ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः। तैर् एकमतिभिर् भूत्वा यत् प्रोक्तं शास्त्रम् उत्तमम्। वेदैश् चतुर्भिः समितं कृतं मेरौ महागिरौ। आस्यैः सप्तभिर् उद्गीर्णं लोकधर्मम् अनुत्तमम्।
ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ. tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam. vedaiś caturbhiḥ samitaṃ kṛtaṃ merau mahāgirau. āsyaiḥ saptabhir udgīrṇaṃ lokadharmam anuttamam.