स्नानेनाद्भिश् च यत् कर्म क्रियते वै विपश्चिता। नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः। पितरश् च महाभागा ऋषयश् च तपोधनाः। गृह्याश् च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः।
snānenādbhiś ca yat karma kriyate vai vipaścitā. namaskāraprayuktena tena prīyanti devatāḥ. pitaraś ca mahābhāgā ṛṣayaś ca tapodhanāḥ. gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ.