मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः। श्रेयसो लक्षणं चैतद् विक्रमो यत्र दृश्यते। कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति। समर्थान् पूजयेद् यश् च न स्पर्धेत च यश् च तैः। न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत्। अमाययैव वर्तेत न च सत्यं त्यजेद् बुधः। दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम्।
mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ. śreyaso lakṣaṇaṃ caitad vikramo yatra dṛśyate. kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati. samarthān pūjayed yaś ca na spardheta ca yaś ca taiḥ. na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet. amāyayaiva varteta na ca satyaṃ tyajed budhaḥ. damaṃ dharmaṃ ca śīlaṃ ca kṣatradharmaṃ prajāhitam.