नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके। उभे मूत्रपुरीषे तु नाप्सु कुर्यात् कदा चन। अन्नं बुभुक्षमाणस् तु त्रिर् मुखेन स्पृशेद् अपः। भुक्त्वा चान्नं तथैव त्रिर् द्विः पुनः परिमार्जयेत्। देवालये ऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे। भोक्ष्यन् भुक्त्वा क्षुते ऽध्वानं गत्वा मूत्रपुरीषयोः। द्विर् आचामेद् यथान्यायं हृद्गतं तु पिबन्न् अपः।
notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike. ubhe mūtrapurīṣe tu nāpsu kuryāt kadā cana. annaṃ bubhukṣamāṇas tu trir mukhena spṛśed apaḥ. bhuktvā cānnaṃ tathaiva trir dviḥ punaḥ parimārjayet. devālaye 'tha govṛnde caitye sasyeṣu viśrame. bhokṣyan bhuktvā kṣute 'dhvānaṃ gatvā mūtrapurīṣayoḥ. dvir ācāmed yathānyāyaṃ hṛdgataṃ tu pibann apaḥ.