न ज्येष्ठान् अवमन्येत दुष्कृतः सुकृतो ऽपि वा। गुरूणाम् अपराधो हि शक्यः क्षन्तव्य एव च। यदि स्त्री यद्य् अवरजः श्रेयः पश्येत् तथाचरेत्। धर्मं हि श्रेय इत्य् आहुर् इति धर्मविदो विदुः। समे तु ज्येष्ठतन्त्राः स्युः किं चिद् ऊने ऽपि नित्यशः।
na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā. gurūṇām aparādho hi śakyaḥ kṣantavya eva ca. yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret. dharmaṃ hi śreya ity āhur iti dharmavido viduḥ. same tu jyeṣṭhatantrāḥ syuḥ kiṃ cid ūne 'pi nityaśaḥ.