चातुर्वर्ण्येन यश् चैको धर्मो न स्म विरुध्यते। सेव्यमानः स चैवाद्यो गाङ्गेय विदितस् तव। प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः। देशजातिकुलानां च जानीषे धर्मलक्षणम्। वेदोक्तो यश् च शिष्टोक्तः स चैव विदितस् तव। प्रवृत्तश् च निवृत्तश् च स चापि विदितस् तव।
cāturvarṇyena yaś caiko dharmo na sma virudhyate. sevyamānaḥ sa caivādyo gāṅgeya viditas tava. pratilomaprasūtānāṃ mlecchānāṃ caiva yaḥ smṛtaḥ. deśajātikulānāṃ ca jānīṣe dharmalakṣaṇam. vedokto yaś ca śiṣṭoktaḥ sa caiva viditas tava. pravṛttaś ca nivṛttaś ca sa cāpi viditas tava.