। नाज्ञानयुक्ताय न विस्मिताय। स्वाध्याययुक्ताय गुणान्विताय। प्रदेयम् एतन् नियतेन्द्रियाय। संक्षेपं चाप्य् अथैतेषां तत्त्वानां वृषभध्वज। अनुलोमानुजातानां प्रतिलोमं प्रलीयताम्। प्रवक्ष्यामि तम् अध्यात्मं साधिभूताधिदैवतम्। यथांशुजालम् अर्कस्य तथैतत् प्रवदन्ति वै। संक्षीणे ब्रह्मदिवसे जगज् जलधिम् आविशेत्। प्रलीयते जले भूमिर् जलम् अग्नौ प्रलीयते। लीयते ऽग्निस् तथा वायौ वायुर् आकाश एव तु। मनसि प्रलीयते खं तु मनो ऽहंकार एव च। अहंकारस् तथा तस्मिन् महति प्रविलीयते। महान् अव्यक्त इत्य् आहुस् तद् एकत्वं प्रचक्षते। अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि। एवम् अस्यासकृत् क्रीडाम् आहुस् तत्त्वविदो जनाः। अध्यात्मम् अधिभूतं च तथैवाप्य् अधिदैवतम्। यथावद् उदितं शास्त्रं योगे तु सुमहात्मभिः। तथैव चेह सांख्ये तु परिसंख्यात्मचिन्तकैः। प्रपञ्चितार्थम् एतावन् महादेव महात्मभिः। ब्रह्मेति विद्याद् अध्यात्मं पुरुषं चाधिदैवतम्। प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च। अध्यात्मं प्राणम् इत्य् आहुः क्रतुम् अप्य् अधिदैवतम्। रथं च यज्ञवाहो ऽत्र कर्माहंकार एव च। अध्यात्मं तु मनो विद्याच् चन्द्रमाश् चाधिदैवतम्। दैवं च प्रभवश् चैव कर्म व्याहृतयस् तथा। विद्यात् तु श्रोत्रम् अध्यात्मम् आकाशम् अधिदैवतम्। सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम्। त्वग् अध्यात्मम् अथो विद्याद् वायुर् अत्राधिदैवतम्। संनिपातय विज्ञानं सर्वकर्म च तत्र ह। अध्यात्मं चक्षुर् इत्य् आहुर् भास्करो ऽत्राधिदैवतम्। ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम्। जिह्वेति विद्याद् अध्यात्मम् आपश् चात्राधिदैवतम्। पायुर् अध्यात्मम् इत्य् आहुर् यथावद् यतिसत्तमाः। विसर्गम् अधिभूतं च मित्रं चाप्य् अधिदैवतम्। उपस्थो ऽध्यात्मम् इत्य् आहुर् देवदेव पिनाकधृक्। अनुभावो ऽधिभूतं तु दैवतं च प्रजापतिः। पादाव् अध्यात्मम् इत्य् आहुस् त्रिशूलाङ्क मनीषिणः। गन्तव्यम् अधिभूतं तु विष्णुस् तत्राधिदैवतम्। वाग् अध्यात्मं तथैवाहुः पिनाकिंस् तत्त्वदर्शिनः। वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम्। एतद् अध्यात्मम् अतुलं साधिभूताधिदैवतम्। मया तु वर्णितं सम्यग् देहिनाम् अमरर्षभ। एतत् कीटपतंगे च श्वपाके शुनि हस्तिनि। पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे। सर्वम् एव हि द्रष्टव्यम् अन्यथा मा विचिन्तय। अतो ऽन्यथा ये पश्यन्ति न सम्यक् तेषु दर्शनम्। देवदानवगन्धर्वयक्षराक्षसकिंनराः। यन् न जानन्ति को ह्य् एष कुतो वा भगवान् इति। ओम् इत्य् एकाक्षरं ब्रह्म यत् तत् सदसतः परम्। अनादिमध्यपर्यन्तं कूटस्थम् अचलं ध्रुवम्। योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्। अनादिनिधनं देवं देवदेवं सनातनम्। अप्रमेयम् अविज्ञेयं हरिं नारायणं प्रभुम्। कृताञ्जलिः शुचिर् भूत्वा प्रणम्य प्रयतो ऽर्चयेत्। अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः। एको ऽयं वेद भगवांस् त्राता नारायणो हरिः। नारायणाद् ऋषिगणास् ततः सिद्धा महोरगाः। देवा देवर्षयश् चैव यं विदुर् दुःखभेषजम्। यम् आहुर् विजितक्लेशं यस्मिंश् च विहिताः प्रजाः। यस्मिंल् लोकाः स्फुरन्तीमे जाले शकुनयो यथा। सप्तर्षयो मनः सप्त सांख्यास् तु मुनिदर्शनात्। सप्तर्षयश् चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च। श्रोत्रयोश् च दिशः प्राहुर् मनसि त्व् अथ चन्द्रमाः। मनः षष्ठं बुद्धिः सप्तमी ह्य् आत्मनि स्थापितानि, शरीरेषु नात्मनि ।। तस्य हि कारणानि भवन्ति । सर्वाण्य् अपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि । सप्तस्व् अपि विषयाणां व्यापकानि ।। तान्य् एव स्वपतो भूतग्रामस्याजम् आत्मानं देवलोकस्थानसंमितं देहान्तरगामिनं मुमुक्षुं वानुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते ।। मोक्षकाले तम् एकं न कश् चिद् वेत्ति स्वापरम् ।। एवं प्रविष्टेषु भूतेषु को जागर्तीत्य् उच्यते । निद्राप्रसुप्तेषु वात्र जाग्रत् स्वप्नशीलो ऽत्र सदने च देवद्योतनो भगवांश् चात्र क्षेत्रज्ञो बुद्धिर् वा । स हि सुप्तस्यापि स्वप्नदर्शनानि पश्यति ।। अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते ।। सनत्कुमारः। स एष प्राज्ञः । अथ तैजसः कायाग्निः । स हि सुप्तस्यात्मा वा । अविदुषो वाप्रतिबुध्यमानस्यान्नं पचतीत्य् अन्ते ऽवतिष्ठते । एतद् आत्मानम् अधिकृत्यानुज्ञातम् इति ।। प्रभवश् चाप्ययस् तात वर्णितस् ते ऽनुपूर्वशः। तथाध्यात्माधिभूतं च तथैवात्राधिदैवतम्। निखिलेन तु वक्ष्यामि दैवतानीह देहिनाम्। यान्य् आश्रितानि देहेषु यानि पृच्छसि शंकर। वाच्य् अग्निस् त्व् अथ जिह्वायां सोमः प्राणे तु मारुतः। रूपे चाप्य् अथ नक्षत्रं जिह्वायां चाप एव तु। नाभ्यां समुद्रश् च विभुर् नखरोम तथैव च। वनस्पतिवनौषध्यस् त्व् अङ्गेषु मरुतस् तथा। संवत्सराः पर्वसु च आकाशे दैवमानुषे। उदाने विद्युद् अभवद् व्याने पर्जन्य एव च। स्तनयोर् एव चाकाशं बले चेन्द्रस् तथाभवत्। मताव् अप्य् अथ चेशानस् त्व् अपाने रुद्र एव च। गन्धर्वाप्सरसो व्याने सत्ये मित्रश् च शंकर। प्रज्ञायां वरुणश् चैव चक्षुष्य् आदित्य एव च। शरीरे पृथिवी चैव पादयोर् विष्णुर् एव च। पायौ मित्रस् तथोपस्थे प्रजापतिर् अरिंदम। मूर्ध्नि चैव दिशः प्राहुर् बुद्धौ ब्रह्मा प्रतिष्ठितः। बुध्यमानो ऽऽत्मनिष्ठः स्याद् अधिष्ठाता तु शंकर। अबुद्धश् चाभवत् तस्माद् बुध्यमानान् न संशयः। आभ्याम् अन्यः परो बुद्धो वेदवादेषु शंकर। यदाश्रितानि देहेषु दैवतानि पृथक् पृथक्। यो ऽग्नये यजते नित्यम् आत्मयाजी समाहितः। य एवम् अनुपश्येत दैवतानि समाहितः। सो ऽत्र योगी भवत्य् एव य एवम् अनुपश्यति। स सर्वयज्ञयाजिभ्यो ह्य् आत्मयाजी विशिष्यते। मुखे जुहोति यो नित्यं कृत्स्नं विश्वम् इदं जगत्। सो ऽऽत्मवित् प्रोच्यते तज्ज्ञैर् महादेव महात्मभिः। सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्य् आत्मयाजिना। गन्तव्यं परम् आकाङ्क्षन् परम् एव विचिन्तयन्। यथा संक्रमते देहाद् देही त्रिपुरसूदन। तथास्य स्थानम् आख्यास्ये पृथक्त्वेनेह शंकर। पादाभ्यां वैष्णवं स्थानम् आप्नोति विनियोजनात्। पायुना मित्रम् आप्नोति उपस्थेन प्रजापतिम्। नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भुवो लभेत्। बाहुभ्यां वासवं स्थानं श्रोत्राभ्याम् आप्नुयाद् दिशः। आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च। अथ मूर्धसु यः प्राणान् धारयेत समाहितः। बुद्ध्या मानम् अवाप्नोति द्रव्यावस्थं न संशयः। अव्यक्तात् परमं शुद्धम् अप्रमेयम् अनामयम्। तम् आहुः परमं नित्यं यद् यद् आप्नोति बुद्धिमान्। बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते। बुध्यमानम् अबुद्धश् च नित्यम् एवानुपश्यति। विकारपुरुषस् त्व् एष बुध्यमान इति स्मृतः। पञ्चविंशतितत्त्वं तत् प्रोच्यते तत्र संशयः। स एष प्रकृतिस्थत्वात् तस्थुर् इत्य् उपदिश्यते। महान् आत्मा महादेव महान् अत्राधितिष्ठति। अधिष्ठानाद् अधिष्ठाता प्रोच्यते शास्त्रदर्शनात्। एष चेतयते देव मोहजालम् अबुद्धिमान्। अव्यक्तस्यैव साधर्म्यम् एतद् आहुर् मनीषिणः। सो ऽहं सो ऽहम् अतो नित्याद् अज्ञानाद् इति मन्यते। यदि बुध्यति चैवायं मन्येयम् इति भास्वरः। न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा। देवता निखिलेनैताः प्रोक्तास् त्रिभुवनेश्वर। योगकृत्यं तु तावन् मे त्वं निबोधानुपूर्वशः। शून्यागारेष्व् अरण्येषु सागरे वा गुहासु वा। विष्टम्भयित्वा त्रीन् दण्डान् अवाप्तो ह्य् अद्वयो भवेत्। प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखो ऽपि वा। दक्षिणावदनो वापि बद्ध्वा विधिवद् आसनम्। स्वस्तिकेनोपसंविष्टः कायम् उन्नाम्य भास्वरम्। यथोपदिष्टं गुरुणा तथा तद् ब्रह्म धारयेत्। लघ्वाहारो यतो दान्तस् त्रिकालपरिवर्जकः। मूत्रोत्सर्गपुरीषाभ्याम् आहारे च समाहितः। शेषकालं तु युञ्जीत मनसा सुसमाहितः। इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत्। मनस् तथैव संगृह्य बुद्ध्या बुद्धिमतां वर। विधावमानं धैर्येण विस्फुरन्तम् इतस् ततः। निरुध्य सर्वसंकल्पांस् ततो वै स्थिरतां व्रजेत्। एकाग्रस् तद् विजानीयात् सर्वं गुह्यतमं परम्। निवातस्थ इवालोलो यथा दीपो ऽतिदीप्यते। ऊर्ध्वम् एव न तिर्यक् च तथैव भ्राम्यते मनः। हृदिस्थस् तिष्ठते यो ऽसौ तथैवाभिमुखो यदा। मनो भवति देवेश पाषाणम् इव निश्चलम्। स निर्जने विनिर्घोषे सघोषे चावसञ् जने। युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः। ततः पश्यति तद् ब्रह्म ज्वलद् आत्मनि संस्थितम्। विद्युद् अम्बुधरे यद्वत् तद्वद् एकम् अनाश्रयम्। तमस्य् अगाधे तिष्ठन्तं निस्तमस्कम् अचेतनम्। चेतयानम् अचेतं च दीप्यमानं स्वतेजसा। अङ्गुष्ठपर्वमात्रं तन् नैःश्रेयसम् अनिन्दितम्। महद् भूतम् अनन्तं च स्वतन्त्रं विगतज्वरम्। ज्योतिषां ज्योतिषं देवं विष्णुम् अत्यन्तनिर्मलम्। नारायणम् अणीयांसम् ईश्वराणाम् अधीश्वरम्। विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम्। अविज्ञाय निमज्जन्ति लोकाः संसारसागरे। यं दृष्ट्वा यतयस् तात न शोचन्ति गतज्वराः। जन्ममृत्युभयान् मुक्तास् तीर्णाः संसारसागरम्। अणिमा लघिमा भूमा प्राप्तिः प्राकाम्यम् एव च। ईशित्वं च वशित्वं च यत्रकामावसायिता। एतद् अष्टगुणं योगं योगानाम् अभितः स्मृतम्। दृष्ट्वात्मानं निरात्मानम् अप्रमेयं सनातनम्। ते विशन्ति शरीराणि योगेनानेन भास्वरम्। दैत्यदेवमनुष्याणां बलेन बलवत्तमाः। एतत् तत्त्वम् अनाद्यन्तं यद् भवान् अनुपृच्छति। नित्यं वयम् उपास्यामो योगधर्मं सनातनम्। योगधर्मान् न धर्मो ऽस्ति गरीयान् सुरसत्तम। एतद् धर्मं हि धर्माणाम् अपुनर्भवसंस्कृतम्। तत्त्वतः परम् अस्तीति के चिद् आहुर् मनीषिणः। के चिद् आहुः परं नास्ति ये ज्ञानफलम् आश्रिताः। ज्ञानस्थः पुरुषस् त्व् एष विकृतः स्वेन वर्णितः। यं ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः। तम् एव पुरुषं देवं के चिद् एव महेश्वर। नित्यम् अन्यतमाः प्राहुर् ज्ञानं परमकं स्मृतम्। ज्ञानम् एव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम्। चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः। उक्तम् एतावद् एतत् ते योगदर्शनम् उत्तमम्। सनत्कुमारः। सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम्। इन्द्रियेभ्यो मनः पूर्वम् अहंकारस् ततः परम्। अहंकारात् परा बुद्धिर् बुद्धेः परतरं महत्। महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः। एतावद् एतत् सांख्यानां दर्शनं देवसत्तम। अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च। मनस् तथा विशेषाश् च दश चैवेन्द्रियाणि च। एषा तत्त्वचतुर्विंशन् महापुरुषसंमिता। बुध्यमानेन देवेश चेतनेन महात्मना। संयोगम् एतयोर् नित्यम् आहुर् अव्यक्तपुंसयोः। एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः। तमःसंज्ञितम् एतद् धि प्रवदन्ति त्रिशूलधृक्। समुत्पाट्य यथाव्यक्ताज् जीवा यान्ति पुनः पुनः। आदिर् एष महान् आत्मा गुणानाम् इति नः प्रभो। गुणस्थत्वाद् गुणं त्व् एनम् आहुर् अव्यक्तलक्षणम्। एतेनाध्युषितो व्यक्तस् त्रिगुणं चेतयत्य् अथ। अचेतनप्रकृत्यैष न चान्यम् अनुबुध्यते। बुध्यमानो ह्य् अहंकारी नित्यं मानाप्रबोधनात्। विमलस्य विशुद्धस्य नीरुजस्य महात्मनः। विमलोदारशीलः स्याद् बुध्यमानाप्रबुद्धयोः। द्रष्टा भवत्य् अभोक्ता च सत्त्वमूर्तिश् च निर्गुणः। बुध्यमानाप्रबुद्धाभ्याम् अन्य एव तु निर्गुणः। उपेक्षकः शुचिस् ताभ्याम् उभाभ्याम् अयुतस् तथा। बुध्यमानो न बुध्येत बुद्धम् एवं सनातनम्। स एव बुद्धेर् अव्यक्तस्वभावत्वाद् अचेतनः। सो ऽहम् एव न मे ऽन्यो ऽस्ति य एवम् अभिमन्यते। न मन्यते ममान्यो ऽस्ति येन चेतो ऽस्म्य् अचेतनः। एवम् एवाभिमन्येत बुध्यमानो ऽप्य् अनात्मवान्। अहम् एव न मे ऽन्यो ऽस्ति न प्रबुद्धवशानुगः। अव्यक्तस्थो गुणान् एष नित्यम् एवाभिमन्यते। तेनाधिष्ठिततत्त्वज्ञैर् महद्भिर् अभिधीयते। अहंकारेण संयुक्तस् ततस् तम् अभिमन्यते। क्षेत्रं प्रविश्य दुर्बुद्धिर् बुध्यमानो ह्य् अनात्मवान्। अहम् एव सृजत्य् अन्यं द्वितीयं लोकसारथिः। सर्वभावैर् अहंकारैस् तृतीयं सर्गसंज्ञितम्। ततो भूतान्य् अहंकारम् अहंकारो मनो ऽसृजत्। सर्वस्रोतस्य् अभिमुखं संप्रावर्तत बुद्धिमान्। तथैव यज्ञे भूतेषु विषयार्थी पुनः पुनः। इन्द्रियैः सह शूलाङ्क पञ्चपञ्चभिर् एव च। मनो वेद न चात्मानम् अहंकारं प्रजापतिः। न वेद वाप्य् अहंकारो बुद्धिं बुद्धिमतां वर। एवम् एते महाभाग नेतरे नयवादिनः। अहंकारेण संयुक्तः स्रोतस्य् अभिमुखः सदा। एवम् एष विकारात्मा महापुरुषसंज्ञकः। प्रतनोति जगत् कृत्स्नं पुनर् आददते ऽसकृत्। संसक्तत्वाज् जगत् कृत्स्नम् अव्यक्तस्य हृदि स्थितम्। संविशद् रजनीं कृत्स्नां निशान्ते दिवसागमे। पुनर् आत्मा विजयते बहवो निर्गुणास् तथा। अज्ञानेन समायुक्तः सो ऽव्यक्तेन तमोत्मना। यदि ह्य् एषो नु मन्येत ममास्ति परतो ऽपरः। स पुनः पुनर् आत्मानं न कुर्याद् आक्षिपेत च। एतम् अव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान्। पञ्चविंशं महादेव महापुरुषवैकृतम्। प्रबुद्धो बुद्धवान् एतत् सृजमानम् अबुद्धवान्। गुणान् पुनश् च तान् एव सो ऽऽत्मनात्मनि निक्षिपेत्। अव्यक्तस्य वशीभूतो सो ऽज्ञानस्य तमोत्मनः। बुध्यमानो ह्य् अबुद्धस्य बुद्धस् तद् अनुभुज्यते। उपेक्षकः शुचिर् व्यग्रः सो ऽलिङ्गः सो ऽव्रणो ऽमलः। षड्विंशो भगवान् आस्ते बुद्धः शुद्धो निरामयः। अव्यक्तादि विशेषान्तम् एतद् वैद्या वदन्त्य् उत। एतैर् एव विहीनं तु के चिद् आहुर् मनीषिणः। निस्तत्त्वं बुध्यमानास् तु के चिद् आहुर् महामते। के चिद् आहुर् महात्मानस् तत्त्वसंज्ञितम् एव तु। तत्त्वस्य श्रवणाद् एनं तत्त्वम् एव वदन्ति वै। तत्त्वसंश्रयणाच् चैव सत्त्ववन्तं महेश्वर। एवम् एष विकारात्मा बुध्यमानो महाभुज। अव्यक्तो भवते व्यक्तौ सत्त्वं सत्त्वं तथा गुणौ। विद्या च भवते ऽविद्या भवते ग्रहसंज्ञितम्। य एवम् अनुबुध्यन्ते योगसांख्याश् च तत्त्वतः। ते ऽव्यक्तं शंकरागाढं मुञ्चन्ते शास्त्रबुद्धयः। तेषाम् एवं तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम्। बुद्धिर् विस्तीर्यते सर्वं तैलबिन्दुर् इवाम्भसि। विद्या तु सर्वविद्यानाम् अवबोध इति स्मृतः। येन विद्याम् अविद्यां च विन्दन्ति यतिसत्तमाः। सैषा त्रयी परा विद्या चतुर्थ्य् आन्वीक्षिकी स्मृता। यां बुध्यमानो बुध्येत बुद्ध्यात्मनि समं गतः। अप्रबुद्धम् अथाव्यक्तम् अविद्यासंज्ञकं स्मृतम्। विमोहनं तु शोकेन केवलेन समन्वितम्। एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम्। ये त्व् एतन् नावबुध्यन्ते ते प्रबुद्धवशानुगाः। ते पुनः पुनर् अव्यक्ताज् जनिष्यन्त्य् अबुधात्मनः। तम् एव तुलयिष्यन्ति अबुद्धवशवर्तिनः। ये चाप्य् अन्ये तन्मनसस् ते ऽप्य् एतत्फलभागिनः। विदित्वैतं न शोचन्ति योगोपेतार्थदर्शिनः। स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम्। अज्ञानबन्धनान् मुक्तास् तीर्णाः संसारबन्धनात्। अज्ञानसागरं घोरम् अगाधं तम् असंज्ञकम्। यत्र मज्जन्ति भूतानि पुनः पुनर् अरिंदम। एषा विद्या तथाविद्या कथिता ते मयार्थतः। यस्मिन् देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च। तथा चैकत्वनानात्वम् अक्षरं क्षरम् एव च। निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते। बुध्यमानाप्रबुद्धाभ्याम् अबुद्धस्य प्रपञ्चनम्। भूय एव निबोध त्वं देवानां देवसत्तम। यच् च किं चिच् छ्रुतं न स्याद् दृष्टं नैव च किं चन। सनत्कुमारः। तच् च ते संप्रवक्ष्यामि एकाग्रः शृणु तत्परः। अरिष्टानि प्रवक्ष्यामि तत्त्वेन शृणु तद् भवान्। मध्य उत्तरतस् तात दक्षिणामुखनिष्ठितम्। विद्युत्संस्थानपुरुषं यदि पश्येत मानवः। वर्षत्रयेण जानीयाद् देहन्यासम् उपस्थितम्। एतत् फलम् अरिष्टस्य शंकराहुर् मनीषिणः। शुद्धमण्डलम् आदित्यम् अरश्मिम् अथ पश्यतः। वर्षार्धकेन जानीयाद् देहन्यासम् उपस्थितम्। छिद्रां चन्द्रमसश् छायां पादाव् अप्य् अनुपश्यतः। संवत्सरेण जानीयाद् देहन्यासम् उपस्थितम्। कनीनिकायाम् अशिरः पुरुषं यदि पश्यति। जानीयात् षट्सु मासेषु देहन्यासम् उपस्थितम्। कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद् यदि। विजानीयात् तु मासेन देहन्यासम् उपस्थितम्। विस्रगन्धम् उपाघ्राति सुरभिं प्राप्य भास्वरम्। देवतायतनस्थो ऽपि सप्तरात्रेण मृत्युभाक्। सर्वाङ्गधारणावस्थां धारयेत समाहितः। यथा स मृत्युं जयति नान्यथेह महेश्वर। यदि जीवितुम् इच्छेत चिरकालं महामुने। अथ नेच्छेच् चिरं कालं त्यजेद् आत्मानम् आत्मना। केवलं चिन्तयानस् तु निष्कलं स निरामयम्। अथ तं निर्विकारं तु प्रकृतेः परमं शुचिः। पुरुषं तेन साधर्म्यं देहन्यासम् उपाश्नुयात्। जाग्रतो हि मयोक्तानि तवारिष्टानि तत्त्वतः। धारणाच् चैव सर्वाङ्गे मृत्युं जीयात् सुरर्षभ। एकत्वदर्शनं भूयो नानात्वं च निबोध मे। अक्षरं च क्षरं चैव चतुष्टयविधानतः। अव्यक्तादीनि तत्त्वानि सर्वाण्य् एव महाद्युते। आहुश् चतुर्विंशतिमं विकारं पुरुषान्वितम्। एकत्वदर्शनं चैव नानात्वेनावरं स्मृतम्। पञ्चविंशतिवर्गः स्याद् अपवर्गो ऽजरामरः। स निर्विकारः पुरुषस् तत्त्वेनैवोपदिश्यते। स एव पञ्चविंशस् तु विकारः पुरुषः स्मृतः। यद्य् एष निर्विकारः स्यात् तत्त्वं न तु भवेद् भव। विकारा विद्यमानास् तु तत्त्वसंज्ञक उच्यते। यद्य् एषो ऽव्यक्ततां नैति व्यतिरेकान् न संशयः। तथा भवति निस्तत्त्वस् तथा सत्त्वस् तथा गुणः। विकारगुणसंत्यागात् प्रकृत्यन्यत्वतः शुचिः। तदा नानात्वताम् एति सर्गहीनो ऽपवर्गभाक्। बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान्। अक्षरश् च भवत्य् एष यथा वा च्युतवान् क्षणात्। अव्यक्ता व्यक्तिर् उक्ता स्यान् निर्गुणस्य गुणाकरात्। एतद् एकत्वनानात्वम् अक्षरः क्षर एव च। व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि। विमोक्षलक्षणं शेषं तद् अपीह ब्रवीमि ते। यं ज्ञात्वा यतयः प्राप्ताः केवलत्वम् अनामयम्। सांख्याश् चाप्य् अथ योगाश् च दग्धपङ्का गतज्वराः। अमूर्तित्वम् अनुप्राप्ता निर्गुणा निर्भया भव। विपाप्मानो महादेव मुक्ताः संसारसागरात्। सरणे प्रजनादाने गुणानां प्रकृतिः सदा। परा प्रमत्ता सततम् एतावत् कार्यकारणम्। असच् चैव च सच् चैव कुरुते स पुनः पुनः। चैतन्येन पुराणेन चेतनाचेतनात् परः। यस् तु चेतयते चेतो मनसा चैकबुद्धिकम्। स नैव सन् न चैवासत् सदसन् न च संस्मृतः। व्यतिरिक्तश् च शुद्धश् च सो ऽन्यश् चाप्रकृतिस् तथा। उपेक्षकश् च प्रकृतेर् विकारपुरुषः स्मृतः। विकारपुरुषेणैषा संयुक्ता सृजते जगत्। पुनर् आददते चैव गुणानाम् अन्यथात्मनि। मत्स्योदकात् स संज्ञातः प्रकृतेर् एव कर्मणः। तद्वत् क्षेत्रसहस्राणि स एव प्रकरिष्यति। क्षेत्रप्रलयतज्ज्ञस् तु क्षेत्रज्ञ इति चोच्यते। संयोगो नित्य इत्य् आहुर् ये जनास् तत्त्वदर्शिनः। एवम् एष ह्य् असत् सच् च विकारपुरुषः स्मृतः। विकारापद्यमानं तु विकृतिं प्रवदन्ति नः। यदा त्व् एष विकारस्य प्रकृतानीति मन्यते। तदा विकारताम् एति विकारान्यत्वतां व्रजेत्। प्रकृत्या च विकारैश् च व्यतिरिक्तो यदा भवेत्। शुचि यत् परमं शुद्धं प्रतिबुद्धं सनातनम्। अयुक्तं निष्कलं शुद्धम् अव्ययाजरम् अव्रणम्। समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः। विमोक्षं भजते व्यक्ताद् अप्रबुद्धाद् अचेतनात्। उदुम्बराद् वा मशकः प्रलयान् निर्गतो यथा। तथाव्यक्तस्य संत्यागान् निर्ममः पञ्चविंशकः। यथा पुष्करपर्णस्थो जलबिन्दुर् न संश्लिषेत्। तथैवाव्यक्तविषये न लिप्येत् पञ्चविंशकः। आकाश इव निःसङ्गस् तथासङ्गस् तथा वरः। पञ्चविंशतितमो बुद्धो बुद्धेन समतां गतः। एतद् धि प्रकृतं ज्ञानं तत्त्वतश् च समुत्थितम्। पूर्वजेभ्यस् तथोत्पन्नं ब्रह्मजेभ्यस् ततो ऽनघ। आदिसर्गो महाबाहो तामसेनावृतं परम्। प्रविष्टावयवं देवम् अभेद्यम् अजरामरम्। सनकः सनन्दनश् चैव तृतीयश् च सनातनः। ते विदुः परमं धर्मम् अव्ययं व्ययधर्षणम्। अव्यक्तात् परमात् सूक्ष्माद् अव्रणान् मूर्तिसंज्ञकात्। क्षेत्रज्ञो भगवान् आस्ते नारायणपरायणः। अस्माकं सहजातानाम् उत्पन्नं ज्ञानम् उत्तमम्। एते हि मूर्तिमन्तो वै लोकान् प्रविचरामहे। पुनः पुनः प्रजाता वै तत्र तत्र पिनाकधृक्। द्वंद्वैर् विरज्यमानस्य ज्ञानम् उत्पन्नम् उत्तमम्। कपिलान् मूलआचार्यात् तत्त्वबुद्धिविनिश्चयम्। योगसांख्यम् अवाप्तं मे कार्त्स्न्येन मुनिसत्तमात्। तेन संबोधिताः शिष्या बहवस् तत्त्वदर्शिनः। तद् बुद्ध्वा बहवः शिष्या मयाप्य् एतन् निदर्शिताः। जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम्। यज् ज्ञात्वा नानुशोचन्ति तत्त्वज्ञानान् निरिन्द्रियाः। शुद्धबीजमलाश् चैव विपङ्का वै निरक्षराः। स्वतन्त्रास् ते स्वतन्त्रेण संमिता निष्कलाः स्मृताः। शाश्वताश् चाव्ययाश् चैव तमोग्राह्याश् च भास्वराः। विपाप्मानस् तथा सर्वे सत्त्वस्थाश् चापि निर्व्रणाः। विमुक्ताः केवलाश् चैव वीतमोहभयास् तथा। अमूर्तास् ते महाभाग सर्वे च विगतज्वराः। हिरण्यनाभस् त्रिशिरास् तथा प्रह्रादभास्करौ। वसुर् विश्वावसुश् चैव सार्धं पञ्चशिखस् तथा। गार्ग्यो ऽथासुरिर् आवन्त्यो गौतमो ऽव्रत एव च। कात्यायनो ऽथ नमुचिर् हरिश् च दमनश् च ह। एते चान्ये च बहवस् तत्त्वम् एवोपदर्शिताः। के चिन् मुक्ताः स्थिताः के चिच् छन्दतश् चापरे मृताः। दर्शितास् त्रिविधं बन्धं विमोक्षं त्रिविधं तथा। अज्ञानं चैव रागश् च संयोगं प्राकृतं तथा। एतेभ्यो बन्धनं प्रोक्तं विमोक्षम् अपि मे शृणु। परितस् तावता सम्यक् संबन्धो यावता कृतः। कृत्स्नक्षयपरित्यागाद् विमोक्ष इति नः श्रुतिः। भीष्मः। निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषो ऽमलः। इत्य् एवम् उक्त्वा भगवान् ईश्वराय महात्मने। सनत्कुमारः प्रययाव् आकाशं समुपाश्रितः।
dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata. acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ. yudhiṣṭhiraḥ. pitāmahena kathitā dānadharmāśritāḥ kathāḥ. mayā śrutā ṛṣīṇāṃ tu saṃnidhau keśavasya ca. punaḥ kautūhalam abhūt tām evādhyātmikīṃ prati. kathāṃ kathaya rājendra tvad anyaḥ ka udāharet. eṣa yādavadāyādas tathānujñātum arhati. jñāte tu yasmiñ jñātavyaṃ jñātaṃ bhavati bhārata. paścāc chroṣyāmahe rājñāṃ śrāvyān dharmān pitāmaha. kautūhalam ṛṣīṇāṃ tu cchettum arhasi sāṃpratam. bhīṣmaḥ. ata ūrdhvaṃ mahārāja sāṃkhyayogobhayaśāstrādhigatayāthātmyadarśanasaṃpannayor ācāryayoḥ saṃvādam anuvyākhyāsyāmaḥ | tad yathābhagavantaṃ sanatkumāram āsīnam aṅguṣṭhaparvamātraṃ mahati vimānavare | yojanasahasramaṇḍale taruṇabhāskarapratīkāśe śayanīye mahati baddhāsanam anudhyāyantam amṛtam anāvartakaram amūrtam akṣayajam athopadiṣṭam upasasarpa bhagavantam ācāryaṃ bhagavān ācāryo rudras taṃ provāca - svāgataṃ maheśvara brahmasuta | etad āsanam āstāṃ bhagavān || ity ukte cāsīno bhagavān anantarūpo rudras taṃ provāca - bhagavān api dhyānam āvartayati | ity ukte cāha bhagavān sanatkumāras tatheti ||. tathety uktaś ca provāca bhagavāñ śaṃkaras tadā. parāvarajñaṃ sarvasya trailokyasya mahāmunim. kiṃ vā dhyānena draṣṭavyaṃ yad bhavān anupaśyati. yac ca dhyātvā na śocanti yatayas tattvadarśinaḥ. kathaya tvam imaṃ devaṃ dehināṃ yatisattama. yac ca tatpuruṣaṃ śuddham ity uktaṃ yogasāṃkhyayoḥ. kim adhyātmādhibhūtaṃ ca tathā cāpy adhidaivatam. kālasaṃkhyā ca kā deva draṣṭavyā tasya brahmaṇaḥ. saṃkhyā saṃkhyādanasyaiva yā proktā paramarṣibhiḥ. śāstradṛṣṭena mārgeṇa yathāvad yatisattama. yac ca tatpuruṣaṃ śuddhaṃ prabuddham ajaraṃ dhruvam. budhyamānāprabuddhābhyāṃ vidyāvedyaṃ tathaiva ca. vimokṣaṃ trividhaṃ caiva brūhi mokṣavidāṃ vara. parisaṃkhyāṃ ca sāṃkhyānāṃ dhyānaṃ yogeṣu cārthavat. ekatvadarśanaṃ caiva tathā nānātvadarśanam. ariṣṭāni ca tattvena tathaivotkramaṇāni ca. daivatāni ca sarvāṇi nikhilenānupūrvaśaḥ. yāny āśritāni deheṣu dehināṃ yatisattama. sarvam etad yathātattvam ākhyāhi munisattama. śreṣṭho bhavān hi sarveṣāṃ brahmajñānām anindita. caturthas tvaṃ trayāṇāṃ tu ye gatāḥ paramāṃ gatim. jñānena ca prākṛtena nirmukto mṛtyubandhanāt. vayaṃ tu vaikṛtaṃ mārgam āśritā vai kṣaraṃ sadā. param utsṛjya panthānam amṛtākṣaram eva tu. nyūne pathi nimagnās tu aiśvarye 'ṣṭaguṇe tathā. mahimānaṃ pragṛhyemaṃ vicarāmo yathāsukham. na caitat sukham atyantaṃ nyūnam etad anantaram. mūrtimat param etat syāt tv idam evaṃ susattama. punaḥ punaś ca patanaṃ mūrtimaty upadiśyate. na punar mṛtyur ity anyaṃ nirmuktānāṃ tu mūrtitaḥ. mṛtyudoṣās tv anantā vai utpadyante kṛtātmanām. martyeṣu nākapṛṣṭheṣu nirayeṣu mahāmune. tatra majjanti puruṣāḥ sukhaduḥkhena ceṣṭitāḥ. sukhaduḥkhavyapetaṃ ca yad āhur amṛtaṃ padam. tad ahaṃ śrotum icchāmi yathāvac chrutidarśanāt. sanatkumāraḥ. yad uktaṃ bhavatā vākyaṃ tattvasaṃjñeti dehinām. caturviṃśatim evātra ke cid āhur manīṣiṇaḥ. ke cid āhus trayoviṃśaṃ yathāśrutinidarśanāt. vayaṃ tu pañcaviṃśaṃ vai tad adhiṣṭhānasaṃjñitam. tattvaṃ samadhimanyāmaḥ sarvatantrapralāpanāt. avyayaś caiva vai vyaktāv ubhāv api pinākadhṛk. saha caiva vinā caiva tāv anyonyaṃ pratiṣṭhitau. hiraṇmayīṃ praviśyaiṣa mūrtiṃ mūrtimatāṃ vara. cakāra puruṣas tāta vikārapuruṣāv ubhau. avyaktād eka evaiṣa mahān ātmā prasūyate. ahaṃkāreṇa lokāṃś ca vyāpya cāhaṃkṛtena vai. vinā sarvaṃ tad avyaktād abhimanyasva śūladhṛk. bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi vai kramāt. ahaṃkārāc ca bhūteṣu caturthaṃ viddhi vaikṛtam. ahaṃkārāc ca jātāni yugapad vibudheśvara. saviśeṣāṇi bhūtāni pañca prāhur manīṣiṇaḥ. caturviṃśāt tu vai proktāt pañcaviṃśo 'dhitiṣṭhati. ete sargā mayā proktāś catvāraḥ prākṛtās tv iha. ahaṃkārāc ca jātāni yugapad vibudheśvara. ahaṃkārāc ca bhūteṣu vividhārthaṃ vyajāyata. indriyair yugapat sarvaiḥ so 'nityaś ca samīkṣyate. maruttvaṃ sattvasargaś ca tuṣṭiḥ siddhis tathaiva ca. vaikṛtāni pravakṣyāmi śṛṇu tāni mahāmate. eṣā tattvacaturviṃśan mayā śāstrānumānataḥ. varṇitā tava deveśa pañcaviṃśasamanvitā. pañcamo 'nugrahaś caiva navaite prākṛtaiḥ saha. aindre 'py aham athāpy anyan mamātmani ca bhāsvaraḥ. yac ca dehamayaṃ kiṃ cit triṣu lokeṣu vidyate. sarvatraivābhimantavyaṃ tvayā tripurasūdana. anyathā ye tu paśyanti te na paśyanti brahmaja. etad avyaktaviṣayaṃ pañcaviṃśasamanvitam. anena kāraṇenaiva tattvam āhur manīṣiṇaḥ. vikāramātram etat tu tattvam ācakṣate param. nistattvaś caiṣa deveśa boddhavyaṃ tu na budhyate. yadi budhyet paraṃ buddhaṃ budhyamānaḥ surarṣabha. sanatkumāraḥ. prabuddho hy abhimanyeta yo 'yaṃ nāham iti prabho. tattvasaṃkhyā śrutā caiṣā yeṣāṃ brahmavidāṃ vara. sargasaṃkhyā mayā proktā navānām anupūrvaśaḥ. pravakṣyāmi tu te 'dhyātmam adhibhūtādhidaivatam. naitad yuktair vedavidbhir gṛhasthair. mānyair ebhis tapasā vābhipannaiḥ. yatnena dṛṣṭaṃ paramātmatattvaṃ. tattvena prāpyaṃ tu yathoktam etat. paraṃ parebhyas tv amṛtārthatattvaṃ. svabhāvasattvastham anīśam īśam. kaivalyatāṃ prāpya mahāsurottama. tavaitad ākhyāmi munīndra vṛttyā. rahasyam evānyad avāpya divyaṃ. pavitrapūtas tava mṛtyujālam. pṛthvīm imāṃ yady api ratnapūrṇāṃ. dadyān na deyaṃ tv aparīkṣitāya. nāśraddadhānāya na cānyabuddher. nājñānayuktāya na vismitāya. svādhyāyayuktāya guṇānvitāya. pradeyam etan niyatendriyāya. saṃkṣepaṃ cāpy athaiteṣāṃ tattvānāṃ vṛṣabhadhvaja. anulomānujātānāṃ pratilomaṃ pralīyatām. pravakṣyāmi tam adhyātmaṃ sādhibhūtādhidaivatam. yathāṃśujālam arkasya tathaitat pravadanti vai. saṃkṣīṇe brahmadivase jagaj jaladhim āviśet. pralīyate jale bhūmir jalam agnau pralīyate. līyate 'gnis tathā vāyau vāyur ākāśa eva tu. manasi pralīyate khaṃ tu mano 'haṃkāra eva ca. ahaṃkāras tathā tasmin mahati pravilīyate. mahān avyakta ity āhus tad ekatvaṃ pracakṣate. avyaktasya mahādeva pralayaṃ viddhi brahmaṇi. evam asyāsakṛt krīḍām āhus tattvavido janāḥ. adhyātmam adhibhūtaṃ ca tathaivāpy adhidaivatam. yathāvad uditaṃ śāstraṃ yoge tu sumahātmabhiḥ. tathaiva ceha sāṃkhye tu parisaṃkhyātmacintakaiḥ. prapañcitārtham etāvan mahādeva mahātmabhiḥ. brahmeti vidyād adhyātmaṃ puruṣaṃ cādhidaivatam. prabhavaṃ sarvabhūtānāṃ rakṣaṇaṃ tatra karma ca. adhyātmaṃ prāṇam ity āhuḥ kratum apy adhidaivatam. rathaṃ ca yajñavāho 'tra karmāhaṃkāra eva ca. adhyātmaṃ tu mano vidyāc candramāś cādhidaivatam. daivaṃ ca prabhavaś caiva karma vyāhṛtayas tathā. vidyāt tu śrotram adhyātmam ākāśam adhidaivatam. sarvabhāvābhidhānārthaṃ śabdaḥ karma sadā smṛtam. tvag adhyātmam atho vidyād vāyur atrādhidaivatam. saṃnipātaya vijñānaṃ sarvakarma ca tatra ha. adhyātmaṃ cakṣur ity āhur bhāskaro 'trādhidaivatam. jñāpanaṃ sarvavarṇānāṃ rūpaṃ karma sadā smṛtam. jihveti vidyād adhyātmam āpaś cātrādhidaivatam. pāyur adhyātmam ity āhur yathāvad yatisattamāḥ. visargam adhibhūtaṃ ca mitraṃ cāpy adhidaivatam. upastho 'dhyātmam ity āhur devadeva pinākadhṛk. anubhāvo 'dhibhūtaṃ tu daivataṃ ca prajāpatiḥ. pādāv adhyātmam ity āhus triśūlāṅka manīṣiṇaḥ. gantavyam adhibhūtaṃ tu viṣṇus tatrādhidaivatam. vāg adhyātmaṃ tathaivāhuḥ pinākiṃs tattvadarśinaḥ. vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam. etad adhyātmam atulaṃ sādhibhūtādhidaivatam. mayā tu varṇitaṃ samyag dehinām amararṣabha. etat kīṭapataṃge ca śvapāke śuni hastini. putrikādaṃśamaśake brāhmaṇe gavi pārthive. sarvam eva hi draṣṭavyam anyathā mā vicintaya. ato 'nyathā ye paśyanti na samyak teṣu darśanam. devadānavagandharvayakṣarākṣasakiṃnarāḥ. yan na jānanti ko hy eṣa kuto vā bhagavān iti. om ity ekākṣaraṃ brahma yat tat sadasataḥ param. anādimadhyaparyantaṃ kūṭastham acalaṃ dhruvam. yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim. anādinidhanaṃ devaṃ devadevaṃ sanātanam. aprameyam avijñeyaṃ hariṃ nārāyaṇaṃ prabhum. kṛtāñjaliḥ śucir bhūtvā praṇamya prayato 'rcayet. anādyantaṃ paraṃ brahma na devā ṛṣayo viduḥ. eko 'yaṃ veda bhagavāṃs trātā nārāyaṇo hariḥ. nārāyaṇād ṛṣigaṇās tataḥ siddhā mahoragāḥ. devā devarṣayaś caiva yaṃ vidur duḥkhabheṣajam. yam āhur vijitakleśaṃ yasmiṃś ca vihitāḥ prajāḥ. yasmiṃl lokāḥ sphurantīme jāle śakunayo yathā. saptarṣayo manaḥ sapta sāṃkhyās tu munidarśanāt. saptarṣayaś cendriyāṇi pañca buddhīndriyāṇi ca. śrotrayoś ca diśaḥ prāhur manasi tv atha candramāḥ. manaḥ ṣaṣṭhaṃ buddhiḥ saptamī hy ātmani sthāpitāni, śarīreṣu nātmani |. tasya hi kāraṇāni bhavanti | sarvāṇy api sarvakarmasu vā viṣayeṣu vā yuñjanti yathātmani svāni karmāṇi pravṛttāni | saptasv api viṣayāṇāṃ vyāpakāni |. tāny eva svapato bhūtagrāmasyājam ātmānaṃ devalokasthānasaṃmitaṃ dehāntaragāminaṃ mumukṣuṃ vānupraviśanti sūkṣmāṇi pralīyante |. mokṣakāle tam ekaṃ na kaś cid vetti svāparam |. evaṃ praviṣṭeṣu bhūteṣu ko jāgartīty ucyate | nidrāprasupteṣu vātra jāgrat svapnaśīlo 'tra sadane ca devadyotano bhagavāṃś cātra kṣetrajño buddhir vā | sa hi suptasyāpi svapnadarśanāni paśyati |. apratibuddheṣu lokeṣu sa eva pratibudhyate |. sanatkumāraḥ. sa eṣa prājñaḥ | atha taijasaḥ kāyāgniḥ | sa hi suptasyātmā vā | aviduṣo vāpratibudhyamānasyānnaṃ pacatīty ante 'vatiṣṭhate | etad ātmānam adhikṛtyānujñātam iti |. prabhavaś cāpyayas tāta varṇitas te 'nupūrvaśaḥ. tathādhyātmādhibhūtaṃ ca tathaivātrādhidaivatam. nikhilena tu vakṣyāmi daivatānīha dehinām. yāny āśritāni deheṣu yāni pṛcchasi śaṃkara. vācy agnis tv atha jihvāyāṃ somaḥ prāṇe tu mārutaḥ. rūpe cāpy atha nakṣatraṃ jihvāyāṃ cāpa eva tu. nābhyāṃ samudraś ca vibhur nakharoma tathaiva ca. vanaspativanauṣadhyas tv aṅgeṣu marutas tathā. saṃvatsarāḥ parvasu ca ākāśe daivamānuṣe. udāne vidyud abhavad vyāne parjanya eva ca. stanayor eva cākāśaṃ bale cendras tathābhavat. matāv apy atha ceśānas tv apāne rudra eva ca. gandharvāpsaraso vyāne satye mitraś ca śaṃkara. prajñāyāṃ varuṇaś caiva cakṣuṣy āditya eva ca. śarīre pṛthivī caiva pādayor viṣṇur eva ca. pāyau mitras tathopasthe prajāpatir ariṃdama. mūrdhni caiva diśaḥ prāhur buddhau brahmā pratiṣṭhitaḥ. budhyamāno ''tmaniṣṭhaḥ syād adhiṣṭhātā tu śaṃkara. abuddhaś cābhavat tasmād budhyamānān na saṃśayaḥ. ābhyām anyaḥ paro buddho vedavādeṣu śaṃkara. yadāśritāni deheṣu daivatāni pṛthak pṛthak. yo 'gnaye yajate nityam ātmayājī samāhitaḥ. ya evam anupaśyeta daivatāni samāhitaḥ. so 'tra yogī bhavaty eva ya evam anupaśyati. sa sarvayajñayājibhyo hy ātmayājī viśiṣyate. mukhe juhoti yo nityaṃ kṛtsnaṃ viśvam idaṃ jagat. so ''tmavit procyate tajjñair mahādeva mahātmabhiḥ. sarvebhyaḥ paramebhyo vai daivatebhyo hy ātmayājinā. gantavyaṃ param ākāṅkṣan param eva vicintayan. yathā saṃkramate dehād dehī tripurasūdana. tathāsya sthānam ākhyāsye pṛthaktveneha śaṃkara. pādābhyāṃ vaiṣṇavaṃ sthānam āpnoti viniyojanāt. pāyunā mitram āpnoti upasthena prajāpatim. nābhyā ca vāruṇaṃ sthānaṃ stanābhyāṃ tu bhuvo labhet. bāhubhyāṃ vāsavaṃ sthānaṃ śrotrābhyām āpnuyād diśaḥ. ādityaṃ cakṣuṣā sthānaṃ mūrdhnā brahmaṇa eva ca. atha mūrdhasu yaḥ prāṇān dhārayeta samāhitaḥ. buddhyā mānam avāpnoti dravyāvasthaṃ na saṃśayaḥ. avyaktāt paramaṃ śuddham aprameyam anāmayam. tam āhuḥ paramaṃ nityaṃ yad yad āpnoti buddhimān. budhyamānāprabuddhābhyāṃ sa buddha iti paṭhyate. budhyamānam abuddhaś ca nityam evānupaśyati. vikārapuruṣas tv eṣa budhyamāna iti smṛtaḥ. pañcaviṃśatitattvaṃ tat procyate tatra saṃśayaḥ. sa eṣa prakṛtisthatvāt tasthur ity upadiśyate. mahān ātmā mahādeva mahān atrādhitiṣṭhati. adhiṣṭhānād adhiṣṭhātā procyate śāstradarśanāt. eṣa cetayate deva mohajālam abuddhimān. avyaktasyaiva sādharmyam etad āhur manīṣiṇaḥ. so 'haṃ so 'ham ato nityād ajñānād iti manyate. yadi budhyati caivāyaṃ manyeyam iti bhāsvaraḥ. na prabuddho na varteta pānīyaṃ matsyako yathā. devatā nikhilenaitāḥ proktās tribhuvaneśvara. yogakṛtyaṃ tu tāvan me tvaṃ nibodhānupūrvaśaḥ. śūnyāgāreṣv araṇyeṣu sāgare vā guhāsu vā. viṣṭambhayitvā trīn daṇḍān avāpto hy advayo bhavet. prāṅmukhodaṅmukho vāpi tathā paścānmukho 'pi vā. dakṣiṇāvadano vāpi baddhvā vidhivad āsanam. svastikenopasaṃviṣṭaḥ kāyam unnāmya bhāsvaram. yathopadiṣṭaṃ guruṇā tathā tad brahma dhārayet. laghvāhāro yato dāntas trikālaparivarjakaḥ. mūtrotsargapurīṣābhyām āhāre ca samāhitaḥ. śeṣakālaṃ tu yuñjīta manasā susamāhitaḥ. indriyāṇīndriyārthebhyo manasā vinivartayet. manas tathaiva saṃgṛhya buddhyā buddhimatāṃ vara. vidhāvamānaṃ dhairyeṇa visphurantam itas tataḥ. nirudhya sarvasaṃkalpāṃs tato vai sthiratāṃ vrajet. ekāgras tad vijānīyāt sarvaṃ guhyatamaṃ param. nivātastha ivālolo yathā dīpo 'tidīpyate. ūrdhvam eva na tiryak ca tathaiva bhrāmyate manaḥ. hṛdisthas tiṣṭhate yo 'sau tathaivābhimukho yadā. mano bhavati deveśa pāṣāṇam iva niścalam. sa nirjane vinirghoṣe saghoṣe cāvasañ jane. yukto yo na vikampeta yogī yogavidhiḥ śrutaḥ. tataḥ paśyati tad brahma jvalad ātmani saṃsthitam. vidyud ambudhare yadvat tadvad ekam anāśrayam. tamasy agādhe tiṣṭhantaṃ nistamaskam acetanam. cetayānam acetaṃ ca dīpyamānaṃ svatejasā. aṅguṣṭhaparvamātraṃ tan naiḥśreyasam aninditam. mahad bhūtam anantaṃ ca svatantraṃ vigatajvaram. jyotiṣāṃ jyotiṣaṃ devaṃ viṣṇum atyantanirmalam. nārāyaṇam aṇīyāṃsam īśvarāṇām adhīśvaram. viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ prabhum. avijñāya nimajjanti lokāḥ saṃsārasāgare. yaṃ dṛṣṭvā yatayas tāta na śocanti gatajvarāḥ. janmamṛtyubhayān muktās tīrṇāḥ saṃsārasāgaram. aṇimā laghimā bhūmā prāptiḥ prākāmyam eva ca. īśitvaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā. etad aṣṭaguṇaṃ yogaṃ yogānām abhitaḥ smṛtam. dṛṣṭvātmānaṃ nirātmānam aprameyaṃ sanātanam. te viśanti śarīrāṇi yogenānena bhāsvaram. daityadevamanuṣyāṇāṃ balena balavattamāḥ. etat tattvam anādyantaṃ yad bhavān anupṛcchati. nityaṃ vayam upāsyāmo yogadharmaṃ sanātanam. yogadharmān na dharmo 'sti garīyān surasattama. etad dharmaṃ hi dharmāṇām apunarbhavasaṃskṛtam. tattvataḥ param astīti ke cid āhur manīṣiṇaḥ. ke cid āhuḥ paraṃ nāsti ye jñānaphalam āśritāḥ. jñānasthaḥ puruṣas tv eṣa vikṛtaḥ svena varṇitaḥ. yaṃ dhyānenānupaśyanti nityaṃ yogaparāyaṇāḥ. tam eva puruṣaṃ devaṃ ke cid eva maheśvara. nityam anyatamāḥ prāhur jñānaṃ paramakaṃ smṛtam. jñānam eva vinirmuktāḥ sāṃkhyā gacchanti kevalam. cintādhyātmani cānyatra yogāḥ paramabuddhayaḥ. uktam etāvad etat te yogadarśanam uttamam. sanatkumāraḥ. sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam. indriyebhyo manaḥ pūrvam ahaṃkāras tataḥ param. ahaṃkārāt parā buddhir buddheḥ parataraṃ mahat. mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ. etāvad etat sāṃkhyānāṃ darśanaṃ devasattama. avyaktaṃ buddhyahaṃkārau mahābhūtāni pañca ca. manas tathā viśeṣāś ca daśa caivendriyāṇi ca. eṣā tattvacaturviṃśan mahāpuruṣasaṃmitā. budhyamānena deveśa cetanena mahātmanā. saṃyogam etayor nityam āhur avyaktapuṃsayoḥ. ekatvaṃ ca bahutvaṃ ca sargapralayakoṭiśaḥ. tamaḥsaṃjñitam etad dhi pravadanti triśūladhṛk. samutpāṭya yathāvyaktāj jīvā yānti punaḥ punaḥ. ādir eṣa mahān ātmā guṇānām iti naḥ prabho. guṇasthatvād guṇaṃ tv enam āhur avyaktalakṣaṇam. etenādhyuṣito vyaktas triguṇaṃ cetayaty atha. acetanaprakṛtyaiṣa na cānyam anubudhyate. budhyamāno hy ahaṃkārī nityaṃ mānāprabodhanāt. vimalasya viśuddhasya nīrujasya mahātmanaḥ. vimalodāraśīlaḥ syād budhyamānāprabuddhayoḥ. draṣṭā bhavaty abhoktā ca sattvamūrtiś ca nirguṇaḥ. budhyamānāprabuddhābhyām anya eva tu nirguṇaḥ. upekṣakaḥ śucis tābhyām ubhābhyām ayutas tathā. budhyamāno na budhyeta buddham evaṃ sanātanam. sa eva buddher avyaktasvabhāvatvād acetanaḥ. so 'ham eva na me 'nyo 'sti ya evam abhimanyate. na manyate mamānyo 'sti yena ceto 'smy acetanaḥ. evam evābhimanyeta budhyamāno 'py anātmavān. aham eva na me 'nyo 'sti na prabuddhavaśānugaḥ. avyaktastho guṇān eṣa nityam evābhimanyate. tenādhiṣṭhitatattvajñair mahadbhir abhidhīyate. ahaṃkāreṇa saṃyuktas tatas tam abhimanyate. kṣetraṃ praviśya durbuddhir budhyamāno hy anātmavān. aham eva sṛjaty anyaṃ dvitīyaṃ lokasārathiḥ. sarvabhāvair ahaṃkārais tṛtīyaṃ sargasaṃjñitam. tato bhūtāny ahaṃkāram ahaṃkāro mano 'sṛjat. sarvasrotasy abhimukhaṃ saṃprāvartata buddhimān. tathaiva yajñe bhūteṣu viṣayārthī punaḥ punaḥ. indriyaiḥ saha śūlāṅka pañcapañcabhir eva ca. mano veda na cātmānam ahaṃkāraṃ prajāpatiḥ. na veda vāpy ahaṃkāro buddhiṃ buddhimatāṃ vara. evam ete mahābhāga netare nayavādinaḥ. ahaṃkāreṇa saṃyuktaḥ srotasy abhimukhaḥ sadā. evam eṣa vikārātmā mahāpuruṣasaṃjñakaḥ. pratanoti jagat kṛtsnaṃ punar ādadate 'sakṛt. saṃsaktatvāj jagat kṛtsnam avyaktasya hṛdi sthitam. saṃviśad rajanīṃ kṛtsnāṃ niśānte divasāgame. punar ātmā vijayate bahavo nirguṇās tathā. ajñānena samāyuktaḥ so 'vyaktena tamotmanā. yadi hy eṣo nu manyeta mamāsti parato 'paraḥ. sa punaḥ punar ātmānaṃ na kuryād ākṣipeta ca. etam avyaktaviṣayaṃ sūkṣmaṃ manyeta buddhimān. pañcaviṃśaṃ mahādeva mahāpuruṣavaikṛtam. prabuddho buddhavān etat sṛjamānam abuddhavān. guṇān punaś ca tān eva so ''tmanātmani nikṣipet. avyaktasya vaśībhūto so 'jñānasya tamotmanaḥ. budhyamāno hy abuddhasya buddhas tad anubhujyate. upekṣakaḥ śucir vyagraḥ so 'liṅgaḥ so 'vraṇo 'malaḥ. ṣaḍviṃśo bhagavān āste buddhaḥ śuddho nirāmayaḥ. avyaktādi viśeṣāntam etad vaidyā vadanty uta. etair eva vihīnaṃ tu ke cid āhur manīṣiṇaḥ. nistattvaṃ budhyamānās tu ke cid āhur mahāmate. ke cid āhur mahātmānas tattvasaṃjñitam eva tu. tattvasya śravaṇād enaṃ tattvam eva vadanti vai. tattvasaṃśrayaṇāc caiva sattvavantaṃ maheśvara. evam eṣa vikārātmā budhyamāno mahābhuja. avyakto bhavate vyaktau sattvaṃ sattvaṃ tathā guṇau. vidyā ca bhavate 'vidyā bhavate grahasaṃjñitam. ya evam anubudhyante yogasāṃkhyāś ca tattvataḥ. te 'vyaktaṃ śaṃkarāgāḍhaṃ muñcante śāstrabuddhayaḥ. teṣām evaṃ tu vadatāṃ śāstrārthaṃ sūkṣmadarśinām. buddhir vistīryate sarvaṃ tailabindur ivāmbhasi. vidyā tu sarvavidyānām avabodha iti smṛtaḥ. yena vidyām avidyāṃ ca vindanti yatisattamāḥ. saiṣā trayī parā vidyā caturthy ānvīkṣikī smṛtā. yāṃ budhyamāno budhyeta buddhyātmani samaṃ gataḥ. aprabuddham athāvyaktam avidyāsaṃjñakaṃ smṛtam. vimohanaṃ tu śokena kevalena samanvitam. etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam. ye tv etan nāvabudhyante te prabuddhavaśānugāḥ. te punaḥ punar avyaktāj janiṣyanty abudhātmanaḥ. tam eva tulayiṣyanti abuddhavaśavartinaḥ. ye cāpy anye tanmanasas te 'py etatphalabhāginaḥ. viditvaitaṃ na śocanti yogopetārthadarśinaḥ. svātantryaṃ pratilapsyante kevalatvaṃ ca bhāsvaram. ajñānabandhanān muktās tīrṇāḥ saṃsārabandhanāt. ajñānasāgaraṃ ghoram agādhaṃ tam asaṃjñakam. yatra majjanti bhūtāni punaḥ punar ariṃdama. eṣā vidyā tathāvidyā kathitā te mayārthataḥ. yasmin deyaṃ ca no grāhyaṃ sāṃkhyāḥ sāṃkhyaṃ tathaiva ca. tathā caikatvanānātvam akṣaraṃ kṣaram eva ca. nigadiṣyāmi deveśa vimokṣaṃ trividhaṃ ca te. budhyamānāprabuddhābhyām abuddhasya prapañcanam. bhūya eva nibodha tvaṃ devānāṃ devasattama. yac ca kiṃ cic chrutaṃ na syād dṛṣṭaṃ naiva ca kiṃ cana. sanatkumāraḥ. tac ca te saṃpravakṣyāmi ekāgraḥ śṛṇu tatparaḥ. ariṣṭāni pravakṣyāmi tattvena śṛṇu tad bhavān. madhya uttaratas tāta dakṣiṇāmukhaniṣṭhitam. vidyutsaṃsthānapuruṣaṃ yadi paśyeta mānavaḥ. varṣatrayeṇa jānīyād dehanyāsam upasthitam. etat phalam ariṣṭasya śaṃkarāhur manīṣiṇaḥ. śuddhamaṇḍalam ādityam araśmim atha paśyataḥ. varṣārdhakena jānīyād dehanyāsam upasthitam. chidrāṃ candramasaś chāyāṃ pādāv apy anupaśyataḥ. saṃvatsareṇa jānīyād dehanyāsam upasthitam. kanīnikāyām aśiraḥ puruṣaṃ yadi paśyati. jānīyāt ṣaṭsu māseṣu dehanyāsam upasthitam. karṇau pidhāya hastābhyāṃ śabdaṃ na śṛṇuyād yadi. vijānīyāt tu māsena dehanyāsam upasthitam. visragandham upāghrāti surabhiṃ prāpya bhāsvaram. devatāyatanastho 'pi saptarātreṇa mṛtyubhāk. sarvāṅgadhāraṇāvasthāṃ dhārayeta samāhitaḥ. yathā sa mṛtyuṃ jayati nānyatheha maheśvara. yadi jīvitum iccheta cirakālaṃ mahāmune. atha necchec ciraṃ kālaṃ tyajed ātmānam ātmanā. kevalaṃ cintayānas tu niṣkalaṃ sa nirāmayam. atha taṃ nirvikāraṃ tu prakṛteḥ paramaṃ śuciḥ. puruṣaṃ tena sādharmyaṃ dehanyāsam upāśnuyāt. jāgrato hi mayoktāni tavāriṣṭāni tattvataḥ. dhāraṇāc caiva sarvāṅge mṛtyuṃ jīyāt surarṣabha. ekatvadarśanaṃ bhūyo nānātvaṃ ca nibodha me. akṣaraṃ ca kṣaraṃ caiva catuṣṭayavidhānataḥ. avyaktādīni tattvāni sarvāṇy eva mahādyute. āhuś caturviṃśatimaṃ vikāraṃ puruṣānvitam. ekatvadarśanaṃ caiva nānātvenāvaraṃ smṛtam. pañcaviṃśativargaḥ syād apavargo 'jarāmaraḥ. sa nirvikāraḥ puruṣas tattvenaivopadiśyate. sa eva pañcaviṃśas tu vikāraḥ puruṣaḥ smṛtaḥ. yady eṣa nirvikāraḥ syāt tattvaṃ na tu bhaved bhava. vikārā vidyamānās tu tattvasaṃjñaka ucyate. yady eṣo 'vyaktatāṃ naiti vyatirekān na saṃśayaḥ. tathā bhavati nistattvas tathā sattvas tathā guṇaḥ. vikāraguṇasaṃtyāgāt prakṛtyanyatvataḥ śuciḥ. tadā nānātvatām eti sargahīno 'pavargabhāk. bodhyamānaḥ prabudhyeta samo bhavati buddhimān. akṣaraś ca bhavaty eṣa yathā vā cyutavān kṣaṇāt. avyaktā vyaktir uktā syān nirguṇasya guṇākarāt. etad ekatvanānātvam akṣaraḥ kṣara eva ca. vyākhyātaṃ tava śūlāṅka tathāriṣṭāni caiva hi. vimokṣalakṣaṇaṃ śeṣaṃ tad apīha bravīmi te. yaṃ jñātvā yatayaḥ prāptāḥ kevalatvam anāmayam. sāṃkhyāś cāpy atha yogāś ca dagdhapaṅkā gatajvarāḥ. amūrtitvam anuprāptā nirguṇā nirbhayā bhava. vipāpmāno mahādeva muktāḥ saṃsārasāgarāt. saraṇe prajanādāne guṇānāṃ prakṛtiḥ sadā. parā pramattā satatam etāvat kāryakāraṇam. asac caiva ca sac caiva kurute sa punaḥ punaḥ. caitanyena purāṇena cetanācetanāt paraḥ. yas tu cetayate ceto manasā caikabuddhikam. sa naiva san na caivāsat sadasan na ca saṃsmṛtaḥ. vyatiriktaś ca śuddhaś ca so 'nyaś cāprakṛtis tathā. upekṣakaś ca prakṛter vikārapuruṣaḥ smṛtaḥ. vikārapuruṣeṇaiṣā saṃyuktā sṛjate jagat. punar ādadate caiva guṇānām anyathātmani. matsyodakāt sa saṃjñātaḥ prakṛter eva karmaṇaḥ. tadvat kṣetrasahasrāṇi sa eva prakariṣyati. kṣetrapralayatajjñas tu kṣetrajña iti cocyate. saṃyogo nitya ity āhur ye janās tattvadarśinaḥ. evam eṣa hy asat sac ca vikārapuruṣaḥ smṛtaḥ. vikārāpadyamānaṃ tu vikṛtiṃ pravadanti naḥ. yadā tv eṣa vikārasya prakṛtānīti manyate. tadā vikāratām eti vikārānyatvatāṃ vrajet. prakṛtyā ca vikāraiś ca vyatirikto yadā bhavet. śuci yat paramaṃ śuddhaṃ pratibuddhaṃ sanātanam. ayuktaṃ niṣkalaṃ śuddham avyayājaram avraṇam. sametya tena śuddhena budhyamānaḥ sa bhāsvaraḥ. vimokṣaṃ bhajate vyaktād aprabuddhād acetanāt. udumbarād vā maśakaḥ pralayān nirgato yathā. tathāvyaktasya saṃtyāgān nirmamaḥ pañcaviṃśakaḥ. yathā puṣkaraparṇastho jalabindur na saṃśliṣet. tathaivāvyaktaviṣaye na lipyet pañcaviṃśakaḥ. ākāśa iva niḥsaṅgas tathāsaṅgas tathā varaḥ. pañcaviṃśatitamo buddho buddhena samatāṃ gataḥ. etad dhi prakṛtaṃ jñānaṃ tattvataś ca samutthitam. pūrvajebhyas tathotpannaṃ brahmajebhyas tato 'nagha. ādisargo mahābāho tāmasenāvṛtaṃ param. praviṣṭāvayavaṃ devam abhedyam ajarāmaram. sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ. te viduḥ paramaṃ dharmam avyayaṃ vyayadharṣaṇam. avyaktāt paramāt sūkṣmād avraṇān mūrtisaṃjñakāt. kṣetrajño bhagavān āste nārāyaṇaparāyaṇaḥ. asmākaṃ sahajātānām utpannaṃ jñānam uttamam. ete hi mūrtimanto vai lokān pravicarāmahe. punaḥ punaḥ prajātā vai tatra tatra pinākadhṛk. dvaṃdvair virajyamānasya jñānam utpannam uttamam. kapilān mūlaācāryāt tattvabuddhiviniścayam. yogasāṃkhyam avāptaṃ me kārtsnyena munisattamāt. tena saṃbodhitāḥ śiṣyā bahavas tattvadarśinaḥ. tad buddhvā bahavaḥ śiṣyā mayāpy etan nidarśitāḥ. janmamṛtyuharaṃ tathyaṃ jñānaṃ jñeyaṃ sanātanam. yaj jñātvā nānuśocanti tattvajñānān nirindriyāḥ. śuddhabījamalāś caiva vipaṅkā vai nirakṣarāḥ. svatantrās te svatantreṇa saṃmitā niṣkalāḥ smṛtāḥ. śāśvatāś cāvyayāś caiva tamogrāhyāś ca bhāsvarāḥ. vipāpmānas tathā sarve sattvasthāś cāpi nirvraṇāḥ. vimuktāḥ kevalāś caiva vītamohabhayās tathā. amūrtās te mahābhāga sarve ca vigatajvarāḥ. hiraṇyanābhas triśirās tathā prahrādabhāskarau. vasur viśvāvasuś caiva sārdhaṃ pañcaśikhas tathā. gārgyo 'thāsurir āvantyo gautamo 'vrata eva ca. kātyāyano 'tha namucir hariś ca damanaś ca ha. ete cānye ca bahavas tattvam evopadarśitāḥ. ke cin muktāḥ sthitāḥ ke cic chandataś cāpare mṛtāḥ. darśitās trividhaṃ bandhaṃ vimokṣaṃ trividhaṃ tathā. ajñānaṃ caiva rāgaś ca saṃyogaṃ prākṛtaṃ tathā. etebhyo bandhanaṃ proktaṃ vimokṣam api me śṛṇu. paritas tāvatā samyak saṃbandho yāvatā kṛtaḥ. kṛtsnakṣayaparityāgād vimokṣa iti naḥ śrutiḥ. bhīṣmaḥ. nivṛttaḥ sarvasaṅgebhyaḥ kevalaḥ puruṣo 'malaḥ. ity evam uktvā bhagavān īśvarāya mahātmane. sanatkumāraḥ prayayāv ākāśaṃ samupāśritaḥ.